भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.358

7.358.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम् ॥
तस्यैवेशानदिग्भागे वापी शांडिल्यकीर्तिता

7.358.2

स्नात्वा तत्रैव विधिवच्छांडिल्यं यः प्रपूजयेत् ॥
ऋषिपंचम्यां विधिना नारी चैव पतिव्रता ॥
स्पृष्ट्वास्पृष्ट्वा विमुच्येत रजोदोषभयाद्ध्रुवम्

7.358.358

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारायणतीर्थमाहात्म्यवर्णनंनामा ष्टापंचाशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc