भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.349

7.349.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विश्वेशं दुर्गकूटकम् ॥
भल्लतीर्थस्य पूर्वेण योगिनीचक्रदक्षिणे

7.349.2

आराधितोऽसौ भीमेन सर्वकामप्रदोऽभवत् ॥
फाल्गुनस्य चतुर्थ्यां तु शुक्लपक्षे विधानतः ॥

7.349.3

यस्तं पूजयते देवं गन्धपुष्पैः समोदकैः ॥
निर्विघ्नं जायते तस्य वर्षमेकं न संशयः

7.349.349

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गकूटगणपतिमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरत्रिशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc