ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.348
7.348.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं मंत्रविभूषणाम् ॥
भीमेश्वरस्य सान्निध्ये सोमेनाराधितां पुरा
7.348.2
श्रावणे मासि विधिना या नारी तां प्रपूजयेत् ॥
तृतीयायां शुक्लपक्षे सा दुःखैर्मुच्यतेऽखिलैः
7.348.348
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मन्त्रविभूषणागौरी माहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरत्रिशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0