ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.318
7.318.1
॥ ईश्वर उवाच ॥ ॥
तस्याश्च पूर्वदिग्भागे नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम्
7.318.2
ब्रह्मेश्वरेति नामाढ्यं ब्राह्मणैश्च प्रतिष्ठितम् ॥
ऋषितोयाजले स्नात्वा तल्लिंगं यः प्रपूजयेत् ॥
स भवेद्वेदविद्विप्रो जाड्यभावविवर्जितः
7.318.318
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टादशोत्तरत्रिशततमो ऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0