ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.315
7.315.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मरुदार्यां महाप्रभाम् ॥
तस्मात्पश्चिमदिग्भागे क्रोशार्द्धेन व्यवस्थिताम्
7.315.2
मरुद्भिः पूजितां देवीं सर्वकामफलप्रदाम् ॥
महानवम्यां यत्नेन सप्तम्यां पूजयेन्नरः ॥
गंधपुष्पादिविधिना सर्वकामप्रसिद्धये
7.315.315
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मरुदार्यादेवीमाहात्म्यवर्णनंनाम पंचदशोत्तरत्रिशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0