भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.296

7.296.1

॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयदिग्भागे गव्यूतिसप्तकेन च ॥
स्थानं देवकुलंनाम देवानां यत्र संगमः

7.296.2

ऋषीणां यत्र सिद्धानां पुरा लिंगे निपातिते ॥
यस्माज्जातो महादेवि तस्माद्देवकुलं स्मृतम्

7.296.3

तस्य पश्चिमदिग्भाग ऋषितोया महानदी ॥
ऋषीणां वल्लभा देवि सर्वपातकनाशिनी

7.296.4

तत्र स्नात्वा नरः सम्यक्पितॄणां निर्वपेन्नरः ॥
सप्तवर्षायुतान्येव पितॄणां तृप्तिमावहेत्

7.296.5

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥
आषाढे त्वमावास्यायां यत्किञ्चिद्दीयते ध्रुवम्

7.296.6

वर्द्धते षोडशगुणं यावदायाति पूर्णिमा

7.296.7

सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥
मुच्यते पातकैः सर्वैः सप्तजन्मकृतैरपि

7.296.296

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयानदीमाहात्म्यवर्णनंनाम षण्णवत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc