ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.287
7.287.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अजापालेश्वरीं शुभाम् ॥
अगस्त्यस्थानपूर्वेण नातिदूरे व्यवस्थिताम्
7.287.2
रघुवंशसमुद्भूतो ह्यजापालो नृपोत्तमः ॥
स तत्र देवीमाराध्य पापरोगवशंकरीम्
7.287.3
अजारूपांश्च रोगान्वै चारयामास भूमिपः ॥
तत्र तां स्थापयामास स्वनाम्ना पापनाशिनीम् ॥।
7.287.4
यस्तां पूजयते भक्त्या तृतीयायां विधानतः ॥
बल बुद्धिर्यशो विद्यां सौभाग्यं प्राप्नुयान्नरः
7.287.287
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0