ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.286
7.286.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि बालार्कं पापनाशनम् ॥
अगस्त्याश्रमतो देवि उत्तरे नातिदूरतः
7.286.2
बाल एव तु यत्रार्कस्तपस्तेपे पुरा प्रिये ॥
तेन बालार्क इत्येतन्नाम ख्यातं धरातले
7.286.3
तं दृष्ट्वा रविवारेण न कुष्ठी जायते नरः ॥
बालानां रोगजा पीडा न संभूयात्कदाचन
7.286.286
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये बालार्कमाहात्म्यवर्णनंनाम षडशीत्युत्तरद्विशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0