भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.269

7.269.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विदुरस्याश्रमं महत् ॥
यत्राकरोत्तपो रौद्रं विदुरो धर्म मूर्त्तिमान्

7.269.2

प्रतिष्ठाप्य महादेवं लिंगं त्रिभुवनेश्वरम् ॥
तं दृष्ट्वा मानवो देवि सर्वान्कामानवाप्नुयात्

7.269.3

विदुराट्टालकं नाम गणगंधर्वसेवितम् ॥
द्वादशस्थानकं स्थानं नाल्पपुण्येन लभ्यते

7.269.4

नावर्षणं भवेत्तत्र कदाचिदपि पार्वति ॥
लिंगानि तत्र दिव्यानि पश्येत्पापोपशांतये

7.269.269

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विदुराश्रम माहात्म्यवर्णनंनामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc