स्कन्द पुराण · अध्याय 7.185
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवमातरमव्ययाम् ॥
मंकीशान्नैरृते भागे गौरीरूपसमाश्रिताम्॥
देवमाता सरस्वत्या नाम लोकेषु गीयते
पादुकासनसंस्था च तत्र देवी सरस्वती ॥
गौरीरूपेण सा तत्र वडवाश्रितविग्रहा
मातृवद्रक्षिता देवा वडवानलभीतितः ॥
देवमातेति लोकेऽस्मिं स्ततः सा विबुधैः कृता
माघे मासे तृतीयायां यस्तामर्चयते नरः ॥
नारी वा संयता साध्वी सर्वान्कामानवाप्नुयात्
दंपती भोज येद्यस्तु पायसैः शर्करादिभिः ॥
गौरीसहस्रभोज्यस्य दत्तस्य फलमाप्नुयात्
सुवर्णपादुका देया तत्र विप्राय शीलिने
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवमातृगौरीमाहात्म्यवर्णनंनाम पंचा शीत्युत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0