स्कन्द पुराण · अध्याय 7.160
॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि राजभट्टारकं परम् ॥
रैवन्तकं सूर्यपुत्रमश्वारूढं महाबलम्
संस्थितं क्षेत्रमध्ये तु सावित्र्या नैरृते प्रिये ॥
तं दृष्ट्वा मानवो देवि सर्वापद्भ्यो विमुच्यते
रविवारेण सप्तम्यां यस्तं पूजयते नरः ॥
तस्याऽन्वयेऽपि नो देवि दरिद्री जायते नरः
तस्मात्सर्वप्रयत्नेन तमेवाराधयेन्मनाक् ॥
निर्विघ्नं क्षेत्रवासार्थं राजा वाऽश्वविवृद्धये
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रैवंतकराजभट्टारकमाहात्म्यवर्णनंनाम षष्ट्युत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0