भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.149

7.149.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
ब्रह्मकुण्डस्य ईशाने स्थितं पापप्रणाशनम् ॥
चतुर्वक्त्रं महादेवं संस्थितं तीर्थरक्षणे

7.149.2

तत्र स्नात्वा महाकुण्डे यस्तं पूजयते नरः ॥
पंचोपचारविधिना भक्तियुक्तो यतेन्द्रियः

7.149.3

कुलानि यान्यतीतानि भविष्याणि च यानि वै ॥
तारयेत्स नरो देवि नात्र कार्या विचारणा

7.149.4

न चात्र संभवस्तस्य विनाशो नैव जायते ॥
विमानैश्चरते नित्यं दिवाकरसमप्रभैः

7.149.5

स्त्रीसहस्रैर्वृतो नित्यं क्रीडते देवव द्दिवि

7.149.6

एतल्लिंगं महादेवि चतुर्वक्त्रं महाप्रभम् ॥
दृष्ट्वापि तद्विमुच्येत सर्वपापैस्तु मानवः

7.149.149

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc