भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.143

7.143.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदाग्नेयगोचरे ॥
धनुषां दशके तत्र स्थितं पापप्रणाशनम्

7.143.2

विचित्रेण महादेवि लेख केन यमस्य च ॥
स्थापितं तन्महालिंगं तपः कृत्वा सुदुश्चरम्

7.143.3

तं दृष्ट्वा पूजितं चैव मुक्तः स्यात्सर्वपातकैः ॥
संपूज्य च विधानेन न दुःखी जायते नरः

7.143.143

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc