भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.102

7.102.1

ततो गच्छेन्महादेवि देवीं कंटकशोधिनीम् ॥
तस्यैवोत्तरदिग्भागे धनुर्द्वितयसंस्थिताम्

7.102.2

महिषघ्नीं महाकायां ब्रह्मदेवर्षिपूजिताम् ॥
पुरा ये कल्मषोपेता दानवा देवकंटकाः

7.102.3

युगेयुगे शोधयेत्तांस्तेन कंटकशोधिनी ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तामथार्चयेत्

7.102.4

पशुपुष्पोपहारैश्च दीपधूपैस्तथोत्तमैः ॥
तस्याऽरयो न जायंते यावद्वर्षं वरानने

7.102.5

यस्तां पश्यति सद्भक्त्या भूताया नित्यमेव वा ॥ । ॥
तं पुत्रमिव कल्याणी संरक्षति न संशयः

7.102.6

इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
देवि कंटकशोधिन्याः श्रुतं रक्षाकरं परम्

7.102.102

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यसमीपवर्तिकंटकशोधिनीमाहात्म्यवर्णनंनाम द्व्युत्तरशततमोध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc