स्कन्द पुराण · अध्याय 5.39
॥ व्यास उवाच ॥ ॥
भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम् ॥
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम्
कति संत्यत्र तीर्थानि लिंगानि च तथा कति ॥
कथयस्व प्रसादेन पृच्छतो मम सांप्रतम्
॥ सनत्कुमार उवाच ॥ ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने व्यास लिंगसंख्या न विद्यते
अकामो वा सकामो वा जायते योऽत्र मानवः ॥
महाकालवने रम्ये शिवलोके महीयते
कृतकामानि तीर्थानि प्रासादायतनानि च ॥
तेषु स्नात्वा शुचिर्भूत्वा शिवलोके महीयते
पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः ॥
तेषां मुख्यतमं विद्धि क्षेत्रं तीर्थं तथोत्तमम् ॥
यः शृणोति महाभक्त्या स याति परमां गतिम्
॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0