ग्रंथ पाठ
स्कन्द पुराण · अध्याय 5.145
5.145.145.1
मार्कण्डेय उवाच -
ततो गच्छेद्धरापाल शीवतीर्थमनुत्तमम् ।
दर्शनाद्यस्य देवस्य मुच्यते सर्वकिल्बिषैः
5.145.145.2
शिवतीर्थे तु यः स्नात्वा जितक्रोधो जितेन्द्रियः ।
पूजयेत महादेवं सोऽग्निष्टोमफलं लभेत्
5.145.145.3
तत्र तीर्थे तु यो भक्त्या सोपवासोऽर्चयेच्छिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिवतीर्थमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0