भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.144

5.144.144.1

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज द्वादशीतीर्थमुत्तमम् ।
क्षरन्ति सर्वदानानि जपहोमबलिक्रियाः

5.144.144.2

न क्षीयते तु राजेन्द्र चक्रतीर्थे तु यत्कृतम् ।
यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम्

5.144.144.3

कथितं तन्मया सर्वं पृथग्भावेन भारत

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशीतीर्थमहात्म्यवर्णनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc