भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.43

2.43.1

॥ जैमिनिरुवाच ॥ ॥
फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् ॥
यत्र क्रीडति गोविंदो लोकानुग्रहणाय वै

2.43.2

प्रत्यर्चां देवदेवस्य गोविंदाख्यां तु कारयेत् ॥
प्रासादपुरतः कुर्यात्षोडश स्तंभमुच्छ्रितम

2.43.3

चतुरस्रं चतुर्द्वारं मण्डपं वेदिकान्वितम् ॥
चारुचंद्रातपं माल्यचामरध्वजशोभितम्

2.43.4

भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ॥
फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वा

2.43.5

फाल्गुन्यां पूर्वतो विप्राश्चतुर्दश्यां निशामुखे ॥
वह्न्युत्सवं प्रकुर्वीत दोलामण्डपपूर्वतः

2.43.6

गोविंदानुगृहीतं तु यात्रांगं तत्प्रकीर्तितम्॥
आचार्यवरणं कृत्वा वह्निं निर्मथनोद्भवम्

2.43.7

भूमिं संस्कृत्य विधिवत्तृणराशिं महोच्छ्रयम्॥
सुसमं कारयित्वा तु वह्निं तत्र विनिक्षिपेत्

2.43.8

पूजयित्वा विधानेन कूष्मांडविधिना हुनेत् ॥
गोविंदं पूजयित्वा तु भ्रामयेत्स तत विभुम्

2.43.9

यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाप्यते ॥
प्रातर्यामे चतुर्दश्यां गोविंदप्रतिमां शुभाम्

2.43.2.2.43.10

वासयित्वा हरेरग्रे पूजयेत्पुरुषोत्तमम् ॥
उपचारावशिष्टैस्तु प्रत्यर्चामपि पूजयेत्

2.43.11

ततोऽवरोप्य वसनं मालां च द्विजसत्तमाः ॥
अर्चायां विन्यसेन्मंत्री परं ज्योतिर्विभावयन्

2.43.12

ततः सा प्रतिमा साक्षाज्जायते पुरुषोत्तमः ॥
रत्नांदोलिकया तां वै नयेत्स्नानस्य मंडपम् ॥

2.43.13

तत्र नाना तूर्यनादैः शंखध्वनिपुरःसरम्॥
जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च

2.43.14

छत्रध्वजपताकाभिश्चामरैर्व्यजनैस्तथा ॥
निरंतरं दीपिकाभिस्तदा कुर्यान्महोत्सवम्

2.43.15

आगच्छंति तदा देवाः पितामहपुरोगमाः ॥
द्रष्टुं चर्षिगणैः सार्द्धं गोविंदस्य महोत्सवम् ॥

2.43.16

भद्रासनेऽधिवास्यैव पूजयेदुपचारकैः ॥
महास्नानस्य विधिना स्नपनं तस्य कारयेत्

2.43.17

पंचामृतैश्च सर्वैश्च तेषामन्यतमेन वा ॥
स्नानांते गंधतोयेन श्रीसूक्तेनाभिषेचयेत्

2.43.18

संप्रोक्ष्य भूषयेद्देवं वस्त्रालंकारमाल्यकैः ॥
नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत्

2.43.19

सप्तकृत्वस्ततो देवं दोलामंडपमानयेत् ॥
सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ॥
अधोदेशे मंडपं तं सप्तशो भ्रामयेत्पुनः

2.43.2.2.43.20

ऊर्द्ध्वदेशे पुनः सप्त स्तंभवेद्यां च सप्त वै ॥
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम्

2.43.21

इयं लीला भगवतः पितामहमुखेरिता ॥
राजर्षिणेंद्रद्युम्नेन कारिता पूर्वमेव हि

2.43.22

फलपुष्पोपनम्रैश्च शाखिभिः परिकल्पिते ॥
वृंदावनांतरे रम्ये मत्तभ्रमरराविणि

2.43.23

कोकिलारावमधुरे नानापक्षिगणाकुले ॥
नानोपशोभारचितनानागुरुसुधूपिते

2.43.24

प्रफुल्लकेतकीषंडगंधामोदिदिगंतरे ॥
मल्लिकाशोकपुन्नागचंपकैरुपशोभिते

2.43.25

तत्काननांतर्घटिते मंडपे चारुतोरणे ॥
भूषिते माल्यवसनचामरैरुपशोभिते

2.43.26

रत्नखट्वांदोलिकायां तन्मध्ये वासयेत्प्रभुम् ॥
सद्रत्नमुकुटं तारहारशोभितवक्षसम्

2.43.27

अनर्घ्यरत्नघटितकुंडलोद्भासितश्रुतिम् ॥
यथास्थानं यथाशोभं दिव्यालंकारमंजुलम्

2.43.28

विकचांबुजमध्यस्थं विश्वधात्र्या श्रिया युतम्

2.43.29

शंखचक्रगदापद्मधारिणं वनमालिनम् ॥
सुप्रसन्नं सुनासं तं पीनवक्षःस्थलोज्ज्वलम्

2.43.2.2.43.30

पुरो व्योमस्थितैर्देवैर्ब्रह्माद्यैर्नतमस्तकैः ॥
कृतांजलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम्

2.43.31

गंधर्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ॥
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः

2.43.32

अहंपूर्विकया नृत्यगीतवादित्रकारिभिः ॥
नेत्रांबुजसहस्रैश्च पूज्यमानं मुदान्वितैः

2.43.33

किरद्भिः सर्वतोदिक्षु गंधचंदनजं रजः ॥
उपवेश्याथ गोविंदं पूजयेदुपचारकैः

2.43.34

बल्लवीवृंदमध्यस्थं कदंबतरुमूलगम् ॥
हावहास्यविलासैश्च क्रीडमानं वनांतरे

2.43.35

गोपीभिश्चैव गोपालैर्लीलांदोलितयानगम् ॥
चिंतयित्वा जगन्नाथं विकिरेद्गंधचूर्णकैः

2.43.36

सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समंततः ॥
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्द्दिव्यैर्गंधैः सुधूपकैः

2.43.37

चामरांदोलनैर्गीतैः स्तुतिभिश्च समर्चितम् ॥
आंदोलयेद्दोलिकास्थं सप्तवाराञ्छनैः शनैः ॥

2.43.38

तदा पश्यंति ये कृष्णं मुक्तिस्तेषां न संशयः ॥
ब्रह्महत्यादिपापानां पंचकानां क्षयो भवेत्

2.43.39

त्रिरेवं दोलयेद्देवं सर्वपापापनोदनम् ॥
भक्त्यानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम्

2.43.2.2.43.40

लीलाविचेष्टितं यस्य कृत्रिमं सहजं तथा ॥
अंहःसंघक्षयकरं मूलाविद्यानिवर्त्तकम्

2.43.41

पश्यन्द्वितीयं हरति गोहत्याद्युपपातकम् ॥
हरत्यशेषपापानि तृतीये नात्र संशयः

2.43.42

दृष्ट्वा दोलायितं देवं सर्वपापैः प्रमुच्यते ॥
आध्यात्मिकैराधिभौतैराधिदैवैर्विमुच्यते

2.43.43

इमां यात्रां कारयित्वा चक्रवर्ती भवेन्नृपः ॥
ब्राह्मणस्तु चतुर्वेदी ज्ञानवाञ्जायते ध्रुवम्

2.43.43

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दोलारोहणंनाम त्रयश्चत्वारिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc