भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.4-4

2.4-4.1

॥ स्कन्द उवाच ॥
वैनतेयशिलायास्तु माहात्म्यं वद मे पितः ॥
किं पुण्यं किं फलं चास्य अनुभावं च किं भवेत्

2.4-4.2

॥ शिव उवाच ॥ ॥
कश्यपाद्विनतागर्भे महाबलपराक्रमौ ॥
गरुडारुणौ प्रजातौ द्वावरुणः सूर्यसारथिः

2.4-4.3

बदर्य्या दक्षिणे भागे गन्धमादनशृङ्गके ॥
गरुडस्तप आतेपे हरिवाहनकाम्यया

2.4-4.4

फलमूलजलाहारो निर्द्वंद्वो जपतां वरः ॥
पदैकेनोपसंक्रम्य भुवि जेपे निरामयः

2.4-4.5

त्रिंशद्वर्षसहस्राणि हरिदर्शन लालसः ॥
ततस्तु भगवान्साक्षात्पीतवासा निजायुधः

2.4-4.6

आविरासीद्यथा प्राच्यां दिशींदुरिव पुष्कलः ॥
उवाच वचनं सम्यङ्मेघगंभीरनिस्वनः

2.4-4.7

तथापि न बहिर्वृत्तिर्दध्मौ दरवरं ततः ॥
तथापि न बहिर्वृत्तिर्गरुडस्य महात्मनः

2.4-4.8

ततः प्रविश्य भगवानंतरं पवनक्रमात् ॥
बहिरुन्मुखतां चैव रचयन्बहिराबभौ

2.4-4.9

भगवंतं हरिं दृष्ट्वा गरुडो गतसाध्वसः ॥
पुलकांकित सर्वांगस्तुष्टाव विहितांजलिः

2.4-4.2.3.4.10

॥ गरुड उवाच ॥ ॥
जयजय त्रिभुवनजनमनोभवन विदलिताघगुण सकलगीर्वाणवंदित चरणकमलयुगलपरिमलबहलरिपुवनविभंजन विद्योतमान सकलसुरासुरमुकुटकोटिविलसित निजपीठकमलनिरसित निजजनहृदयतिमिरपटलबहल हिमकर इव त्रिविधसंतापसंदोहहरणचरण
जगदुदयस्थितिलयविलासविलसित त्रिविधमूर्तिकीर्तिविस्फूर्जित जगदुदयसंदोह दिनकर इव निजजनमानससरोजषट्पदविदित सकलवेदविद्योतमान मानस निजजनमुनिजनवन्दित पदनखनीरपवित्रीकृत गीर्वाणमुनिमानसवंदित चरणरजःप्रसादसारभूत जगतामधीश नमस्ते नमस्ते ॥

2.4-4.11

अपि च ॥
अष्टशक्तिसहितो वनमाली पीतचैलकुसुमावलिशोभः ॥
पंकजाकरविराजितपादः पातु मामवहितेन्द्रियवर्गः

2.4-4.12

भक्तहृत्कमलराजितमूर्तिर्दुष्टदैत्यदलनोत्थितकीर्तिः ॥
बद्धसेतुरविताश्रितलोकः पातु मामनुदिनं भुवनेशः

2.4-4.13

स्थिरचलत्रिविधतापहिमांशुर्भासमानतरणिप्रतिभासः ॥
एक एव बहुधा कृतवेषो माययावतु महामतिरीशः

2.4-4.14

भक्तचिंतनकृते कृतरूपः शैशवेन बहुशासितभूपः ॥
वेदमार्ग उरुधा हितकारी रीतिरीशितुरियं गुणशाली

2.4-4.15

यज्ञभुग्घृदयबंधनधारी विश्वमूर्तिरबलांशुकहारी॥
पालनेऽपि महतां बहुदेहो रास एष तनुमानवतान्नः

2.4-4.16

प्रेमभक्तिपुरुषैरुपलभ्यः पूरुषः कृतसमस्तनिवासः ॥
दास्यवृंदहृषितो निजदासः प्रेक्षणैककरुणोवतु विश्वम्

2.4-4.17

कंठलंबिततरक्षुनखाग्रक्रुष्टगोपरमणीकुचभारः॥
लीलया युवतिभिः कृतवेषः शेष एष भवतादुपशांत्यै

2.4-4.18

दंडपाणिरयमेव जनानां शासितात्मनियमोक्तहितानाम्॥
पावनाय महतामनुशाली विश्वदुःखशमनो भवतान्नः

2.4-4.19

एवं स्तुतस्ततः साक्षाद्गरुडेन महात्मना ॥
पूजार्थमाजुहावैनां गंगां त्रिपथगामिनीम्

2.4-4.2.3.4.20

ततः पंचमुखी साक्षादाविरासीन्नगोपरि॥
तेनोदकेन पादार्घं चकार विनतासुतः

2.4-4.21

व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ॥
तवैकवाहनः श्रीमान्बलवीर्यपराक्रमः ॥
अजेयो देवदैत्यानां स्यामहं ते प्रसादतः

2.4-4.22

इयं मन्नामविख्याता सर्वपापहरा शिला ॥
एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम्

2.4-4.23

एवमुक्त्वा ततस्तूष्णीं बभूव विनतासुतः ॥
ओमित्युक्त्वा ततो विष्णुरुवाचेदं वचो हितम्

2.4-4.24

बदरीं त्वं प्रयाहीति नारदेन निषेविताम् ॥
स्नानं नारदतीर्थादावुपवासत्रयं शुचिः ॥
कृत्वा मद्दर्शनं तत्र सुलभं ते भविष्यति

2.4-4.25

इत्युक्त्वांतर्द्दधे विष्णुस्तडित्सौदामनी यथा ॥
गरुडस्तु ततः शीघ्रमागत्य बदरीं मुदा

2.4-4.26

वह्नितीर्थं समासाद्य शिलामाश्रित्य तत्परः ॥
स्नात्वा नारदतीर्थेषु व्रतचर्यामथाकरोत्

2.4-4.27

ततस्तु नारदे तीर्थे दृष्ट्वा भगवतः स्थितिम् ॥
नमस्कृत्य विधानेन तदाज्ञातः पुरं ययौ

2.4-4.28

ततः प्रभृति त्रैलोक्ये गारुडीति शिलोच्यते

2.4-4.29

॥ स्कंद उवाच ॥ ॥
वाराह्या वद माहात्म्यं कीदृशं हीश्वरेश्वर ॥
किं पुण्यं किं फलं तस्या अभिधानं तथा कथम्

2.4-4.2.3.4.30

॥ शिव उवाच ॥ ॥
रसातलात्समुद्धृत्य महीं दैवतवैरिणम् ॥
हिरण्याक्षं रणे हत्वा बदरीं समुपागतः

2.4-4.31

आकल्पांतं महादेवो योगधारणया स्थितः ॥
बदर्याः सौष्ठवादेव विदधे स्थितिमात्मनः

2.4-4.32

शिलारूपेण भगवान्स्थितिं तत्र चकार ह ॥
तत्र गत्वा तु मनुजः स्नात्वा गंगाजलेऽमले

2.4-4.33

दानं दत्त्वा स्वशक्त्या वै गंगांभः शांतमानसः ॥
अहोरात्रे स्थितो भूत्वा जपेदेकाग्रमानसः

2.4-4.34

शिलायां देवदृष्टिश्च तस्य पुंसः प्रजायते ॥
बहुना किमिहोक्तेन यद्वदिष्यति साधकः

2.4-4.35

तत्तस्य सिध्यति क्षिप्रं यद्यपि स्यात्सुदुष्करम्

2.4-4.36

॥
॥ स्कंद उवाच ॥ ॥
नारसिंहीशिलायास्तु माहात्म्यं वद मे प्रभो ॥
त्वत्प्रसादान्महादेव दुर्ल्लभं श्रुतवानहम्

2.4-4.37

॥ शिव उवाच ॥ ॥
हिरण्यकशिपुं हत्वा नखाग्रेणैव लीलया ॥
क्रोधाग्निना प्रदीप्तांगः प्रलयानलसन्निभः

2.4-4.38

तदा देवैः समागत्य स्थित्वा दूरे दयालुभिः ॥
स्तुतोऽसौ भगवान्देवो लीलया धृतविग्रहः

2.4-4.39

तदा प्रसन्नो हरिरुग्रविक्रमः स्वतेजसा व्याप्तसुरासुरोत्तमः ॥
उवाच मत्तो वरमावृणीध्वं गीर्वाणनिर्वाण सुखैकहेतुम्

2.4-4.2.3.4.40

तदासुराणामधिपः स्वयंभूरुवाच वाक्यं स्मितशोभिताननः ॥
रूपं तवात्युग्रमशेषदेहिनां भयावहं संहर नारसिंह

2.4-4.41

अनेकधैतद्विधिवद्विधाय निधाय शैलादिषु दिव्यमूर्तिम् ॥
उवाच किं वः प्रकरोमि कृत्यमहं प्रसन्नस्त्रिदशाः परंतपाः

2.4-4.42

ततोमरा ऊचुरनेन चैव रूपेण संक्षोभितविश्वमूर्ते ॥
प्रशांतमंतःसुखहेतुबंधि चतुर्भुजत्वं वरमीप्सितं नः

2.4-4.43

ततो हरिर्वीक्ष्य निरीक्षणेन दिव्येन विश्वं प्रययौ विशालाम्॥
गंगाजले क्रीडति विष्टचेताः सुरासुरेभ्यो भगवानुवाच

2.4-4.44

ततोऽमराः शांतभया अथैनं निरीक्ष्य देवं जलमध्यसंस्थम् ॥ ॥
नत्वा परिक्रम्य तदा समाययुर्निरूढभावाः स्वपुरं ततः क्रमात्

2.4-4.45

ततः समस्ता ऋषयस्तपोधनाः समाययुर्भक्तिभरावनम्राः ॥
नृसिंहमत्यद्भुतविकमं हरिं समीडिरे बद्धकरा वचोभिः

2.4-4.46

॥ ऋषय ऊचुः ॥ ॥
नमोनमस्ते जगतामधीश विश्वेश विश्वाभय विश्वमूर्ते ॥
कृपांबुराशे भजनीयतीर्थ पादांबुज श्रीश दयां विधेहि

2.4-4.47

एकोऽसि नाना निजमायया स्वया घटे पयो यद्वदुपाधिभिन्नम् ॥
भक्तेच्छयोपात्तविचित्रविग्रह प्रसीद विश्वानन विश्वभावन

2.4-4.48

ततः प्रसन्नो भगवान्नृसिंहः सिंहविक्रमः ॥
उवाच वचनं चारु वरं मे व्रियतामिति

2.4-4.49

॥ ऋषय ऊचुः ॥ ॥
यदि प्रसन्नो भगवन्कृपया जगतां पते ॥
विशाला न परित्याज्या वरोऽस्माकमभीप्सितः

2.4-4.2.3.4.50

एवमस्तु ततः सर्वे स्वाश्रमं ह्यृषयो ययुः ॥
नृसिंहोऽपि शिलारूपी जलक्रीडापरोऽभवत्

2.4-4.51

उपवासत्रयं कृत्वा जपध्यानपरायणः ॥
नृसिंहरूपिणं साक्षात्पश्यत्येव न संशयः

2.4-4.52

य एतच्छ्रद्धया मर्त्यः शृणोति श्रावयञ्छुचिः ॥
सर्वपापविनिर्मुक्तो वैकुंठे वसतिं लभेत्

2.4-4.4

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे गरुडशिला वाराहीशिला नारसिंहीशिलामाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc