भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.21-3

2.21-3.1

श्रीनारायण उवाच ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥
एत आश्रमिणः प्रोक्ताश्चत्वारो मुनिसत्तम

2.21-3.2

संस्कारैः संस्कृतो यस्तु शुद्धयोनिर्द्विजातिताम् ॥
प्राप्तः स हि ब्रह्मचारी तद्धर्मानादितो ब्रुवे

2.21-3.3

वर्णी वेदमधीयीत वसन्गुरुगृहे शुचिः ॥
जितेन्द्रियो जितक्रोधो विनीतस्तथ्यभाषणः

2.21-3.4

सायं प्रातश्चरेद्धोमं भिक्षाचर्यां च संयतः ॥
कुर्यात्त्रिकालं संध्यां च विष्णुपूजां तथान्वहम्

2.21-3.5

गुर्वाज्ञयैव भुञ्जीत मितमन्नमनाकुलः ॥
गुरुसेवापरो नित्यं भवेद्व्यसनवर्जितः

2.21-3.6

स्नाने च भोजने होमे जपे मौनमुपाश्रयेत् ॥
छिन्द्यान्न नखरोमाणि दन्तान्नैवातिधावयेत्

2.21-3.7

नातिधावेच्च वासांसि भवेन्निष्कपटो गुरौ ॥
आहूतोध्ययनं कुर्यादादावन्ते च तं नमेत्

2.21-3.8

अस्पृश्यान्न स्पृशेच्चासौ नाऽसंभाष्यांश्च भाषयेत् ॥
अभक्ष्यं भक्षयेन्नैव नाऽपेयं च पिबेत्क्वचित्

2.21-3.9

मेखलामजिनं दण्डं बिभृयाच्च कमण्डलुम् ॥
सिते द्वे वाससी ब्रह्मसूत्रं च जपमालिकाम्

2.21-3.2.9.21.10

दर्भपाणिश्च जटिलः केशसंस्कारवर्जितः ॥
अङ्गरागं पुष्पहारान्भूषणानि च वर्जयेत्

2.21-3.11

तैलाभ्यङ्गं न कुर्वीत कज्जले नाञ्जनं तथा ॥
वर्जयेच्च प्रयत्नेन संसर्गं मद्यमांसयोः

2.21-3.12

स्त्रीणां निरीक्षणं स्पर्शं भाषणं क्रीडनादि च ॥
वर्जयेत्सर्वथा वर्णी स्त्रियाश्चाप्यवलेखनम्

2.21-3.13

विना च देवप्रतिमां काष्ठचित्रादियोषितम् ॥
अपि नैव स्पृशेद्धीमान्न च बुद्ध्यावलोकयेत्

2.21-3.14

प्राणिमात्रं च मिथुनीभूतं नेक्षेत कर्हिचित् ॥
स्त्रीणां गुणाश्चाप्यगुणाञ्छृणुयान्नैव नो वदेत्

2.21-3.15

अस्पृशन्नेव वन्देत गुरुपत्नीमपि स्वकाम् ॥
जनन्यापि न तिष्ठेत रहःस्थाने तु कर्हिचित्

2.21-3.16

एवंवृत्तो वसेत्तत्र यावद्विद्यासमापनम् ॥
ततो विरक्तो न्यासी स्याद्वर्णी वा नैष्ठिको भवेत् ॥
अनधिकारिता प्रोक्ता नैष्ठिकव्रतिनां कलौ

2.21-3.17

न संधाविति विज्ञेयं कलीति शब्दसंग्रहात् ॥
वनी स्यादथ वा ब्रह्मन्नविरक्तो भवेद्गृही

2.21-3.18

प्राजापत्यं च सावित्रं ब्राह्मं नैष्ठिकमेव च ॥
चतुर्विधं ब्रह्मचर्यं तत्रैकं शक्तितः श्रयेत्

2.21-3.21

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ब्रह्मचारिधर्मनिरूपणं नामैकविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc