भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.16-3

2.16-3.1

॥श्रीभगवानुवाच॥ ॥
शृणु ध्यानं चतुर्वक्त्र वक्ष्यामि प्रीतमानसः ॥
श्रुतेनैव च सौभाग्यं लभते मानवो भुवि

2.16-3.2

अथ श्रीमदुद्यानसंवीतहैमस्थलोद्भासिरत्नस्फुरन्मंडपांतः ॥
लसत्कल्पवृक्षोदितोद्दीप्तरत्नस्थलाधिष्ठितांभोजपीठाऽधिरूढम्

2.16-3.3

महानीलनीलाभमत्यंतबालं गुडस्निग्धवक्त्रांतविस्रस्तकेशम् ॥
अलिव्रातपर्याकुलोत्फुल्लपद्मप्रमुग्धाननं श्रीमदिंदीवराक्षम्

2.16-3.4

चलत्कुंडलोल्लासितोत्फुल्लगल्लं सुघोणं सुशोणाधरं सुस्मितास्यम् ॥
अनेकोल्लसत्कंठभूषालसंतं वहंतं नखं पौंडरीकं सुनेत्रम्

2.16-3.5

समुद्धूसरोरःस्थलं धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ॥
कटीरस्थले चारुजंघोरुयुग्मे पिनद्धं क्वणत्किंकिणीजालदाम्ना

2.16-3.6

हसंतं लसद्बंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ॥
करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयंगवीनम्

2.16-3.7

महीभारभूताऽमरारातियूथाऽनलं पूतनादीन्निहंतुं प्रवृत्तम् ॥
प्रभुं गोपिकागोपवृंदेन वीतं सुरेन्द्रादिभिर्वंदितं देवदेवम्

2.16-3.8

प्रगे पूजयित्वा त्वनुस्मृत्य कृष्णं भुजंगेंद्रवज्रादिभिर्भक्तिनम्रः ॥
सितांभोजहैयंगवीनैश्च दध्ना विमिश्रेण दुग्धेन संप्रीणयेत्तम्

2.16-3.9

इति प्रातरेवाऽर्चयेदत्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः ॥
लभेत्सोऽचिरेणैव लक्ष्मीं समग्रामिह प्रेत्य शुद्धं परं धाम भूयात्

2.16-3.2.5.16.10

मन्त्रश्चोक्तः पुरा पुत्र आदौ लोकमनोहरः ॥
श्रीमद्दामोदराख्यो हि शृणु तस्याधिकारिणः

2.16-3.11

अयोग्याय न दातव्यो मंत्रराजस्त्वया सुत ॥
यत्नेन गोपनीयं च रहस्यं शीघ्रसिद्धिदम्

2.16-3.12

अलसं मलिनं क्लिष्टं दंभमोहसमन्वितम् ॥
दरिद्रं रोगिणं क्रुद्धं रागिणं भोगलालसम्

2.16-3.13

असूयामत्सरग्रस्तं शठं परुषवादिनम् ॥
अन्यायेनाऽर्जितधनं परदाररतं सदा

2.16-3.14

विदुषां वैरिणं नित्यमज्ञं पंडितमानिनम् ॥
भ्रष्टव्रतं क्लिष्टवृत्तिं पिशुनं दुष्टमानसम्

2.16-3.15

बह्वाशिनं क्रूरचेष्टमग्रगण्यं दुरात्मनाम् ॥
कृपणं पापिनं रौद्रमाश्रितानां भयंकरम्

2.16-3.16

एवमादिगुणैर्युक्तं शिष्यं नैव परिग्रहेत् ॥
गृह्णीयाद्यदि तद्दोषः प्रायो गुरुमुपस्पृशेत्

2.16-3.17

अमात्यदोषो राजानं जायादोषः पतिं यथा ॥
तथा शिष्यकृतो दोषो गुरुं प्राप्नोत्यसंशयम्

2.16-3.18

तस्माच्छिष्यं गुरुर्नित्यं परीक्ष्यैव परिग्रहेत् ॥
कायेन मनसा वाचा गुरुशुश्रूषणे रतम्

2.16-3.19

अस्तेयवृत्तिमास्तिक्ययुक्तं मोक्षकृतोद्यमम् ॥
ब्रह्मचर्यरतं नित्यं दृढव्रतमकल्मषम्

2.16-3.2.5.16.20

प्रसन्नहृदयं शुद्धमशठं विमलाशयम् ॥
परोपकारनिरतं स्वार्थे च विगतस्पृहम्

2.16-3.21

स्वचित्तवित्तदेहैस्तु परितोषकरं गुरोः ॥
आश्रितानां तथा पुत्र परितोषकरं शुचिम्

2.16-3.22

ईदृग्विधाय शिष्याय मंत्रं दद्याच्च नान्यथा ॥
यद्यन्यथा वदेत्तस्मिन्देवताशाप आपतेत्

2.16-3.23

शृणु पुत्र प्रवक्ष्यामि गुरोरपि च लक्षणम् ॥
एभिस्तु लक्षणैर्युक्तो गुरुरेव भवेन्नृणाम्

2.16-3.24

समचेताः प्रशांतात्मा विमन्युश्च सुहृन्नृणाम् ॥
साधुर्महान्समो लोके स गुरुः परिकीर्तितः

2.16-3.25

मम व्रतधरो नित्यं वैष्णवानां सुसंमतः ॥
मदाश्रयकथासक्तो ममोत्सवरतः सदा

2.16-3.26

कृपासिन्धुः सुपूर्णार्थः सर्वसत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः

2.16-3.27

सर्वसंशयसंछेत्ताऽनलसो गुरुरादृतः ॥
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम्

2.16-3.28

पूर्वोक्तलक्षणैर्युक्तः शिष्य ईदृग्विधाद्गुरोः ॥
गृह्णीयात्पुत्र तन्मंत्रं मार्गशीर्षे मदायने

2.16-3.29

वैष्णवानां व्रतानां च कुर्यात्स्वीकरणं बुधः ॥
मत्प्रियं शृणुयाच्छश्वच्छ्रीमद्भागवतं परम्

2.16-3.2.5.16.30

श्रीमद्भागवतंनाम पुराणं लोकविश्रुतम् ॥
शृणुयाच्छ्रद्धया युक्तो मम सन्तोषकारणम्

2.16-3.31

नित्यं भागवतं यस्तु पुराणं पठते नरः ॥
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम्

2.16-3.32

श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
पठते शृणुयाद्यस्तु गोसहस्रफलं लभेत्

2.16-3.33

यः पठेत्प्रयतो नित्यं श्लोकं भागवतं सुत ॥
अष्टादशपुराणानां फलमाप्नोति मानवः

2.16-3.34

नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवाः ॥
कलिबाह्या नरास्ते वै येऽर्चयन्ति सदा मम

2.16-3.35

वैष्णवानां तु शास्त्राणि येऽर्चयन्ति गृहे नराः ॥
सर्वपापविनिर्मुक्ता भवंति सुरवन्दिताः

2.16-3.36

येऽर्चयन्ति गृहे नित्यं शास्त्रं भागवतं कलौ ॥
आस्फोटयंति वल्गन्ति तेषां प्रीतो भवाम्यहम्

2.16-3.37

यावद्दिनानि हे पुत्र शास्त्रं भागवतं गृहे ॥
तावत्पिबंति पितरः क्षीरं सर्पिर्मधूदकम्

2.16-3.38

यच्छंति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये ॥
कल्पकोटिसहस्राणि मम लोके वसंति ते

2.16-3.39

येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः ॥
प्रीणितास्तैश्च विबुधा यावदाऽऽभूतसंप्लवम्

2.16-3.2.5.16.40

श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे ॥
शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसंग्रहैः

2.16-3.41

न यस्य तिष्ठते शास्त्रं गृहे भागवतं कलौ ॥
न तस्य पुनरावृत्तिर्याम्यपाशात्कदाचन

2.16-3.42

कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ॥
गृहे न तिष्ठते यस्य श्वपचादधिको हि सः

2.16-3.43

सर्वस्वेनाऽपि लोकेश कर्तव्यः शास्त्रसंग्रहः ॥
वैष्णवस्तु सदा भक्त्या तुष्ट्यर्थं मम पुत्रक

2.16-3.44

यत्र यत्र भवेत्पुण्यं शास्त्रं भागवतं कलौ ॥
तत्र तत्र सदैवाऽहं भवामि त्रिदशैः सह

2.16-3.45

तत्र सर्वाणि तीर्थानि नदीनदसरांसि च ॥
यज्ञाः सप्तपुरी नित्यं पुण्याः सर्वे शिलोच्चयाः

2.16-3.46

श्रोतव्यं मम शास्त्रं हि यशोधर्मजयार्थिना ॥
पापक्षयार्थं लोकेश मोक्षार्थं धर्मबुद्धिना

2.16-3.47

श्रीमद्भागवतं पुण्यमायुरारोग्यपुष्टिदम् ॥
पठनाच्छ्रवणाद्वाऽपि सर्वपापैः प्रमुच्यते

2.16-3.48

न शृण्वंति न हृष्यंति श्रीमद्भागवतं परम् ॥
सत्यंसत्यं हि लोकेश तेषां स्वामी सदा यमः

2.16-3.49

न गच्छति यदा मर्त्यः श्रोतुं भागवतं सुत ॥
एकादश्यां विशेषेण नाऽस्ति पापरतस्ततः

2.16-3.2.5.16.50

श्लोकं भागवतं चाऽपि श्लोकार्धं पादमेव वा ॥
लिखितं तिष्ठते यस्य गृहे तस्य वसाम्यहम्

2.16-3.51

सर्वाऽऽश्रमाऽभिगमनं सर्वतीर्थाऽवगाहनम् ॥
न तथा पावनं नॄणां श्रीमद्भागवतं यथा

2.16-3.52

यत्र यत्र चतुर्वक्त्र श्रीमद्भागवतं भवेत् ॥
गच्छामि तत्रतत्राऽहं गौर्यथा सुतवत्सला

2.16-3.53

मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् ॥
मत्कथाप्रीतमनसं नाऽहं त्यक्ष्यामि तं नरम्

2.16-3.54

श्रीमद्भागवतं पुण्यं दृष्ट्वा नोत्तिष्ठते हि यः ॥
सांवत्सरं तस्य पुण्यं विलयं याति पुत्रक

2.16-3.55

श्रीमद्भागवतं दृष्ट्वा प्रत्युत्थानाभिवादनैः ॥
सन्मानयेत तं दृष्ट्वा भवेत्प्रीतिर्ममाऽतुला

2.16-3.56

दृष्ट्वा भागवतं दूरात्प्रक्रमेत्संमुखं हि यः ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम्

2.16-3.57

उत्थाय प्रणमेद्यो वै श्रीमद्भागवतं नरः ॥
धनं पुत्रांस्तथा दारान्भक्तिं च प्रददाम्यहम्

2.16-3.58

महाराजोपचारैस्तु श्रीमद्भागवतं सुत ॥
शृण्वंति ये नरा भक्त्या तेषां वश्यो भवाम्यहम्

2.16-3.59

ममोत्सवेषु सर्वेपु श्रीमद्भागवतं परम् ॥
शृण्वंति ये नरा भक्त्या मम प्रीत्यै च सुव्रत

2.16-3.2.5.16.60

वस्त्रालंकरणैः पुष्पैर्धूपदीपोपहारकैः ॥
वशीकृतो ह्यहं तैश्च सत्स्त्रिया सत्पतिर्यथा

2.16-3.16

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये भागवतश्रैष्ठ्यमाहात्म्यवर्णनंनाम पोडशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc