स्कन्द पुराण · अध्याय 2.15
॥ नारद उवाच ॥ ॥
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ॥
तेऽपि भूमंडलं याता निर्भयास्तमुपाश्रिताः
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ॥
पप्रच्छ भार्गवं तत्र तच्छिरश्छेदकारणम्
स शशंस समुद्रस्य मथनं देवकारितम् ॥
रत्नापहरणं चैव दैत्यानां च पराभवम्
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ॥
दूतं संप्रेषयामास घस्मरं शक्रसन्निधौ
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम्॥
जगादाखर्वमौलिस्तु देवेंद्रं वाक्यमद्भुतम्
॥ घस्मर उवाच ॥ ॥
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ॥
दूतोऽहंप्रेषितस्तेन स यदाह शृणुष्व तत्
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ॥
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः॥
उवाच घस्मरं रौद्रं भयरोषसमन्वितः
॥ इंद्र उवाच ॥ ॥
शृणु दूत मया पूर्वं मथितः सागरो यथा ॥
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा ॥
तस्माद्यत्तत्प्रजातं तु मयाऽप्यपहृतं किल
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ॥
ममाऽनुजेन निहतः प्रविष्टः सागरोदरम्
तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् ॥
॥ नारद उवाच ॥ ॥
इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम्
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा ॥
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताऽधरः
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम् ॥
ततो युद्धे महाञ्जातो देवदानवसंक्षयः
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत् ॥
विद्यया मृतजीविन्या मंत्रितैस्तोयबिंदुभिः
देवानपि तथा युद्धे तत्राऽजीवयदंगिराः ॥
दिव्यौषधी समानीय द्रोणाद्रेः स पुनःपुनः
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ॥
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत्
॥ जलंधर उवाच ॥ ॥
मया युद्धे हता देवा उत्तिष्ठंति कथं पुनः ॥
तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम्
॥ शुक्र उवाच ॥ ॥
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान्॥
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर
॥ नारद उवाच ॥ ॥
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ॥
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम्
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥
तावत्तत्र गिरींद्रं तु न ददर्श सुरार्चितः
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥
आगत्य दूराद्व्याजह्रे श्वासाऽऽकुलितविग्रहः
पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः ॥
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम्
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ॥
दैत्येन वध्यमानास्ते पलायंते दिशो दश
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनंदनः ॥
शंखभेरीजयरवैः प्रविवेशाऽमरावतीम्
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः
ततश्च सर्वेष्वसुरोऽधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ॥
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरविजयप्राप्तिर्नाम पञ्चदशोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0