भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.1-9

2.1-9.1

॥ अथ वैशाखमासमाहात्म्य प्रारंभः ॥ ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

2.1-9.1

॥ सूत उवाच ॥ ॥
भूयोऽप्यंगभुवं राजा ब्रह्मणः परमेष्ठिनः ॥
पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत

2.1-9.2

॥
॥ अंवरीष उवाच ॥ ॥
सर्वेषामपि मासानां त्वत्तो माहात्म्यमंजसा ॥
श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया

2.1-9.3

वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ॥
इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च

2.1-9.4

श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियो ह्यसौ ॥
के च विष्णुप्रिया धर्मा मासे माधववल्लभे

2.1-9.5

तत्राप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ॥
किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान् ॥

2.1-9.6

कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे ॥
एतन्नारद विस्तार्य मह्यं श्रद्धावते वद

2.1-9.7

॥ श्रीनारद उवाच ॥ ॥
मया पृष्टः पुरा ब्रह्मा मासधर्मान्पुरातनान् ॥
व्याजहार पुरा प्रोक्तं यच्छ्रियै परमात्मना

2.1-9.8

ततो मासा विशिष्योक्ताः कार्तिको माघ एव च ॥
माधवस्तेषु वैशाखं मासानामुत्तमं व्यधात्

2.1-9.9

मातेव सर्वजीवानां सदैवेष्ट प्रदायकः ॥
दानयज्ञ्रव्रतस्नानैः सर्वपापविनाशनः

2.1-9.2.7.1.10

धर्म यज्ञक्रियासारस्तपःसारः सुरार्चितः ॥
विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा

2.1-9.11

भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् ॥
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा

2.1-9.12

देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥
प्राणवत्प्रियवस्तूनां भार्येव सुहृदां यथा

2.1-9.13

आपगानां यथा गंगा तेजसां तु रविर्यथा ॥
आयुधानां यथा चक्रं धातूनां कांचनं यथा

2.1-9.14

वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥
मासानां धर्महेतूनां वैशाखश्चोत्तमस्तथा

2.1-9.15

नानेन सदृशो लोके विष्णुप्रीतिविधायकः ॥
वैशाखस्नाननिरते मेषे प्रागर्यमोदयात्

2.1-9.16

लक्ष्मीसहायो भगवान्प्रीतिं तस्मिन्करोत्यलम् ॥
जंतूनां प्रीणनं यद्वदन्नेनैव हि जायते

2.1-9.17

तद्वद्वैशाखस्नानेन विष्णुः प्रीणात्यसंशयम् ॥
वैशाखस्नाननिरताञ्जनान्दृष्ट्वाऽनुमोदते

2.1-9.18

तावतापि विमुक्तोऽघैर्विष्णुलोके महीयते ॥
सकृत्स्नात्वा मेषसंस्थे सूर्ये प्रातः कृताह्निकः ॥

2.1-9.19

महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् ॥
स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि

2.1-9.2.7.1.20

सोऽश्वमेधायुतानां च फलमाप्नोत्यसंशयम् ॥
अथवा कूटचित्तस्तु कुर्यात्संकल्पमात्रकम्

2.1-9.21

सोऽपि क्रतुशतं पुण्यं लभेदेव न संशयः ॥
यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ

2.1-9.22

सर्वबंधविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥
त्रैलोक्ये यानि तीर्थानि ब्रह्मांडांतर्गतानि च

2.1-9.23

तानि सर्वाणि राजेन्द्र संति बाह्येऽल्पके जले ॥
तावल्लिखितपापानि गर्जंति यमशासने

2.1-9.24

यावन्न कुरुते जंतुर्वैशाखे स्नानमंभसि ॥
तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप

2.1-9.25

बहिर्जलं समाश्रित्य सदा सन्निहिता नृप ॥
सूर्योदयं समारभ्य यावत्षड्घटिकावधि

2.1-9.26

तिष्ठंति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया ॥
तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ॥
स्वस्थानं यांति राजेन्द्र तस्मात्स्नानं समाचरेत् ॥

2.1-9.1

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास प्रशंसापूर्वक वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc