भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 1.2.24

1.2.24.1

॥ मार्कंडेय उवाच ॥ ॥
भगवन्भवमाहात्म्यरत्नाकरसुधाकरम् ॥
नंदीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः

1.2.24.2

कदा वज्रांगदः सिद्धः कथं देवमपूजयत् ॥
कथं चान्वग्रहीत्प्रह्वं देवस्तमरुणेश्वरः

1.2.24.3

॥ नंदिकेश्वर उवाच ॥ ॥
निवर्त्तनेच्छां हित्वाथ नृपो निजपुरं प्रति ॥
तस्यैव पादपर्यंते स्वस्य वासमरोचयत्

1.2.24.4

अथास्य महती सेना वाहमार्गानुसारिणी ॥
प्राप्ता शतांगमातंगतुरंगभटसंकुला

1.2.24.5

समदृश्यत भूपालस्तादृशो धैर्यसागरः ॥
पुरोधोमंत्रिसामंतसेनापतिसुहृत्तमैः

1.2.24.6

ततस्तामागतां सेनामवनीपतिरादृतः ॥
अरुणाद्रेश्च सीमाया बहिरेव न्यवेशयत्

1.2.24.7

स्वकीयमखिलं कोशं देशानपि महाफलान् ॥
शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान्

1.2.24.8

गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः ॥
पुरोधोक्तः ससचिवः शिवार्चनरतोऽभवत्

1.2.24.9

रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे ॥
तत्प्रेषितैरपर्याप्तैः शोणेशं पर्यतर्पयत्

1.2.24.1.3.2.24.10

परितः शोणशैलस्य परिपूर्णजलाशयान् ॥
अग्रहारान्बहुफलान्ब्राह्मणेभ्योऽतिसृष्टवान्

1.2.24.11

तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः ॥
धन्वप्रायेऽपि देशेऽस्मिन्दीर्घिकाः शतशो व्यधात्

1.2.24.12

सौंदर्यशालिनीरात्मपरिवारवरांगनाः ॥
सेवार्थं शोणनाथस्य दत्तवान्दीर्घदर्शनः

1.2.24.13

अथागतेनागस्त्येन लोपामुद्रासखेन सः ॥
अभ्यनंद्यत शोणाद्रिनाथपूजापरायणः

1.2.24.14

प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् ॥
पापनाशप्रवालेशौ प्रयतः पर्यपूजयत्

1.2.24.15

महिषासुरसंहारकारिणी मानवेश्वरः ॥
नित्यमाराधयामास दुर्गां दुर्ग्गार्तिहारिणीम् ॥

1.2.24.16

प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिंगरूपिणः ॥
आदिदेवस्य विविधाः सपर्याः पर्यकल्पयत्

1.2.24.17

प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः ॥
जपन्पंचाक्षरीमंत्रमकार्षीत्त्रिः प्रदक्षिणाम्

1.2.24.18

पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम् ॥
महादीपोत्सवं चक्रे महितं भुवनत्रये

1.2.24.19

सुगंधसारकह्लारकर्पूरजलपूरितः ॥
सहस्रैः स्वर्णकुंभानामभ्यषिंचत्त्रियंत्रकम्

1.2.24.1.3.2.24.20

प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् ॥
त्रैलोक्याभ्यर्हितं चक्रे रथारोहं महोत्सवम्

1.2.24.21

अंगं प्रदक्षिणं चास्य विदधे विशदाशयः॥
योजनत्रितयायामव्यापिनः शोणभूभृतः

1.2.24.22

अरुणाचलनाथेति करुणामृतसागरः॥
अरुणांवासनाथेति तुष्टाव च मुहुर्मुहुः

1.2.24.23

संलिप्य विविधैर्द्रव्यैर्नित्यं पंचामृतादिभिः॥
आचर्च यद्गंधसारपंकैः कर्पूरपांडुरैः

1.2.24.24

अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः ॥ प्रा
तरारभ्य शोणाद्रिनायकं गणरूपिणम्

1.2.24.25

इति वर्षत्रयं तस्य वशिनो वरिवस्यया ॥
अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत

1.2.24.26

नीहाराचलसंकाशमारूढो वृषपुंगवम्॥
अन्वगासीनया देव्या कृतगाढोपगूहनः

1.2.24.27

ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः॥
गणैर्निकुंभकुंभाद्यैः क्रियमाणजयस्तुतिः

1.2.24.28

करुणासिंधुकल्लोलैः कमलावासवेश्मभिः ॥
कटाक्षपातैर्जगतां कालुष्यमिव वारयन्

1.2.24.29

दृष्ट्वा च देवदेवं तमष्टांगं न्यस्य भूतले ॥
प्रणनाम परं हृष्टो वज्रांगदमहीपतिः

1.2.24.1.3.2.24.30

व्यज्ञापयच्च भूपालो मौलीकृतशतांजलिः ॥
क्षालयन्निव दंतांशुजालैस्तत्पादपंकजे

1.2.24.31

॥ वज्रांगद उवाच ॥ ॥
देवेश यदहं मोहाद्बहुपातकसंचयम् ॥
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः

1.2.24.32

इतिवादिनमत्यंतं दीनमेव दयानिधिः ॥
जगाद जगतीनाथो देवः शोणाचलेश्वरः

1.2.24.33

॥ श्रीमहेश्वर उवाच ॥ ॥
मा भैषीर्वत्स भद्रं ते संत्यष्टौ मम मूर्त्तयः ॥
ताः सर्वाः सर्वजंतूनामत्यर्थं परिकल्पिताः

1.2.24.34

पुरा पुरंदरस्त्वं हि कैलासशिखरे स्थितम् ॥
गर्वितो मामवामंस्थाः स्तंभितश्च तदा मया

1.2.24.35

क्षणं गलितगर्वस्त्वं स्तंभना व्रीडितस्तदा ॥
अयाचिष्ठाः शिवज्ञानमखिलैश्वर्यकारणम्

1.2.24.36

आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान्॥
राजा वज्रांगदो भूत्वा लप्स्यसे मत्कृपामिति

1.2.24.37

जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम्॥
शिक्षितोतीव मुग्धस्त्वं भक्तोसि च परं मयि

1.2.24.38

अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम् ॥
परितुष्टोस्म्यहं राजन्नतस्त्वां बोधयाम्यहम्

1.2.24.39

खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान् ॥
इति मन्मूर्त्तिभिर्विश्वं भासते सचराचरम्

1.2.24.1.3.2.24.40

कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च ॥
तत्त्वातीतः शिवश्चाहं न मत्तोस्तीह किंचन

1.2.24.41

अपर्यंतचिदानंदसिंधोर्मे केचिदूर्मयः ॥
वेधोमुकुन्दरुद्रेंद्रमुखानाहुरुदित्वराः

1.2.24.42

वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः ॥
असंख्येयमहाशक्तेर्मम विसृष्टिशक्तयः

1.2.24.43

इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः ॥
अनयाच्छाद्यते विश्वं शश्वद्विस्तार्यतेऽपि च

1.2.24.44

शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः ॥
विचित्रमेतत्पश्यामि जगच्चित्रं निजेच्छया

1.2.24.45

अपवाहितमोहस्त्वं महिमा मे विचारय ॥
आत्मानमविभिन्नं मे तरंगमिव वारिधेः

1.2.24.46

ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः ॥
मत्प्रसादेन राजेंद्र भुंक्ष्व भोगान्यथासुखम्

1.2.24.47

पुनः पुरंदरत्वेन भुक्तदिव्यसुखश्चिरम्॥
मदेकरूपतां राजन्निश्चयात्त्वमवाप्स्यसि

1.2.24.48

नंदिकेश्वर उवाच ॥ ॥
इत्युक्त्वांतर्हिते देवे राजा वज्रांगदः कृती ॥
शोणेशं पूजयन्नेव सर्वान्भोगानवाप्तवान्

1.2.24.49

इत्थं ते कथितं साधो शिवभक्तविजृंभणम् ॥
प्रदक्षिणाफलं चैव शोणशैलस्य शाश्वतम्

1.2.24.1.3.2.24.50

किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा ॥
महतामश्वमेधानां शतादपि विशिष्यते

1.2.24.51

विषुवायनसंक्राति व्यतीपातादिपर्वसु ॥
प्रदक्षिणाच्छोणगिरेरसंख्येयं फलं लभेत्

1.2.24.52

न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात् ॥
नापि प्रदक्षिणादन्यद्विपद्यतेऽभ्यधिकं तपः

1.2.24.53

इति कथयति नंदिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः ॥
मुहुरधिगतहर्षवाष्पवृष्टिर्महति निमग्न इवाभवत्सुधाब्धौ

1.2.24.24

॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे वज्रांगदसद्गतिवर्णनंनाम चतुर्विंशतितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc