भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 1.1.2

1.1.2.1

॥ ब्रह्मोवाच ॥ ॥
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ॥
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम्

1.1.2.2

नमः शिवाय महते सर्वलोकैकहेतवे ॥
येन प्रकाश्यते सर्वं ध्रियते सततं नमः

1.1.2.3

विश्वव्याप्तमिदं तेजः प्रकाशयति संततम् ॥
नेक्षंते त्वद्दयाहीना जात्यंधा भास्करं यथा

1.1.2.4

भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ॥
अंतस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते

1.1.2.5

अपरिच्छेद्यमाकारमंतरात्मनि योगिनः ॥
तदेतत्तव देवेश ज्वलितं दर्पणो यथा

1.1.2.6

अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी ॥
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते

1.1.2.7

अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ॥
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात्

1.1.2.6

त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ॥
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने

1.1.2.9

स्वयमीश महादेव प्रसीद भुवनाधिक ॥
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु

1.1.2.1.3.1.2.10

इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ॥
प्रांजलिर्देवदेवेशं न्यषीदं सविधे विभो

1.1.2.11

अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात् ॥
वाचः कृतार्थन्भूयः शुक्लाः शंकरकीर्त्तनैः

1.1.2.12

जय त्रिभुवनाधीश जय गंगाधर प्रभो ॥
जय नाथ विरूपाक्ष जय चंद्रार्द्धशेखर

1.1.2.13

अव्याजममितं शंभो कारुण्यं तव वर्द्धते ॥
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम्

1.1.2.14

पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः ॥
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् ॥

1.1.2.15

शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ॥
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः

1.1.2.16

त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ॥
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत्

1.1.2.17

देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम् ॥
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत्

1.1.2.18

देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ॥
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे

1.1.2.19

अनुग्रहपरो देव मूर्तिं दर्शय शंकर ॥
आवयोरखिलाधार नयनानंददायिनीम्

1.1.2.1.3.1.2.20

एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ॥
प्रससाद परं शंभुः स्तुवतोरावयोर्द्वयोः

1.1.2.21

तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ॥
आविर्बभूव पुरुषः कपिलः कालकन्धरः

1.1.2.22

परशुं बालहरिणं करैरभयविश्रमौ ॥
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः

1.1.2.23

परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि॥
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम्

1.1.2.24

युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ॥
वरं वृणुतमन्यं च वरदोऽहमुपागतः

1.1.2.25

इति देवस्य वचनात्सप्रीतौ च कृतांजली ॥
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक्

1.1.2.26

अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ॥
संस्तुवन्वैदिकैर्मंत्रैरीशानमपराजितम् ॥

1.1.2.27

नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ॥
तेजोमयं महादेवं योगिध्येयं निरंजनम्

1.1.2.28

आपूर्यमाणं भवता तेजसा गगनांतरम् ॥
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति

1.1.2.29

सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ॥
नावसन्दिवि संचारं लभेरंस्तेजसा तव

1.1.2.1.3.1.2.30

पृथ्वी च सकला चैव तप्यमाना तवौजसा ॥
चराचरसमुत्पत्तिक्षमा नैव भविप्यति

1.1.2.31

उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया ॥
भव स्थावरलिंगं त्वं लोकानुग्रहकारणात्

1.1.2.32

ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम् ॥
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः

1.1.2.33

सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः ॥
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः

1.1.2.34

दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ॥
सेविनस्त्वां प्ररोहंतु भरिता विविधैः फलैः

1.1.2.35

दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ॥
प्रशांताः परिवर्त्तंता पापकल्मषनाशनम्

1.1.2.36

अयनद्वयभिन्नेन गमनेनापि संयुतः ॥
न लंघयिष्यति रविः शृंगं लिंगतनोस्तव

1.1.2.37

दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः ॥
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः

1.1.2.38

अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ॥
लभंतां मानुषा नित्यं त्वत्संनिधिमुपागताः

1.1.2.39

ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम् ॥
त्वामाश्रित्य नरास्सर्वे लभंतामरुणाचल

1.1.2.1.3.1.2.40

सर्वावयवदानेन सर्वव्याधिविनाशनात् ॥
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले

1.1.2.41

तथेति वरदं देवमरुणाद्रिपतिं शिवम्॥
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत्

1.1.2.42

प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ॥
महेश सर्वलोकानां हिताय प्रकटोदय

1.1.2.43

यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ॥
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवंतु ते

1.1.2.44

नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ॥
मया च ब्रह्मणा चैवमदृष्टपदशेखरः

1.1.2.45

प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ॥
त्वामर्चयंति ये मर्त्याः कृतार्थास्ते गतांहसः

1.1.2.46

उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ॥
त्वामर्चयंति मनुजाः सार्वभौमा भवंतु ते

1.1.2.47

आरामं मंडपं चापि कूपं विधिविशोधनम् ॥
कुर्वतामरुणाद्रीश संनिधाने पुनर्भव

1.1.2.48

अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ॥
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः

1.1.2.49

आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम् ॥
ध्यातव्यं मनुजैः सर्वैस्तव संनिधिमागतैः

1.1.2.1.3.1.2.50

तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः ॥
भरुणाचलरूपेण प्राप्तः स्थावरलिंगताम्

1.1.2.51

तैजसं लिंगमेतद्धि सर्वलोकैककारणम् ॥
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले

1.1.2.52

युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः ॥
अपि निर्मग्नलोकांतैरस्पृष्टांतिकभूतलम्

1.1.2.53

गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम् ॥
पुष्कराद्या महामेघा विश्रांता यस्य सानुनि

1.1.2.54

प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे ॥
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम्

1.1.2.55

मया चाहूयमानेभ्यः प्रलयानंतरं पुनः ॥
यत्पादसेविविप्रेभ्यो वेदाध्ययनसंग्रहः

1.1.2.56

सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम् ॥
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः

1.1.2.57

यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः ॥
जटिनः संप्रकाशंते कोटिसूर्याग्नितेजसः

1.1.2.58

पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः ॥
अकारपीठिकारूढो नादात्मा यः सदाशिवः

1.1.2.59

अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः ॥
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः

1.1.2.1.3.1.2.60

यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः॥
अपेक्षंते स्थिता मुक्तिं विहाय कनकाचलम्

1.1.2.61

एवं वसुंधरापुण्यपरिपाकसमुच्चयः ॥
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः

1.1.2.62

कैलासान्मेरुशिखरादागतैर्देवसंचयैः ॥
पूज्यते शोणशैलात्मा शंभुः सर्ववरप्रदः

1.1.2.63

इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ॥
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम्

1.1.2.2

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शंकरस्य स्थावरलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc