भाषा

ENहिગુ
ग्रंथ पाठ

शिवस्तुति · श्लोक 1-10

1

श्रीलङ्केश्वरविरचिता शिवस्तुतिः ।
गले कलितकालिम प्रकटितेन्दु भालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि संदर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे

2

वृषोपरिपरिस्फुरद्धवलधाम धामश्रियाकुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
रुचिरपुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे

3

उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम्

4

विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि

5

भवद्भवनदेहलीविकटातुण्डदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथाम हे

6

त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तिनीप्रकीर्णसुमनोमनोरनमेरुणा मेरुणा

7

न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव देवानिशं तव भवानि पूजापरः

8

विभूषणसुरापगाशुचितरालवालावलीवलद्बहलसीकरप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम्

9

बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं वटुविमृष्यमाणां भजे

10

त्वदीयसुरवाहिनीविमलवारिधारावलज्जटागहनगाहिनी मतिरियं ममाक्रामतु ।
उपोत्तमसरित्तटीविटपिताटवीप्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो

मूल पाठ: Śivastuti · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 6-8. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc