भाषा

ENहिગુ
ग्रंथ पाठ

शिवसंकल्पोपनिषद् · श्लोक 21-28

21

यो वै वेदादिषु गायत्री सर्वव्यापी महेश्वरः
यद् द्विरुक्तं तथाद्व्यैश्यं तन् मे मनः शिवसंकल्पम् अस्तु

22

यो वै वेद महादेवम् परमं पुरुषोत्तमं
यः सर्वं यस्य चित् सर्वं तन् मे मनः शिवसंकल्पम् अस्तु

23

यो ऽ सौ सर्वेषु वेदेषु पथते ह्य् अज ईश्वरः
अकायो निर्गुणो ध्यात्वा तन् मे मनः शिवसंकल्पम् अस्तु

24

कैलाशशिखरे रम्ये शंकरस्य शुभे गृहे
देवतास् तत्र मोद्य न् ति तन् मे मनः शिवसंकल्पम् अस्तु

25

कैलाशशिखराभासा हि भवद् गिरिसंस्थिताः
नीलक ण् ठं त्रिनेत्रं च तन् मे मनः शिवसंकल्पम् अस्तु

26

आब्रह्मस्तम्बपर्य न् तं त्रैलोक्यं सचराचरम्
उत्पातितं जगद् व्याप्तं तन् मे मनः शिवसंकल्पम् अस्तु

27

य इमं शिवसंकल्पम् सदा ध्याय न् ति ब्राह्मणाः
ते परमोक्षं गमिष्य न् ति तन् मे मनः शिवसंकल्पम् अस्तु

28

त्र्यम्बकं यजामहे सुग न् धिं पुष्टिवर्धनं
उर्वारुकम् इव ब न् धनान् मृत्योर् मुक्षीय मामृतात् तन् मे मनः शिवसंकल्पम् अस्तु

मूल पाठ: Śivasaṃkalpopaniṣad · Edition: Scheftelowitz, Isidor Śivasaṅkalpopaniṣad Zeitschrift der Deutschen Morgenländischen Gesellschaft 75 201-212 · Data entry Maximilian Mehner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc