भाषा

ENहिગુ
ग्रंथ पाठ

शिवसंकल्पोपनिषद् · श्लोक 1-20

1

येनेद ं भूतं भुवनं भविष्यत् परिगृहीतम् अमृतेन सर्वम्
येन यज्ञस् तायते सप्तहोता तन् मे मनश् शिवस ं कल्पम् अस्तु

2

येन कर्माण्य् अपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः
यद् अपूर्वं यक्षम् अन्त ः प्रजाना ं तन् मे मनश् शिवस ं कल्पम् अस्तु

3

यत् प्रज्ञानम् उत चेतो धृतिश् च यज् ज्योतिर् अन्तर् अमृतं प्रजासु
यस्मान् न ऋते कि ं चन कर्म क्रियते तन् मे मनश् शिवस ं कल्पम् अस्तु

4

यज् जाग्रतो दूरम् उदैति दैवं तद् उ सुप्तस्य तथैवैति
दूर ं गमं ज्योतिषां ज्योतिर् एकं तन् मे मनश् शिवस ं कल्पम् अस्तु

5

यस्मिन् ऋचस् साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाव् इवाराः
यस्मि ं श् चित्तं सर्वम् ओतम् प्रजाना ं तन् मे मनश् शिवस ं कल्पम् अस्तु

6

सुषारथिर् अश्वान् इव यन् मनुष्यान् नेनीयतेभीशुभिर् वाजिन इव
हृत्प्रतिष्ठं यद् अजिर ं जविष्ठ ं तन् मे मनश् शिवस ं कल्पम् अस्तु

7

यद् अत्र षष्ठं त्रिशत ं शरीरं यज्ञस्य गुह्य ं नवनाभम् आद्यम्
दश पञ्चत्रि ं शतं यत् पर ं च तन् मे मनश् शिवस ं कल्पम् अस्तु

8

ये पञ्च पञ्चा दशत ं शतं च सहस्रं च नियुतं न्यर्बुदं च
ते यज्ञचित्तेष्टकात्त ं शरीरं तन् मे मनश् शिवस ं कल्पम् अस्तु

9

वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्ण ं तमस ः परस्तात्
तस्य योनिं परिपश्यन्ति धीरास् तन् मे मनश् शिवस ं कल्पम् अस्तु

10

येन कर्माणि प्रचरन्ति धीरा विप्रा वाचा मनसा कर्मणा च
संविदम् अनु संयन्ति प्राणिनस् तन् मे मनश् शिवस ं कल्पम् अस्तु

11

ये मनो हृदयं ये च देवा ये अन्तरिक्षे बहुधा चरन्ति
ये श्रोत्रं चक्षुषी स ं चरन्ति तन् मे मनश् शिवस ं कल्पम् अस्तु

12

येन द्यौर् उग्रा पृथिवी चान्तरिक्षं ये पर्वता ः प्रदिशो दिशश् च
येनेद ं जगद् व्याप्तं प्रजाना ं तन् मे मनश् शिवस ं कल्पम् अस्तु

13

येनेदं सर्वं जगतो बभूवुर् ये देवा अपि महतो जातवेदाः
तद् एवाग्नितपसो ज्योतिर् एक ं तन् मे मनश् शिवस ं कल्पम् अस्तु

14

अचि न् त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत्
सूक्ष्मात् सूक्ष्मतरं ज्ञानं तन् मे मनः शिवसंकल्पम् अस्तु

15

अस्ति विनाशयित्वा सर्वम् इदं नास्ति पुनस् तथैवा दृष्टं ध्रुवं
अस्ति नास्ति हितं मध्यमं पदं तन् मे मनः शिवसंकल्पम् अस्तु

16

अस्ति नास्ति विपरीतो प्रवाहो ऽ स्ति नास्ति सर्वं वा इदं गुह्यम्
अस्ति नास्ति परात् परो यत् परं तन् मे मनः शिवसंकल्पम् अस्तु

17

परात् परतरं यस्य तत्पराच् चैव तत् परं
तत्परात् परतोज्ञेयं तन् मे मनः शिवसंकल्पम् अस्तु

18

परात् परतरो ब्रह्म तत्परात् परतो हरिः
तत्परात् परतो ह्य् एष तन् मे मनः शिवसंकल्पम् अस्तु

19

गोभिर् जुष्टो धनेन ह्य् आयुषा च बलेन च
प्रजया पशुभिः पुष्कलाद्यं तन् मे मनः शिवसंकल्पम् अस्तु

20

प्रयतः प्रणवो नित्यं परमं पुरुषोत्तमं
ओंकारं परम् आत्मानं तन् मे मनः शिवसंकल्पम् अस्तु

मूल पाठ: Śivasaṃkalpopaniṣad · Edition: Scheftelowitz, Isidor Śivasaṅkalpopaniṣad Zeitschrift der Deutschen Morgenländischen Gesellschaft 75 201-212 · Data entry Maximilian Mehner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc