शिवपुराण · अध्याय 1.20
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशो ऽध्यायः
छप्तेर् 20
सूत उवाच
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते
वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी
सूत्रोक्तविधिनास्नात्वासंध्यां कृत्वा यथाविधि
ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत्
नैत्यिकं सकलंकामं विधायानंतरंपुमान् ॥ शिव्प्_1,20. 3अब्।
शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः
वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये
पूजयेत्परयाभक्त्यापार्थिवंलिंगमुत्तमम्
नदीतीरे तडागे च पर्वतेकानने ऽपिच
शिवालये शुचौ देशे पार्थिवार्चा विधीयते
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः
शिवलिंगं प्रकल्पेत सावधानतया द्विजाः
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका
वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत्
संगृह्यमृत्तिकांलिंगनिर्माणार्थंप्रयत्नतः
अतीवशुभदेशेचस्थापयेत्तांमृदंशुभाम्
संशोध्यचजलेनापिपिंडीकृत्य शनैः शनैः
विधीयेतशुभंलिंगंपार्थिवंवेदमार्गतः
ततः संपूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये
तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः
नमः शिवायमंत्रेणार्चनंद्रव्यंचप्रोक्षयेत्
भूरसीतिचमंत्रेणक्षेत्रसिद्धिंप्रकारयेत्
आपोस्मानितिमंत्रेणजलसंस्कारमाचरेत्
नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते
शंभवायेतिमंत्रेणक्षेत्रशुद्धिं प्रकारयेत्
नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम्
नीलग्रीवायमंत्रेणनमःपूर्वेणभक्तिमान्
चरेच्छंकरलिंगस्यप्रतिष्ठापनमुत्तमम्
भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः
आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत्
मानोमहन्तमितिचमंत्रेणावाहनंचरेत्
यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम्
मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच
अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत्
मनुनासौजीव इतिदेवतान्यासमाचरेत्
असौयोवसर्पतीति चाचरेदपसर्पणम्
नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥ शिव्प्_1,20. 19अब्।
अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च
पयःपृथिव्यामिति च पयसास्नानमाचरेत्
दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत्
घृटंस्नानेखलुघृतंघृतंयावेतिमंत्रतः ॥ शिव्प्_1,20. 21अब्।
मधुवातामधुनक्तंमधुमान्न इति त्र्यृचा ॥ शिव्प्_1,20. 21च्द्।
मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम्
अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम्
नमो धृष्णवे इति वा उत्तरीयं च धापयेत्
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम्
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः
नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत् ॥ शिव्प्_1,20. 25च्द्।
नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत्
नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम्
नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा
नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम्
मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम्
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम्
नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत्
मनो महांतमिति च मानस्तोके इति ततः
मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत्
हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत्
देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः
दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत्
पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा
मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम्
मानस्तोकेति मंत्रेण साष्टाङ्गंप्रणमेत्सुधीः
एषते इतिमंत्रेणशिवमुद्रांप्रदर्शयेत् ॥ शिव्प्_1,20. 34अब्।
यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च
नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत्
दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया
पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत्
शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः
ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः
देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम्
इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः
समासतश्चशृणुतवैदिकंविधिमुत्तमम्
ऋचासद्योजातमितिमृदाहरणमाचरेत्
वामदेवाय इति च जलप्रक्षेपमाचरेत्
अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत्
तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि
संयोजयेद्वेदिकायामीशानमनुनाहरम्
अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः
पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः
भवायभवनाशायमहादेवायधीमहि
उग्राय उग्रनाशाय शर्वाय शशिमौलिने
अनेन मनुना वापि पूजयेच्छंकरंसुधीः
सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम्
प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः
पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ शिव्प्_1,20. 46च्द्।
हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक्
शिवः पशुपतिश्चैवमहादेव इति क्रमात्
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच
स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम्
अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात्
कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा
कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा
षडक्षरेणमंत्रेणततोध्यानंसमाचरेत्
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम्
भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम्
ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम्
पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम्
इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम्
जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि
स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः
नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम्
ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा
प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड
कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे
अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया
कृतं तदस्तुसफलंकृपयातवशंकर
अहंपापीमहानद्यपावनश्चभवान्महान्
इतिविज्ञायगौरीशयदिच्छसितथाकुरु
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि
नज्ञातोसिमहादेवकुतोहंत्वंमहाशिव
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि
प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः
ततो गलरवंकृत्वा प्रणमेच्छुचिनम्रधीः
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत्
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः
भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी
इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि
सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात्
आयुरायोग्यदंचैवयशस्यंस्वर्ग्यमेवच
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम्
मूल पाठ: Śivapurāṇa, Books 1 and 7 · Edition: Venkatesvara Steam Press, Bombay (c. 1920) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0