शिर-उपनिषद् · श्लोक 44-45
व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस् तदा संहार्य्यते प्रजाः ।
उच्छ्वसिते तमो भवति तमस आपो ऽप्स्व् अङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनाद् अण्डं भवत्य् अण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायोर् ओंकारः ओंकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद् ध्रुवम् ।
एतद्धि परमं तपः ।
आपो ज्योती रसो ऽमृतं ब्रह्म भूर् भुवः स्वर् ओं नम इति ॥
य इदम् अथर्वशिरो ब्राह्मणो ऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सो ऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वैर् देवैर् ज्ञातो भवति स सर्वैर् वेदैर् अनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिर् इष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति ।
प्रणवानाम् अयुतं जप्तं भवति ।
स चक्षुषः पङ्क्तिं पुनाति ।
आ सप्तमात् पुरुषयुगान् पुनातीत्य् आह भगवान् अथर्वशिरः सकृज् जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जप्त्वा गणाधिपत्यम् आप्नोति ।
तृतीयं जप्त्वैवम् एवानुप्रविशत्य् ओं सत्यम् ओं सत्यम् ओं सत्यम् ।
इत्य् अथर्ववेदे शिरौपनिषत् समाप्ता ॥
मूल पाठ: Śira-upaniṣad (= Atharvaśira-upanisad) · Edition: Ramamaya Tarkaratna In: The Atharvana-Upanishads. Calcutta: Ganesha Press, 1872 (Bibliotheca Indica ; 76) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0