भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · श्लोक 7.8-2

7.8-2.7.1,8.1

ऋषय ऊचुः
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते

7.8-2.7.1,8.1

संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः

7.8-2.7.1,8.2

वायुरुवाच
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते

7.8-2.7.1,8.2

संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि

7.8-2.7.1,8.3

अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः

7.8-2.7.1,8.3

तादृशानां निमेषाणां काष्ठा दश च पञ्च च

7.8-2.7.1,8.4

काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः

7.8-2.7.1,8.4

मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते

7.8-2.7.1,8.5

त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः

7.8-2.7.1,8.6

ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः

7.8-2.7.1,8.7

मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम्

7.8-2.7.1,8.7

लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः

7.8-2.7.1,8.8

एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः

7.8-2.7.1,8.8

दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम्

7.8-2.7.1,8.9

मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः

7.8-2.7.1,8.9

संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा

7.8-2.7.1,8.10

त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि

7.8-2.7.1,8.10

दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः

7.8-2.7.1,8.11

दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते

7.8-2.7.1,8.11

चत्वारि भारते वर्षे युगानि कवयो विदुः

7.8-2.7.1,8.12

पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते

7.8-2.7.1,8.12

द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः

7.8-2.7.1,8.13

चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम्

7.8-2.7.1,8.13

तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः

7.8-2.7.1,8.14

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु

7.8-2.7.1,8.14

एकापायेन वर्तंते सहस्राणि शतानि च

7.8-2.7.1,8.15

एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम्

7.8-2.7.1,8.15

चतुर्युगसहस्रं यत्संकल्प इति कथ्यते

7.8-2.7.1,8.16

चतुर्युगैकसप्तत्या मनोरंतरमुच्यते

7.8-2.7.1,8.16

कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः

7.8-2.7.1,8.17

एतेन क्रमयोगेन कल्पमन्वंतराणि च

7.8-2.7.1,8.17

सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः

7.8-2.7.1,8.18

अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः

7.8-2.7.1,8.18

शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः

7.8-2.7.1,8.19

कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः

7.8-2.7.1,8.19

कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते

7.8-2.7.1,8.20

वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम्

7.8-2.7.1,8.20

सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः

7.8-2.7.1,8.21

सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा

7.8-2.7.1,8.21

कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः

7.8-2.7.1,8.22

तस्य वै दिवसे यांति चतुर्दश पुरंदराः

7.8-2.7.1,8.22

शतानि मासे चत्वारि विंशत्या सहितानि च

7.8-2.7.1,8.23

अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च

7.8-2.7.1,8.23

चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि

7.8-2.7.1,8.24

ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा

7.8-2.7.1,8.24

ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः

7.8-2.7.1,8.25

साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः

7.8-2.7.1,8.25

चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि

7.8-2.1

तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ ७.१,८.२६*

7.8-2.1

यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ ७.१,८.२६*

7.8-2.2

एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ ७.१,८.२६*

7.8-2.2

रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ ७.१,८.२६*

7.8-2.7.1,8.27

अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः

7.8-2.7.1,8.27

अहर्न विद्यते तस्य न रात्रिरिति धारयेत्

7.8-2.7.1,8.28

एषोपचारः क्रियते लोकानां हितकाम्यया

7.8-2.7.1,8.28

प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः

7.8-2.7.1,8.29

इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च

7.8-2.7.1,8.29

तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः

7.8-2.7.1,8.30

अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः

7.8-2.7.1,8.30

अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः

7.8-2.7.1,8.31

यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया

7.8-2.7.1,8.31

यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc