भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.21

3.21.1

॥नन्दीश्वर उवाच ॥
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ॥
शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम्

3.21.2

एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ॥
विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ

3.21.3

भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ॥
नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ

3.21.4

चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ॥
बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने

3.21.5

अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ॥
आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा

3.21.6

तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ॥
निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः

3.21.7

नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ॥
कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका

3.21.8

॥ शिवोवाच ॥
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ॥
अतो भव धरायां हि मानुषस्त्वं च भैरव

3.21.9

नन्दीश्वर उवाच ॥
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ॥
हाहाकारो महानासीद्दुःखमाप स लीलया

3.21.3.21.10

ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ॥
आश्वासयद्भैरवं हि नानाऽनुनयकोविदः

3.21.11

तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥
मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया

3.21.12

तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥
शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः

3.21.13

महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥
सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ

3.21.14

इति ते कथितं तात महेशचरितं वरम् ॥
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्

3.21.15

य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात्

3.21.21

इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc