भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.29

2.3.29.1

नारद उवाच ॥
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्॥ ॥
तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः

2.3.29.2

ब्रह्मोवाच॥
देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा॥
तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम्

2.3.29.3

पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ॥
दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज

2.3.29.4

प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ॥
अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा

2.3.29.5

पार्वत्युवाच ॥
त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ॥
दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात्

2.3.29.6

स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ॥
देवानां देव देदेश तारकाप्ताऽसुखात्मनाम्

2.3.29.7

यदि प्रसन्नो देवेश करोषि च कृपां यदि ॥
पतिर्भव ममेशान मम वाक्यं कुरु प्रभो

2.3.29.8

पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ॥
प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः

2.3.29.9

गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ॥
याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः

2.3.29.2.3.29.10

तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ॥
पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम्

2.3.29.11

ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ॥
करिष्यति न संदेहस्तव वाक्यं पिता मम

2.3.29.12

दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ॥
यथोक्तविधिना तत्र विवाहो न कृतस्त्वया

2.3.29.13

न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ॥
ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत्

2.3.29.14

तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ॥
विवाहं त्वं महादेव देवानां कार्य्यसिद्धये

2.3.29.15

विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ॥
जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः

2.3.29.16

ब्रह्मोवाच ॥ इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ॥
प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ।

2.3.29.17

शिव उवाच ॥
शृणु देवि महेशानि परमं वचनं मम ॥
यथोचितं सुमाङ्गल्यमविकारि तथा कुरु

2.3.29.18

ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ॥
दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि

2.3.29.19

एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः॥।
ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत्

2.3.29.2.3.29.20

स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम्॥
सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि

2.3.29.21

मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ॥
सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च

2.3.29.22

के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः॥
किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि

2.3.29.23

गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ॥
भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः

2.3.29.24

त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी॥
व्यापारदक्षा सततं सगुणा निर्गुणापि च

2.3.29.25

सर्वेषामिह भूतानामहमात्मा सुमध्यमे॥
निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः

2.3.29.26

हिमालयं न गच्छेयं जनकं तव शैलजे ॥
ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन

2.3.29.27

महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ॥
देहीतिवचनात्सद्यः पुरुषो याति लाघवम्

2.3.29.28

इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ॥
कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु

2.3.29.29

॥ ब्रह्मोवाच ॥
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ॥
जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः

2.3.29.2.3.29.30

पार्वत्युवाच ॥
त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ॥
स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि

2.3.29.31

प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ॥
याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर

2.3.29.32

कृपां कुरु महेशान तव भक्तास्मि नित्यशः ॥
तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि

2.3.29.33

त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ॥
निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः

2.3.29.34

तथापि सगुणोपीह भक्तोद्धारपरायणः ॥
विहारी स्वात्मनिरतो नानालीलाविशारदः

2.3.29.35

सर्वथा त्वामहं जाने महादेव महेश्वर ॥
किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु

2.3.29.36

विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ॥
यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः

2.3.29.37

ब्रह्मोवाच ॥
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ॥
विरराम महेशानं नतस्कन्धा कृतांजलिः

2.3.29.38

इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ॥
तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव

2.3.29.39

ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ॥
कैलासं प्रययौ काल्या विरहाकृष्टमानसः

2.3.29.2.3.29.40

तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ॥
वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः

2.3.29.41

तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः॥
बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्

2.3.29.42

सुमंगलं तत्र द्विज बभूवातीव नारद ॥
सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम्

2.3.29.29

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc