भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.2

2.3.2.1

नारद उवाच ॥
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ॥
अपि शापं समाचक्ष्व कुरु संदेहभंजनम्

2.3.2.2

ब्रह्मोवाच ॥
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ॥
मुनिभिः सह वक्ष्येहं सुतवर्य्य महाबुध

2.3.2.3

दक्षनामा मम सुतो यः पुरा कथितो मुने ॥
तस्य जाताः सुताः षष्टिप्रमितास्सृष्टिकारणाः

2.3.2.4

तासां विवाहमकरोत्स वरैः कश्यपादिभिः ॥
विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद

2.3.2.5

तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ॥
तिस्रोभवन्सुतास्तस्यास्सुभगा धर्ममूर्तयः

2.3.2.6

तासां नामानि शृणु मे पावनानि मुनीश्वर ॥
सदा विघ्नहराण्येव महामंगलदानि च

2.3.2.7

मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती॥
अन्त्या एतास्सुतास्सर्वाः पितॄणाम्मानसोद्भवाः

2.3.2.8

अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः॥।
आसाम्प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत्

2.3.2.9

जगद्वंद्याः सदा लोकमातरः परमोददाः ॥
योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः

2.3.2.2.3.2.10

एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ॥
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे

2.3.2.11

कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ॥
तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत्

2.3.2.12

तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ॥
गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया

2.3.2.13

सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ॥
तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान्

2.3.2.14

तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने ॥
मायया दैवविवशाश्शङ्करस्य परात्मनः

2.3.2.15

मोहिनी सर्व लोकानां शिवमाया गरीयसी ॥
तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते

2.3.2.16

प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ॥
शिवेच्छया भवत्येव नात्र कार्या विचारणा

2.3.2.17

भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम्॥
विस्मितास्सम्प्रदृश्यैव संस्थितास्तत्र केवलम्

2.3.2.18

तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ॥
ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते

2.3.2.19

शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ॥
सनत्कुमारो योगीशश्शापन्दण्डकरं ददन्

2.3.2.2.3.2.20

सनत्कुमार उवाच ॥
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ॥
अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम्

2.3.2.21

अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः ॥
मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि

2.3.2.22

नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः ॥
स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम्

2.3.2.23

॥ ब्रह्मोवाच ॥
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ॥
पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः

2.3.2.24

पितृतनया ऊचुः ॥
मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना ॥
त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः

2.3.2.25

प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ॥
अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिम्पुनः

2.3.2.26

ब्रह्मोवाच ॥
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ॥
शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया

2.3.2.27

सनत्कुमार उवाच ॥
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ॥
वचनं मम शोकघ्नं सुखदं सर्वदैव वः

2.3.2.28

विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ॥
ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती

2.3.2.29

धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ॥
तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति

2.3.2.2.3.2.30

वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ॥।
भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः

2.3.2.31

मेनका योगिनी पत्या पार्वत्याश्च वरेण च ॥
तेन देहेन कैलासं गमिष्यति परम्पदम्

2.3.2.32

धन्या च सीतया सीरध्वजो जनकवंशजः ॥
जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति

2.3.2.33

कलावती वृषभानस्य कौतुकात्कन्यया सह ॥
जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः

2.3.2.34

विना विपत्तिं महिमा केषां कुत्र भविष्यति ॥
सुकर्मिणां गते दुःखे प्रभवेद्दुर्लभं सुखम्

2.3.2.35

यूयं पितॄणां तनयास्सर्वास्स्वर्गविलासिकाः ॥
कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात्

2.3.2.36

इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ॥
शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम्

2.3.2.37

अपरं शृणुत प्रीत्या मद्वचस्सुखदं सदा ॥
धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः

2.3.2.38

मेनायास्तनया देवी पार्वती जगदम्बिका ॥
भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम्

2.3.2.39

धन्या सुता स्मृता सीता रामपत्नी भविष्यति ॥
लौकिकाचारमाश्रित्य रामेण विहरिष्यति

2.3.2.2.3.2.40

कलावतीसुता राधा साक्षाद्गोलोकवासिनी ॥
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति

2.3.2.41

ब्रह्मोवाच ॥ इत्थमाभाष्य स मुनिर्भ्रातृभिस्सह संस्तुतः ॥
सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत्

2.3.2.42

तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः ॥
गतपापास्सुखं प्राप्य स्वधाम प्रययुर्द्रुतम्

2.3.2.2

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc