शिव पुराण · अध्याय 2.3.10
नारद उवाच ॥
विष्णुशिष्य महाभाग विधे शैववर प्रभो ॥
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि
सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ॥
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम्
शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ॥
तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती
तत्सर्वमपरं चापि शिवसच्चरितं परम् ॥
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम्
सूत उवाच ॥
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ॥
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम्
ब्रह्मोवाच ॥ देवर्षे शैववर्याय तद्यशः शृणु चादरात् ॥
पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम्
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ॥
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा
गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ॥
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम्
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ॥
पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः
दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ॥
पुनश्च गिरिमायातश्शंकरो भक्तशंकरः
समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ॥
चकार च ददर्शासौ स्वरूपं निजमव्ययम्
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ॥
निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः
ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ॥
यदा तदा बभूवाशु चरितं तद्वदामि वः
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ॥
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम्
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ॥
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ॥
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ॥
आविर्बभूव तत्रैव भयमानीय शंकरात्
तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ॥
स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम्
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ॥
सत्यभावात्स्वयं माता परमेशहितावहा
तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ॥
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ॥
त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम्
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ॥
त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा
असौ बालः कुदाता हि भविष्यति गुणी तव ॥
ममापि सुखदाता हि गृहाणैनं यथारुचि
ब्रह्मोवाच ॥
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ॥
लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ॥
स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ॥
तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम्
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ॥
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम्
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम्॥
तपस्याचरणं शम्भोश्शृणु चादरतो मुने
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0