भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.1

2.1.1.1

श्रीगणेशायः नमः ॥
॥ श्रीगौरीशंकराभ्यां नमः ॥ ॥
अथ द्वितीया रुद्रसंहिता प्रारभ्यते ॥ ॥
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ॥ मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि

2.1.1.2

वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि ॥
स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः

2.1.1.3

वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे ॥
जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम्

2.1.1.4

व्यास उवाच ॥
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ॥
तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे

2.1.1.5

एकदा मुनयस्सर्वे नैमिषारण्य वासिनः ॥
पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः

2.1.1.6

ऋषय ऊचुः ॥
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ॥
साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला

2.1.1.7

सूत सूत महाभाग चिरञ्जीव सुखी भव ॥
यच्छ्रावयसि नस्तात शांकरीं परमां कथाम्

2.1.1.8

पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्॥
अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ

2.1.1.9

व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ॥
नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्

2.1.1.2.1.1.10

गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ॥
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः

2.1.1.11

इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ॥
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः

2.1.1.12

अगुणो गुणतां याति कथं लोके महेश्वरः ॥
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः

2.1.1.13

सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते ॥
सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः

2.1.1.14

तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः ॥
कथम्प्रसन्नतां याति शंकरो लोकशंकरः

2.1.1.15

स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ॥
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः

2.1.1.16

सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम॥
भक्तप्रयासं स महान्न पश्यति दयापरः

2.1.1.17

ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः ॥
महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः

2.1.1.18

तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो

2.1.1.19

तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ॥
एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ

2.1.1.2.1.1.20

व्यास उवाच॥
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान्

2.1.1.21

सूत उवाच ॥
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः॥
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः

2.1.1.22

सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ॥
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा

2.1.1.23

शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा

2.1.1.24

गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ॥
मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै

2.1.1.25

कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ॥
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात्

2.1.1.26

भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ॥
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा

2.1.1.27

ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः ॥
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम्

2.1.1.28

व्यास ॥
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ॥
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः

2.1.1.29

ऋषय ऊचुः ॥
सूत सूत महाभाग शैवोत्तम महामते ॥
श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम्

2.1.1.2.1.1.30

कदा बभूव सुखकृद्विधिनारदयोर्महान् ॥
संवादो यत्र गिरिशसु लीला भवमोचिनी

2.1.1.31

विधिनारदसंवादपूर्वकं शांकरं यशः ॥
ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः

2.1.1.32

इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥
सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः

2.1.1.1

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc