भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · श्लोक 1.7-2

1.7-2.1,7.1

ईश्वर उवाच
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात्

1.7-2.1,7.1

जगच्च देवतावंशः स्वस्वकर्मणि किं नवा

1.7-2.1,7.2

प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः

1.7-2.1,7.2

भवतामभितापेन पौनरुक्त्येन भाषितम्

1.7-2.1,7.3

इति सस्मितया माध्व्या कुमारपरिभाषया

1.7-2.1,7.3

समतोषयदंबायाः स पतिस्तत्सुरव्रजम्

1.7-2.1,7.4

अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः

1.7-2.1,7.4

आज्ञापयद्गणेशानां शतं तत्रैव संसदि

1.7-2.1,7.5

ततो वाद्यं बहुविधं प्रयाणाय परेशितुः

1.7-2.1,7.5

गणेश्वराश्च संनद्धा नानावाहनभूषणाः

1.7-2.1,7.6

प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम्

1.7-2.1,7.6

आरुरोह रथं भद्रमंबिकापतिरीश्वरः

1.7-2.1,7.6

ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः

1.7-2.7

चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ १,७.

1.7-2.1,7.7

संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः

1.7-2.1,7.8

समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः

1.7-2.1,7.8

समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः

1.7-2.1,7.9

अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम्

1.7-2.1,7.9

माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च

1.7-2.1,7.10

अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम्

1.7-2.1,7.10

ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम्

1.7-2.1,7.11

महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः

1.7-2.1,7.12

ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे

1.7-2.1,7.12

निपतेतुः क्षणे नैव ह्याविर्भूते महानले

1.7-2.1,7.13

दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम्

1.7-2.1,7.13

किमेतदद्भुताकारमित्यूचुश्च परस्परम्

1.7-2.1,7.14

अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम्

1.7-2.1,7.14

अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि

1.7-2.1,7.15

इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ

1.7-2.1,7.15

तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम्

1.7-2.1,7.16

आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत्

1.7-2.1,7.16

इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान्

1.7-2.1,7.17

तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ

1.7-2.1,7.17

भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः

1.7-2.1,7.18

ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः

1.7-2.1,7.18

श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम्

1.7-2.1,7.19

अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव

1.7-2.1,7.19

ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम्

1.7-2.1,7.20

अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा

1.7-2.1,7.20

अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः

1.7-2.1,7.21

परिहासं तु कृतवान्कंपनाच्चलितं शिरः

1.7-2.1,7.21

तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम्

1.7-2.1,7.22

किं त्वं पतसि पुष्पेश पुष्पराट्केन वा धृतम्

1.7-2.1,7.22

आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम्

1.7-2.1,7.23

न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने

1.7-2.1,7.23

अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः

1.7-2.1,7.24

इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम्

1.7-2.1,7.24

मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ

1.7-2.1,7.25

स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत

1.7-2.1,7.25

इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः

1.7-2.1,7.25

असत्यमपि शस्तं स्यादापदीत्यनुशासनम्

1.7-2.1,7.26

समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात्

1.7-2.1,7.26

उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम्

1.7-2.1,7.27

स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम्

1.7-2.1,7.27

ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके

1.7-2.1,7.28

हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम्

1.7-2.1,7.28

षोडशैरुपचारैश्च पूजयामास तं विधिम्

1.7-2.1,7.29

विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः

1.7-2.1,7.29

समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम्

1.7-2.1,7.30

आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः

1.7-2.1,7.30

स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या

1.7-2.1,7.31

ईश्वर उवाच
वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम्

1.7-2.1,7.31

ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः

1.7-2.1,7.32

इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च

1.7-2.1,7.33

इति देवः पुरा प्रीतः सत्येन हरये परम्

1.7-2.1,7.33

ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc