भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 1.20

1.20.1

सूत उवाच ।
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते ।
वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी

1.20.2

सूत्रोक्तविधिना स्नात्वा संध्यां कृत्वा यथाविधि ।
ब्रह्मयज्ञं विधायादौ ततस्तर्प्पणमाचरेत्

1.20.3

नैत्यिकं सकलं कामं विधायानंतरं पुमान् ।
शिवस्मरणपूर्वं हि भस्मरुद्रा क्षधारकः

1.20.4

वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये ।
पूजयेत्परया भक्त्या पार्थिवं लिंगमुत्तमम्

1.20.5

नदीतीरे तडागे च पर्वते काननेऽपि च ।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते

1.20.6

शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः ।
शिवलिंगं प्रकल्पेत सावधानतया द्विजाः

1.20.7

विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका ।
वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत्

1.20.8

संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः ।
अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम्

1.20.9

संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः ।
विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः

1.20.1.20.10

ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये ।
तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः

1.20.11

नमः शिवाय मंत्रेणार्चनद्र व्यं च प्रोक्षयेत् ।
भूरसीति च मंत्रेण क्षेत्रसिद्धिं प्रकारयेत्

1.20.12

आपोस्मानिति मंत्रेण जलसंस्कारमाचरेत् ।
नमस्ते रुद्र मंत्रेण फाटिकाबंधमुच्यते

1.20.13

शंभवायेति मंत्रेण क्षेत्रशुद्धिं प्रकारयेत् ।
नमः पूर्वेण कुर्यात्पंचामृतस्यापि प्रोक्षणम्

1.20.14

नीलग्रीवाय मंत्रेण नमःपूर्वेण भक्तिमान् ।
चरेच्छंकरलिंगस्य प्रतिष्ठापनमुत्तमम्

1.20.15

भक्तितस्तत एतत्ते रुद्रा येति च मंत्रतः ।
आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत्

1.20.16

मानो महन्तमिति च मंत्रेणावाहनं चरेत् ।
याते रुद्रे ण मंत्रेण संचरेदुपवेशनम्

1.20.17

मंत्रेण यामिषुमिति न्यासं कुर्य्याच्छिवस्य च ।
अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत्

1.20.18

मनुना सौजीव इति देवतान्यासमाचरेत् ।
असौ योवसर्पतीति चाचरेदपसर्पणम्

1.20.19

नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ।
अर्घ्यं च रुद्र गायत्र्! याऽचमनं त्र्! यंबकेण च

1.20.1.20.20

पयः पृथिव्यामिति च पयसा स्नानमाचरेत् ।
दधिक्राव्णेतिमंत्रेण दधिस्नानं च कारयेत्

1.20.21

घृटं स्नाने खलु घृतं घृतं यावेति मंत्रतः ।
मधुवाता मधुनक्तं मधुमान्न इति त्र्! यृचा

1.20.22

मधुखंडस्नपनं प्रोक्तमिति पंचामृतं स्मृतम् ।
अथवा पाद्यमंत्रेण स्नानं पंचामृतेन च

1.20.23

मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् ।
नमो धृष्णवे इति वा उत्तरीयं च धापयेत्

1.20.24

या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः ।
शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम्

1.20.25

नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः ।
नमस्तक्षभ्य इति चाक्षतान्मंत्रेण चार्पयेत्

1.20.26

नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् ।
नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम्

1.20.27

नमः कपर्दिने चेति धूपं दद्याद्यथाविधि ।
दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा

1.20.28

नमो ज्येष्ठाय मंत्रेण दद्यान्नैवेद्यमुत्तमम् ।
मनुना त्र्! यम्बकमिति पुनराचमनं स्मृतम्

1.20.29

इमा रुद्रा येति ऋचा कुर्यात्फलसमर्पणम् ।
नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत्

1.20.1.20.30

मानो महांतमिति च मानस्तोके इति ततः ।
मंत्रद्वयेनैकदशाक्षतै रुद्रा न्प्रपूजयेत्

1.20.31

हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् ।
देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः

1.20.32

दीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् ।
पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा

1.20.33

मानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् ।
मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः

1.20.34

एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् ।
यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च

1.20.35

नमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् ।
दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया

1.20.36

पंचमुद्रा ः! प्रदर्श्याथ शिवमंत्रजपं चरेत् ।
शतरुद्रि यमंत्रेण जपेद्वेदविचक्षणः

1.20.37

ततः पंचाण्गपाठं च कुर्य्याद्वेदविचक्षणः ।
देवागात्विति मंत्रेण कुर्याच्छंभोर्विसर्जनम्

1.20.38

इत्युक्तः शिवपूजाया व्यासतो वैदिकोविधिः ।
समासतश्च शृणुत वैदिकं विधिमुत्तमम्

1.20.39

ऋचा सद्योजातमिति मृदाहरणमाचरेत् ।
वामदेवाय इति च जलप्रक्षेपमाचरेत्

1.20.1.20.40

अघोरेण च मंत्रेण लिंगनिर्माणमाचरेत् ।
तत्पुरुषाय मंत्रेणाह्वानं कुर्याद्यथाविधि

1.20.41

संयोजयेद्वेदिकायामीशानमनुना हरम् ।
अन्यत्सर्वं विधानं च कुर्य्यात्संक्षेपतः सुधीः

1.20.42

पंचाक्षरेण मंत्रेण गुरुदत्तेन वा तथा ।
कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः

1.20.43

भवाय भवनाशाय महादेवाय धीमहि ।
उग्राय उग्रनाशाय शर्वाय शशिमौलिने

1.20.44

अनेन मनुना वापि पूजयेच्छंकरं सुधीः ।
सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः

1.20.45

इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।
प्रोच्यतेन्यविधिः सम्यक्साधारणतया द्विजः

1.20.46

पूजा पार्थिवलिंगस्य संप्रोक्ता शिवनामभिः ।
तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम्

1.20.47

हरो महेश्वरः शंभुः शूलपाणिः पिनाकधृक् ।
शिवः पशुपतिश्चैव महादेव इति क्रमात्

1.20.48

मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम्

1.20.49

ॐकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् ।
कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा

1.20.1.20.50

कृत्वा न्यासविधिं सम्यक्षडण्गकरयोस्तथा ।
षडक्षरेण मंत्रेण ततो ध्यानं समाचरेत्

1.20.51

कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् ।
भक्तार्तिदावानलमप्रमेयं ध्यायेदुमालिंगितविश्वभूषणम्

1.20.52

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचंद्रा वतंसं रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समंतात्स्थितममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्

1.20.53

इति ध्यात्वा च संपूज्य पार्थिवं लिंगमुत्तमम् ।
जपेत्पंचाक्षरं मंत्रं गुरुदत्तं यथाविधि

1.20.54

स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः ।
नानाभिधाभिर्विप्रेन्द्रा ः! पठेद्वै शतरुद्रि यम्

1.20.55

ततः साक्षतपुष्पाणि गृहीत्वांजलिना मुदा ।
प्रार्थयेच्छंकरं भक्त्या मंत्रैरेभिः सुभक्तितः

1.20.56

तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहं सदा मृड ।
कृपानिध इति ज्ञात्वा भूतनाथ प्रसीद मे

1.20.57

अज्ञानाद्यदि वा ज्ञानाज्जप पूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शंकर

1.20.58

अहं पापी महानद्य पावनश्च भवान्महान् ।
इति विज्ञाय गौरीश यदिच्छसि तथा कुरु

1.20.59

वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि ।
न ज्ञातोसि महादेव कुतोहं त्वं महाशिव

1.20.1.20.60

यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर ।
रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर

1.20.61

इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि ।
प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने

1.20.62

ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः ।
पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः

1.20.63

ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः ।
कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत्

1.20.64

इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी

1.20.65

इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि ।
सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात्

1.20.66

आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च ।
पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम्

1.20.20

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवशिवलिंगपूजाविधिवर्णनं नाम विंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc