शिव गीता · अध्याय 15
भक्तिस्ते कोइशी देव जायते वा कर्थ च सा ।
यथा निर्वाणरूपं तु लभते मोक्षमुत्तमम्
त्द्रूहि गिरिजाकान्त प्राप्यते येन निर्वृतिः
श्रीभगवानुवाच ।
यो वेदाध्ययनं यज्ञं दानानि विविधानि च ॥
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः
नर्यभस्म समादाय विशुद्ध श्रोत्रियालयात् ।
अग्निरिलत्यादिभिर्मन्त्रैरभिमन्त्रय यथाविधि
उद्धूलयति गात्राणि तेन चार्चति मामपि ॥
तस्मात्परतरा भक्तिर्मम राम न विद्यते
सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ।
पञ्चाक्षरीजपपरः स मे भक्तः स मे प्रियः
भस्मच्छन्नेओ भस्मशायी सर्वदा विजितेन्द्रियः ।
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः
स तेनैव च देहेन शिवः संजायते स्वयम् ॥
जपेद्यो रुद्रसूक्तानि तथाऽथर्वशिरः परम्
कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ।
ततः परतरो भक्तो मम लोके न विद्यते
अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात्।
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु
वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च ।
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतमू
यदिच्छन्तो ब्रह्मचर्य चरन्ति मुनयः सदा ।
तत्ते पदं संग्रहेण प्रब्रविष्यामि यत्पदम्
एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते
छन्दसां यस्तु धेनूनामृषभत्वेन, चोदितः ।
इदमेव पतिः सेतुरमृतस्य च धारणात्
मेदसा पिहिते कोशे ब्रह्म यत्परमोमिति
चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा ।
मकारक्ष्चावसानेऽर्धमात्रेतेइ परिकीर्तिता
पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ॥
गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा
द्वितीया तु भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा ॥ "
यमुना दक्षिणाग्निश्च मध्यंदिनसवः स्मृतः
तृतीया च सुवः सामान्यादित्यश्च महेश्वरः ।
अग्निराहवनीयक्ष्च जगती च सरस्वती
तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ॥
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा
अथर्वाङ्गेइरसः संवर्तकोऽग्निश्च महस्तथा ॥
विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः
प्रथमा रक्तवर्णा स्याद्वितीय भास्वर मता ।
तृतीया विद्युदाभासा चतुर्थी शुकलवर्णिनी
जातं च जायमानं च तदोंकारे प्रतिष्ठितम् ॥
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा
जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते ॥
तस्मिन्नेव पुनः प्राणः सर्वमोंकार उच्यते
प्रविलीनं तदोंकारे परं ब्रह्म सनातनम्।
तस्मादोंकारजापी यः स मुक्तो नात्र संशयः
त्रेताझेः स्मार्तवहेर्वा शैवाग्नेवा समाहितम् ।
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ।
तस्मात्परतरो भक्तो मम लोके न विद्यते
शालाग्नेर्दाववहेर्वा भस्मानीयाभिमन्त्रितम् ।
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते
कुशपुष्पैर्बिल्वदलै: पुष्पैर्वा गिरिसंभवै:।
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः
पुष्पं फलं समूलं वा पत्रं सलिलमेव वा ।
यो दद्यात्प्रणवैर्मह्यं तत्कोटिगुणितं भवेत्
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
यस्यास्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः
प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ।
स परां श्रियमामोति पश्चान्मयि विलीयते
अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि ।
भूतिभूषितसर्वाङ्गो यः पूजयति मां निशि ॥
कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः
एकादश्यामुपोष्यैव यः पूजयुति मां निशि ।
सोमवारे विशेषेण स मे भक्तो न नश्यति
पञ्चामृतैः स्नापयेद्यः पञ्चगव्येन वा पुनः ॥
पुष्पोदकैः कुशजलैस्तस्मान्नान्यः प्रियो मम
पयसा सर्पिषा चापि मधुनेक्षुरसेन वा ।
पक्कास्म्रफलजेनापि नारिकेलजलेन वा
गन्धोदकेन वा मां यो रुद्रमन्त्र समुचरन् ।
अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतमो मम
आदित्याभिमुखो भूत्वा ह्यूर्ध्वबाहुर्जले स्थितः ।
मां ध्यायन्रविबिम्बस्थमथर्वाङ्गिरसं जपेत्
प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ।
बृहद्रथन्तरं वामदेव्यं देवत्रतानि च
तद्योगयाज्यदेहांश्व यो गायति ममाग्रतः ।
इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात्
ईशावास्यादिमन्त्रान्यो जपेन्नित्यं ममाग्रतः ॥
मत्सायुज्यमवाप्नोति मम लोके महीयते
भक्तियोगो मया प्रोक्त एवं रघुकुलोद्धह।
सर्वकामप्रदोऽमर्त्यः किमन्यच्छ्रोतुमिच्छसि
मूल पाठ: śivagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0