भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 4.5.3

4.5.3.4.5.3.1

४.५.३ षोडशीग्रहः
इन्द्रो ह वै षोडशी । तं नु सकृदिन्द्रं भूतान्यत्यरिच्यन्त प्रजा वै भूतानि ता हैनेन सदृग्भवमिवासुः -

4.5.3.4.5.3.2

इन्द्रो ह वा ईक्षां चक्रे । कथं न्वहमिदं सर्वमतितिष्ठेयमर्वागेव मदिदं सर्वं स्यादिति स एतं ग्रहमपश्यत्तमगृह्णीत स इदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति -

4.5.3.4.5.3.3

तस्मादेतदृषिणाभ्यानूक्तम् । न ते महित्वमनुभूदध द्यौर्यदन्यया स्फिग्या क्षामवस्था इति न ह वा अस्यासौ द्यौरन्यतरां चन स्फिचीमनुबभूव तथेदं सर्वमेवात्यतिष्ठदर्वागेवास्मादिदं सर्वमभवत्सर्वं ह वा इदमतितिष्ठत्यर्वागेवास्मादिदं सर्वं भवति यस्यैवं विदुष एतं ग्रहं गृह्णन्ति -

4.5.3.4.5.3.4

तं वै हरिवत्यर्चा गृह्णाति । हरिवतीषु स्तुवते हरिवतीरनुशंसति वीर्यं वै हर इन्द्रोऽसुराणां सपत्नानां समवृङ्क्त तथो एवैष एतद्वीर्यं हरः सपत्नानां संवृङ्क्ते तस्माद्धरिवत्यर्चा गृह्णाति हरिवतीषु स्तुवते हरिवतीरनुशंसति -

4.5.3.4.5.3.5

तं वा अनुष्टुभा गृह्णाति । गायत्रं वै प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनमथातिरिक्तानुष्टुबत्येवैनमेतद्रेचयति तस्मादनुष्टुभा गृह्णाति -

4.5.3.4.5.3.6

तं वै चतुःस्रक्तिना पात्रेण गृह्णाति । त्रयो वा इमे लोकास्तदिमानेव लोकांस्तिसृभिः स्रक्तिभिराप्नोत्यत्येवैनं चतुर्थ्या स्रक्त्या रेचयति तस्माच्चतुःस्रक्तिना पात्रेण गृह्णाति -

4.5.3.4.5.3.7

तं वै प्रातःसवने गृह्णीयात् । आग्रयणं गृहीत्वा स प्रातःसवने गृहीत एतस्मात्कालादुपशेते तदेनं सर्वाणि सवनान्यतिरेचयति -

4.5.3.4.5.3.8

माध्यन्दिने वैनं सवने गृह्णीयात् । आग्रयणं गृहीत्वा सो एषा मीमांसैव प्रातःसवन एवैनं गृह्णीयादाग्रयणं गृहीत्वा स प्रातःसवने गृहीत ऐतस्मात्कालादुपशेते -

4.5.3.4.5.3.9

अथातो गृह्णात्येव । आतिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति -

4.5.3.4.5.3.10

अनया वा । युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर उपयामगृहीतोऽसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्राय त्वा षोडशिन इति -

4.5.3.4.5.3.11

अथेत्य स्तोत्रमुपाकरोति । सोमोऽत्यरेच्युपावर्तध्वमित्यत्येवैनमेतद्रेचयति तं वै पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति तदेनेनाहोरात्रे संदधाति तस्मात्पुरास्तमयादुपाकरोत्यस्तमितेऽनुशंसति -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc