भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 14.8.2

14.8.2.14.8.2

दमदानदयेति त्रिकोपदेशब्राह्मणम्
त्रयाः प्राजापत्याः। प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुराः -

14.8.2.14.8.2

उषित्वा ब्रह्मचर्यं देवा ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति-

14.8.2.14.8.2

अथ हैनं मनुष्या ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति -

14.8.2.14.8.2

अथ हैनमसुरा ऊचुः ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्ददद इति दाम्यत दत्तदयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc