भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 14.6.2

14.6.2.14.6.2.1

आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ। याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति -

14.6.2.14.6.2.2

प्राणो वै ग्रहः। सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति -

14.6.2.14.6.2.3

जिह्वा वै ग्रहः। स रसेनातिग्रहेण गृहीतो जिह्वया हि रसान्विजानाति -

14.6.2.14.6.2.4

वाग्वै ग्रहः। स नाम्नाऽतिग्रहेण गृहीतो वाचा हि नामान्यभिवदति -

14.6.2.14.6.2.5

चक्षुर्वै ग्रहः। स रूपेणातिग्रहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति -

14.6.2.14.6.2.6

श्रोत्रं वै ग्रहः। स शब्देनातिग्रहेण गृहीतः श्रोत्रेण हि शब्दाञ्छृणोति -

14.6.2.14.6.2.7

मनो वै ग्रहः। स कामेनातिग्रहेण गृहीतो मनसा हि कामान्कामयते -

14.6.2.14.6.2.8

हस्तौ वै ग्रहः। स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति -

14.6.2.14.6.2.9

त्वग्वै ग्रहः। स स्पर्शेनातिग्रहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्यष्टौ ग्रहाऽअष्टावतिग्रहाः -

14.6.2.14.6.2.10

याज्ञवल्क्येति होवाच। यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं जयति -

14.6.2.14.6.2.11

याज्ञवल्क्येति होवाच। यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति -

14.6.2.14.6.2.12

याज्ञवल्क्येति होवाच। यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते -

14.6.2.14.6.2.13

याज्ञवल्क्येति होवाच। यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातम्प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सौम्य हस्तम् -

14.6.2.14.6.2.14

आर्तभागेति होवाच। आवमेवैतद्वेदिष्यावो न नावेतत्सजन इति तौ होत्क्रम्य मन्त्रयाञ्चक्रतुस्तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc