भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 11.8.1

11.8.1.11.8.1.1

११.८.१ अग्निहोत्रे महौपस्थानम्
तद्यथा ह वै। इदं रथचक्रं वा कौलालचक्रं वा प्रतिष्ठितं क्रन्देदेवं हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः -

11.8.1.11.8.1.2

स ह प्रजापतिरीक्षां चक्रे। कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं जीमूतैश्च नक्षत्रैश्च दिवम् -

11.8.1.11.8.1.3

स मह इति व्याहरत्। पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति भूयिष्ठमस्य कुले महीयन्ते बहवो ह वा अस्यैते भवन्ति भूयिष्ठं हास्य कुले महीयन्ते तस्माद्यद्येनमायतनाद्बाधेरन्वा प्र वा यापयेयुरग्निहोत्रं हुत्वा मह इत्युपतिष्ठेत प्रति प्रजया पशुभिस्तिष्ठति नायतनाच्च्यवते -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc