भाषा

ENहिગુ
ग्रंथ पाठ

शतपथब्राह्मणम् · अध्याय 11.2.2

11.2.2.11.2.2.1

गायत्रीमनुवाक्यामन्वाह। त्रिपदा वै गायत्री त्रय इमे लोका इमानेवैतल्लोकान्देवाः प्रत्यष्ठापयन् -

11.2.2.11.2.2.2

अथ त्रिष्टुभा यजति। चतुष्पदा वै त्रिष्टुप्चतुष्पादाः पशवस्तत्पशूनेवैतदेषु लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन् -

11.2.2.11.2.2.3

द्व्यक्षरो वषट्कारः। द्विपाद्वै पुरुषस्तत्पुरुषमेवैतद्द्विपादमेषु पशुषु प्रतिष्ठितेषु प्रत्यष्ठापयन् -

11.2.2.11.2.2.4

सोऽयं द्विपात्पुरुषः। पशुषु प्रतिष्ठित एवमेवैष एतल्लोकान्प्रतिष्ठापयति लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति पशुषु प्रतिष्ठितेष्वात्मानं प्रतिष्ठापयत्येवमेष पुरुषः पशुषु प्रतिष्ठितो य एवं विद्वान्यजते -

11.2.2.11.2.2.5

अथ यद्वषट्कृते जुहोति एष वै वषट्कारो य एष तपति स एष मृत्युस्तदेनमुपरिष्टान्मृत्योः संस्करोति तदेनमतो जनयति स एतं मृत्युमतिमुच्यते यज्ञो वा अस्यात्मा भवति तद्यज्ञ एव भूत्वैतन्मृत्युमतिमुच्यत एतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः -

11.2.2.11.2.2.6

अथ यामेतामाहुतिं जुहोति। एषा ह वा अस्याहुतिरमुष्मिंलोक आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैनमेषाहुतिरेतस्य पृष्ठे सत्याह्वयत्येह्यहं वै त इहात्मास्मीति तद्यदाह्वयति तस्मादाहुतिर्नाम -

मूल पाठ: śatapathabrāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc