भाषा

ENहिગુ
ग्रंथ पाठ

Satsamdarbha · अध्याय 2

2.1

[भ्प् 11.5.32]
ब्द्: श्रीकृष्णो जयति ।
भक्त्याभासेनापि तोषं दधाने
धर्माध्यक्षे विश्व-निस्तारि-नाम्नि ।
नित्यानन्दाद्वैत-चैतन्य-रूपे
तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥
मायावादं यस् तमः-स्तोमम्
उच्चैर् नाशं निन्ये वेद-वाग्-अंशु-जालैः ।
भक्तिर् विष्णोर् दर्शिता येन लोके
जीयात् सोऽयं भानुर् आनन्द-तीर्थः ॥
गोविन्दाभिधम् इन्दिराश्रित-पदं हस्त-स्थ-रत्नादिवत् ।
तत्त्वं तत्त्व-विद् उत्तमौ क्षिति-तले यौ दर्शयाञ्चक्रतुः ॥
मायावाद-महान्धकार-पटली-सत्-पुष्पवन्तौ सदा
तौ श्री-रूप-सनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥
यः साङ्ख्य-पङ्केन कुतर्क-पांशुना
विवर्त-गर्तेन च लुप्त-दीधितिम् ।
शुद्धं व्यधाद् वाक्-सुधया महेश्वरं
कृष्णं स जीवः प्रभुर् अस्तु नो गतिः ॥
आलस्या अप्रवृत्तिः स्यात् पुंसां यद् ग्रन्थ-विस्तरे ।
अतोऽत्र गूढे सन्दर्भे टिप्पन्य् अल्पा प्रकाश्यते ॥
श्रीमज्-जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः ।
व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ॥
श्री-बादरायणो भगवान् व्यासो ब्रह्म-सूत्राणि प्रकाश्य तद्-भाष्य-भूतं
श्री-भागवतम् आविर्भाव्य शुकं तद्-अध्यापितवान् । तद्-अर्थं निर्णेतु-
कामः श्री-जीवः प्रत्यूह-कुलाचल-कुलिशं वाञ्छित-पीयूष-बलाहक-
स्वेष्ट-वस्तु-निर्देशं मङ्गलम् आचरति कृष्णेति । निमि-नृपतिना पृष्टः कर-
भाजनो योगी सत्यादि-युगावतारानुक्त्वाऽथ कलाव् अपि तथा शृणु इति तम्
अवधाप्याह कृष्ण-वर्णम् इति । सुमेधसो जनाः कलाव् अपि हरिं भजन्ति ।
कैः । इत्य् आह सङ्कीर्तन-प्रायैर् यज्ञैः अर्चनैर् इति । कीदृशं तम् । इत्य् आह
कृष्णो वर्णो रूपं यस्यान्तर् इति शेषः । त्विषा कान्त्या त्व् अकृष्णम् । शुक्लो
रक्तस् तथा पीतः इदानीं कृष्णतां गतः [भ्प् 10.8.13] इति गर्गोक्ति-पारिशेष्य-
विद्युद्-गौरम् इत्य् अर्थः । अङ्गे नित्यानन्दाद्वैतौ । उपाङ्गानि
श्रीवासादयः । अस्त्राणि अविद्याच्छेत्तृत्वाद् भगवन्-नामानि । पार्षदाङ्
गदाधर-गोविन्दायः । तैः सहितम् इति महाबलित्वं व्यज्यते । गर्ग-वाक्ये
पीत इति प्राचीन-तद्-अवतारापेक्षया । अयम् अवतारः श्वेत-वराह-कल्प-
गताष्ट-विंश-वैवस्वतम् अन्वन्तरीय-कलौ बोध्यः । तत्रत्ये श्री-चैतन्य
एवोक्त-धर्म-दर्शनात् । अन्येषु कलिष् क्वचिच् छ्यामत्वेन क्वैच्च् चुक-
पत्राभत्वेन व्यक्तेर् उक्तेः । छन्नः कलौ यद् अभवः [भ्प् 7.9.38] इति शुक्लो
रक्तस् तथा पीतः [भ्प् 10.8.13] इति । कलाव् अपि तथा शृणु [भ्प् 11.5.31] इति च ।
ये विमृशन्ति ते सुमेधसः । छन्नत्वं च प्रेयसी-त्विषावृतत्वं बोध्यम् ।
अङ्काः पूर्वाङ्कतोऽत्रान्ये टिप्पनी-क्रम-बोधकाः । द्वि-बिन्दवस् ते विज्ञेया
विषयाङ्कारस् त्व् अबिन्दवः । अत्र ग्रन्थे स्कन्धाध्याय-सूचका युग्माङ्का
ग्रन्थ-कृतां सन्ति । तेभ्योऽन्ये ये टिप्पनी-क्रम-बोधायास्माभिः कल्पितास्
ते द्विबिन्दु-मस्तकाः । विषय-वाक्येभ्यः परे येऽङ्कास् ते त्व् अबिन्दु-मस्तका
बोध्याः

2.2

अन्तःकृष्णं बहिर् गौरं दर्शिताङ्गादि-वैभवम् ।
कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः

मूल पाठ: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc