शतसाहस्रिका प्रज्ञापारमिता · भाग 120
प्रथमपरिवर्तः ।
नमः श्रीसर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यः ॥
या सर्वज्ञतया नयत्युपसमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतालोकार्थस ं प्रापिका ।
सर्वाकारम् इदं वदन्ति मुनयो विश्वं यया सङ्गता तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥
यद् असुलभम् अनन्तकल्पकोटिभिः प्रसरशतैर् अपि हेतुवर्जितानां ।
भवतु हि जिनार्करश्मिभूतं तद् इदम् इदं प्रतिचक्षुर् अग्रयानं ॥
गम्भीरञ् च न चाभ्यस्तं दुर्लभञ् च मुनेर् वचः ।
न च तेन विना मोक्षं तस्माच् छ्रोतव्यम् आदरात् ॥
नमो भगवते भैषज्यगुरुवैदूर्यप्रभाय तथागताया ॥ नमो भगवत्यै प्रज्ञापारमितायै । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमश् चाण्डवजरपाणये महायक्षसेनापतये । नमः सर्वबुद्धबोधिसत्त्वेभ्यो भगवद्भ्यः । निराश्रवाः सर्वसत्त्वानां कुशलस ं भवो योगैः स ं भवन्ति सिद्धाग्रांतां च ताथागती प्रतिलम्भता सर्वसत्त्वानां सुखसौमनस्यसद्भावन्विति । नमो भगवते रश्मिचन्द्रप्रातिमण्डितविद्युत्तेजघोषेष्वरराजाय तथागताय । नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्स ं बुद्धाय यस्येयं धर्मोल्काज्वालेति ।
एवं मया स्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटपर्वते महता भिक्षुसङ्घेन सार्धं पञ्चमात्रैर् भिक्षुसहसैः सर्वैर् अर्हद्भिः क्षीणाश्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैः अपहतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैर् एकपुद्गलं स्थापयित्वा । यद् उतायुष्मन्तम् आनन्दं शैक्षं श्रोतआपन्नं । पञ्चमात्रैश् च भिक्षुशतैः । यशोधरामहाप्रजापतीप्रमुखैः स ं बहुलैश् च । उपासकोपासिकाभिश् च सर्वैर् दृष्टधर्मभिः । महता च बोधिसत्त्वसङ्घेन सार्धम् अप्रमेयैर् असंख्येयैर् बोधिसत्त्वैः सर्वैर् धारणीमुखप्रतिलब्धैः शून्यतानिमित्ताप्रणिहितैर् विहारिभिर् आनिमित्तागोचरैर् अविकल्पिकप्रणिधानैः सर्वधर्मसमताक्षान्तिप्रतिलब्धैर् असङ्गप्रणिधानैर् असङ्गप्रतिभानसमन्वागतैर् अक्षयप्रतिनिर्देशाप्रतिनिर्देशैः प्रतिसंविन्नयप्रतिबद्धैर् महाभिज्ञाविक्रीडितैर् अत्यन्ताच्युताभिज्ञैर् आदेयवचनैर् अकुसीदैर् आरब्धवीर्यैः कायजीवितनिरपेक्षैर् अकुहकैर् अलयकैर् अपगतज्ञानलाभचित्तैर् निरामिषधर्मदेशकैर् गंभीरधर्मक्षान्तिपरमगतिं गतैर् महावैशारद्यप्राप्तैर् असंकुचितमानसैः सर्वमारकर्मसमतिक्रान्तैः कर्मावरणप्रतिस्रद्धैर् निहतकर्मक्लेशप्रत्यर्थिकैः सर्वपरप्रवादानभिभूतैः सर्वश्रावकप्रत्येकबुद्धदुरवगाहैः कर्मप्रविचयविभक्तिनिर्देशकुशलैर् असंख्येयकल्पसुसमारब्धप्रणिधानैः स्मृतिमुखैः पूर्वालापिभिर् व्यपगतभृकुटिकैः श्लक्ष्णमधुरवचनैर् गाथाभिगीतपरालपनकुशलैर् अनाच्छेद्यप्रतिभानैर् अनन्तपरिषद् अभिभवनैः वैशारद्यसमन्वागतैर् अनन्तकल्पकोटिनिर्देशज्ञातिभिः सरण्याकुशलैर् मायामरीच्युदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासगन्धर्वनगरप्रतिविम्बनिर्याणोपायधर्माधिमुक्तैर् अपगतसंलीनचित्तैः सर्वसत्त्वचित्तगतिसूक्ष्मज्ञानचर्याधिमुक्त्यावतारकुशलैः सर्वसत्त्वाप्रतिहतचित्तैः अधिमात्रक्षान्तिसमन्वागतैः सर्वधर्मसमताप्रतिवेधज्ञानकुशलैर् गम्भीरधर्मतादुरवगाहैः स्वचित्तवशिताप्रतिलब्धैः सर्वधर्मवशिताप्राप्तैः सर्वकर्मक्लेशदृष्ट्यावरणविमुक्तैः प्रतीत्यनिर्देशकुशलैर् गम्भीरप्रतीत्यसमुत्पादक्षयनयावतीर्णैः सर्वदृष्टानुशयपर्युत्थानविगतैः सर्वसंयोजनप्रहीणैः सत्यप्रतिवेधज्ञानकुशलैः सततसमितं प्रतिश्रुत्कासमसर्वधर्माधिमुक्तैः अप्रमाणधर्मनयनिर्देशवैशारद्यैर् यावच् चार्यावतारणाकुशलैः अनन्तबुद्धक्षेत्रव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुगता बुद्धानुस्मृतिसमाधिसततसमिताभिमुखीभूतैः सर्वबुद्धोत्पादोपसंक्रमणकुशलैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्टिपर्युत्थानसर्वक्लेशप्रशमनकुशलैः समाधिशतसहस्राणिनिर्हारविक्रीडनज्ञानप्रवेशकुशलैः अपर्यन्तकल्पाक्षीणगुणवर्णासमन्वागतैः । तद्यथा, भद्रपालेन च नाम बोधिसत्त्वेन महासत्त्वेन । रत्नकरेण च नाम बोधिसत्त्वेन महासत्त्वेन । रत्नगर्भेण च नाम बोधिसत्त्वेन महासत्त्वेन । रत्नदत्तेन च नाम बोधिसत्त्वेन महासत्त्वेन । सुसार्थवाहेन च नाम बोधिसत्त्वेन महासत्त्वेन । नरदत्तेन च नाम बोधिसत्त्वेन महासत्त्वेन । गुहगुप्तेन च नाम बोधिसत्त्वेन महासत्त्वेन । वरुणदेवेन च नाम बोधिसत्त्वेन महासत्त्वेन । इन्द्रदेवेन च नाम बोधिसत्त्वेन महासत्त्वेन । भद्रपालेन च नाम बोधिसत्त्वेन महासत्त्वेन । उत्तरमतिना च बोधिसत्त्वेन महासत्त्वेन । विशेषमतिना च बोधिसत्त्वेन महासत्त्वेन । वर्धमानमतिना च बोधिसत्त्वेन महासत्त्वेन । अनन्तमतिना च बोधिसत्त्वेन महासत्त्वेन । अमोघदर्शिना च बोधिसत्त्व्न महासत्त्वेन । अनावरणमतिना च बोधिसत्त्वेन महासत्त्वेन । सुस ं प्रस्थितेन च नाम बोधिसत्त्वेन महासत्त्वेन । सुविक्रान्तविक्रामिणा च बोधिसत्त्वेन महासत्त्वेन । अनन्तवीर्येण च बोधिसत्त्वेन महासत्त्वेन । नित्योद्युक्तेन च बोधिसत्त्वेन महासत्त्वेन । नित्यप्रयुक्तेन च बोधिसत्त्वेन महासत्त्वेन । अनिक्षिप्तधुरेण च बोधिसत्त्वेन महासत्त्वेन । सूर्यगर्भेण च बोधिसत्त्वेन महासत्त्वेन । चन्द्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन । अनुपममतिना च बोधिसत्त्वेन महासत्त्वेन । अवलोकितेश्वरेण च नाम बोधिसत्त्वेन महासत्त्वेन । महास्थामप्राप्तेन च बोधिसत्त्वेन महासत्त्वेन । मंजुश्रिया च कुमारभूतेन च बोधिसत्त्वेन महासत्त्वेन । मारबलप्रमर्दिना च बोधिसत्त्वेन महासत्त्वेन । वज्रमतिना च बोधिसत्त्वेन महासत्त्वेन । रत्नमुद्राहस्तेन च बोधिसत्त्वेन महासत्त्वेन । नित्योत्क्षिप्तहस्तेन च बोधिसत्त्वेन महासत्त्वेन । महाकरुणाचितिना च बोधिसत्त्वेन महासत्त्वेन । महाव्यूहेन च नाम बोधिसत्त्वेन महासत्त्वेन । प्रहराजेन च नाम बोधिसत्त्वेन महासत्त्वेन । मेरुकूटेन च बोधिसत्त्वेन महासत्त्वेन । मैत्रेयेण च नाम बोधिसत्त्वेन महासत्त्वेन । एतैश् चान्यैश् चानेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैः ॥
अथ खलु भगवांस् तस्यां वेलायां स्वयम् एव सिंहासनं प्रज्ञापयन् न्यषीदत् । पर्यंकम् आभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य तत्र निषद्य सर्वसमाधिराजनामसमाधिं समापन्नो ऽभूत् । यत्र समाधौ समाधयो ऽन्तर्गता अनुप्रविष्टाः सङ्ग्रहं समवसरणं गच्छन्ति ॥
अथ खलु भगवान् स्मृतः स ं प्रजानस् ततः समाधेर् व्युत्थाय दिव्येन चक्षुषेदं बुद्धक्षेत्रं व्यवलोकयति स्म । व्यवलोक्य सर्वकायात् प्रभां प्रामुञ्चत् । तस्याधस्तात् पादतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । दशभ्यश् च पादाङ्गुलिभ्यः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां गुल्फाभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । नाभिमण्डलात् षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां पार्श्वाभ्यां षष्टिषष्टिरश्यिकोटीनियुतशतसाहस्राणि निश्चरन्ति स्म । हृदयश्रीवत्सान् महापुरुषलक्षणात् षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । दशभ्यो हस्ताङ्गुलिभ्यः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां बाहुभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्याम् अंशाभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । ग्रीवायाः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । चतसृभ्यो दंष्ट्राभ्यः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । चत्वारिंशतो दन्तेभ्यः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां चक्षुर्भ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां श्रोत्राभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । द्वाभ्यां घ्राणाभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । मध्ये भ्रुवो ऊर्णायाः षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । उपरिष्टाद् उष्णीषात् षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । मुखद्वाराच् च षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । सर्वाणि च तानि रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । सर्वावन्तम् इमन् त्रिसाहस्रमहासाहस्रं लोकधातुं महतावभासेन स्फुरित्वा पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातुं महतावभासेन स्फुरन्ति स्म । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातुं महतावभासेन स्फुरन्ति स्म । पश्चिमायान् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातुं महतावभासेन स्फुरन्ति स्म । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । अधस्ताद् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमां लोकधातुं महतावभासेन स्फुरन्ति स्म । यैश् च सत्त्वैः सो ऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास् ते सर्वे नियता अभूवन् अनुत्तरायां सम्यक्स ं बोधौ ॥
अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः प्रभां प्रामुञ्चत् । यया प्रभयायन् त्रिसाहस्रमहासाहस्रो लोकधातुर् महतावभासेन स्फुटम् अभूत् । पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा स्फुटम् अभूवन् । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवो महतावभासेन स्फुटा अभूवन् । यैश् च सत्त्वैः सो ऽवभासो दृष्टो ये च तेनावभासेन स्फुटास् ते सर्वे नियता अभूवन् अनुत्तरायां सम्यक्स ं बोधौ ॥
अथ खलु भगवान् पुनर् अपि या सा तथागतस्य प्रकृतिप्रभा एतया यन् त्रिसाहस्रमहासाहस्रं लोकधातुं महतावभासेन स्फुरन्ति स्म । पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । पश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातूंस् तेन महतावभासेन स्फुरन्ति स्म । यैश् च सत्त्वैः सो ऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास् ते सर्वे नियता अभूवन् अनुत्तरायां सम्यक्स ं बोधौ ।
अथ खलु भगवान् मुखद्वारा जिह्वेन्द्रियं निर्णामय्य सर्वावन्तम् इमन् त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा स्मितं प्रादुरकार्षीत् । ततश् च जिह्वेन्द्रियाद् अनेकानि नानावर्णानि रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म । सर्वत्र च रश्म्यां नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि सन्निष्ठन्ते स्म । चित्राणि च दर्शनीयानि मनोरमाणि सुवर्णानि सुगन्धीनि मृदूनि काचिलिन्दिक सुखसंस्पर्शानि । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनां । ते पूर्वस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातु गच्छन्ति स्म । तत्रापि गत्वा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनां । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म । तत्रापि गत्वा धर्मन् देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनां । पश्चिमायन् दिशि गङ्गनदीवालुकोपमां लोकधातुं गच्छन्ति स्म । तत्रापि गत्वा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म । तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । अधस्ताद् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमां लोकधातुं गच्छन्ति स्म तत्रापि गत्वा धर्मं देशयन्ति स्म यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां । यैश् च सत्त्वैः सधर्मः श्रुतस् ते सर्वे नियता अभूवन् अनुत्तरायां सम्यक्स ं बोधौ ॥
अथ खलु भगवान् तस्मिन्न् एव सिंहासने निषण्णः सिंहविक्रीडितं नाम बुद्धसमाधिं समापद्य तथारूपम् ऋध्यभिसंस्कारम् अभिसंस्कारोति स्म । यथारूपेणाध्यभिसंस्कारेण अभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकार ं प्रकम्पतः प्राकम्पत स ं प्राकम्पत । अवेधत् प्रावेधत् स ं प्रावेधत् अचलत्प्राचलत् स ं प्राचलत् । अक्षुभ्यत् प्राक्षुभ्यत् स ं प्राक्षुभ्यत् । अगर्जत् प्रागर्जत् स ं प्रागर्जत् । अरणत् प्रारणत् स ं प्रारणत् । अन्तेषून्नमति स्म मध्ये ऽवनमति स्म अन्तेष्व् अवनमति स्म मृदुकः स्निग्धः सूक्ष्मः सर्वसत्त्वहितसुखसञ्जानानो ऽभूत् ॥
अथ तेन क्षणलवमुहूर्तेन यावन्तो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ नरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिविनिपातास् ते सर्वे समुच्छिन्नाः अभूवन् । सर्वे च ते सत्त्वा मनुष्याणां सभागताया उपपन्ना अभूवन् सर्वे च ते सत्त्वाश् चातुर्महाराजकायिकानां देवानां त्रायस्त्रिंशानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्येन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धायेन भगवांस् तेनोपसङ्क्रामन्ति स्म । उपसङ्क्रम्य भगवन्तं नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः । सर्वाक्षणाश् चास्तमिता अभूवन् सर्वे च ते सत्त्वामनुष्याणां देवानाञ् च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव च प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसङ्क्रामन्ति स्म । उपसङ्क्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वा मनुष्याणां देवानाञ् च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसङ्क्रामन्ति स्म । उपसङ्क्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वा मनुष्याणाञ् च देवानाञ् च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति । तान् उपसङ्क्रामन्ति स्म । उपसङ्क्रम्य पादान् वन्दित्वा प्राञ्जालीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानाञ् च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अहन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसङ्क्रामन्ति स्म । उपसङ्क्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेनोत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः सर्वाक्षाणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु लोकधातुषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसङ्क्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रमोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति न्त । समनुस्मृत्य प्रीतिप्रसादप्रमोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपमंक्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये च तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसंक्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसंक्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतेः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अर्थ तेन क्षणलवमुहूर्तेनाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोकाः समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वमनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसंक्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ तेन क्षणलवमुहूर्तेन उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन् । सर्वे च ते सत्त्वामनुष्याणां देवानां च सभागताया उपपन्ना अभूवन् ॥
अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्यजातेन पौर्विकीं जातिं समनुस्मरन्ति स्म । समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति तान् उपसङ्क्रामन्ति स्म । उपसंक्रम्य पादान् वन्दित्वा प्राञ्जलीभूतास् तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् नमस्यन्ति स्म ॥
अथ खलु तेन तत्क्षणेनैव ये अस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः सत्वास् ते ऽपि सर्वे चक्षुषा रूपाणि पश्यन्ति स्म । बधिराः श्रोत्रेण शब्दान् शृण्वन्ति स्म । उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म । विक्षिप्तचित्ताः अविक्षिप्तचित्ततां प्रतिलभन्ते स्म । नग्नाश् चीवराणि प्रतिलभन्ते स्म । दरिद्रा धनानि प्रतिलभन्ते स्म । जिघत्सिता भोजनानि प्रतिलभन्ते स्म । पिपासिताः पानीयं प्रतिलभन्ते स्म । रोगस्पृष्टा अरोगा अभूवन् । हीनकायाविकलेन्द्रियाः परिपूर्णकायेन्द्रिया अभूवन् । क्लान्तकाया अक्लान्तकाया अभूवन् । अविरताकुशलकायवाङ्मनस्कर्मान्ताजीवा विगताकुशलकायवाङ्मनस्कर्मान्ताजीवा भवन्ति स्म । सर्वसत्त्वाश् च सर्वसत्वेषु समचित्ता अभूवन् । यद् उत मातापितृभ्रातृभगिनीमित्रज्ञातिसहायसमचित्ताः सर्वसत्त्वाश् च कुशलकर्मपथसमन्वागता अभूवन् । ब्रह्मचारिणः शुचयो निरामगन्धाः सर्वाकुशलवितर्कविगताः सर्वसत्त्वाश् च तस्मिन् समये सर्वसुखसमर्पिता अभूवन् । एवं रूपेण सुखेन समन्वागताः । तद्यथापि नाम तृतीयध्यानसमापन्नस्य भिक्षोः सुखम् । सर्वसत्त्वाश् च तस्मिन् समये एवंरूपया प्रज्ञया समन्वागता अभूवन् । यद् एवं जानन्ति स्म । साधु दानं माधु धर्मः साधु संयमः साधु सत्यं साध्व् अप्रमादः साधु मैत्री साधु करुणा साध्व् अविहिंसा साधु सर्वप्राणिभूतेषु ॥
अथ भगवान् तस्मिन्न् एव सिंहासने निषण्ण इमं त्रिसाहस्रमहासाहस्रं लोकधातुं सुमेरुं चक्रवाडं सदेवभवनं सेन्द्रकं सेन्दुसूर्यगभस्तिकं सदेवदानवकायं सब्रह्मकं सशुद्धावासम् अभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा श्रिया ॥
तद्यथापि नाम बलवान् दिवाकरः परिशुद्धगगणतले पौर्णमास्यां वा चन्द्रमण्डलं, तथा च भगवान् इमन् त्रिसाहस्रमहासाहस्रं लोकधातुम् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवं पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा श्रिया ॥
एवं दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा श्रिया ॥
एवं पश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवम् उत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवम् उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवं पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवं दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवं पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवम् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
तद्यथापि नाम सुमेरुः पर्वतराजः सर्वांस् तांश् चान्यान् कालपर्वतान् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
तद्यथापि नाम चन्द्रर्मण्डलं सर्वतारारूपाण्य् अभिभूय स्थितं शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
तद्यथापि नाम सूर्यमण्डलं सर्वांस् तदन्यान् अवभासान् अभिभूय स्थितं शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
एवम् एव भगवान् दशसु दिक्षु सदेवकं लोकं सेन्द्रकं सब्रह्मकं शुद्धावासम् अभिभूय स्थितः शोभते भासते तपति विरोचते । आभया वर्णेन तेजसा श्रिया ॥
अथ भगवान् पुनर् अपि यादृशो भगवतः प्रकृत्यात्मभावः तादृशम् इमन् त्रिसाहस्रमहासाहस्रे लोकधाताव् उपदर्शयति स्म ॥
अथ यावन्तो ऽस्मिन् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिकादेवनिकाया आभास्वरा ब्रह्मकायिकाः परनिर्मितवशवर्तिनो निर्माणरतयः तुषिता यामास् त्रायस्त्रिंशाश् चातुर्महाराजकायिकादेवनिकायास् ते सर्वे सिंहासने निषण्णं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं पश्यन्ति स्म । ते तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता दिव्यानि पुष्पाण्य् आदाय दिव्यानि माल्यानि दिव्यानि गन्धानि दिव्यानि विलेपनानि दिव्यानि चूर्णानि दिव्यानि वासांसि दिव्यान्य् उत्पलकुमुदपुण्डरीकनलिनसौगन्धिकानि केशरतमालपत्त्राणि दिव्यानि वस्तूनि दिव्यान्य् आभरणानि दिव्यानि छत्त्राणि दिव्या ध्वजा दिव्याः पताका गृहीत्वा येन भगवांस् तेनोपसंक्रामन्ति स्म, उपसंक्रम्य भगवन्तम् अभिपूजयन्ति स्म । सर्वाणि च तानि पुष्पमाल्यविलेपनचूर्णादीनि गन्धवस्त्राभरणानि छत्त्रध्वजपताकाश् च समनन्तरम् एव भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणे भगवतः उपरि वैहायसे सर्वसत्त्वो महापुष्पादिकूटागारः संस्थितो ऽभूत् । ततश् च कूटागाराद् दिव्यानि पुष्पाणि पुष्पपट्टदामानि लम्बन्ते स्म प्रलम्बन्ते स्म अभिप्रलम्बन्ते स्म । तैश् च पुष्पपट्टदामाभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अभिशोभते स्म । तेन च सुवर्णवर्णेन भगवतः प्रभावभासेनात्यर्थं शोभते भासते तपति विरोचते स्म । यथा चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् एवं पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन भगवतः प्रभावभासेन स्फुटा अभूवन् । तत्र जाम्बुद्वीपकानां मनुष्याणां तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयति । यथा च जाम्बुद्वीपकानां मनुष्याणाम् एवं गोदानीयानां मनुष्याणान् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतः तथागतो निषण्णो धर्मं देशयतीति । पौर्वविदेहकानां मनुष्याणान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । उत्तरकौरवाणां मनुष्याणां तत् तथागतस्याचेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । चातुर्महाराजकायिकानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतः तथागतो निषण्णो धर्मं देशयतीति । त्रायस्त्रिंशानां देवानान् तत् तथागतस्यासेचनकदर्शमम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । यामानान् देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । तुषितानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्में देशयतीति । निर्माणरतीनां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । परनिर्मितवशवर्तिनां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । ब्रह्मकायिकानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । ब्रह्मपुरोहितानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । ब्रह्मपार्श्वद्यानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । महाब्रह्माणां देवानान् तत् तथागतस्यासेचकमदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । आभानां देवानान् तत् तथागतस्यासेचमकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति । परीत्ताभानान् देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अप्रमाणाभानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति आभास्वराणां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति ॥
आभानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभाव दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । परीत्तशुभानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अप्रमाणशुभानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभू दस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । शुभकृत्स्नानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । वृहाणां देवानां तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । परीत्तवृहाणां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अप्रमाणवृहाणां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । वृहत्फलानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अवृहाणां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अतपानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । सुदृशानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्व एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । सुदर्शनानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । अकनिष्ठानां देवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति ॥
एवं साहस्रे लोकधातौ सर्वमनुष्याणां सर्वदेवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति । द्विसाहस्रे लोकधातौ सर्वमनुष्याणां सर्वदेवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मं देशयतीति ॥
एवं त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वमनुष्याणां सर्वदेवानान् तत् तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा एतद् अभूद् अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति ॥
अथ भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् एव प्रभां प्रामुञ्चद् यया प्रभया पुनर् एवं त्रिसाहस्रमहासाहस्र लोकधातुर् अवभाषितो भूत् । पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । पूर्वदक्षि ण स्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो अवभाषिता अभूवन् । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभाषिता अभूवन् । येनावभासेनय इमां त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतान् अर्हतः सम्यक्स ं बुद्धान् सश्रावकसङ्घान् बोधिसत्त्वपरिवारान् पश्यन्ति स्म । तत्र च पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र च दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र च पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र चोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र चोत्तरपूर्वस्यान् दिशि ये गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र च पूर्वदक्षिणस्यान् दिशि ये गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र च दक्षिणपश्चिमायान् दिशि ये गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमन् त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र च पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमन् त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सश्रावकं सङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र चाधस्ताद् दिशि ये गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमन् त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तश् च शाक्यमुनिस् तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं बोधिसत्त्वपरिवारं पश्यन्ति स्म । तत्र चोपरिष्टाद् दिशि ये गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तञ् च शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सभिक्षुसङ्घं सबोधिसत्त्वगणपरिवारं पश्यन्ति स्म ॥
अथ पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुः रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासन् तञ् च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य तं भगवन्तं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययः यो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य चेदृशस्य तथागतकायस्य सन्दर्शनाय ॥
एवम् उक्ते भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तं समन्तरश्मिं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र पश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ समन्तरश्मिर् बोधिसत्त्वो महासत्त्वस् तं भगवन्तं रत्नाकरन् तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां महां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तेषाञ् च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्रप्तानाम् । भगवान् रत्नाकरस् तथागत आह । गच्छ त्वं कुलपुत्र तां महां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथ रत्नाकरस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं समन्तरश्मये बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं अभ्यवकिर स ं प्रजानविहारी च तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षणेथाः ॥
अथ समन्तरश्मिर् बोधिसत्त्वो महासत्त्वस् तस्य भगवतो रत्नाकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तः पूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन । येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपमंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थितः समन्तरश्मिर् बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । रत्नाकरो भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कताञ् च लघूत्थानतां बलं सुखस्प्र्शविहारताश् च । इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एवं षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि बोधिसत्त्वा गृहस्थाश् च प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म । गुरूकुर्वन्ति स्म । मानयन्ति स्म । पूजयन्ति स्म । दक्षिणस्यान् दिशि गङ्गानदीवालुकोपामाल् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुः सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तं च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य तं भगवन्तम् अशोकश्रियं तथागतं सम्यक्संबुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य चेदृशस्य तथागतकायस्य सन्दर्शनाय । एवम् उक्ते भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं विगतशोकं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र उत्तरस्यान् दिशि गङ्गानदीवालुकोपमाल् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ विगतशोको बोधिसत्त्वो महासत्त्वस् तं भगवन्तम् अशोकश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तेषां च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिता प्राप्तानाम् । स भगवान् अशोकश्रीस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथ भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं विगतशोकाय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वाः ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षणेथाः ॥
अथ विगतशोको बोधिसत्त्वो महासत्त्वस् तस्य भगवतो ऽशोकश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहीस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तो दक्षिणस्यान् दिशि बद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णवस्त्राभरणच्छत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् एकान्ते स्थितश् च विगतशोको बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । अशोकश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलं सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता अशोकश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन ते दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म । पश्चिमायान् दिशि गङ्गानादीवालुकोपमाल् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुरूपशान्ता नाम लोकधातुस् तत्र रत्नार्चिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति प्रियते यापयति । स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ चारित्रमतिर् नाम बोधिसत्त्वस् तं महान्तम् अवभासन् तञ् च महान्तं पृथिवीचालन् तं च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवन्तं रत्नार्चिषं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य चेदृशस्य तथागतकायस्य सन्दर्शनाय । एवम् उक्ते भगवान् रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं चारित्रमतिं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ चारित्रमतिर् बोधिसत्त्वो महासत्त्वस् तं भगवन्तं रत्नार्चिषं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषां च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् । स भगवान् रत्नार्चिस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथ रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं चारित्रमतये बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर स ं प्रजानचारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षणेथाः ॥
अथ चारित्रमतिर् बोधिसत्त्वो महासत्त्वस् तस्य भगवतो रत्नार्चिषस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकाभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितः यावन्तः पश्चिमायान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णवस्त्राभरणछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन । येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् एकान्ते स्थितश् चारित्रमतिर् बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । रत्नार्चिर् भगवंस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कताञ् च लघूत्थानतां बलं सुखस्पर्शविहारताञ् च इमानि च तेन भगवता रत्नार्चिषा तथागतेनार्हता सम्यक्स ं बुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तानि पद्मानि गृहीत्वा येन ते पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्स ं बुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ ते ऽपि बोधिसत्त्वा महासत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सत्कुर्वन्ति स्म गरुकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म । उत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुर् जाया नाम तत्र जायेन्द्रो नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ जयदत्तो नाम बोधिसत्त्वो महासत्त्वस् तम् महान्तम् अवभासन् तं च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् जायेन्द्रस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य तं भगवन्तं जायेन्द्रं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृशस्य तथागतकायस्य सन्दर्शनाय वन्दनाय पर्युपासनाय ॥
एवम् उक्ते भगवान् जायेन्द्रस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तं जयदत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ जयदत्तो बोधिसत्त्वो महासत्त्वस् तं भगवन्तं जायेन्द्रन् तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुन् तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तेषाञ् च बोधिसत्त्वानां महसत्त्वानां सर्वेषां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानां स भगवान् जायेन्द्रस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीङ् कालं मन्यसे ॥
अथ जायेन्द्रस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं जयदत्ताय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं सम्यक्स ं बुद्धम् अभ्यवकिर । स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षणेथाः ॥
अथ जयदत्तो बोधिसत्त्वो महासत्त्वस् तस्य भगवतो जायेन्द्रस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तः उत्तरस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिः महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् एकान्ते स्थितो जयदत्तो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । जायेन्द्रो भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारतां च । इमानि च तेन भगवता जायेन्द्रेण तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन ते उत्तरस्यान् दिशि गाङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यदूतेमाम् एव षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ ते ऽपि बोधिसत्त्वाः गृहस्थाः प्रव्रजिताश् च दारिकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म । गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म । उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्व पश्चिमो लोकधातुः समाध्यलङ्कृतो नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वो महासत्त्वस् तम् अवभासन् तञ् च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसङ्क्रान्तः उपसंक्रम्य तं भगवन्तं समाधिहस्त्युत्तरश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादूर्भावायास्य च महतः पृथिवीचालस्य अस्य चेदृशस्य तथागतकायस्य सन्दर्शनाय । एवम् उक्ते भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं विजयविक्रामिणं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ विजयविक्रामी बोधिसत्त्वो महासत्त्वस् तं भगवन्तं समाधिहस्त्युत्तरश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहा लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च बोधिसत्त्वानां महासत्त्वानां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानां । स भगवान् समाधिहस्त्युत्तरश्रीर् नाम तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथ समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं विजयविक्रामिणे बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यकिर स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथाः ॥
अथ विजयविक्रामी बोधिसत्त्वो महासत्त्वस् तस्य भगवतः समाधिहस्त्युत्तरश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तः उत्तरपूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरवस्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थाद् एकान्ते स्थितो विजयविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । समाधिहस्त्युत्तरश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारिताञ् च । इमानि च तेन भगवता समाधिहस्त्युत्तरश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मे सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य । यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि च बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति या । पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुर् बोधिमण्डालङ्कारसुरुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ पद्महस्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासन् तञ् च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य ते भगवन्तं पद्मोत्तरश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृश्यस्य तथागतकायस्य सन्दर्शनाय ॥
एवम् उक्ते भगवान् पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तं पद्महस्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ पद्महस्तो बोधिसत्त्वो महासत्त्वस् तं भगवन्तं पद्मोत्तरश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धरिणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् । स भगवान् पद्मोत्तरश्रीस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथ पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं पद्महस्ताय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर । स ं प्रजानविचारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः । मा तत्र क्षणेथाः ॥
अथ पद्महस्तो बोधिसत्त्वो महासत्त्वस् तस्य भगवतः पद्मोत्तरश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तः पूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् । एकान्ते स्थितः पद्महस्तो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । पद्मोत्तरश्रीर् भगवन् सम्यक्स ं बुद्धस् तथागतो ऽर्हन् भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कताञ् च लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता पद्मोत्तरश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ॥
अथ भगतान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैः सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य । यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ । ते ऽपि बोधिसत्त्वा महासत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धं सत्कुर्वन्ति स्म । गुरूकुर्वन्ति स्म । मानयन्ति स्म । पूजयन्ति स्म । दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुर् विगतराजस ं भवा नाम तत्र सूर्यमण्डलप्रतिभासोत्तमश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति । स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ सूर्यप्रतिभासो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासन् तञ् च महान्तं पृथिवीचालन् तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् सूर्यमण्डलप्रतिभासोत्तमश्रीस् तथागतस् तेनोपमक्रान्तः । उपसंक्रम्य तं भगवन्तं सूर्यमण्डलप्रतिभासोत्तमश्रिय तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्या महतो ऽवभासस्य लोके प्रादूर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृशस्य तथागतकायस्य सन्दर्शनाय ॥
एवम् उक्तं भगवान् सूर्यमण्डलप्रतिभासोत्तमश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तं सूर्यप्रतिभास ं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापथति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ सूर्यप्रतिभासो बोधिसत्त्वो महासत्त्वस् तं भगवन्तं सूर्यमण्डलप्रतिभासोत्तमश्रियं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् । स भगवान् सूर्यमण्डलप्रतिभासोत्तमश्रीस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीङ् कालं मन्यसे ॥
अथ सूर्यमण्डलप्रतिभासोत्तमश्रीस् तथागतो ऽहन् सम्यक्संबुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं सूर्यप्रतिभासाय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर । स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथाः ॥
अथ सूर्यप्रतिभासो बोधिसत्त्वो महासत्त्वस् तस्य भगवतः सूर्यमण्डलप्रतिभासोत्तमश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तो दक्षिणपश्चिमायान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्त यापयन्ति, तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन येन भगवान् शाक्यमुनिस् तथागतो ऽहन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थाद् एकान्ते स्थितः सूर्यप्रतिभासो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । सूर्यमण्डलप्रतिभासोत्तमश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता सूर्यमण्डलप्रतिभासोत्तमश्रिया तथागतेनार्हता सम्यक्संबुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रहितानि भगवतः पूजाकर्मणे ॥
अथ भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तानि पद्मानि गृहीत्वा येन ते दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत् ॥
अथ तैः पद्मैः सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयनि स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य । यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमुलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सत्कुर्वन्ति स्म । गुरूकुर्वन्ति स्म । मानयन्ति स्म । पूजयन्ति स्म । पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपाश्चिमो लोकधातुर् वशीभूता नाम तत्र एकछत्त्रो नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ॥
अथ तत्र लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचलं तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् एकछत्त्रस् तथागातो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य तं भगवन्तम् एकछत्त्रं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादूर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृशस्य तथागतकायस्य सन्दर्शनाय ॥
एवम् उक्ते भगवान् एकछत्त्रस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तं रत्नोत्तमं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुः, तत्र शाक्यमुनिर् नामो तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैष ईदृशो ऽनुभावः ॥
अथ रत्नोत्तमो बोधिसत्त्वो महासत्त्वो भगवन्तम् एकछत्त्रं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च बोधिसत्त्वानां महासत्त्वानां सर्वेषां प्रायः कुमारभूतानां धरिणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् । स भगवान् एकछत्त्रस् तथागत आह । गच्छ त्वं कुलपुत्र तां महां लोकधातुं यस्येदानीं कालं मन्यसे ॥
अथैकछत्त्रस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं रत्नोत्तमाय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् अभ्यवकिर । स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथाः ।
अथ रत्नोत्तमो बोधिसत्त्वो महासत्त्वस् तस्य भगवत एकछत्त्रस्य तथागतस्यार्हतः सम्यक्स ं बुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तः पश्चिमोत्तरस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता च बोधिसत्त्वानुभावेन । येन भगवां च्छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् । एकान्ते स्थितो रत्नोत्तमो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । एकछत्त्रो भगवंस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता एकछत्त्रेण तथागतेनार्हता सम्यक्स ं बुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रहितानि भगवतः पूजाकर्मणे ।
अथ भगवां च्छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तानि पद्मानि गृहीत्वा येन ते पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्स ं बुद्धास् तेनाक्षैप्सीत् ।
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य । यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सत्कुर्वन्ति स्म । गुरूकुर्वन्ति स्म । मानयन्ति स्म । पूजयन्ति स्म । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुः पद्मा नाम तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ।
अथ तत्र लोकधातौ पद्मोत्तरो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचालं तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन स भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्समबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य तं भगवन्तं पद्मश्रियं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चेदृशस्य तथागतकायस्य सन्दर्शनाय ।
एवम् उक्ते भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तं पद्मोत्तरं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्र उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति । तस्यैव ईदृशो ऽनुभावः ।
अथ पद्मोत्तरो बोधिसत्त्वो महासत्त्वस् तं भगवन्तं पद्मश्रियं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च बोधिसत्त्वानां महासत्त्वानां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानाम् । स भगवान् पद्मश्रीस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ।
अथ पद्मश्रीस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं पद्मोत्तराय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् अभ्यवकिर । स ं प्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् । तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथा ।
अथ पद्मोत्तरो बोधिसत्त्वो महासत्त्वस् तस्य भगवतः पद्मश्रियस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितो यावन्तो ऽधस्ताद् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधऊपगन्धमाल्यविलेपनचूर्णचीवरवस्त्राभरणछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन । येन भगवान् शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवत पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् । एकान्ते स्थितः पद्मोत्तरो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् । पद्मश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्स ं बुद्धेन सुर्वर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ।
अथ भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तानि पद्मानि गृहीत्वा येन ते ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्स ं बुद्धास् तेनाक्षैप्सीत् ।
अथ तैः पद्मैस् ते सर्वलोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य । यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि च बोधिसत्त्वा गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सत्कुर्वन्ति स्म, गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य यः सर्वपश्चिमो लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः स ं प्रकाशयति ।
अथ तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचालं तञ् च तथागतस्यासेचनकदर्शनम् आत्मभावं दृष्ट्वा येन भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य तं भगवन्तं नन्दश्रियं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतकायस्य सन्दर्शनाय ।
एवम् उक्ते भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तं नन्ददत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत् । एष कुलपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तिष्ठति ध्रियते यापयति । स बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितां स ं प्रकाशयति तस्यैष ईदृशो ऽनुभावः ।
अथ नन्ददत्तो बोधिसत्त्वो महासत्त्वस् तं नन्दश्रियं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् एतद् अवोचत् । गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तेषाञ् च बोधिसत्त्वानां महासत्त्वानां प्रायः कुमारभूतानां धारणीप्रतिसंविन्निर्हारप्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्राप्तानां । स भगवान् नन्दश्रीस् तथागत आह । गच्छ त्वं कुलपुत्र तां सहां लोकधातुं यस्येदानीं कालं मन्यसे ।
अथ नन्दश्रीस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो नानारत्नमयानां सुवर्णनिर्भासानां सहस्रपत्त्राणां पद्मानां सहस्रं नन्ददत्ताय बोधिसत्त्वाय महासत्त्वाय प्रादात् । एभिः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् अभ्यवकिर । संप्रजानविहारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा महासत्त्वा ये तत्र लोकधाताव् उपपन्नाः मा तत्र क्षणेथाः ।
अथ नन्ददत्तो बोधिसत्त्वो महासत्त्वस् तस्य भगवतो नन्दश्रियस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपिभिश् च ततो बुद्धक्षेत्राद् अन्तर्हितः । यावन्त उपरिष्टाद् दिशि बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तान् सर्वान् सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् महत्या बोधिसत्त्वर्ध्या महता बोधिसत्त्वानुभावेन । येन भगवांञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात् । एकान्ते स्थितो नन्ददत्तो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् नन्दश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्स ं बुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलञ् च सुखस्पर्शविहारताञ् च । इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्स ं बुद्धेन सुवर्णनिर्भासानि सहस्रपत्त्राणि पद्मानि प्रणिहितानि भगवतः पूजाकर्मणे ।
अथ भगवांञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तानि पद्मानि गृहीत्वा येन ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतार्हन्तः सम्यक्स ं बुद्धास् तेनाक्षैप्सीत् ।
अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन् । तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मं देशयन्ति स्म । यद् उतेमाम् एव षट्पारमिताम् आरभ्य यैश् च सत्त्वैः सा धर्मदेशना श्रुता ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्स ं बोधौ । ते ऽपि च बोधिसत्त्वा गृहस्थाः प्रव्रजिता दारकदारिकाश् च स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्स ं बुद्धं सत्कुर्वन्ति स्म गुरूकुर्वन्ति स्म मानयन्ति स्म पूजयन्ति स्म ॥
अथ तेन क्षणलवमूहूर्तेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः रत्नमयः संस्थितो ऽभूत् विचित्रपुष्पावकीर्णो ऽवसक्तपट्टदामकलापो नानागन्धघटिकानिर्धूपितः । कल्पवृक्षैर् नानालङ्कारफलाग्रविटपैः सर्वपुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षैर् माल्यवृक्षैश् चूर्णवृक्षैः प्रतिमण्डितः । तद्यथापि नाम पद्मावतीलोकधातुः समन्तकुसुमस्य तथागतस्यार्हतः सम्यक्स ं बुद्धस्य बुद्धक्षेत्रे मञ्जुश्रीः कुमारः प्रतिवसति । सुस्हितमतिश् च देवपुत्रो ऽन्ये सुमहौजस्का बोधिसत्त्वा महासत्त्वाः । यदा च भगवान् आज्ञासीत् स देवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् । तदा भगवान् आयुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयति स्म । इह शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वाकारान् सर्वधर्मान् अभिस ं बोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः ।
अथ खल्व् आयुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वाकारान् सर्वधर्मान् अभिस ं बोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः ॥
एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् । इह शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा अस्थानयोगेन दानपारमिता परिपूरयितव्या । अपरित्यागयोगेन देयदायकपरिग्राहकानुपलब्धिताम् उपादाय । शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय । क्षान्तिपारमिता परिपूरयितव्या अक्षोभनताम् उपादाय । वीर्यपारमिता परिपूरयितव्या कायचित्तवीर्यास्रंसनताम् उपादाय । ध्यानपारमिता परिपूरयितव्या अविक्षेपाशङ्करणताम् उपादाय । प्रज्ञापारमिता परिपूरयितव्या सर्वधर्मान् उपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि स्मृत्युपस्थानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि सम्यक्प्रहाणानि परिपूरयितव्यानि सम्यक्प्रहाणानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारः ऋद्धिपादाः परिपूरयितव्याः ऋद्धिपादानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्चेन्द्रियाणि परिपूरयितव्यानि इन्द्रियानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्च बलानि परिपूरयितव्यानि बलानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सप्तबोध्यङ्गानि परिपूरयितव्यानि बोध्यङ्गानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आर्याष्टाङ्गमार्गः परिपूरयितव्यः मार्गानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन शून्यतासमाधिः परिपूरयितव्यः शून्यतानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनानिमित्तः समाधिः परिपूरयितव्यः आनिमित्तानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाप्रणिहितः परिपूरयितव्यः अप्रणिहितानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि ध्यानानि परिपूरयितव्यानि ध्यानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वार्य् अप्रमाणानि परिपूरयितव्यानि अप्रमाणानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चतस्रः आरूप्यसमापत्तयः परिपूरयितव्याः आरूप्यानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अष्टौ विमोक्षाः परिपूरयितव्याः विमोक्षानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवानुपूर्वविहारसमापत्तिः परिपूरयितव्याः अनुपूर्वविहारानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन पञ्चाभिज्ञाः परिपूरयितव्याः अभिज्ञानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवसंज्ञा भावयितव्या ध्यातकसंज्ञा भावयितव्या ध्यातकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विपदाकसंज्ञा भावयितव्या विपदाकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विपूतिकसंज्ञा भावयितव्या विपूतिकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विलोहितसंज्ञा भावयितव्या विलोहितानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विनीलकसंज्ञा भावयितव्या विनीलकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विखादितकसंज्ञा भावयितव्या विखादितकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विक्षिप्तकमज्ञा भावयितव्या विक्षिप्तकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अस्थिसंज्ञा भावयितव्या अस्थनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विदग्धकसंज्ञा भावयितव्या विदग्धकानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आहारे प्रतिकूलसंज्ञा भावयितव्या प्रतिकूलानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन बुद्धानुस्मृतिर् भावयितव्या बुद्धानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या धर्मानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सङ्घानुस्मृतिर् भावयितव्या सङ्घानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन त्यागानुस्मृतिर् भावयितव्या त्यागानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् भावयितव्या देवतानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन आनापानानुस्मृतिर् भावयितव्या आनापानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन उद्वेगानुस्मृतिर् भावयितव्या उद्वेगानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन मरणानुस्मृतिर् भावयितव्या मरणानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन कायगतानुस्मृतिर् भावयितव्या कायानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनित्यसंज्ञा भावयितव्या अनित्यानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दुःखसंज्ञा भावयितव्या दुःखानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनात्मसंज्ञा भावयितव्या अनात्मानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अशुभसंज्ञा भावयितव्या अशुभानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वलोकानभिरतिसंज्ञा भावयितव्या अनभिरत्यनुपलब्दिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अविश्वाससंज्ञा भावयितव्या अविश्वासानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा
बोधिसत्त्वेन महासत्त्वेन दुःखसंज्ञानं भावयितव्यं दुःखानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन समुदयज्ञानं भावयितव्यं समुदयानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन निरोधज्ञानं भावयितव्यं निरोधानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन मार्गज्ञानं भावयितव्यं मार्गानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन क्षयज्ञानं भावयितव्यं क्षयानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अनुत्पादज्ञानं भावयितव्यं अनुत्पादानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन धर्मज्ञानं भावयितव्यं धर्मानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अन्वयज्ञानं भावयितव्यं अन्वयानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन संवृतिज्ञानं भावयितव्यं संवृत्यनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन परिचयज्ञानं भावयितव्यं परिचयानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन यथारुतज्ञानं भावयितव्यं यथारुतानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सवितर्कः सविचारः समाधिः परिपूरयितव्यः वितर्कविचारानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अवितर्काविचारमात्रः समाधिः परिपूरयितव्यः अवितर्काविचारानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञास्यामीतीन्द्रियं परिपूरयितव्यं आज्ञास्यामीतीन्द्रियानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञेन्द्रियं परिपूरयितव्यं आज्ञेन्द्रियानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाज्ञातावीन्द्रियं परिपूरयितव्यं आज्ञातावीन्द्रियानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अभिध्यायतनं परिपूरयितव्यम् अभिध्यायतनानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन कृत्स्नायतनं परिपूरयितव्यं कृत्स्नायतनानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि संग्रहवस्तूनि परिपूरयितव्यानि वस्त्वनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन व्यवस्थानानि परिपूरयितव्यानि व्यव्यस्थानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दशभूमयः परिपूरयितव्याः भूम्यनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश चर्याः परिपूरयितव्याः चर्यानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश क्षान्तयः परिपूरयितव्याः क्षान्त्यनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन विंशतिर् अध्याशयाः परिपूरयितव्याः अध्याशयानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वज्ञज्ञानं परिपूरयितव्यं सर्वज्ञज्ञानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन शमथविपश्यनाज्ञानं परिपूरयितव्यं शमथविपश्यनाज्ञानानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन तिस्रो ऽविद्याः परिपूरयितव्याः अविद्यानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चतस्रः प्रतिस ं विदः परिपूरयितव्याः प्रतिस ं विदानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि वैशारद्यानि परिपूरयितव्यानि वैशारद्यानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन अच्युताः पञ्चाभिज्ञाः परिपूरयितव्याः अच्युतानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन षट्पारमिताः परिपूरयितव्याः षट्पारमितानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सप्त धनानि परिपूरयितव्यानि धनानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाष्टौ पुरुषवितर्काः परिपूरयितव्याः वितर्कानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन नवसत्त्ववासाः परिपूरयितव्याः सत्त्ववासानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन दश बलानि परिपूरयितव्यानि बलानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेनाष्टादशावेणिकबुद्धधर्माः परिपूरयितव्याः आवेणिकबुद्धधर्मानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महामैत्री परिपूरयितव्या महामैत्र्यनुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महाकरुणा परिपूरयितव्या महाकरुणानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महामुदिता परिपूरयितव्या महामुदितानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन महोपेक्षा परिपूरयितव्या महोपेक्षानुपलब्धिताम् उपादाय । प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अभिस ं बोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । मार्गाकारज्ञतां परिज्ञातुकानेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । सर्वज्ञतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । सर्वसत्त्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । सर्ववासनानुसन्धिक्लेशान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । एवं हि शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन । प्रज्ञापारमितायां शिक्षितव्यं ।
बोधिसत्त्वन्यामं शारद्वतीपुत्रावक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । श्रावकभूमिप्रत्येकबुद्धभूमी प्रज्ञातुकामेन ते च भूमी अतिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अवैवर्तिकभूमौ स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । षडभिज्ञतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वसत्त्वचित्तचरितविस्पन्दितानि ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धानां ज्ञानम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । धारणीमुखसमाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च दानं ददतां एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च शीलं रक्षतां एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च क्षान्तिं भावयताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च वीर्यम् आरभ्यताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् च ध्यानानि समापद्यताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितॄणाञ् प्रज्ञां भावयताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वतत्कुशलमूलम् अभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनम् एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वश्रावकप्रत्येकबुद्धानां ध्यानविमोक्षसमापत्ती एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अल्पं दानं ददतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथ ं प्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अल्पं शीलं रक्षतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अल्पं क्षान्तिं भावयतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अल्पं वीर्यम् आरभमानः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अल्पं ध्यानं समापद्यतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं । अल्पप्रज्ञां भावयतः सर्वसत्त्वेभ्यः उपायकौशलपरिनामनायोगेन सर्वाकारज्ञतायां कथम् अप्रमेयासंख्येयापरिमाणं भवेद् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दानपारमितायां स्थातुकामेन दानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां चरितुकामेन शीलपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरितुकामेन क्षान्तिपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन वीर्यपारमितायां चरितुकामेन वीर्यपारमिता परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां चरितुकामेन ध्यानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुकामेन प्रज्ञापारमितां परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं । कथं मे सर्वजातौ बुद्धविग्रहदर्शनं भवेत् । बुद्धसमन्वाहारो बुद्धानिरोधनं बुद्धपरिग्रहं भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धकायं परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन द्वात्रिंशतो महापुरुषलक्षणानि प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनाशीतिम् अनुव्यञ्जनानि प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वत्र जातौ जातिस्मरतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिचित्तापरिप्रनाशतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबोधिसत्त्वचर्यास ं प्रमोषतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वपापमित्रपापसहायान् विवर्जितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धबोधिसत्त्वकल्याणमित्राण्य् आरागायितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वमारकायिका देवता विज्ञातुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वावरणीयानि विशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मानावरणतां
प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वकुलं परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धकुलम् आरागयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशानुपच्छेदाय स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन कुमारभूमिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धबोधिसत्त्वैर् अविरहितेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वभूमिम् अतिक्रमितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन क्षिप्रन् तथागतभूमिं परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन यैर् यैः कुशलमूलैर् यैर् यैर् आकारैर् आकाङ्क्षेत् सर्वबुद्धान् भगवतः सत्कर्तुं गुरूकर्तुं मानयितुं पूजयितुं । तानि मे कुशलमूलानि त आकाराः समृध्येयुर् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् सन्तोषयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् आज्ञाः परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् आशाः परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । अन्नपानवस्त्रयानविभूषणपुष्पधूपचूर्णमाल्यविलेपनशयनासनोपाश्रयग्लानप्रत्ययभेषज्यपरिष्कारैः धनधान्यालङ्कारमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजतोद्यानराज्यादिभिः सर्वोपकरणोपभोगैः सर्वसत्त्वान् सन्तर्पयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमालोके आकाशधातुपर्यवसाने सर्वसत्त्वान् महायाने समादापयितुकामेन दानपारमितायां प्रतिष्ठापयितुकालेन शीलपारमितायां प्रतिष्ठापयितुकामेम क्षान्तिपारमितायां प्रतिष्ठापयितुकामेन वीर्यपारमितायां प्रतिष्ठापयितुकामेन ध्यानपारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनैकम् अपि कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन बोधिसत्त्वोपनिषदनात् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितया । ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उत्तरस्यान् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बौधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि
बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यान्य् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकस्वरघोषेण विज्ञापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बुद्धोत्पादानुपच्छेदाय स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वकुलं रक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बुद्धवंशानुपच्छेदाय स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र अध्यात्मशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । बहिर्धाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अध्यात्मबहिर्धाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । शून्यताशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । महाशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । परमार्थशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । संस्कृतशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । असंस्कृतशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अत्यन्तशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनवराग्रशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनवकारशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । प्रकृतिशून्यतायां स्थातुकामम् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । स्वलक्षणशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनुपलम्भशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । स्वभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यं । अभावस्वभावशून्यतायां स्थातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्रालम्बनापतेयसमनन्तरहेतुप्रत्ययता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वर्तीपुत्राकारलक्षणान्य् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार्मितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां तथता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अवितथता अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनन्यतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अविकारतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यथाचेत्तथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां तथताम् अवबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां भूतकोटिम् अववोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यावन्त्यस् त्रिसाहस्रमहासाहस्रे लोकधातौ गङ्गानदीवालुकास् ताः सर्वाज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेष्व् अप्स्कन्धो नदीषु महानदीषु कुनदीषु सरस्तडागेषु पल्ललेषु तत् सर्वं शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन्निश्रियां प्राणिनो विहेठयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यावांस् त्रिसाहस्रमहासाहस्रे लोकधाताव् अग्निस्कन्धः स सर्व एकज्वालीभूतो भवेत् । तद्यथापि नाम कल्पोद्दाहे वर्तमाने तम् एकेन मुखवायुना निर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ वातमण्डलाका या इमं त्रिसाहस्रमहासाहस्रं लोकधातुं विधुनुयुर् विकिरेयुर् विध्वंसयेयुः तद्यथापि नाम बुसमुष्टितां सर्वामहाविक्षोभनावातमण्डलीयकानां गुल्याः प्रान्तकेन संच्छादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यस् त्रिसाहस्रमहासाहस्रे लोकधाताव् आकाशधातुस् तं सर्वम् एकपर्यङ्केन स्फुरितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरुचक्रवाडमहाचक्रवाडाः पर्वतराजास् तान् सर्वान् एकबालेन बद्ध्वाभ्युत्क्षिप्याप्रमेयासंख्येयान् लोकधातून् समुत्क्षिपेयम् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यावान्
त्रिसाहस्रमहामाहस्रे लोकधातौ वृक्षतृणगुल्मौषधिवनस्पतिसञ्चयो लोष्ट्रशर्करपाषाणपर्वतमहापृथिवीसंचयस् तं सर्वं परमाणुरजो योगेन ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गाङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेन एकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभराणेनैकच्छत्त्रेणैकध्वजनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः बोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवारा सश्रावकसंघास्तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गादीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकविलेपनेनैकचूर्णेनैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्त उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्त्वपरिवाराः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमालेनैकगन्धेनैकविलेपनेनैकचूर्णेनैकवस्त्रेणैकाभरणेनैकच्छत्त्रेणैकध्वजेनैकपताकया सत्कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमेपु लोकधातुषु ये सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापथितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्हन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां
प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफने प्रतिष्ठापयितुकामेन सकृदागामिस्कन्धे प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकागेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन श्रोत-आपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन अनागामिफले प्रतिष्ठापयितुकामेन अर्हत्त्वे प्रतिष्ठापयितुकामेन प्रत्येकबोधौ प्रतिष्ठापयितुकामेन सर्वज्ञतायां प्रतिष्ठापयितुकामेन मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यावन्तो दशदिग्लोकधातुषु सत्त्वास् तान् सर्वाञ् छ्रावकप्रत्येकबुद्धयानेन च महायानेन च परिनिर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं ददतैवं शिक्षितव्यं ॥
यद् एवं दानं दत्त्वा महाफलं भवत्य् एवं दानं दत्त्वा क्षत्रियमहाशीलकूलेषूपपद्यते । एवं दानं दत्त्वा ब्राह्मणमहाशीलकूलेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय चातुर्महाराजिकेषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय त्रायस्त्रिंशेषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय यामेषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय तुषितेषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय निर्माणरतिषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय परनिर्मितवशवर्तिषु देवेषूपपद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय प्रथमं ध्यानं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय द्वितीयं ध्यानं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय तृतीयं ध्यानं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय चतुर्थं ध्यानं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय आकाशानन्त्यायतनसमापत्तिं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय ज्ञानानन्त्यायतनसमापत्तिं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय आकिञ्चन्यायतनसमापत्तिं समापद्यते । एवं दानं दत्त्वा तद् एवं दानं निश्राय नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते । एवं दानं दत्त्वा चत्वारि स्मृत्युपस्थानान्य् उत्पद्यन्ते । एवं दानं दत्त्वा चत्वारि सम्यक्प्रहाणान्य् उत्पद्यन्ते । एवं दानं दत्त्वा पञ्चेन्द्रियाण्य् उत्पद्यन्ते । एवं दानं दत्त्वा पञ्च बलान्य् उत्पद्यन्ते । एवं दानं दत्त्वा सप्त बोध्यङ्गान्य् उत्पद्यन्ते । एवं दानं दत्त्वा आर्याष्टाङ्गो मार्ग उत्पद्यते । एवं दानं दत्त्वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उत्पद्यन्ते । एवं दानं दत्त्वा श्रोतआपत्तिफलम् अनुप्राप्यते । एवं दानं दत्त्वा सकृदागामिफलम् अनुप्राप्यते । एवं दानं दत्त्वा अनागामिफलम् अनुप्राप्यते । एवं दानं दत्त्वा अर्हत्त्वम् अनुप्राप्यते । एवं दानं दत्त्वा प्रत्येकबोधिर् अनुप्राप्यते । एवं दानं दत्त्वा अनुत्तरा सम्यक्स ं बोधिर् अनुप्राप्यते । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् जानात्य् एवम् उपायकौशल्येन दानं दत्तं दानपारमितां परिपूरयत्य् एव दानं दत्तं शीलपारमितां परिपूरयत्य् एवं दान दत्तं क्षान्तिपारमितां परिपूरयत्य् एवं दानं दत्तं वीर्यपारमितां परिपूरयत्य् एवं दानं दत्तं ध्यानपारमितां परिपूरयत्य् एवं दानं दत्तं प्रज्ञापारमितां परिपूरयति ।
अथायुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता भवति । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन शीलं रक्षता शीलपारमिता परिपूरिता भवति । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन क्षान्तिं भावयता क्षान्तिपारमिता परिपूरिता भवति । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन वीर्यम् आरभता वीर्यपारमिता परिपूरिता भवति । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन ध्यानं समापद्यता ध्यानपारमिता परिपूरिता भवति । कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञां भावयता प्रज्ञापारमिता परिपूरिता भवति । भगवान् आह । अनुपलम्भयोगेन शारद्वतीपुत्र दानस्य दायकस्य प्रतिग्राहकस्य त्रिमण्डलपरिशुद्ध्या दानपारमिता परिपूरिता भवति । आपत्त्यनापत्त्यध्यापत्तिताम् उपादाय शीलपारमिता परिपूरिता भवति । अक्षोभनताम् उपादाय क्षान्तिपारमिता परिपूरिता भवति । कायचित्तवीर्याश्रंसनताम् उपादाय वीर्यपारमिता परिपूरिता भवति । अविक्षेपासङ्करणताम् उपादाय ध्यानपारमिता परिपूरिता भवति । सर्वधर्मप्रज्ञानतानुपलम्भयोगेन प्रज्ञापारमिता परिपूरिता भवति । पुनर् अपरं शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वबुद्धगुणान् प्रज्ञातुकामेनानुप्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र संस्कृतासंस्कृतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र साश्रवानाश्रवाणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र कुशलाकुशलानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र लौकिकलोकोत्तराणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र रूप्यरूपिणां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र व्याकृताव्याकृतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र नियतानियतानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र नैर्यानिकानैर्यानिकानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र हानभागीयानां विशेषभागीयानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । [पुनर् अपरं शारद्वतीपुत्र भागीयानां विशेषभागीयानां धर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ।] पुनर् अपरं शारद्वतीपुत्र पृथग्जनधर्माणाम् आर्यधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र शैक्षधर्माणाम् अशैक्षधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुच श्रावकधर्माणां प्रत्येकबुद्धधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वधर्माणां बुद्धधर्माणाञ् च पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र सर्वधर्माणां पारंगन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन अतीतानागतप्रत्युत्पन्नानां धर्माणां तथताम् अनुबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां भूतकोटिं प्रतिवेद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां पूर्वंगमेन भवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धानां भगवताम् उपस्थायकेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धानां भगवताम् अत्यन्तपरिचारकेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन महापरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां बोधिसत्त्वपरिवाराणां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वदातॄणां दक्षिणां परिशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दानेन च गृहीतचित्तेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दौःशील्यचित्तपृथक्कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन व्यापादचित्तम् उत्स्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन कौसीद्यचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन विक्षेपचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन दौष्प्रज्ञचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् दानमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरः शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वाञ् छीलमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् भावनामये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ऐर्यापथसहगते पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् सर्वौषधिकसहगते पुण्यक्रियावस्तुनि
प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वाकारं पञ्च चक्षुंषि निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन यद् उत्तमात्मचक्षुर् निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । दिव्यं चक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । प्रज्ञाचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । धर्मचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । बुद्धचक्षुर् निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन यञ् च बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन
तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्यां समनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्विर्तुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकानेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषां बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितुं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा संद्रष्टुकामेन यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतां चेतसैव चेतः प्रज्ञातुकामेन तेषाञ् च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वचर्याम् अनुस्मर्तुकामेन तेषाञ् च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविकुर्वितं संद्रष्टुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन यन् ते बुद्धा भगवन्तो धर्मं भाषन्ते समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मं भाषन्ते तत् सर्वं श्रुत्वानाच्छेद्येन स्मृतिबलाधानेन सन्धारयितुकामेन यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धः एतस्मिन्न् अन्तरे सर्वम् अप्रणाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां भगवतां बुद्धानां बुद्धक्षेत्राणि च बुद्धक्षेत्रपरिशुद्धिञ् च द्रष्टुकामेन परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यत् किञ्चित् तथागतैर् भाषितं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मा यच् छ्रावकैर् न श्रुतं तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन तथता प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र यत् किञ्चित् पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् दक्षिणस्यान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च
विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चित् पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् उत्तरस्यान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् उत्तरपूर्वस्यान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चित् पूर्वदक्षिणस्यान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् दक्षिणपश्चिमायान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चित् पश्चिमोत्तरस्यान् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् अधस्ताद् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यत् किञ्चिद् उपरिष्टाद् दिशि सर्वबुद्धैर् भगवद्भिर् भाषितं भाषन्ते भाषिष्यन्ते तत् सर्वं श्रोतुकामेन उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन पर्यवाप्तुकामेन परेभ्यश् च विस्तरेण स ं प्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र याः पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा नवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः उत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । याः पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । या अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्योचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भामतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । या उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्रा अघा अघस्फुटा यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासतो न तपतो न विरोचतस् ताः सर्वा अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अप शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो
यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाह् शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापीयतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकातेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्र पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । यावन्तः शारद्वतीपुत्रोपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दं न धर्मशब्दं न सङ्घशब्दं सत्त्वाः शृण्वन्ति तत्र लोकधातुषु तान् सर्वसत्त्वान् बुद्धधर्मसङ्घशब्दान् श्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दान् श्रोष्यन्त्य् उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लानाव्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामं गमिष्यन्ति ममर्ध्या ममानुभावेनेति तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्र दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दान् श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लाना व्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामं गमिष्यन्ति ममर्ध्या ममानुभावेनेति तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्र पश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दान् श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लाना व्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामं गमिष्यन्ति ममर्ध्या ममानुभावेनेति तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्रोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लानाः व्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामंगमा भविष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्रोत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लाना व्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामंगमा भविष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्र पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दान् श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लानाः व्याधिभ्यः प्रतिमोक्ष्यन्ते, बन्धनावरोधगता यथाकामंगमा भविष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्वन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लानाः व्याधिभ्यः प्रतिमोक्ष्यन्ते बन्धनावरोधगता यथाकामंगमा भविष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्र पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश्
चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रनिलप्स्यन्ते ग्लानाः व्याधिभ्यः परिमोक्ष्यन्ते बन्धनावरोधगता यथाकामंगमा भविष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते नग्नाश् चीवराणि प्रतिलप्स्यन्ते क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते ग्लानाः व्याधिभ्यः परिमोक्ष्यन्ते, बन्धनावरोधगता यथाकामं गमिष्यन्ति ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ये शारद्वतीपुत्रोपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्त्वास् ते ममानुभावाच् चक्षुषा रूपाणि द्रक्ष्यन्ति, बधिराः श्रोत्रेण शब्दं श्रोष्यन्ति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते, नग्नाश् चीवराणि प्रतिलप्स्यन्ते, क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते, ग्लाना व्याधिभ्यः परिमोक्ष्यन्ते, बन्धनावरोधगता यथाकामंगमा भविष्यन्ति, ममर्ध्या ममानुभावेनेति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । किम् इति ये तत्र समन्ताद् दशसु दिक्षु एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अक्षणापायगताः सत्त्वाः नैरयिकाः तैर्यग्योनिका वा यामलौकिका वा ते ममानुभावात् ततश् च्युत्वा मानुष्यम् आत्मभावं प्रतिलप्स्यन्ते सर्वांश् च तान् सत्त्वाञ् छीले प्रतिष्ठापयितुकामेन, समाधौ प्रतिष्ठापयितुकामेन, प्रज्ञायां प्रतिष्ठापयितुकामेन, विमुक्तौ प्रतिष्ठापयितुकामेन, विमुक्तिज्ञानदर्शने प्रतिष्ठापयितुकामेन, श्रोतआपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले प्रतिष्ठापयितुकामेन, अनागामिफले प्रतिष्ठापयितुकासेन अर्हत्त्वे प्रतिष्ठापयितुकामेन, प्रत्येकबोधौ प्रतिष्ठापयितुकामेन, सर्वज्ञतायां प्रतिष्ठापयितुकामेन, मार्गाकारज्ञतायां प्रतिष्ठापयितुकामेन, सर्वाकारज्ञतायां प्रतिष्ठापयितुकामेन, अनुत्तरायां सम्यक्स ं बोधौ प्रतिष्ठापयितुकामेन, बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन तथागतेर्यापथं शिक्षितुकामेन, तथागतचर्याचारित्रविशुद्धं तथागतस्य ज्ञानपूर्वङ्गमकायकर्मवाक्कर्ममनस्कर्मपरिशुद्धिं शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यं । किम् इत्य् अहं महानागावलोकितम् अवलोक्य सत्त्वेभ्यो ऽक्षुण्णधर्मं देशयेयं । किम् इत्य् अहम् अतो सिंहविक्लम्भितेन विक्लम्भयेयं । किम् इत्य् अहम् अमोघविक्रामितेना विक्रामयेयं । किम् इत्य् अहं चतुरङ्गुलमात्रेण महापृथिवीं पद्भ्याम् अस्पृशन् गच्छेयं । किम् इत्य् अहं सहस्रपत्त्रेषु पद्मेषु पादतले निःक्षिपन् पादतलसन्निश्रितान् प्राणिनो ऽविहेठेयं । किम् इत्य् अहं सहस्रारचक्राभ्यां पादतलाभ्यां महापृथिवीं विचित्रयन् गच्छेयं । किम् इत्य् अहं चक्रप्रमाणमात्रं महापृथिव्याः परिवर्तेयं क्रमेयं । किम् इत्य् अहं सर्वां पृथिवीम् अनुचंक्रममाणः पृथिवीरजसा नानुलिप्येयं । किम् इत्य् अहम् एकं वा योजनं द्वे वा त्रीणि वा चत्वारि वा पञ्च वा दश वा विंशतं वा त्रिंशतं वा योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा योजनकोटीं वा योजनकोटीशतं वा योजनकोटीसहस्रं वा योजनकोटीशतसहस्रं वा यावद् अप्रमेयाणि वा असंख्येयानि वा अचिन्त्यानि वा अतुल्यानि वा अनन्तानि वा अपर्यन्तानि वा अभाष्याणि वा अनभिलाप्यानि अनभिलाप्यानभिलाप्यानि वा बुद्धक्षेत्राण्य् अनुविचरतानुचङ्क्रम्यमाणस्य न कायफल मे चित्तम् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चतरतैवं व्युपपरीक्षितव्यं । किम् इत्य् अहम् अधस्तात् कतमत्तरयोः सहस्राराभ्यां चक्राभ्यां रश्मिकोटीनियुतशतसहस्राणि प्रामुञ्चन् सर्वाक्षणापायदुःखानि प्रशमय्य सर्वसत्त्वान् सुखितान् कुर्याम् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । किम् इत्य् अहं चातुर्महाहाराजकायिकदेवैः त्रायस्त्रिंशैर् यामैस् तुषितैर् निर्माणरतिभिः परनिर्मितवशवर्तिभिः ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपार्षद्यैर् महाब्रह्मभिर् आभैः परीताभैर् अप्रमाणाभैर् आभास्वरैः शुभैः परीत्तशुभैः अप्रमाणशुभैः शुभकृत्स्नैर् वृहैः परीत्तवृहैर् अप्रमाणवृहैर् वृहत्फलैः अवृहैः अतपैः सदृशैः सुदर्शनैः अकनिष्ठैः अनेकदेवकोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो बोधिमण्डलम् उपसंक्रम्ययामीति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । किम् इति मे बोधिवृक्षतले निषीदतः चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवाः तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवाः ब्रह्मपुरोहिता देवाः ब्रह्मपार्षद्या देवाः महाब्रह्मणो देवाः परीत्ताभा देवाः आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवाः अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः वृहा देवाः वृहत्फला देवाः अवृहा देवाः अतपा देवाः सुदृशा देवाः सुदर्शना देवाः अकनिष्ठा देवाः दुष्प्रसंस्तरं कुर्युर् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । किम् इत्य् अहं बोधिमण्डलनिषण्णः पाणिना लक्षणसमलङ्कृतेन महापृथिवीं पराहत्य सपरिवारं कृष्णबन्धुन् नमुचिं पराजयेयम् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । किम् इति मे ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्य गच्छतस् तिष्ठतो निषीदतो निषण्णस्य शयानस्य पृथिवीप्रदेशो वज्रमयः सन्तिष्ठेतेति तेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैव व्युपपरीक्षितव्यं । किम् इत्य् अहं यत्रैव दिवसे ऽभिनिष्क्रामेयं तत्रैव दिवसे सपरिषत्कं कृष्णबन्धुं जित्वा अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्येयं, अभिस ं बुध्य तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयं । प्रवर्ततश् चाप्रमेयासंख्येयानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धम् अप्रमेयासंख्येयानां सत्त्वानाम् अनुपायाश्रवेभ्यश् चित्तानि विमुच्येरन् । अप्रमेयासंख्येयाः सत्त्वाः अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्स ं बोधाव् इति तेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन
प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । किम् इति मे ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्याप्रमेयासख्येयश्रावकसंघो भवेद् एकधर्मदेशनया चाप्रमेयासंख्येया एकासनिका अर्हन्तो भवेयुर् बोधिसत्त्वाश् च महासत्त्वाश् च अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्स ं बोधौ अप्रमेयासंख्येयापरिमाणश् च बोधिसत्वसंघो भवेद् अमितं नायुष्प्रमाणं अमिता प्रभा सम्यग् भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं चित्तम् उत्पादयितव्यं । किम् इति मे ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्य तत्र बुद्धक्षेत्रे रागद्वेषमोहशब्दो ऽपि न भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं चित्तम् उत्पादयितव्यं । किम् इति मे ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वा एवंरूपया प्रज्ञया समन्वागता भवेयुर् यद् एवं जानीरन् साधु दानं सधु दमं साधु ब्रह्मचर्यं साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं चित्तम् उत्पादयितव्यं । किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानशब्दो ऽपि न भवेद् इति प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं चित्तम् उत्पादयितव्यं । किम् इति मे सहश्रवणमात्रेण नामधेयस्य गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नियता भवेयुर् अनुत्तरायां सम्यक्स ं बोधाव् इति प्रज्ञापारमितायां शिक्षितव्यं । यस्मिन् शारद्वतीपुत्र समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् गुणान् उत्पादयति तस्मिन् समय आत्तमनस्का भवन्ति चत्वारो महाराजा वयम् अत्र चत्वारि पात्राणि प्रतिष्ठापयिष्यामो यानि पौर्विकैर् महाराजैः पौर्विकेषु तथागतेषु प्रतिष्ठापितानि । आत्तमनस्का भवन्ति त्रायस्त्रिंशा देवाः आत्तमनस्का भवन्ति यामा देवाः आत्तमनस्का भवन्ति तुषिता देवा आत्तमनस्का भवन्ति निर्माणरतयो देवाः आत्तमनस्का भवन्ति परनिर्मितवशवर्तिनो देवाः [आत्तमनस्का भवन्ति] वयम् अप्य् अस्य उपस्थापनपरिचर्याकर्म करिष्यामः एवम् आसुराः कायाः परिहास्यन्ते दिव्याः काया अभिवर्धन्ते आत्तमनस्का भवन्ति ब्रह्मकायिका देवा आत्तमनस्का भवन्ति ब्रह्मपुरोहिता देवा आत्तमनस्का भवन्ति ब्रह्मपार्षद्या देवा आत्तमनस्का भवन्ति महाब्रह्मणो देवा आत्तमनस्का भवन्ति परीत्ताभा देवा आत्तमनस्का भवन्ति अप्रमाणाभा देवा आत्तमनस्का भवन्ति आभास्वरा देवा आत्तमनस्का भवन्ति परीत्तशुभा देवा आत्तमनस्का भवन्ति अप्रमाणशुभा देवा आत्तमनस्का भवन्ति शभकृत्ना देवा आत्तमनस्का भवन्ति वृहा देवा आत्तमनस्का भवन्ति परीत्तवृहा देवा आत्तमनस्का भवन्ति अप्रमाणवृहा देवा आत्तमनस्का भवन्ति वृहत्फला देवा आत्तमनस्का भवन्ति अवृहा देवा आत्तमनस्का भवन्ति अतपा देवा आत्तमनस्का भवन्ति सुदृशा देवा आत्तमनस्का भवन्ति सुदर्शना देवा आत्तमनस्का भवन्ति अकनिष्ठा देवा वयम् एनम् अभिस ं बुद्धम् अध्येषिष्यामहे धर्मचक्रप्रवर्तनाय, यस्मिन् समये शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिर् आत्तमनस्कास् तस्मिन् समये भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य महासत्त्वस्य मातापितरौ भविष्यामो भ्रातृभगिनीभार्यापुत्रदुहितृमित्रामात्यज्ञातिसहाया संमोदिता भविष्याम इत्य् आत्तमनस्का भवन्ति चत्वारो महाराजाश् चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा यामा देवाः तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवाः ब्रह्मपुरोहिता देवाः ब्रह्मपार्षद्या देवा महाब्रह्मणो देवाः आभास्वरा देवाः शुभादेवाः परीत्तशुभा देवाः अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः अप्रमाणवृहा देवाः वृहत्फला देवाः अवृहा देवाः अतपा देवाः सुदृशा देवाः सुदर्शना देवाः अकनिष्ठा देवाः बोधिसत्त्वस्य महासत्त्वस्य मैथुनसंयोगप्रस्थानतायै, स खलु ब्रह्मचारी भवति । सत्त्वानां बोधिनियोजनतायै न संयोजनतायै धर्मैः संयुज्यते स एवं प्रणिदधाति । प्रथमचित्तोत्पादं मयोपादाय ब्रह्मचारिणा भवितव्यं नाब्रह्मचारिणा तत् कस्य हेतोः । कामान् खलु पुनः प्रतिषेधमानस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो भवति । कः पुनर् वादो ऽनुत्तरायाः सम्यक्स ं बोधेस् तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणाभिनिष्क्रम्यानुत्तरा सम्यक्स ं बोधिर् अभिस ं बोद्धव्या नाब्रह्मचारिणा । एवम् उक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । किं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्यावश्यं मातापितृभार्यापुत्रदुहितृभिर् भवितव्यं । भगवान् आह । केषाञ्चिच् छारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानाम् अवश्यं मातापितृभ्यां भवितव्यं । भार्यापुत्रदुहितृभिर् भवितव्यं । केषाञ्चिद् अवश्यं मातापितृभार्यापुत्रदुहितृभिर् भवितव्यं । केषाञ्चिच् छारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् एव उपादाय ब्रहचर्यसमादानं भवति ते नित्यं कुमारभूता एव यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते । केचित् पुनर् ब् ओधिसत्त्वा महासत्त्वा उपायकौशलेन सत्त्वपरिपाकाय पञ्चकामगुणान् भुञ्जन्तः पुरमध्याद् अभिनिष्क्रम्यानुत्तरां सम्यक्स्ंबोधिम् अभिस ं बुध्यन्ते । केचित् पुनर् बोधिसत्त्वा महासत्त्वाः गम्भीरप्रज्ञापारमिताप्रतिलब्धाः अपगतकामक्लेशास् ते सत्त्वपरिपाकाय कामगुणापरिभोगं च उपदिशन्ति न च परिभुञ्जते । तद्यथापि नाम शारद्वतीपुत्र दक्षो मायाकारो मायाकारान्तेवासीवा सुशिक्षितो मायाविद्यासंयोगज्ञानेन स पञ्चकामगुणान् अभिनिर्माय पञ्चभिः कामगुणै रममाणं क्रीडन्तं परिचारयन्तम् आत्मानम् उपदर्शयेत् तत् किं मन्यसे शारद्वतीपुत्रापि नु तेन मायाकारेण मायाकारान्तेवासिना वा पञ्चकामगुणाः परिभुक्ता भवेयुः । नो हीदं भगवन् । भगवान् आह । एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा महायाने सुशिक्षिता मायोपमधर्मताविहारप्रतिलब्धाः सर्वक्लेशविगतविनेयसत्त्वपरिपाकाय महाकरुणावशेन कामगुणपरिभोगञ् च उपदिशन्ति । न च कामगुणान् परिभुञ्जन्ते । न च तैः सार्धं स ं वसन्ति । न तैः परिक्लिश्यन्ते । अनेकपर्यायेण शारद्वतीपुत्र बोधिसत्त्वाः महासत्त्वाः कामानां वर्णान् भाषन्ते । आदीप्ताः कामाः, वधकाः कामाः, प्रत्यर्थिकाः कामाः, प्रत्यमित्राः कामाः, भृशोल्कोपमाः कामाः, किम्पाकफलोपमाः कामाः, असिधारोपमाः कामाः अङ्गाररश्युपमाः कामाः, विषमान्नोपमाः कामाः वडिशोपमाः कामाः मोहकूपोपमाः कामाः । एवं हि शारद्वतीपुत्र
बोधिसत्त्वाः महासत्त्वाः कामान् परिजानन्ति । सत्त्वानाम् अनुपायकुशलानां परिपाचनार्थं पञ्चभ्यः पञ्चभ्यः कामगुणेभ्यः विवेचनार्थं पञ्च कामगुणान् उपदर्शयन्ति । न च तैर् माद्यन्ति न कामहेतोर् न कामनिदानं पापकर्माध्यवस्यन्ति । एवम् उक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । कथं पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । भगवान् आह । इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वं न समनुपश्यति । बोधिसत्त्वचर्याम् अपि न समनुपश्यति । प्रज्ञापारमितां न समनुपश्यति । प्रज्ञापारमितानामापि न समनुपश्यति । चरतीति न समनुपश्यति । न चरतीति न समनुपश्यति । रूपम् अपि न समनुपश्यति । वेदनाम् अपि न समनुपश्यति । संज्ञाम् अपि न समनुपश्यति । संस्काराम् अपि न समनुपश्यति । विज्ञानम् अपि न समनुपश्यति । तत् कस्य हेतोः तथा हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः स्वभावेन शून्यः एवं हि बोधिसत्त्वनाम बोधिसत्त्वनाम्ना शून्यं । तत् कस्य हेतोः प्रकृतिर् अस्यैषा तथा हि न शून्यतया रूपं शून्यं नान्यत्र रूपात् शून्यता रूपम् एव शून्यता शून्यतैव रूपं । न शून्यतया वेदना शून्या नान्यत्र वेदनायाः शून्यता वेदनैव शून्यता शून्यतैव वेदना । न शून्यतया संज्ञा शून्या नान्यत्र संज्ञायाः शून्यता संज्ञैव शून्यता शून्यतैव संज्ञा । न शून्यतया संस्काराः शून्याः नान्यत्र संस्कारेभ्यः शून्यता संस्कारा एव शून्यता शून्यतैव संस्काराः । न शून्यतया विज्ञानं शून्यं नान्यत्र विज्ञानात् शून्यता । विज्ञानम् एव शून्यता शून्यतैव विज्ञानं । तत् कस्य हेतोस् तथा हि नाममात्रम् इदं यद् उत बोधिसत्त्वः नाममात्रम् इदं यद् उत शून्यता नाममात्रम् इदं यद् उत रूपं नाममात्रम् इदं यद् उत वेदना, नाममात्रम् इदं यद् उत संज्ञा नाममात्रम् इदं यद् उत संस्काराः । नाममात्रम् इदं यद् उत विज्ञानं । तथा हि मायोपमं रूपं मायोपमा वेदना, मायोपमा संज्ञा, मायोपमाः संस्काराः मायोपमं विज्ञानं । माया च नाममात्रं न देशस्था न प्रदेशस्था असद् अस ं भूतं वितथसमं मायादर्शनं स्वभावविरहितम् अस्वभावश् चानुत्पादो ऽनिरोधः । अस्थानं न हानिर् न वृद्धिर् न संक्लेशो न व्यवदानं एवं चरन् बोधिसत्त्वो महासत्त्वः कस्यचिद् धर्मस्य उत्पादं न समनुपश्यति निरोधं न समनुपश्यति स्थानं न समनुपश्यति हानिं न समनुपश्यति वृद्धिं न समनुपश्यति संक्लेशं न समनुपश्यति व्यवदानं न समनुपश्यति । रूपं न समनुपश्यति । वेदनां न समनुपश्यति । संज्ञां न समनुपश्यति । संस्कारान् न समनुपश्यति । विज्ञानं न समनुपश्यति । बोधिर् इति बोधिसत्त्व इति यद् उच्यते तद् अपि न समनुपश्यति । तत् कस्य हेतोः तथा हि कृत्रिमनामप्रतिपत्तिधर्मं ते कल्पिता आगन्तुकेन नामधेयेनाभूतपरिकल्पितेन व्यवह्रियन्ते, व्यवहाराच् चाभिनिविश्यन्ते तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् न समनुपश्यति नोपलभते असमनुपश्यन् अनुपलभमानो न मन्यते नाभिनिविशते । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं व्युपपरीक्षेत नाममात्रं यद् उत बोधिसत्त्व इति नाममात्रम् इदं यद् उत बोधिर् इति नाममात्रम् इदं यद् उत बुद्ध इति नाममात्रम् इदं यद् उत प्रज्ञापारमितेति नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चरतीति । नाममात्रम् इदं यद् उत रूपम् इति नाममात्रम् इदं यद् उत वेदनेति । नाममात्रम् इदं यद् उत संज्ञेति । नाममात्रम् इदं यद् उत संस्कारा इति । नाममात्रम् इदं यद् उत विज्ञानम् इति । तद्यथापि नाम शारद्वतीपुत्र आत्मेति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । सत्त्वः सत्व इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । जीवो जीव इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते अनुपलम्भशून्यताम् उपादाय । पोषः पोष इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । पुरुषः पुरुष इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । पुद्गलः पुद्गल इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । मनुजो मनुज इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । मानवो मानव इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । कारापकः कारापक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । वेदकः वेदक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोप लभ्यते । वेदयितृको वेदयितृक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । उत्थापक उत्थापक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । समुत्थापकः समुत्थापक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । जानको जानक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । पश्यकः पश्यक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । स्पर्शकः स्पर्शक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । तद्यथापि नाम विजानको विजानक इति व्यवह्रियते स च यथाभूतं परिगवेष्यमाणो नोपलभ्यते । अनुपलम्भशून्यताम् उपादाय । यावद् एव नामसङ्केतमात्रेण व्यवह्रियते एवम् एव बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वं न समनुपश्यति बुद्धं न समनुपश्यति प्रज्ञापारमितां न समनुपश्यति । रूपं न समनुपश्यति वेदनां न समनुपश्यति संज्ञां न समनुपश्यति संस्कारान् न समनुपश्यति विज्ञानं न समनुपश्यति । येन नाम्ना व्यवह्रियते तद् अपि नाम न समनुपश्यति । एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् तथागतप्रज्ञां स्थापयित्वा सत्त्वा #सर्वास् तदन्याः# प्रज्ञा यावत् सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवत्य् अनुपलम्भशून्यताम् उपादाय । तत् कस्य हेतोस् तथा हि एतद् अपि न समनुपश्यति नोपलभते येनाभिनिविशेत । एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति । सचेच् छारद्वतीपुत्र अयं जम्बुद्वीपः परिपूर्णो भवेत् मौद्गल्यायनसदृशैर् भिक्षुभिः । तद्यथापि नाम नडवनं वा शरवनं वा वेणुवनं वा इक्षुवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटिनियुततमीम् अपि कलां
नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते तत् कस्य हेतोस् तथा हि शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य या प्रज्ञा सा सर्वसत्त्वानां परिनिर्वाणाय प्रत्युपस्थिता न तु सर्वश्रावकप्रत्येकबुद्धानां । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या एकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभूय तिष्ठति । तिष्ठतु शारद्वतीपुत्र जम्बुद्वीपः परिपूर्णः शारद्वतीपुत्रं मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेद् युष्माभिर् ईदृशैर् भिक्षुभिस् तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञायाः शततमीं कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः । सचेच् छारद्वतीपुत्र पूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिस् तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति । संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कोटीतमीम् अपि कलां नोपैति कटीशततमीम् अपि कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र पश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति । कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति । कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति । कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति । संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र उत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिस् तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति । कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र उत्तरपूर्वस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपुर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिस् तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम्
अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति । संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र पूर्वदक्षिणस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति । कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र दक्षिणपश्चिमायान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्र पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्र पश्चिमोत्तरस्यान् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तिष्ठतु शारद्वतीपुत्राधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णाः शारद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । सचेच् छारद्वतीपुत्रोपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शरद्वतीपुत्र मौद्गल्यायनसदृशैर् भिक्षुभिः । तेषां या प्रज्ञा सा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । शारद्वतीपुत्र आह येयं भगवच् छ्रावकानां प्रज्ञा श्रोत-आपन्नस्य सकृदागामिनो ऽनागामिनो ऽर्हतो या च प्रत्येकबुद्धस्य या च बोधिसत्त्वस्य या च तथागतस्यार्हतः सम्यक्स ं बुद्धस्य प्रज्ञा सर्वास् ताः प्रज्ञाः अभिन्नाः अभेदः शून्या विविक्तानुत्पादप्रकृतिकाः स्वभावशून्याः न च भगवन्न् अभेदस्य विविक्तस्यानुत्पादस्य स्वभावशून्यस्य विशेषो वा नानाकरणं वा उपलभ्यते । तत् कथं भगवन् येयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभवति । भगवान् आह । तत् किं मन्यसे शारद्वतीपुत्र येन कृत्येन बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभाविता प्रज्ञा प्रत्युपस्थिता मार्गाकारज्ञतायां चरता सर्वसत्त्वानाम् अर्थं कुर्वता सर्वाकार सर्वधर्मान् अभिस ं बुध्य सर्वसत्त्वाः परिनिर्वापयितव्या इति अपि नु तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा प्रत्युपस्थिता । आह । नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानां एवं भवत्य् अस्माभिर् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्य सर्वसत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः । आह । नो हीदं भगवन् । भगवान् आह । तद् अनेनापि ते शारद्वतीपुत्र पर्यायेणेदं वेदितव्यं । येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा या बोधिसत्त्वस्य महासत्त्वस्य इमां प्रज्ञाम् उपनिधाय एषा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि कलां नोपैति शतसहस्रतमीम् अपि कलां नोपैति कोटीतमीम् अपि कलां नोपैति कोटीशततमीम् अपि कलां नोपैति कोटीसहस्रतमीम् अपि कलां नोपैति कोटीशतसहस्रतमीम् अपि कलां नोपैति कोटीनियुततमीम् अपि कलां नोपैति कोटीनियुतशततमीम् अपि कलां नोपैति कोटीनियुतसहस्रतमीम् अपि कलां नोपैति कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति संख्याम् अपि नोपैति कलाम् अपि नोपैति गणनाम् अपि नोपैति उपमाम् अपि नोपैति उपनिशाम् अपि न क्षमते । तत् किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति वयं षट्पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं
परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदः महामैत्रीं महाकरुणां अष्टादशावेणिकबुद्धधर्माः परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिस ं बुध्याप्रमेयासंख्येयापरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति । आह । नो हीदं भगवन् । भगवान् आह । बोधिसत्त्वस्य पुनः शारद्वतीपुत्र महासत्त्वस्य एवं भवति मया षट्पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदो महामैत्रीं महाकरुणां अष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्याप्रमेयासंख्येयापरिमाणाः सत्त्वाः परिनिर्वापयितव्याः तद्यथापि नाम शारद्वतीपुत्र खद्योतकस्य प्राणकजातस्य नैवं भवत्य् अहम् आभया जाम्बुद्वीपम् अवभासयेयं ममाभया जाम्बुद्वीपः स्फुटो भवेत् एवम् एव शारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैव भवति । वयं षट्पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदः महामैत्रीं महाकरुणां अष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्याप्रमेयासंख्येयापरिमाणान् सत्त्वान् परिनिर्वापयिष्यामि इति । तद्यथापि नाम शारद्वतीपुत्र सूर्यमण्डलम् उदागच्छन् सर्वजाम्बुद्वीपम् अवभासेन स्फुरति सर्वं जाम्बुद्वीपम् अवभासेन स्फुटीकरोति । एवम् एव शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदः महामैत्रीं महाकरुणां अष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्याप्रमेयासंख्येयापरिमाणान् सत्त्वान् परिनिर्वापयति । एवम् उक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमी अतिक्रम्य अवैवर्तिकबोधिसत्त्वभूमीम् अनुप्राप्नोति बोधिसत्त्वमार्गञ् च परिशोधयति । एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् । इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्पारमितासु चरन् शून्यतानिमित्ताप्रणिहितेषु धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमीर् अतिक्रम्यावैवर्तिकबोधिसत्त्वभूमीम् अनुप्राप्नोति । शारद्वतीपुत्र आह कतमस्यां भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति । भगवान् आह । प्रथमचित्तोत्पादं शारद्वतीपुत्र उपादाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यावद् बोधिमण्डनिषण्णः अत्रान्तरा सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो वक्तव्यः । तत् कस्य हेतोस् तथा हि शारद्वतीपुत्र बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति । यद् उत दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति । पञ्चानां शिक्षापदानां लोके प्रादुर्भावो भवति । अष्टाङ्गसमन्वागतस्य पोषधर्मस्य लोके प्रादुर्भावो भवति । चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति । चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति । पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति । षण्णाम् अनुस्मृतीनां लोके प्रादुर्भावो भवति । दानपारमितायाः लोके प्रादुर्भावो भवति । शीलपारमितायाः लोके प्रादुर्भावो भवति । क्षान्तिपारमितायाः लोके प्रादुर्भावो भवति । वीर्यपारमितायाः लोके प्रादुर्भावो भवति । ध्यानपारमितायाः लोके प्रादुर्भावो भवति । प्रज्ञापारमितायाः लोके प्रादुर्भावो भवति । अध्यात्मशून्यतायाः लोके प्रादुर्भावो भवति । बहिर्धाशून्यतायाः लोके प्रादुर्भावो भवति । अध्यात्मबहिर्धाशून्यतायाः लोके प्रादुर्भावो भवति । शून्यताशून्यतायाः लोके प्रादुर्भावो भवति । महाशून्यतायाः लोके प्रादुर्भावो भवति । परमार्थशून्यताया लोके प्रादुर्भावो भवति । संस्कृतशून्यताया लोके प्रादुर्भावो भवति । असंस्कृतशून्यताया लोके प्रादुर्भावो भवति । अत्यन्तशून्यताया लोके प्रादुर्भावो भवति । अनवराग्रशून्यताया लोके प्रादुर्भावो भवति । अनवकारशून्यताया लोके प्रादुर्भावो भवति । प्रकृतिशून्यताया लोके प्रादुर्भावो भवति । सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति । स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति । अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति । अभावशून्यताया लोके प्रादुर्भावो भवति । स्वभावशून्यताया लोके प्रादुर्भावो भवति । अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति । चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति । चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति । चतुर्णां ऋद्धिपादानां लोके प्रादुर्भावो भवति । पञ्चानाम् इन्द्रियाणां लोके प्रादुर्भावो भवति । पञ्चानां बलानां लोके प्रादुर्भावो भवति । सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति । आर्याष्टाङ्गमार्गस्य लोके प्रादुर्भावो भवति । चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति । अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति । नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति । शून्यतानिमित्ताप्रणिहितानां विमोक्षमुखानां लोके प्रादुर्भावो भवति । सर्वसमाधीनां लोके प्रादुर्भावो भवति । सर्वधारणीमुखानां लोके प्रादुर्भावो भवति । दशानां तथागतबलानां लोके प्रादुर्भावो भवति । चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति । चतसृणां प्रतिस ं विदां लोके प्रादुर्भावो भवति । महामैत्र्या लोके प्रादुर्भावो भवति । महाकरुणाया लोके प्रादुर्भावो भवति । अष्टादशावेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति । एवमादीनां शारद्वतीपुत्र कुशलानां धर्माणां लोके प्रादुर्भावो भवति । एषाञ् च कुशलमूलानां धर्माणां प्रादुर्भावात् क्षत्रियमहाशालकुलानि प्रज्ञायन्ते । ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते । गृहपतिमहाशालकुलानि प्रज्ञायन्ते । चतुर्महाराजकायिका देवाः प्रज्ञायन्ते । त्रायस्त्रिंशा देवाः प्रज्ञायन्ते । यामा देवाः प्रज्ञायन्ते । तुषिता देवाः प्रज्ञायन्ते । निर्माणरतयो देवाः प्रज्ञायन्ते । परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते । ब्रह्मकायिका देवाः प्रज्ञायन्ते । ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते । ब्रह्मपार्षद्याः देवाः प्रज्ञायन्ते । महाब्रह्मणो देवाः प्रज्ञायन्ते । आभा देवाः प्रज्ञायन्ते । परीत्ताभा देवाः प्रज्ञायन्ते । अप्रमाणाभा देवाः प्रज्ञायन्ते । आभास्वरा देवाः प्रज्ञायन्ते । शुभा देवाः प्रज्ञायन्ते । परीत्तशुभा देवाः प्रज्ञायन्त । अप्रमाणशुभा देवाः प्रज्ञायन्त । शुभकृत्स्ना देवाः प्रज्ञायन्ते । वृहा देवाः प्रज्ञायन्ते । परीत्तवृहा देवाः प्रज्ञायन्ते । अप्रमाणवृहा देवाः प्रज्ञायन्ते । वृहत्फला देवाः
प्रज्ञायन्ते । अवृहा देवाः प्रज्ञायन्ते । अतपा देवाः प्रज्ञायन्ते । सदृशा देवाः प्रज्ञायन्ते । सुदर्शना देवाः प्रज्ञायन्ते । अकनिष्ठा देवाः प्रज्ञायन्त । आकाशानन्त्यायतना देवाः प्रज्ञायन्ते । विज्ञानानन्त्यायतना देवाः प्रज्ञायन्ते । आकिञ्चन्यायतना देवाः प्रज्ञायन्ते । नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते । श्रोतआपन्ना देवाः प्रज्ञायन्ते । सकृदागामिनः प्रज्ञायन्ते । अनागामिनः प्रज्ञायन्ते । अर्हन्तः प्रज्ञायन्ते । प्रत्येकबुद्धाः प्रज्ञायन्ते । बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते । तथागता अर्हन्तः सम्यक्स ं बुद्धाः प्रज्ञायन्ते । आह । किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति । भगवान् आह । पर्यायेण शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति । तत् कस्य हेतोर् अत्यन्तविशुद्धा हि शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दक्षिणास् तथा हि दायकः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः कस्य दायकः अनेकेषां कुशलानां धर्माणां यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापादानां अष्टाङ्गसमन्वागतस्य पोषस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्य्समापत्तीनां पञ्चानाम् अभिज्ञानां षण्णाम् अनुस्मृतीनां दानपारमितायाः शीलपारमितायाः क्षान्तिपारमितायाः वीर्यपारमितायाः ध्यानपारमितायाः प्रज्ञापारमितायाः अध्यात्मशून्यतायाः बहिर्धाशून्यतायाः अध्यात्मबहिर्धाशून्यतायाः शून्यताशून्यतायाः महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यतायाः असंस्कृतशून्यतायाः अत्यन्तशून्यताया अनवराग्रशून्यतायाः अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यतायाः अनुपलम्भशून्यताया अभावशून्यतायाः स्वभावशून्यतायाः अभावस्वभावशून्यतायाः चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानां आर्याष्टाङ्गस्य मार्गस्य चतुर्णाम् आर्यसत्यानां अष्टानां विमोक्षाणां नवानाम् अनुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां विमोक्षमुखानां धारणीमुखानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिस ं विदां महामैत्र्या महाकरुनायाः अष्टादशानां आवेणिकानां बुद्धधर्माणां । आह । कथं युज्यमानो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः । भगवान् आह । इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः रूपशून्यतायां युक्तो युक्त इति वक्तव्यः वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः । संज्ञाशून्यतायां युक्तो युक्त इति वक्तव्यः । संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः । विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः । चक्षुः शून्यतायां युक्तो युक्त इति वक्तव्यः । श्रोत्रशून्यतायां युक्तो युक्त इति वक्तव्यः । घ्राणशून्यतायां युक्तो युक्त इति वक्तव्यः । जिह्वाशून्यतायां युक्तो युक्त इति वक्तव्यः । कायशून्यतायां युक्तो युक्त इति वक्तव्यः । मनःशून्यतायां यक्तो युक्त इति वक्तव्यः । रूपशून्यतायां युक्तो युक्त इति वक्तव्यः । शब्दशून्यतायां युक्तो युक्त इति वक्तव्यः । गन्धशून्यतायां युक्तो युक्त इति वक्तव्यः । रसशून्यतायां युक्तो युक्त इति वक्तव्यः । स्पर्शशून्यतायां युक्तो युक्त इति वक्तव्यः । धर्मशून्यतायां युक्तो युक्त इति वक्तव्यः । चक्षुर्धातुशून्यतायां युक्तो युक्त इति वक्तव्यः । रूपधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । चक्षुर्विज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । श्रोत्रधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । शब्दधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । श्रोत्रविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । घ्राणधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । गन्धधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । घ्राणविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । जिह्वाधातुशून्यतायां युक्तो युक्त इति वकव्यः । रसधातुशून्यतायां युक्तो युक्त इति वक्ताव्यः । जिह्वाविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । कायधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । स्पर्शधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । कायविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । मनोधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । धर्मधातुशून्यतायां युक्तो युक्त इति वक्तव्यः । मनोविज्ञानधातुशून्यता युक्त युक्त इति वक्तव्यः । दुःखशून्यतायां युक्तो युक्त इति वक्तव्यः । समुदयशून्यतायां युक्तो युक्त इति वक्तव्यः । निरोधशून्यतायां युक्तो युक्त इति वक्तव्यः । मार्गशून्यतायां युक्तो युक्त इति वक्तव्यः । अविद्याशून्यतायां युक्तो युक्त इति वक्तव्यः । संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः । विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः । नामरूपशून्यतायां युक्तो युक्त इति वक्तव्यः । षडायतनशून्यतायां युक्तो युक्त इति वक्तव्यः । स्पर्शशून्यतायां युक्तो युक्त इति वक्तव्यः । वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः । तृष्णाशून्यतायां युक्तो युक्त इति वक्तव्यः । उपादानशून्यतायां युक्तो युक्त इति वक्तव्यः । भवशून्यतायां युक्तो युक्त इति वक्तव्यः । जातिशून्यतायां युक्तो युक्त इति वक्तव्यः । जरामरणशून्यतायां युक्तो युक्त इति वक्तव्यः । सर्वधर्मशून्यतायां युक्तो युक्त इति वक्तव्यः केचित् संज्ञागताः संस्कृतासंस्कृता धर्माः सर्वेषां धर्माणां शून्यतायां युक्तो युक्त इति वक्तव्यः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां युक्तो युक्त्र इति वक्तव्यः । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आसु सप्तसु शून्यतासु युक्तो युक्त इति वक्तव्यः । एवं खलु शारद्वतीपुत्र स आभिः सप्तभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् युक्त इति वा अयुक्त इति वा वक्तव्यः । तत् कस्य हेतोस् तथा हि स न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति न वेदना युक्तेति वा अयुक्तेति वा समनुपश्यति । न संज्ञा युक्तेति वा अयुक्तेति वा समनुपश्यति । न संस्काराः युक्ता इति वा अयुक्ता इति वा समनुपश्यति । न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति । न संज्ञाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति । संस्कारान् उत्पादधर्मिणो वा निरोधधर्मिणो वा समनुपश्यति । न विज्ञानम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति । न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति । न संज्ञां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति । न संस्कारान् संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति । न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति । न
रूपं वेदनया सह समवसरतीति समनुपश्यति । न वेदना रूपेण सह समवसरतीति समनुपश्यति । न वेदना संज्ञया सह समवसरतीति समनुपश्यति । न संज्ञा वेदनया सह समवसरतीति समनुपश्यति । न संज्ञा संस्कारैः सह समवसरतीति समनुपश्यति । न संस्काराः संज्ञया सह समवसरन्तीति समनुपश्यति । न संस्काराः विज्ञानेन सह समवसरन्तीति समनुश्यपति । न विज्ञानं संस्कारैः सह समवसरतीति समनुपश्यति । तत् कस्य हेतोस् तथा हि न कश्चिद् धर्मः केनचिद् धर्मेण सह समवसरति न विसरति न युज्यते न वियुज्यते प्रकृतिशून्यताम् उपादाय । या शारद्वतीपुत्र शून्यता न तद् रूपं तथा हि या रूपस्य शून्यता न सा रूपयति । या वेदनाशून्यता न सा वेदना तथा हि या वेदनाशून्यता न सा वेदयति । या संज्ञाशून्यता न सा संज्ञा तथा हि या संज्ञाशून्यता न सा सञ्जानाति । या संस्कारशून्यता न ते संस्कारास् तथा हि या संस्कारशून्यता न साभिसंस्करोति । या विज्ञानस्य शून्यता न तद् विज्ञानं तथा हि या विज्ञानशून्यता न सा विजानाति । तत् कस्य हेतोर् न हि शारद्वतीपुत्र अन्यद् रूपम् अन्या शून्यता नान्या शून्यता नान्यद् रूपं । रूपम् एव शून्यता शून्यतैव रूपं । नान्या वेदना नान्या शून्यता । नान्या शून्यता नान्या वेदना वेदनैव शून्यता शून्यतैव वेदना । नान्या संज्ञा नान्या शून्यता नान्या शून्यता नान्या संज्ञा शून्यतैव संज्ञा संज्ञैव शून्यता । नान्ये संस्काराः नान्या शून्यता नान्या शून्यता नान्ये संस्काराः संस्कारा एव शून्यता शून्यतैव संस्काराः । नान्यद् विज्ञानं नान्या शून्यता नान्या शून्यता नान्यद् विज्ञानं । विज्ञानम् एव शून्यता शून्यतैव विज्ञानं । या शारद्वतीपुत्र शून्यता न सा उत्पद्यते न निरुध्यते न संक्लिश्यते । न व्यवदायते न हीयते न वर्धते न सातीता नानागता न प्रत्युत्पन्ना या न उत्पद्यते न निरुध्यते न संक्लिश्यते न व्यवदायते न हीयते न वर्धते नातीता नानागता न प्रत्युत्पन्ना न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं । न तत्र चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनः । न तत्र रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः । न तत्र पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुः । न तत्र चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुः । न तत्र श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः । न तत्र घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः । न तत्र जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः । न तत्र मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः । न तत्राविद्या नाविद्यानिरोधो न तत्र संस्कारा न संस्कारनिरोधो न तत्र विज्ञानं न विज्ञाननिरोधो न तत्र नामरूपं न नामरूपनिरोधो न तत्र षडायतनं न षडायतननिरोधो न तत्र स्पर्शो न स्पर्शनिरोधो न तत्र वेदना न वेदनानिरोधो न तत्र तृष्णा न तृष्णानिरोधो न तत्र उपादानं न उपादाननिरोधो न तत्र भवो न भवनिरोधो न तत्र जातिर् न जातिनिरोधो न तत्र जरामरणं न जरामरणनिरोधो न तत्र दुःखं न दुःखपरिज्ञानं । न तत्र समुदयो न समुदयप्रहाणं । न तत्र निरोधो निरोधसाक्षात्क्रिया । न तत्र मार्गो न मार्गभावना न तत्र प्राप्तिर् नाभिसमयः । न तत्र श्रोतआपन्नाः न श्रोत-आपन्नफलं । न तत्र सकृदागामी न सकृदागामिफलं । न तत्रानागामी नानागामिफलं न तत्रार्हन् नार्हत्फलं । न तत्र प्रत्येकबुद्धो न प्रत्येकबोधिः । न तत्र बोधिसत्त्वो न मार्गाकारज्ञता न तत्र बुद्धो न तत्र बोधिः । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः । एवं प्रज्ञापारमितायां चरन् रूपे युक्त इति वा अयुक्त इति वा न समनुपश्यति । न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न संज्ञायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न संस्कारे युक्त इति वा अयुक्त इति वा समनुपश्यति । न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् न चक्षुषि युक्त इति वा अयुक्त इति वा समनुपश्यति । न श्रोत्रे युक्त इति वा अयुक्त इति वा समनुपश्यति । न घ्राणे युक्त इति वा अयुक्त इति वा समनुपश्यति । न जिह्वायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न काये युक्त इति वा अयुक्त इति वा समनुपश्यति । न मनसि युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति । न शब्दे युक्त इति वा अयुक्त इति वा समनुपश्यति । न गन्धे युक्त इति वा अयुक्त इति वा समनुपश्यति । न रसे युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्पर्शे युक्त इति वा अयुक्त इति वा समनुपश्यति न धर्मे युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् न चक्षुर्धातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न रूपधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न चक्षुर्विज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् । न श्रोत्रधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न शब्दधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न श्रोत्रविज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् न घ्राणधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न गन्धधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न घ्राणविज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । एवं प्रज्ञापारमितायां चरन् । न जिह्वाधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न रसधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न जिह्वाविज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न कायधातौ युक्त इति वा अयुक्त इति ता समनुपश्यति । न स्प्रष्टव्यधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न कायविज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न मनोधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न धर्मधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न मनोविज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । स एवं प्रज्ञापारमितायां चरन् न पृथिवीधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । नाब्धातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न तेजोधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न वायुधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । नाकाशधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न विज्ञानधातौ युक्त इति वा अयुक्त इति वा समनुपश्यति स एवं प्रज्ञापारमितायां चरन्न् आविद्यायां युक्त
इति वा अयुक्त इति वा समनुपश्यति । न संस्कारे युक्त इति वा अयुक्त इति वा समनुपश्यति । न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति । न नामरूपे युक्त इति वा अयुक्त इति वा समनुपश्यति । न षडायतने युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्पर्शे युक्त इति वा अयुक्त इति वा समनुपश्यति । न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न तृष्णायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नोपादाने युक्त इति वा अयुक्त वा समनुपश्यति । न भवे युक्त इति वा अयुक्त वा समनुपश्यति । न जातौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न जरामरणे युक्त इति वा अयुक्त इति वा समनुपश्यति स एवं प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न शीलपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न क्षान्तिपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न वीर्यपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न ध्यानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति । स एवं प्रज्ञापारमितायां चरन् नाध्यात्मशून्यतायां युक्त वा अयुक्त इति वा समनुपश्यति । न बहिर्धाशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नाध्यात्मबहिर्धाशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न शून्यताशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न महाशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न परमार्थशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न संस्कृतशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नासंस्कृतशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नात्यन्तशून्यतायां युक्त वा अयुक्त इति वा समनुपश्यति । नानवराग्रशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नानवकारशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न प्रकृतिशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न सर्वधर्मशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्वलक्षणशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नानुपलम्भशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नाभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न स्वभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नाभावस्वभावशून्यतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । स एवं प्रज्ञापारमितायां चरन् न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । नार्यसत्येषु युक्त इति वा अयुक्त इति वा समनुश्यति । न ध्यानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । नाप्रमाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । नारूप्यसमापत्तिषु युक्त इति वा अयुक्त इति वा समनुपश्यति । नाष्टविमोक्षेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न नवानुपूर्वविहारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न शून्यतायां समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति । नानिमित्ते समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति । नाप्रणिहिते समाधौ युक्त इति वा अयुक्त इति वा समनुपश्यति । नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति । न सर्वसमाधिषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न सर्वधारणीमुखेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न चतसृषु प्रतिस ं वित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति । न महामैत्र्यां युक्त इति वा अयुक्त इति वा समनुपश्यति । न महाकरुणायां युक्त इति वा अयुक्त इति वा समनुपश्यति । नाष्टादशावेणिकबुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति । न श्रोत-आपत्तिफले युक्त इति वा अयुक्त इति वा समनुपश्यति । न सकृदागामिफले युक्त इति वा अयुक्त इति वा समनुपश्यति । नानागामिफले युक्त इति वा अयुक्त इति वा समनुपश्यति । नार्हत्त्वे युक्त इति वा अयुक्त इति वा समनुपश्यति । न प्रत्येकबोधौ युक्त इति वा अयुक्त इति वा समनुपश्यति । न मार्गाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति । न सर्वाकारज्ञतायां युक्त वा अयुक्त इति वा समनुपश्यति । अनेनापि शारीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः । सर्वधर्मायोगावियोगताम् उपादाय । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतां शून्यतया योजयति न वियोजयति । न शून्यतायोगं नानिमित्तेन योजयति न वियोजयति । नानिमित्तयोगं नाप्रणिहितेन योजयति न वियोजयति नाप्रणिहितयोगं । तत् कस्य हेतोस् तथा हि शून्यतयां न योगो न वियोगः । आनिमित्तं न योगो न वियोगः अप्रणिहितं न योगो न वियोगः । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरन् रूपं न योजयति न वियोजयति न वेदनां योजयति न वियोजयति न संज्ञां योजयति न वियोजयति न संस्कारान् योजयति न वियोजयति । न विज्ञानं योजयति न वियोजयति । न रूपं पूर्वान्तेन योजयति न वियोजयति । तथा हि पूर्वान्तम् एव न समनुपश्यति । न रूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति । तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न वेदनां पूर्वान्तेन योजयति न वियोजयति । तथा हि पूर्वान्तम् एव न समनुपश्यति । न वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न संज्ञां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न संज्ञाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न संस्कारान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न संस्कारान्
अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चक्षुः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चक्षुर् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चक्षुः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न श्रोत्रं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न श्रोत्रम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न श्रोत्रं प्रत्युत्पन्नेन योजयति न वियोजयति । तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न घ्राणं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न घ्राणम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न घ्राणं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जिह्वां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जिह्वाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जिह्वां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न कायं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न कायम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न कायं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनपश्यति । न मनः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न मनो ऽपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न मनः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न रूपं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न रूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न शब्दं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न शब्दम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न शब्दं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न गन्धं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न गन्धम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न गन्धं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न रसं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न रसम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनपश्यति । न रसं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न स्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनपश्यति । न स्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न स्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न धर्मं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न धर्मम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न धर्मं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चक्षुर्विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चक्षुर्विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चक्षुर्विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न श्रोत्रविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न श्रोत्रविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न श्रोत्रविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न घ्राणविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न घ्राणविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न घ्राणविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जिह्वाविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जिह्वाविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जिह्वाविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न कायविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न कायविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न कायविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न मनोविज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न मनोविज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न मनोविज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चक्षुःसंस्पर्शं पूर्वान्तेन योजयति न विजोयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चक्षुःसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चक्षुःसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति
तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न घ्राणसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न घ्राणसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न घ्राणसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जिह्वासंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जिह्वासंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जिह्वासंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न कायसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न कायसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न कायसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न मनःसंस्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न मनःसंस्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न मनःसंस्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चक्षुःसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चक्षुःसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चक्षुःसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न श्रोत्रसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न घ्राणसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न घ्राणसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न घ्राणसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जिह्वासंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जिह्वासंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जिह्वासंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न कायसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न कायसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न कायसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न मनःसंस्पर्शजां वेदनां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न मनःसंस्पर्शजां वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न मनःसंस्पर्शजां वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न पृथिवीधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न पृथिवीधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न पृथिवीधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाब्धातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाब्धातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाब्धातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न तेजोधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न तेजोधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न तेजोधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न वायुधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न वायुधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न वायुधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाकाशधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाकाशधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाकाशधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पपन्नम् एव न समनुपश्यति । न विज्ञानधातुं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न विज्ञानधातुम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न विज्ञानधातुं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाविद्यां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाविद्याम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाविद्यां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न संस्कारान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न संस्कारान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न विज्ञानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न विज्ञानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न नामरूपं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न नामरूपम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न नामरूपं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न षडायतनं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न
समनुपश्यति । न षडायतनम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न षडायतनं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न स्पर्शं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न स्पर्शम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न स्पर्शं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न वेदनां पूर्वान्तेन योजयति न वियोजयति
तथा हि पूर्वान्तम् एव न समनुपश्यति । न वेदनाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न तृष्णां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न तृष्णाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न तृष्णां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नोपादानं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नोपादानम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नोपादानं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न भवं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न भवम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न भवं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जातिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जातिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जातिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न जरामरणं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न जरामरणम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न जरामरणं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न दानपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न दानपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न दानपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न शीलपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न शीलपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न शीलपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न क्षान्तिपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न क्षान्तिपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न क्षान्तिपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न वीर्यपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न वीर्यपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न वीर्यपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न ध्यानपारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न ध्यानपारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न ध्यानपारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न प्रज्ञापारमितां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न प्रज्ञापारमिताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न प्रज्ञापारमितां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाध्यात्मशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाध्यात्मशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाध्यात्मशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न बहिर्धाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न बहिर्धाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न बहिर्धाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाध्यात्मबहिर्धाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाध्यात्मबहिर्धाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाध्यात्मबहिर्धाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न शून्यताशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न शून्यताशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न शून्यताशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न महाशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न महाशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न महाशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न परमार्थशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न परमार्थशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न परमार्थशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न संस्कृतशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न संस्कृतशून्यताम् अपरान्तेन योजयति न वियोजयति तथा हि अपरान्तम् एव न समनुपश्यति । न संस्कृतशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न संस्कृतशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न संस्कृतशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न संस्कृतशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नात्यन्तशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नात्यन्तशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नात्यन्तशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नानवराग्रशून्यतां पूर्वान्तेन
योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नानवराग्रशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नानवराग्रशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नानवकारशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नानवकारशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नानवकारशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न प्रकृतिशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न प्रकृतिशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न प्रकृतिशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न सर्वधर्मशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न सर्वधर्मशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न सर्वधर्मशून्यतां प्रतुत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न स्वलक्षणशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न स्वलक्षणशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न स्वलक्षणशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नानुपलम्भशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नानुपलम्भशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नानुपलम्भशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न स्वभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न स्वभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न स्वभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाभावस्वभावशून्यतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाभावस्वभावशून्यताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाभावस्वभावशून्यतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न स्मृत्युपस्थानानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न स्मृत्युपस्थानान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न स्मृत्युपस्थानानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न सम्यक्प्रहाणानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न सम्यक्प्रहाणान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न सम्यक्प्रहाणानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न ऋद्धिपादान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न ऋद्धिपादान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न ऋद्धिपादान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नेन्द्रियाणि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नेन्द्रियाण्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नेन्द्रियाणि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि पत्यत्पन्नम् एव न समनुपश्यति । न बलानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न बलान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न बलानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न बोध्यङ्गानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न बोध्यङ्गान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न बोध्यङ्गानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नार्याष्टाङ्गमार्गं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नार्याष्टाङ्गमार्गम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नार्याष्टाङ्गमार्गं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नार्यसत्यानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नार्यसत्यान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नार्यसत्यानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न ध्यानानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न ध्यानान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न ध्यानानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाप्रमाणानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाप्रमाणान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाप्रमाणानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नारूप्यसमापत्तिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नारूप्यसमापत्तिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नारूप्यसमापत्तिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाष्टौ विमोक्षान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाष्टौ विमोक्षान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाष्टौ विमोक्षान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न
समनुपश्यति । न नवानुपूर्वविहारसमापत्तीः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न नवानुपूर्वविहारसमापत्तीर् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न नवानुपूर्वविहारसमापत्तीः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाभिज्ञाः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाभिज्ञा अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाभिज्ञाः प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न समाधीन् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न समाधीन् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न समाधीन् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न धारणीमुखानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न धारणीमुखान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न धारणीमुखानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न दश तथागतबलानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न दश तथागतबलान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न दश तथागतबलानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चत्वारि वैशारद्यानि पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चत्वारि वैशारद्यान्य् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चत्वारि वैशारद्यानि प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न चतस्रः प्रतिस ं विदः पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न चतस्रः प्रतिस ं विदो ऽपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न चतस्रः प्रतिस ं विदः प्रत्युत्पन्नेन योजयति न वियोजयति । तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न महामैत्रीं पूर्वान्तेन वोजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न महामैत्रीम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न महामैत्रीं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न महाकरुणां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न महाकरुणाम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न महाकरुणां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नाष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नाष्टादशावेणिकान् बुद्धधर्मान् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नाष्टादशावेणिकान् बुद्धधर्मान् प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न श्रोतआपत्तिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न श्रोतआपत्तिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न श्रोतआपत्तिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न सकृदागामिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न सकृदागामिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न सकृदागामिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नानागामिफलं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नानागामिफलम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नानागामिफलं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । नार्हत्त्वं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । नार्हत्त्वम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । नार्हत्त्वं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न प्रत्येकबोधिं पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव समनुपश्यति । न प्रत्येकबोधिम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न प्रत्येकबोधिं प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न मार्गाकारज्ञतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न मार्गाकारज्ञताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न मार्गाकारज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । न सर्वाकारज्ञतां पूर्वान्तेन योजयति न वियोजयति तथा हि पूर्वान्तम् एव न समनुपश्यति । न सर्वाकारज्ञताम् अपरान्तेन योजयति न वियोजयति तथा ह्य् अपरान्तम् एव न समनुपश्यति । न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति न वियोजयति । नापरान्तं पूर्वान्तेन योजयति न वियोजयति । न पूर्वान्तम् अपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति अध्वसमानताम् उपादाय । एवं युक्तः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया चरन्न् एवं युज्यते यथा युज्यमानेन सर्वज्ञताम् अतीतेन योजयति न वियोजयति तथा ह्य् अतीतम् एव न
समनुपश्यति । असमनुपश्यन् कथं सर्वज्ञताम् अतीतेन योजयिष्यति वियोजयिष्यति वा । न सर्वज्ञताम् अनागतेन योजयति न वियोजयति तथा ह्य् अनागतम् एव न समनुपश्यति असमनुपश्यन् कथं सर्वज्ञताम् अनागतेन योजयिष्यति वियोजयिष्यति वा । न सर्वज्ञतां प्रत्युत्पन्नेन योजयति न वियोजयति तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति । असमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति वियोजयिष्यति वा । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वा वक्तव्यः । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यति असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न वेदनां सर्वज्ञतया योजयति न वियोजयति तथा हि वेदनाम् एव न समनुपश्यति असमनुपश्यन् कथं वेदनां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न संज्ञां सर्वज्ञतया योजयति न वियोजयति तथा हि संज्ञाम् एव न समनुपश्यति । असमनुपश्यन् कथं संज्ञां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न संस्कारान् सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कारान् एव न समनुपश्यति । असमनुपश्यन् कथं संस्कारान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न विज्ञानं सर्वज्ञतया योजयति न वियोजयति तथा हि विज्ञानम् एव न समनुपश्यति । असमनुपश्यन् कथं विज्ञानं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुः सर्वज्ञतया योजयति न वियोजयति । तथा हि चक्षुर् एव न समनुपश्यति । असमनुपश्यन् कथं चक्षुः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न श्रोत्रं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रम् एव न समनुपश्यति । असमनुपश्यन् कथं श्रोत्रं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न घ्राणं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणम् एव न समनुपश्यति । असमनुपश्यन् कथं घ्राणं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न जिह्वां सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाम् एव न समनुपश्यति । असमनुपश्यन् कथं जिह्वां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न कायं सर्वज्ञतया योजयति न वियोजयति तथा हि कायम् एव न समनुपश्यति । असमनुपश्यन् कथं कायं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न मनः सर्वज्ञतया योजयति न वियोजयति तथा हि मन एव न समनुपश्यति । असमनुपश्यन् कथं मनः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यति । असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न शब्दं सर्वज्ञतया योजयति न वियोजयति तथा हि शब्दम् एव न समनुपश्यति । असमनुपश्यन् कथं शब्दं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न गन्धं सर्वज्ञतया योजयति न वियोजयति तथा हि गन्धम् एव न समनुपश्यति । असमनुपश्यन् कथं गन्धं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न रसं सर्वज्ञतया योजयति न वियोजयति तथा हि रसम् एव न समनुपश्यति । असमनुपश्यन् कथं रसं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्पर्शं सर्वज्ञतया योजयति न वियोजयति तथा हि स्पर्शम् एव न समनुपश्यति । असमनुपश्यन् कथं स्पर्शं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न धर्मान् सर्वज्ञतया योजयति न वियोजयति तथा हि धर्मान् एव न समनुपश्यति । असमनुपश्यन् कथं धर्मान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति तथा हि चक्षुर्धातुम् एव न समनुपश्यति । असमनुपश्यन् कथं चक्षुर्धातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न रूपधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं रूपधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि चक्षुर्विज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न श्रोत्रधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं श्रोत्रधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न शब्दधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि शब्दधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं शब्दधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न श्रोत्रविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि श्रोत्रविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं श्रोत्रविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न घ्राणधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं घ्राणधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न गन्धधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि गन्धधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं गन्धधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न घ्राणविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि घ्राणविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं घ्राणविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न जिह्वाधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं जिह्वाधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न रसधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि रसधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं रसधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न जिह्वाविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि जिह्वाविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं जिह्वाविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न कायधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि कायधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं कायधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्प्रष्टव्यधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि स्प्रष्टव्यधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं स्प्रष्टव्यधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न कायविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि कायविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं कायविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न मनोधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि मनोधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं मनोधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि धर्मधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं धर्मधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि मनोविज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न पृथिवीधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि पृथिवीधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं पृथिवीधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाब्धातुं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अब्धातुम् एव न समनुपश्यति । असमनुपश्यन् कथम् अब्धातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न तेजोधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि तेजोधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं तेजोधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा न वायुधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि वायुधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं वायुधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाकाशधातुं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् आकाशधातुम् एव न समनुपश्यति । असमनुपश्यन् कथम् आकाशधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति तथा हि विज्ञानधातुम् एव न समनुपश्यति । असमनुपश्यन् कथं विज्ञानधातुं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नाविद्यां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अविद्याम् एव न समनुपश्यति । असमनुपश्यन् कथम् अविद्या सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न संस्कारान् सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कारान् एव न समनुपश्यति असमनुपश्यन् कथं संस्कारान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न नामरूपं सर्वज्ञतया योजयति न वियोजयति तथा हि नामरूपम् एव न समनुपश्यति । असमनुपश्यन् कथं नामरूपं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न षडायतनं सर्वज्ञतया योजयति न वियोजयति तथा हि षडायतनम् एव न समनुपश्यति । असमनुपश्यन् कथं षडायतनं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्पर्शं सर्वज्ञतया योजयति न वियोजयति तथा हि स्पर्शम् एव न समनुपश्यति । असमनुपश्यन् कथं स्पर्शं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न वेदनां सर्वज्ञतया योजयति न वियोजयति तथा हि वेदनाम् एव न समनुपश्यति । असमनुपश्यन् कथं वेदनां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न तृष्णां सर्वज्ञतया योजयति न वियोजयति तथा हि तृष्णाम् एव न समनुपश्यति । असमनुपश्यन् कथं तृष्णां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नोपादानं सर्वज्ञतया योजयति न वियोजयति तथा ह्य् उपादानम् एव न समनुपश्यति । असमनुपश्यन् कथम् उपादानं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न भवं सर्वज्ञतया योजयति न वियोजयति तथा हि भवम् एव न समनुपश्यति । असमनुपश्यन् कथं भवं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न जातिं सर्वज्ञतया योजयति न वियोजयति तथा हि जातिम् एव न समनुपश्यति । असमनुपश्यन् कथं जातिं सर्वज्ञतया
योजयिष्यति वियोजयिष्यति वा । न जरामरणं सर्वज्ञतया योजयति न वियोजयति । तथा हि जरामरणम् एव न समनुपश्यति । असमनुपश्यन् कथं जरामरणं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि दानपारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं दानपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । शीलपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि शीलपारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं शीलपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न क्षान्तिपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि क्षान्तिपारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं क्षान्तिपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न वीर्यपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि वीर्यपारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं वीर्यपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न ध्यानपारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि ध्यानपारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं ध्यानपारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति तथा हि प्रज्ञापारमिताम् एव न समनुपश्यति । असमनुपश्यन् कथं प्रज्ञापारमितां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाध्यात्मशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अध्यात्मशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अध्यात्मशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न बहिर्धाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि बहिर्धाशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं बहिर्धाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाध्यात्मबहिर्धाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अध्यात्मबहिर्धाशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अध्यात्मबहिर्धाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न शून्यताशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि शून्यताशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं शून्यताशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न महाशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि महाशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं महाशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न परमार्थशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि परमार्थशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं परमार्थशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न संस्कृतशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा हि संस्कृतशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं संस्कृतशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नासंस्कृतशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् असंस्कृतशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् असंस्कृतशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नात्यन्तशून्यतां सर्वज्ञतया योजयति न वियोजयति तथा ह्य् अत्यन्तशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अत्यन्तशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नानवराग्रशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अनवराग्राशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अनवराग्रशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नानवकारशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अनवकारशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अनवकारशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न प्रकृतिशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा हि प्रकृतिशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं प्रकृतिशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न सर्वधर्मशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा हि सर्वधर्मशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं सर्वधर्मशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्वलक्षणशून्यतां सर्वज्ञतया योजद्यति न वियोजयति । तथा हि स्वलक्षणशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं स्वलक्षणशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नानुपलम्भशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अनुपलम्भशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अनुपलम्भशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाभावशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अभावशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्वभावशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा हि स्वभावशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं स्वभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाभावस्वभावशून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अभावस्वभावशून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथम् अभावस्वभावशून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न स्मृत्युपस्थानानि सर्वज्ञतया योजयति न वियोजयति । तथा हि स्मृत्युपस्थानान्य् एव न समनुपश्यति । असमनुपश्यन् कथं स्मृत्युपस्थानानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न सम्यक्प्रहाणानि सर्वज्ञतया योजयति न वियोजयति । तथा हि सम्यक्प्रहाणान्य् एव न समनुपश्यति । असमनुपश्यन् कथं सम्यक्प्रहाणानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न ऋद्धिपादान् सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् ऋद्धिपादान् एव न समनुपश्यति । असमनुपश्यन् कथम् ऋद्धिपादान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नेन्द्रियाणि सर्वज्ञतया योजयति न वियोजयति । तथा हीन्द्रियाण्य् एव न समनुपश्यति । असमनुपश्यन् कथम् इन्द्रियाणि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न बलानि सर्वज्ञतया योजयति न वियोजयति । तथा हि बलान्य् एव न समनुपश्यति । असमनुपश्यन् कथं बलानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न बोध्यङ्गानि सर्वज्ञतया योजयति
न वियोजयति । तथा हि बोध्यङ्गान्य् एव न समनुपश्यति । असमनुपश्यन् कथं बोध्यङ्गानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न मार्गं सर्वज्ञतया योजयति न वियोजयति । तथा हि मार्गम् एव न समनुपश्यति । असमनुपश्यन् कथं मार्गे सर्वज्ञतया योजयिष्यति वियोययिष्यति वा । नार्यसत्यानि सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् आर्यसत्यान्य् एव न समनुपश्यति । असमनुपश्यन् कथम् आर्यसत्यानि सर्वज्ञतया योजयिश्यति वियोजयिष्यति वा । न ध्यानानि सर्वज्ञतया योजयति न वियोजयति । तथा हि ध्यानान्य् एव न समनुपश्यति । असमनुपश्यन् कथं ध्यानानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाप्रमाणानि सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अप्रमाणान्य् एव न समनुपश्यति । असमनुपश्यन् कथम् अप्रमाणानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नारूप्यसमापत्तीः सर्वज्ञतया योजयति न वियोजयति । तथ ह्य् आरूप्यसमापत्तीर् एव न समनुपश्यति । असमनुपश्यन् कथम् आरूप्यसमापत्तीः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न विमोक्षान् सर्वज्ञतया योजयति न वियोजयति । तथा हि विमोक्षान् एव न समनुपश्यति । समनुपश्यन् कथं विमोक्षान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नवानुपूर्वाविहारसमापत्तीः सर्वज्ञतया योजयति न वियोजयति । तथा हि नवानुपूर्वविहारसमापत्तीर् एव न समनुपश्यति । असमनुपश्यन् कथं नवानुपूर्वविहारसमापत्तीः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न शून्यतां सर्वज्ञतया योजयति न वियोजयति । तथा हि शून्यताम् एव न समनुपश्यति । असमनुपश्यन् कथं शून्यतां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नानिमित्तं सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् आनिमित्तम् एव न समनुपश्यति । असमनुपश्यन् कथं आनिमित्तं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाप्रणिहितं सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अप्रणिहितम् एव न समनुपश्यति । असमनुपश्यन् कथम् अप्रणिहितं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाभिज्ञां सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अभिज्ञाम् एव न समनुपश्यति । असमनुपश्यन् कथम् अभिज्ञां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न समाधिं सर्वज्ञतया योजयति न वियोजयति । तथा हि समाधिम् एव न समनुपश्यति । असमनुपश्यन् कथं समाधिं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न धारणीमुखानि सर्वज्ञतया योजयति न वियोजयति । तथा हि धारणीमुखान्य् एव न समनुपश्यति । असमनुपश्यन् कथं धारणीमुखानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न दश तथागतबलानि सर्वज्ञतया योजयति न वियोजयति । तथा हि दश तथागतबलान्य् एव न समनुपश्यति । असमनुपश्यन् कथं दश तथागतबलानि सर्वज्ञतया योजयिस्यति वियोजयिष्यति वा । न वैशारद्यानि सर्वज्ञतया योजयति न वियोजयति । तथा हि वैशारद्यान्य् एव न समनुपश्यति । असमनुपश्यन् कथं वैशारद्यानि सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न प्रतिसंविदः सर्वज्ञतया योजयति न वियोजयति । तथा हि प्रतिसंविद एव न समनुपश्यति । असमनुपश्यन् कथं प्रतिसंविदः सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न महामैत्रीं सर्वज्ञतया योजयति न वियोजयति । तथा हि महामैत्रीम् एव न समनुपश्यति । असमनुपश्यन् कथं महामैत्रीं सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । न महाकरुणां सर्वज्ञतया योजयति न वियोजयति । तथा हि महाकरुणाम् एव न समनुपश्यति । असमनुपश्यन् कथं महाकरुणां सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । नाष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति । तथा ह्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति । असमनुपश्यन् कथम् अष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयिष्यति वियोजयिष्यति वा । एवं युज्यमानः शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वज्ञतया योजयति न वियोजयति, न सर्वज्ञतां बुद्धेन योजयति न वियोजयति । तथा हि बुद्धम् एव न समनुपश्यति, सर्वज्ञताम् एव न समनुपश्यति । असमनुपश्यन् कथं बुद्धं सर्वज्ञतया सर्वज्ञतां वा बुद्धेन योजयिष्यति वियोजयिष्यति वा । न बोधिं सर्वज्ञतया योजयति न वियोजयति, न बोध्या सर्वज्ञतां योजयति न वियोजयति । तथा हि बोधिम् एव न समनुपश्यति सर्वज्ञताम् एव न समनुपश्यति । असमनुपश्यन् कथं बोधिं सर्वज्ञतया सर्वज्ञतां वा बोध्या योजयिष्यति वियोजयिष्यति वा । एवं हि शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भाव इति योजयति न रूपम् अभाव इति योजयाति । न वेदनां भाव इति योजयति न वेदनाम् अभाव इति योजयति । न संज्ञां भाव इति योजयति न संज्ञाम् अभाव इति योजयति । न संस्कारान् भाव इति योजयति न संस्कारान् अभाव इति योजयति । न विज्ञानं भाव इति योजयति न विज्ञानम् अभाव इति योजयति । न चक्षुर् भाव इति योजयति न चक्षुर् अभाव इति योजयति । न श्रोत्रं भाव इति योजयति न श्रोत्रम् अभाव इति योजयति । न घ्राणं भाव इति योजयति न घ्राणम् अभाव इति योजयति । न जिह्वां भाव इति योजयति न जिह्वाम् अभाव इति योजयति । न कायं भाव इति योजयति न कायम् अभाव इति योजयति । न मनो भाव इति योजयति न मनो ऽभाव इति योजयति । न रूपं भाव इति योजयति न रूपम् अभाव इति योजयति । न शब्दं भाव इति योजयति न शब्दम् अभाव इति योजयति । न गन्धं भाव इति योजयति न गन्धम् अभाव इति योजयति । न रस ं भाव इति योजयति न रसम् अभाव इति योजयति । न स्पर्शं भाव इति योजयति न स्पर्शम् अभाव इति योजयति । न धर्मान् भाव इति योजयति न धर्मान् अभाव इति योजयति । न चक्षुर्विज्ञानं भाव इति योजयति न चक्षुर्विज्ञानम् अभावजति योजयति । न श्रोत्रविज्ञानं भाव इति योजयति न श्रोत्रविज्ञानम् अभाव इति योजयति । न घ्राणविज्ञानं भाव इति योजयति न घ्राणविज्ञानम् अभाव इति योजयति । न जिह्वाविज्ञानं भाव इति योजयति न जिह्वाविज्ञानम् अभाव इति योजयति । न कायविज्ञानं भाव इति योजयति न कायविज्ञानम् अभाव इति योजयति । न मनोविज्ञानं भाव इति योजयति न मनोविज्ञानम् अभाव इति योजयति । न चक्षुःसंस्पर्शं भाव इति योजयति न चक्षुःसंस्पर्शम् अभाव इति योजयति । न श्रोत्रसंस्पर्शं भाव इति योजयति न श्रोत्रसंस्पर्शम् अभाव इति योजयति । न घ्राणसंस्पर्शं भाव इति योजयति न घ्राणसंस्पर्शम् अभाव इति योजयति । न जिह्वासंस्पर्शं भाव इति योजयति न जिह्वासंस्पर्शम् अभाव इति योजयति । न कायसंस्पर्शं भाव इति योजयति न कायसंस्पर्शम् अभाव इति योजयति । न मनःसंस्पर्शं भाव इति योजयति न मनःसंस्पर्शम् अभाव इति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न जिह्वासंस्पर्शप्रत्यया वेदनां भाव इति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न कायसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न कायसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनां भाव इति योजयति न मनःसंस्पर्शप्रत्ययां वेदनाम् अभाव इति योजयति । न पृथिवीधातुं भाव इति योजयति न पृथिवीधातुम् अभाव इति योजयति । नाब्धातुं भाव इति योजयति नाब्धातुम् अभाव इति योजयति । न तेजोधातुं भाव इति योजयति न तेजोधातुम् अभाव इति योजयति । न वायुधातुं भाव इति योजयति न वायुधातुम् अभाव इति योजयति । नाकाशधातुं भाव इति योजयति नाकाशधातुम् अभाव इति योजयति । न विज्ञानधातुं भाव इति योजयति न विज्ञानधातुम् अभाव इति योजयति । नाविद्यां भाव इति योजयति नाविद्याम् अभाव इति योजयति । न संस्कारान् भाव इति योजयति न संस्कारान् अभाव इति योजयति । न विज्ञानं भाव इति योजयति न विज्ञानम् अभाव इति योजयति । न नामरूपं भाव इति योजयति न नामरूपम् अभाव इति योजयति । न षडायतनं भाव इति योजयति न षडायतनम् अभाव इति योजयति । न स्पर्शं भाव इति योजयति न स्पर्शम् अभाव इति योजयति । न वेदनां भाव इति योजयति न वेदनाम् अभाव इति योजयति । न तृष्णां भाव इति योजयति न तृष्णाम् अभाव इति योजयति । नोपादानं भाव इति योजयति नोपादानम् अभाव इति योजयति । न भवं भाव इति योजयति न भवम् अभाव इति योजयति । न जातिं भाव इति योजयति न जातिम् अभाव इति योजयति । न जरामरणं भाव इति योजयति न जरामरणम् अभाव इति योजयति । न दानपारमितां भाव इति योजयति न दानपारमिताम् अभाव इति योजयति । न शीलपारमितां भाव इति योजयति न शीलपारमिताम् अभाव इति योजयति । न क्षान्तिपारमितां भाव इति योजयति न क्षान्तिपारमिताम् अभाव इति योजयति । न वीर्यपारमितां भाव इति योजयति न वीर्यपारमिताम् अभाव इति योजयति । न ध्यानपारमितां भाव इति योजयति न ध्यानपारमिताम् अभाव इति योजयति । न प्रज्ञापारमितां भाव इति योजयति न प्रज्ञापारमिताम् अभाव इति योजयति । नाध्यात्मशून्यतां भाव इति योजयति नाध्यात्मशून्यताम् अभाव इति योजयति । न बहिर्धाशून्यतां भाव इति योजयति न बहिर्धाशून्यताम् अभाव इति योजयति । नाध्यात्मबहिर्धाशून्यतां भाव योजयति नाध्यात्मबहिर्धाशून्यताम् अभाव इति योजयति । न शून्यताशून्यातां भाव इति योजयति न शून्यताशून्यता ं भाव इति योजयति । न महाशून्यतां भाव इति योजयति न महाशून्यताम् अभाव इति योजयति । न परमार्थशून्यतां भाव इति योजयति न परमार्थशून्यताम् अभाव इति योजयति । न संस्कृतशून्यतां भाव इति योजयति न संस्कृतशून्यताम् अभाव इति योजयति । नासंस्कृतशून्यतां भाव इति योजयति नासंस्कृतशून्यताम् अभाव इति योजयति । नात्यन्तशून्यतां योजयति इति योजयति नात्यन्तशून्यताम् अभाव इति योजयति । नानवराग्रशून्यतां भाव इति योजयति नानवराग्रशून्यताम् अभाव इति योजयति । नानवकारशून्यतां भाव इति योजयति नानवकारशून्यताम् अभाव इति योजयति । न प्रकृतिशून्यतां भाव इति योजयति न प्रकृतिशून्यताम् अभाव इति योजयति । न सर्वधर्मशून्यतां भाव इति योजयति न सर्वधर्मशून्यताम् अभाव इति योजयति । न स्वलक्षणशून्यतां भाव इति योजयति न स्वलक्षणशून्यताम् अभाव इति योजयति । नानुपलम्भशून्यातां भाव इति योजयति नानुपलम्भशून्यताम् अभाव इति योजयति । नाभावशून्यतां भाव इति योजयति नाभावशून्यताम् अभाव इति योजयति । न स्वभावशून्यतां भाव इति योजयति न स्वभावशून्यताम् अभाव इति योजयति । नाभावस्वभावशून्यतां भाव इति योजयति नाभावस्वभावशून्यताम् अभाव इति योजयति । न स्मृत्युपस्थानानि भाव इति योजयति न स्मृत्युपस्थानान्य् अभाव इति योजयति । न सम्यक्प्रहाणानि भाव इति योजयति । न सम्यक्प्रहाणान्य् अभाव इति योजयति । न
ऋद्धिपादान् भाव इति योजयति । न ऋद्धिपादान् अभाव इति योजयति । नेन्द्रियाणि भाव इति योजयति नेन्द्रियाण्य् अभाव इति योजयति । न बलानि भाव इति योजयति न बलान्य् अभाव इति योजयति । न बोध्यङ्गानि भाव इति योजयति न बोध्यङ्गान्य् अभाव इति योजयति । नाप्रमाणानि भाव इति योजयति नाप्रमाणान्य् अभाव इति योजयति । नार्यसत्यानि भाव इति योजयति नार्यसत्यान्य् अभाव इति योजयति । न ध्यानानि भाव इति योजयति न ध्यानान्य् अभाव इति योजयति । न मार्गं भाव इति योजयति न मार्गम् अभाव इति योजयति । नारूप्यसमापत्तीर् भाव इति योजयति नारूप्यसमापत्तीर् अभाव इति योजयति । नाष्टौ विमोक्षान् भाव इति योजयति नाष्टौ विमोक्षान् अभाव इति योजयति । न नवानुपूर्वविहारसमापत्तीर् भाव इति योजयति न नवानुपूर्वविहारसमापत्तीर् अभाव इति योजयति । न शून्यतां भाव इति योजयति न शून्यताम् अभाव इति योजयति । नानिमित्तं भाव इति योजयति नानिमित्तम् अभाव इति योजयति । नाप्रणिहितं भाव इति योजयति नाप्रणिहितम् अभाव इति योजयति । नाभिज्ञां भाव इति योजयति नाभिज्ञाम् अभाव इति योजयति । न समाधीन् भाव इति योजयति न समाधीन् अभाव इति योजयति । न धारणीमुखानि भाव इति योजयति न धारणीमुखान्य् अभाव इति योजयति । न दश तथागतबलानि भाव इति योजयति न दश तथागतबलान्य् अभाव इति योजयति । न चत्वारि वैशारद्यानि भाव इति योजयति न चत्वारि वैशारद्यान्य् अभाव इति योजयति । न चतस्रः प्रतिस ं विदो भाव इति योजयति न चतस्रः प्रतिस ं विदो ऽभाव इति योजयति । न महामैत्रीं भाव इति योजयति न महामैत्रीम् अभाव इति योजयति । न महाकरुणां भाव इति योजयति न महाकरुणाम् अभाव इति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् भाव इति योजयति नाष्टादशावेणिकान् बुद्धधर्मान् अभाव इति योजयति । न श्रोत-आपत्तिफलं भाव इति योजयति न श्रोत-आपत्तिफलम् अभाव इति योजयति । न सकृदागामिफलं भाव योजयति न सकृदागामिफलम् अभाव इति योजयति । नानागामिफलं भाव इति योजयति नानागामिफलम् अभाव इति योजयति । नार्हत्त्वं भाव इति योजयति नार्हत्त्वम् अभाव इति योजयति । न प्रत्येकबोधिं भाव इति योजयति न प्रत्येकबोधिम् अभाव योजयति । न मार्गाकारज्ञतां भाव इति योजयति न मार्गाकारज्ञताम् अभाव इति योजयति । न सर्वाकारज्ञतां भाव इति योजयति न सर्वाकारज्ञताम् अभाव इति योजयति ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति । न वेदनां नित्यम् इति योजयति न वेदनाम् अनित्यम् इति योजयति । न संज्ञां नित्यम् इति योजयति न संज्ञाम् अनित्यम् इति योजयति । न संस्कारान् नित्यान् इति योजयति न संस्कारान् अनित्यान् इति योजयति । न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति । न चक्षुर् नित्यम् इति योजयति न चक्षुर् अनित्यम् इति योजयति । न श्रोत्रं नित्यम् इति योजयति न श्रोत्रम् अनित्यम् इति योजयति । न घ्राणं नित्यम् इति योजयति न घ्राणम् अनित्यम् इति योजयति । न जिह्वां नित्यम् इति योजयति न जिह्वाम् अनित्यम् इति योजयति । न कायं नित्यम् इति योजयति न कायम् अनित्यम् इति योजयति । न मनो नित्यम् इति योजयति न मनो ऽनित्यम् इति योजयति । न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति । न शब्दं नित्यम् इति योजयति न शब्दम् अनित्यम् इति योजयति । न गन्धं नित्यम् इति योजयति न गन्धम् अनित्यम् इति योजयति । न रसं नित्यम् इति योजयति न रसम् अनित्यम् इति योजयति । न स्पर्शं नित्यम् इति योजयति न स्पर्शम् अनित्यम् इति योजयति । न धर्मान् नित्यान् इति योजयति न धर्मान् अनित्यान् इति योजयति । न चक्षुर्विज्ञानं नित्यम् इति योजयति न चक्षुर्विज्ञानम् अनित्यम् इति योजयति । न श्रोत्रविज्ञानं नित्यम् इति योजयति न श्रोत्रविज्ञानम् अनित्यम् इति योजयति । न घ्राणविज्ञानं नित्यम् इति योजयति न घ्राणविज्ञानम् अनित्यम् इति योजयति । न जिह्वाविज्ञानं नित्यम् इति योजयति न जिह्वाविज्ञानम् अनित्यम् इति योजयति । न कायविज्ञानं नित्यम् इति योजयति न कायविज्ञानम् अनित्यम् इति योजयति । न मनोविज्ञानं नित्यम् इति योजयति न मनोविज्ञानम् अनित्यम् इति योजयति । न चक्षुःसंस्पर्शं नित्यम् इति योजयति न चक्षुःसंस्पर्शम् अनित्यम् इति योजयति । न श्रोत्रसंस्पर्शं नित्यम् इति योजयति न श्रोत्रसंस्पर्शम् अनित्यम् इति योजयति । न घ्राणसंस्पर्शं नित्यम् इति योजयति न घ्राणसंस्पर्शम् अनित्यम् इति योजयति । न जिह्वासंस्पर्शं नित्यम् इति योजयति न जिह्वासंस्पर्शम् अनित्यम् इति योजयति । न कायसंस्पर्शं नित्यम् इति योजयति न कायसंस्पर्शम् अनित्यम् इति योजयति । न मनःसंस्पर्शं नित्यम् इति योजयति न मनःसंस्पर्शम् अनित्यम् इति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न कायसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न कायसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनां नित्यम् इति योजयति न मनःसंस्पर्शप्रत्ययां वेदनाम् अनित्यम् इति योजयति । न पृथिवीधातुं नित्य इति योजयति न पृथिवीधातुम् अनित्य इति योजयति । नाब्धातुं नित्य इति योजयति नाब्धातुम् अनित्य इति योजयति । न तेजोधातुं नित्य इति योजयति न तेजोधातुम् अनित्य इति योजयति । न वायुधातुं नित्य इति योजयति न वायुधातुम् अनित्य इति योजयति । नाकाशधातुं नित्य इति योजयति नाकाशधातुम् अनित्य इति योजयति । न विज्ञानधातुं नित्य इति योजयति न विज्ञानधातुम् अनित्य इति योजयति । नाविद्यां नित्याम् इति
योजयति नाविद्याम् अनित्याम् इति योजयति । न संस्कारान् नित्यान् इति योजयति न संस्कारान् अनित्यान् इति योजयति । न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति । न नामरूपं नित्यम् इति योजयति न नामरूपम् अनित्यम् इति योजयति । न षडायतनं नित्यम् इति योजयति न षडायतनम् अनित्यम् इति योजयति । न स्पर्शं नित्यम् इति योजयति न स्पर्शम् अनित्यम् इति योजयति । न वेदनां नित्याम् इति योजयति न वेदनाम् अनित्याम् इति योजयति । न तृष्णां नित्याम् इति योजयति न तृष्णाम् अनित्याम् इति योजयति । नोपादानं नित्यम् इति योजयति नोपादानम् अनित्यम् इति योजयति । न भवं नित्यम् इति योजयति न भवम् अनित्यम् इति योजयति । न जातिं नित्याम् इति योजयति न जातिम् अनित्याम् इति योजयति । न जरामरणं नित्यम् इति योजयति न जरामरणम् अनित्यम् इति योजयति । न दानपारमितां नित्येति योजयति न दानपारमिताम् अनित्येति योजयति । न शीलपारमितां नित्येति योजयति न शीलपारमिताम् अनित्येति योजयति । न क्षान्तिपारमितां नित्येति योजयति न क्षान्तिपारमिताम् अनित्येति योजयति । न वीर्यपारमितां नित्येति योजयति न वीर्यपारमिताम् अनित्येति योजयति । न ध्यानपारमितां नित्येति योजयति न ध्यानपारमिताम् अनित्येति योजयति । न प्रज्ञापारमितां नित्येति योजयति न प्रज्ञापारमिताम् अनित्येति योजयति । नाध्यात्मशून्यतां नित्येति योजयति नाध्यात्मशून्यताम् अनित्येति योजयति । न बहिर्धाशून्यतां नित्येति योजयति न बहिर्धाशून्यताम् अनित्येति योजयति । नाध्यात्मबहिर्धाशून्यतां नित्येति योजयति नाध्यात्मबहिर्धाशून्यताम् अनित्येति योजयति । न शून्यताशून्यतां नित्येति योजयति न शून्यताशून्यताम् अनित्येति योजयति । न महाशून्यतां नित्येति योजयति न महाशून्यताम् अनित्येति योजयति । न परमार्थशून्यतां नित्येति योजयति न परमार्थशून्यताम् अनित्येति योजयति । न संस्कृतशून्यतां नित्येति योजयति न संस्कृतशून्यताम् अनित्येति योजयति । नासंस्कृतशून्यतां नित्येति योजयति नासंस्कृतशून्यताम् अनित्येति योजयति । नात्यन्तशून्यतां नित्येति योजयति नात्यन्तशून्यताम् अनित्येति योजयति । नानवराग्रशून्यतां नित्येति योजयति नानवराग्रशून्यताम् अनित्येति योजयति । नानवकारशून्यतां नित्येति योजयति नानवकारशून्यताम् अनित्येति योजयति । न प्रकृतिशून्यतां नित्येति योजयति न प्रकृतिशून्यताम् अनित्येति योजयति । न सर्वधर्मशून्यतां नित्येति योजयति न सर्वधर्मशून्यताम् अनित्येति योजयति । न स्वलक्षणशून्यातां नित्येति योजयति न स्वलक्षणशून्यताम् अनित्येति योजयति । नानुपलम्भशून्यतां नित्येति योजयति नानुपलम्भशून्यताम् अनित्येति योजयति । नाभावशून्यतां नित्येति योजयति नाभावशून्यताम् अनित्येति योजयति । न स्वभावशून्यतां नित्येति योजयति न स्वभावशून्यताम् अनित्येति योजयति । नाभावस्वभावशून्यतां नित्येति योजयति नाभावस्वभावशून्यताम् अनित्येति योजयति । न स्मृत्युपस्थानानि नित्यानीति योजयति न स्मृत्युपस्थानान्य् अनित्यानीति योजयति । न सम्यक्प्रहाणानि नित्यानीति योजयति न सम्यक्प्रहाणान्य् अनित्यानीति योजयति । न ऋद्धिपादान् नित्यान् इति योजयति न ऋद्धिपादान् अनित्यान् इति योजयति । नेन्द्रियाणि नित्यानीति योजयति नेन्द्रियाण्य् अनित्यानीति योजयति । न बलानि नित्यानीति योजयति न बलान्य् अनित्यानीति योजयति । न बोध्यङ्गानि नित्यानीति योजयति न बोध्यङ्गान्य् अनित्यानीति योजयति । नार्याष्टाङ्गमार्गं नित्यम् इति योजयति नार्याष्टाङ्गमार्गम् अनित्यम् इति योजयति । नार्यसत्यानि नित्यानीति योजयति नार्यसत्यान्य् अनित्यानीति योजयति । न ध्यानानि नित्यानीति योजयति न ध्यानान्य् अनित्यानीति योजयति । नाप्रमाणानि नित्यानीति योजयति नाप्रमाणान्य् अनित्यानीति योजयति । नारूप्यसमापत्तीर् नित्या इति योजयति नारूप्यसमापत्तीर् अनित्या इति योजयति । नाष्टौ विमोक्षान् नित्यान् इति योजयति नाष्टौ विमोक्षान् अनित्यान् इति योजयति । न नवानुपूर्वविहारसमापत्तीर् नित्या इति योजयति न नवानुपूर्वविहारसमापत्तीर् अनित्या इति योजयति । न शून्यतां नित्याम् इति योजयति न शून्यताम् अनित्याम् इति योजयति । नानिमित्तं नित्यम् इति योजयति नानिमित्तम् अनित्यम् इति योजयति । नाप्रणिहितं नित्यम् इति योजयति नाप्रणिहितम् अनित्यम् इति योजयति । नाभिज्ञा नित्या इति योजयति नाभिज्ञा अनित्या इति योजयति । न समाधीन् नित्यान् इति योजयति । न समाधीन् अनित्यान् इति योजयति । न धारणीमुखानि नित्यानीति योजयति । न धारणीमुखान्य् अनित्यानीति योजयति । न दश तथागतबलानि नित्यानीति योजयति । न दश तथागतबलान्य् अनित्यानीति योजयति । न चत्वारि वैशारद्यानि नित्यानीति योजयति । न चत्वारि वैशारद्यान्य् अनित्यानीति योजयति । न चतस्रः प्रतिसंविदो नित्या इति योजयति । न चतस्रः प्रतिसंविदो ऽनित्या इति योजयति । न महामैत्रीं नित्याम् इति योजयति । न महामैत्रीम् अनित्याम् इति योजयति । न महाकरुणां नित्याम् इति योजयति । न महाकरुणाम् अनित्याम् इति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् नित्यान् इति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् अनित्यान् इति योजयति । न श्रोत-आपत्तिफलं नित्यम् इति योजयति । न श्रोत-आपत्तिफलम् अनित्यम् इति योजयति । न सकृदागामिफलं नित्यम् इति योजयति । न सकृदागामिफलम् अनित्यम् इति योजयति । नानागामिफलं नित्यम् इति योजयति । नानागामिफलम् अनित्यम् इति योजयति । नार्हत्त्वं नित्यम् इति योजयति । नार्हत्त्वम् अनित्यम् इति योजयति । न प्रत्येकबोधिं नित्यम् इति योजयति । न प्रत्येकबोधिम् अनित्यम् इति योजयति । न मार्गाकारज्ञतां नित्याम् इति योजयति । न मार्गाकारज्ञताम् अनित्याम् इति योजयति । न सर्वाकारज्ञतां नित्याम् इति योजयति । न सर्वाकारज्ञताम् अनित्याम् इति योजयति । एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सुखम् इति योजयति । न रूपं दुःखम् इति योजयति । न वेदनां सुखेति योजयति । न वेदनां दुःखेति योजयति । न संज्ञां सुखेति योजयति । न संज्ञां दुःखेति योजयति । न संस्कारान् सुखान् इति योजयति । न संस्कारान् दुःखान् इति योजयति । न विज्ञानं सुखम् इति योजयति । न विज्ञानं दुःखम् इति योजयति । न चक्षुः सुखम् इति योजयति । न चक्षुर् दुःखम् इति योजयति । न श्रोत्रं सुखम् इति योजयति । न श्रोत्रं दुःखम् इति योजयति । न घ्राणं सुखम् इति योजयति । न घ्राणं दुःखम् इति योजयति । न जिह्वां सुखम् इति योजयति । न जिह्वां दुःखम् इति योजयति । न कायं सुखम् इति योजयति । न कायं दुःखम् इति योजयति । न मनः सुखम् इति योजयति । न मनो दुःखम् इति योजयति । न रूपं सुखम् इति योजयति । न रूपं दुःखम् इति योजयति । न शब्दं सुखम् इति योजयति । न शब्दं दुःखम् इति योजयति । न गन्धं सुखम् इति योजयति । न गन्धं दुःखम् इति योजयति । न रसं सुखम् इति योजयति । न रसं दुःखम् इति योजयति । न स्पर्शं सुखम् इति योजयति । न स्पर्शं दुःखम् इति योजयति । न धर्मान् सुखान् इति योजयति । न धर्मान् दुःखान् इति योजयति । न चक्षुर्विज्ञानं सुखम् इति योजयति । न चक्षुर्विज्ञानं दुःखम् इति योजयति । न श्रोत्रविज्ञानं सुखम् इति योजयति । न श्रोत्रविज्ञानं दुःखम् इति योजयति । न घ्राणविज्ञानं सुखम् इति योजयति । न घ्राणविज्ञानं दुःखम् इति योजयति । न जिह्वाविज्ञानं सुखम् इति योजयति । न जिह्वाविज्ञानं दुःखम् इति योजयति । न कायविज्ञानं सुखम् इति योजयति । न कायविज्ञानं दुःखम् इति योजयति । न मनोविज्ञानं सुखम् इति योजयति । न मनोविज्ञानं दुःखम् इति योजयति । न चक्षुःसंस्पर्शं सुखम् इति योजयति । न चक्षुःसंस्पर्शं दुःखम् इति योजयति । न श्रोत्रसंस्पर्शं सुखम् इति योजयति । न श्रोत्रसंस्पर्शं दुःखम् इति योजयति । न घ्राणसंस्पर्शं सुखम् इति योजयति । न घ्राणसंस्पर्शं दुःखम् इति योजयति । न जिह्वासंस्पर्शं सुखम् इति योजयति । न जिह्वासंस्पर्शं दुःखम् इति योजयति । न कायसंस्पर्शं सुखम् इति योजयति । न कायसंस्पर्शं दुःखम् इति योजयति । न मनःसंस्पर्शं सुखम् इति योजयति । न मनःमंस्पर्शं दुःखम् इति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदना दुःखाम् इति योजयति । न कायसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न कायसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनां सुखाम् इति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनां दुःखाम् इति योजयति । न पृथिवीधातुं सुखम् इति योजयति । न पृथिवीधातुं दुःखम् इति योजपति । नाब्धातुं सुखम् इति योजयति । नाब्धातुं दुःखम् इति योजयति । न तेजोधातुं सुखम् इति योजयति । न तेजोधातुं दुःखम् इति योजयति । न वायुधातुं सुखम् इति योजयति । न वायुधातुं दुःखम् इति योजवति । नाकाशधातुं सुखम् इति योजयति । नाकाशधातुं दुःखम् इति योजयति । न विज्ञानधातुं सुखम् इति योजयति । न विज्ञानधातुं दुःखम् इति योजयति । नाविद्यां सुखेति योजयति । नाविद्यां दुःखेति योजयति । न संस्कारान् सुखा इति योजयति । न संष्कारान् दुःखा इति योजयति । न विज्ञानं सुखम् इति योजयति । न विज्ञानं दुःखम् इति योजयति । न नामरूपं सुखम् इति योजयति । न नामरूपं दुःखम् इति योजयति । न षडायतनं सुखम् इति योजयति । न षडायतनं दुःखम् इति योजयति । न स्पर्शं सुखम् इति योजयति । न स्पर्शं दुःखम् इति योजयति । न वेदनां सुखेति योजयति । न वेदनां दुःखेति योजयति । न तृष्णां सुखेति योजयति । न तृष्णां दुःखेति योजयति । नोपादानं सुखम् इति योजयति । नोपादानं दुःखम् इति योजयति । न भवं सुखम् इति योजयति । न भवं दुःखम् इति योजयति । न जातिं सुखेति योजयति । न जातिं दुःखेति योजयति । न जरामरणं सुखम् इति योजयति । न जरामरणं दुःखम् इति योजयति । न दानपारमितां सुखेति योजयति । न दानपारमितां दुःखेति योजयति । न शीलपारमितां सुखेति योजयति । न शीलपारमितां दुःखेति योजयति । न क्षान्तिपारमितां सुखेति योजतति । न क्षान्तिपारमितां दुःखेति योजयति । न वीर्यपारमितां सुखेति योजयति । न वीर्यपारमितां दुःखेति योजयति । न ध्यानपारमितां सुखेति योजयति । न ध्यानपारमितां दुःखेति योजयति । न प्रज्ञापारमितां सुखेति योजयति । न प्रज्ञापारमितां दुःखेति योजयति । नाध्यात्मशून्यतां सुखेति योजयति । नाध्यात्मशून्यतां दुःखेति योजयति । न बहिर्धाशून्यतां सुखेति योजयति । न बहिर्धाशून्यतां दुःखेति योजयति । नाध्यात्मबहिर्धाशून्यतां सुखेति योजयति । नाध्यात्मबहिर्धाशून्यतां दुःखेति योजयति । न शून्यताशून्यतां सुखेति योजयति । न शून्यताशून्यतां दुःखेति योजयति । न महाशून्यतां सुखेति योजयति । न महाशून्यतां दुःखेति योजयति । न परमार्थशून्यतां सुखेति योजयति । न परमार्थशून्यतां दुःखेति योजयति । न संस्कृतशून्यतां सुखेति योजयति । न संस्कृतशून्यतां दुःखेति योजयति नासंस्कृतशून्यतां सुखेति योजयति । नासंस्कृतशून्यतां दुःखेति योजयति । नात्यन्तशून्यतां सुखेति योजयति । नात्यन्तशून्यतां दुःखेति योजयति । नानवराग्रशून्यतां सुखेति योजयति । नानवराग्रशून्यतां दुःखेति योजयति । नानवकारशून्यतां सुखेति योजयति । नानवकारशून्यतां दुःखेति योजयति । न प्रकृतिशून्यतां सुखेति योजयति । न प्रकृतिशून्यतां दुःखेति योजयति । न सर्वधर्मशून्यतां सुखेति योजयति । न सर्वधर्मशून्यतां दुःखेति योजयति । न स्वलक्षणशून्यतां सुखेति योजयति । न स्वलक्षणशून्यतां दुःखेति योजयति । नानुपलम्भशून्यतां सुखेति योजयति । नानुपलम्भशून्यतां दुःखेति योजयति । नाभावशून्यतां सुक्केति योजयति । नाभावशून्यतां दुःखेति योजयति । न स्वभावशून्यतां सुखेति योजयति । न स्वभावशून्यतां दुःखेति योजयति । नाभावस्वभावशून्यतां सुखेति योजयति । नाभावस्वभावशून्यतां दुःखेति योजयति । न स्मृत्युपस्थानानि सुखानीति योजयति ।
न स्मृत्युपस्थानानि दुःखानीति योजयति । न सम्यक्प्रहाणानि सुखानीति योजयति । न सम्यक्प्रहाणानि दुःखानीति योजयति । न ऋद्धिपादान् सुखा इति योजयति । न ऋद्धिपादान् दुःखा इति योजयति । नेन्द्रियाणि सुखानीति योजयति । नेन्द्रियाणि दुःखानीति योजयति । न बलानि सुखानीति योजयति । न बलानि दुःखानीति योजयति । न बोध्यङ्गानि सुखानीति योजयति । न बोध्यङ्गानि दुःखानीति योजयति । नार्याष्टाङ्गमार्गं सुख इति योजयति । नार्याष्टाङ्गमार्ग दुःख इति योजयति । नार्यसत्यानि सुखानीति योजयति । नार्यसत्यानि दुःखानीति योजयति । न ध्यानानि सुखानीति योजयति । न ध्यानानि दुःखानीति योजयति । नाप्रमाणानि सुखानीति योजयति । नाप्रमाणानि दुःखानीति योजयति । नारूप्यसमापत्तीः सुखा इति योजयति । नारूप्यसमापत्तीर् दुःखा इति योजयति । नाष्टौ विमोक्षान् सुखा इति योजयति । नाष्टौ विमोक्षान् दुःखा इति योजयति । न नवानुपूर्वविहारसमापत्तीः सुखा इति योजयति । न नवानुपूर्वविहारसमापत्तीः दुःखा इति योजयति । न शून्यतां सुखेति योजयति । न शून्यतां दुःखेति योजयति । नानिमित्तं सुखम् इति योजयति । नानिमित्तं दुःखम् इति योजयति । नाप्रणिहितं सुखम् इति योजयति । नाप्रणिहितं दुःखम् इति योजयति । नाभिज्ञां सुखेति योजयति । नाभिज्ञां दुःखेति योजयति । न समाधिं सुख इति योजयति । न समाधिं दुःख इति योजयति । न धारणीमुखानि सुखानीति योजयति । न धारणीमुखानि दुःखानीति योजयति । न दश तथागतबलानि सुखानीति योजयति । न दश तथागतबलानि दुःखानीति योजयति । न चत्वारि वैशारद्यानि सुखानीति योजयति । न चत्वारि वैशारद्यानि दुःखानीति योजयति । न चतस्रः प्रतिसंविदः सुखा इति योजयति । न चतस्रः प्रतिसंविदो दुःखा इति योजयति । न महामैत्रीं सुखेति योजयति । महामैत्रीं दुःखेति योजयति । न महाकरुणां सुखेति योजयति । न महाकरुणां दुःखेति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् सुखा योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् दुःखा इति योजयति । न श्रोत-आपत्तिफलं सुखम् इति योजयति । न श्रोतआपत्तिफलं दुःखम् इति योजयति । न सकृदागामिफलं सुखम् इति योजयति । न सकृदागामिफलं दुःखम् इति योजयति । नानागामिफलं सुखम् इति योजयति । नानागामिफलं दुःखम् इति योजयति । नार्हत्त्वं सुखम् इति योजयति । नार्हत्त्वं दुःखम् इति योजयति । न प्रत्येकबोधिं सुखम् इति योजयति । न प्रत्येकबोधिं दुःखम् इति योजयति । न मार्गाकारज्ञतां सुखेति योजयति । न मार्गाकारज्ञतां दुःखेति योजयति । न सर्वाकारज्ञतां सुखेति योजयति । न सर्वाकारज्ञतां दुःखेति योजयति । एवं हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् आत्मेति योजयति । न रूपम् अनात्मेति योजयति । न वेदनाम् आत्मेति योजयति । न वेदनाम् अनात्मेति योजयति । न संज्ञाम् आत्मेति योजयति । न संज्ञाम् अनात्मेति योजयति । न संस्कारान् आत्मान इति योजयति । न संस्कारान् अनात्मान इति योजयति । न विज्ञानम् आत्मेति योजयति । न विज्ञानम् अनात्मेति योजयति । न चक्षुर् आत्मेति योजयति न चक्षुर् अनात्मेति योजयति । न श्रोत्रम् आत्मेति योजयति । न श्रोत्रम् अनात्मेति योजयति । न घ्राणम् आत्मेति योजयति न घ्राणम् अनात्मेति योजयति । न जिह्वाम् आत्मेति योजयति । न जिह्वाम् अनात्मेति योजयति । न कायम् आत्मेति योजयति । न कायम् अनात्मेति योजयति । न मन आत्मेति योजयति । न मनो ऽनात्मेति योजयति । न रूपम् आत्मेति योजयति । न रूपम् अनात्मेति योजयति । न शब्दम् आत्मेति योजयति । न शब्दम् अनात्मेति योजयति । न गन्धम् आत्मेति योजयति । न गन्धम् अनात्मेति योजयति । न रसम् आत्मेति योजयति । न रसम् अनात्मेति योजयति । न स्पर्शम् आत्मेति योजयति । न स्पर्शम् अनात्मेति योजयति । न धर्मान् आत्मान इति योजयति । न धर्मान् अनात्मान इति योजयति । न चक्षुर्विज्ञानम् आत्मेति योजयति । न चक्षुर्विज्ञानम् अनात्मेति योजयति । न श्रोत्रविज्ञानम् आत्मेति योजयति । न श्रोत्रविज्ञानम् अनात्मेति योजयति । न घ्राणविज्ञानम् आत्मेति योजयति । न घ्राणविज्ञानम् अनात्मेति योजयति । न जिह्वाविज्ञानम् आत्मेति योजयति । न जिह्वाविज्ञानम् अनात्मेति योजयति । न कायविज्ञानम् आत्मेति योजयति । न कायविज्ञानम् अनात्मेति योजयति । न मनोविज्ञानम् आत्मेति योजयति । न मनोविज्ञानाम् अनात्मेति योजयति । न चक्षुःसंस्पर्शम् आत्मेति योजयति । न चक्षुःसंस्पर्शम् अनात्मेति योजयति । न श्रोत्रसंस्पर्शम् आत्मेति योजयति । न श्रोत्रसंस्पर्शम् अनात्मेति योजयति । न घ्राणसंस्पर्शम् आत्मेति योजयति । न घ्राणसंस्पर्शम् अनात्मेति योजयति । न जिह्वासंस्पर्शम् आत्मेति योजयति । न जिह्वास ं पर्शम् अनात्मेति योजयति । न कायसंस्पर्शम् आत्मेति योजयति न कायसंस्पर्शम् अनात्मेति योजयति । न मनःसंस्पर्शम् आत्मेति योजयति न मनःस ं पर्शम् अनात्मेति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न कायसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति । न कायसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनाम् आत्मेति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनाम् अनात्मेति योजयति । न पृथिवीधातुम् आत्मेति योजयति । न पृथिवीधातुम् अनात्मेति योजयति । नाब्धातुम् आत्मेति योजयति । नाब्धातुम् अनात्मेति योजयति । न तेजोधातुम् आत्मेति योजयति । न तेजोधातुम् अनात्मेति योजयति । न वायुधातुम् आत्मेति योजयति । न वायुधातुम् अनात्मेति योजयति । नाकाशधातुम् आत्मेति योजयति । नाकाशधातुम् अनात्मेति योजयति । न विज्ञानधातुम् आत्मेति योजयति । न विज्ञानधातुम् अनात्मेति योजयति । नाविद्याम् आत्मेति योजयति । नाविद्याम् अनात्मेति योजयति । न संस्कारान् आत्मान इति योजयति । न संस्कारान् अनात्मान इति योजयति । न विज्ञानम् आत्मेति योजयति । न विज्ञानम् अनात्मेति योजयति । न नामरूपम् आत्मेति योजयति । न नामरूपम् अनात्मेति योजयति । न षडायतनम् आत्मेति योजयति । न षडायतनम् अनात्मेति योजयति । न स्पर्शम् आत्मेति योजयति । न स्पर्शम् अनात्मेति योजयति । न वेदनाम् आत्मेति योजयति । न वेदनाम् अनात्मेति योजयति । न तृष्णाम् आत्मेति योजयति । न तृष्णाम् अनात्मेति योजयति । नोपादानम् आत्मेति योज यति । नोपादानम् अनात्मेति योजयति । न भवम् आत्मेति योजयति । न भवम् अनात्मेति योजयति । न जातिम् आत्मेति योजयति । न जातिम् अनात्मेति योजयति । न जरामरणम् आत्मेति योजयति । न जरामरणम् अनात्मेति योजयति । न दानपारमिताम् आत्मेति योजयति । न दानपारमिताम् अनात्मेति योजयति । न शीलपारमिताम् आत्मेति योजयति । न शीलपारमिताम् अनात्मेति योजयति । न क्षान्तिपारमिताम् आत्मेति योजयति । न क्षान्तिपारमिताम् अनात्मेति योजयति । न वीर्यपारमिताम् आत्मेति योजयति । न वीर्यपारमिताम् अनात्मेति योजयति । न ध्यानपारमिताम् आत्मेति योजयति । न ध्यानपारमिताम् अनात्मेति योजयति । न प्रज्ञापारमिताम् आत्मेति योजयति । न प्रज्ञापारमिताम् अनात्मेति योजयति । नाध्यात्मशून्यताम् आत्मेति योजयति । नाध्यात्मशून्यताम् अनात्मेति योजयति । न बहिर्धाशून्यताम् आत्मेति योजयति । न बहिर्धाशून्यताम् अनात्मेति योजयति । नाध्यात्मबहिर्धाशून्यताम् आत्मेति योजयति । नाध्यात्मबहिर्धाशून्यताम् अनात्मेति योजयति । न शून्यताशून्यताम् आत्मेति योजयति । न शून्यताशून्यताम् अनात्मेति योजयति । न महाशून्यताम् आत्मेति योजयति । न महाशून्यताम् अनात्मेति योजयति । न परमार्थशून्यताम् आत्मेति योजयति । न परमार्थशून्यताम् अनात्मेति योजयति । न संस्कृतशून्यताम् आत्मेति योजयति । न संस्कृतशून्यताम् अनात्मेति योजयति । नासंस्कृतशून्यताम् आत्मेति योजयति । नासंस्कृतशून्यताम् अनात्मेति योजयति । नात्यन्तशून्यताम् आत्मेति योजयति । नात्यन्तशून्यताम् अनात्मेति योजयति । नानवराग्रशून्यताम् आत्मेति योजयति । नानवराग्रशून्यताम् अनात्मेति योजयति । नानवकारशून्यताम् आत्मेति योजयति । नानवकारशून्यताम् अनात्मेति योजयति । न प्रकृतिशून्यताम् आत्मेति योजयति
। न प्रकृतिशून्यताम् अनात्मेति योजयति । न सर्वधर्मशून्यताम् आत्मेति योजयति । न सर्वधर्मशून्यताम् अनात्मेति योजयति । न स्वलक्षणशून्यताम् आत्मेति योजयति । न स्वलक्षणशून्यताम् अनात्मेति योजयति । नानुपलम्भशून्यताम् आत्मेति योजयति । नानुपलम्भशून्यताम् अनात्मेति योजयति । नाभावशून्यताम् आत्मेति योजयति । नाभावशून्यताम् अनात्मेति योजयति । न स्वभावशून्यताम् आत्मेति योजयति । न स्वभावशून्यताम् अनात्मेति योजयति । नाभावस्वभावशून्यताम् आत्मेति योजयति । नाभावस्वभावशून्यताम् अनात्मेति योजयति । न स्मृत्युपस्थानान्य् आत्मानीति योजयति । न स्मृत्युपस्थानान्य् अनात्मानीति योजयति । न सम्यक्प्रहाणान्य् आत्मानीति योजयति । न सम्यक्प्रहाणान्य् अनात्मानीति योजयति । न ऋद्धिपादान् आत्मान इति योजयति । न ऋद्धिपादान् अनात्मान इति योजयति । नेन्द्रियाण्य् आत्मानीति योजयति । नेन्द्रियाण्य् अनात्मानीति योजयति । न बलान्य् आत्मानीति योजयति । न बलान्य् अनात्मानीति योजयति । न बोध्यङ्गान्य् आत्मानीति योजयति । न बोध्यङ्गान्य् अनात्मानीति योजयति । नार्याष्टाङ्गमार्गम् आत्मेति योजयति । नार्याष्टाङ्गमार्गम् अनात्मेति योजयति । नार्यसत्यान्य् आत्मानीति योजयति । नार्यसत्यान्य् अनात्मानीति योजयति । न ध्यानान्य् आत्मानीति योजयति । न ध्यानान्य् अनात्मानीति योजयति । नाप्रमाणान्य् आत्मानीति योजयति । नाप्रमाणान्य् अनात्मानीति योजयति । नारूप्यसमापत्तीर् आत्मेति योजयति । नारूप्यसमापत्तीर् अनात्मेति योजयति । नाष्टौ विमोक्षान् आत्मान इति योजयति । नाष्टौ विमोक्षान् अनात्मान इति योजयति । न नवानुपूर्वविहारसमापत्तीर् आत्मेति योजयति । न नवानुपूर्वविहारसमापत्तीर् अनात्मेति योजयति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीति योजयति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति योजयति । नाभिज्ञाम् आत्मेति योजयति । नाभिज्ञाम् अनात्मेति योजयति । न समाधीन् आत्मान इति योजयति न समाधीन् अनात्मान इति योजयति । न धारणीमुखान्य् आत्मानीति योजयति । न धारणीमुखान्य् अनात्मानीति योजयति । न दश तथागतबलान्य् आत्मानीति योजयति । न दश तथागतबलान्य् अनात्मानीति योजयति । न वैशारद्यान्य् आत्मानीति योजयति । न वैशारद्यान्य् अनात्मानीति योजयति । न प्रतिस ं विद आत्मान इति योजयति । न प्रतिस ं विदो ऽनात्मान इति योजयति । न महामैत्रीम् आत्मेति योजयति । न महामैत्रीम् अनात्मेति योजयति । न महाकरुणाम् आत्मेति योजयति । न महाकरुणाम् अनात्मेति योजयति । नाष्टादशावेणिकबुद्धधर्मान् आत्मान इति योजयति । नाष्टादशावेणिकबुद्धधर्मान् अनात्मान इति योजयति । न श्रोतआपत्तिफलम् आत्मेति योजयति । न श्रोतआपत्तिफलम् अनात्मेति योजयति । न सकृदागामिफलम् आत्मेति योजयति । न सकृदागामिफलम् अनात्मेति योजयति । नानागामिफलम् आत्मेति योजयति । नानागामिफलम् अनात्मेति योजयति । नार्हत्त्वम् आत्मेति योजयति । नार्हत्त्वम् अनात्मेति योजयति । न प्रत्येकबोधिम् आत्मेति योजयति । न प्रत्येकबोधिम् अनात्मेति योजयति । न मार्गाकारज्ञताम् आत्मेति योजयति । न मार्गाकारज्ञताम् अमात्मेति योजयति । न सर्वाकारज्ञताम् आत्मेति योजयति । न सर्वाकारज्ञताम् अनात्मेति योजयति । एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् न रूपं शान्तम् इति योजयति । न रूपम् अशान्तम् इति योजयति । न वेदनां शान्तेति योजयति । न वेदनाम् अशान्तेति योजयति । न संज्ञां शान्तेति योजयति । न संज्ञाम् अशान्तेति योजयति । न संस्कारान् शान्ता इति योजयति । न संस्कारान् अशान्ता इति योजयति । न विज्ञानं शान्तम् इति योजयति । न विज्ञानम् अशान्तम् इति योजयति । न चक्षुः शान्तम् इति योजयति । न चक्षुर् अशान्तम् इति योजयति । न श्रोत्रं शान्तम् इति योजयति । न श्रोत्रम् अशान्तम् इति योजयति । न घ्राणं शान्तम् इति योजयति । न घ्राणम् अशान्तम् इति योजयति । न जिह्वां शान्तेति योजयति । न जिह्वाम् अशान्तेति योजयति । न कायं शान्तम् इति योजयति । न कायम् अशान्तम् इति योजयति । न मनः शान्तम् इति योजयति । न मनो ऽशान्तम् इति योजयति । न रूपं शान्तम् इति योजयति । न रूपम् अशान्तम् इति योजयति । न शब्दं शान्तम् इति योजयति । न शब्दम् अशान्तम् इति योजयति । न गन्धं शान्तम् इति योजयति । न गन्धम् अशान्तम् इति योजयति । न रसं शान्तम् इति योजयति । न रसम् अशान्तम् इति योजयति । न स्पर्शं शान्तम् इति योजयति । न स्पर्शम् अशान्तम् इति योजयति । न धर्मान् शान्ता इति योजयति । न धर्मान् अशान्ता इति योजयति । न चक्षुर्विज्ञानं शान्तम् इति योजयति । न चक्षुर्विज्ञानम् अशान्तम् इति योजयति । न श्रोत्रविज्ञानं शान्तम् इति योजयति । न श्रोत्रविज्ञानम् अशान्तम् इति योजयति । न घ्राणविज्ञानं शान्तम् इति योजयति । न घ्राणविज्ञानम् अशान्तम् इति योजयति । न जिह्वाविज्ञानं शान्तम् इति योजयति । न जिह्वाविज्ञानम् अशान्तम् इति योजयति । न कायविज्ञानं शान्तम् इति योजयति । न कायविज्ञानम् अशान्तम् इति योजयति । न मनोविज्ञानं शान्तम् इति योजयति । न मनोविज्ञानम् अशान्तम् इति योजयति । न चक्षुःसंस्पर्शं शान्तम् इति योजयति । न चक्षुःसंस्पर्शम् अशान्तम् इति योजयति । न श्रोत्रसंस्पर्शं शान्तम् इति योजयति । न श्रोत्रसंस्पर्शम् अशान्तम् इति योजयति । न घ्राणसंस्पर्शं शान्तम् इति योजयति । न घ्राणसंस्पर्शम् अशान्तम् इति योजयति । न जिह्वासंस्पर्शं शान्तम् इति योजयति । न जिह्वासंस्पर्शम् अशान्तम् इति योजयति । न कायसंस्पर्शं शान्तम् इति योजयति । न कायसंस्पर्शम् अशान्तम् इति योजयति । न मनःसंस्पर्शं शान्तम् इति योजयति । न मनःसंस्पर्शम् अशान्तम् इति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न कायसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न कायसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनां शान्तेति योजयति । न मनःसंस्पर्शप्रत्ययां वेदनाम् अशान्तेति योजयति । न पृथिवीधातुं शान्तेति योजयति । न पृथिवीधातुम् अशान्तेति योजयति । नाब्धातुं शान्तेति योजयति । नाब्धातुम् अशान्तेति योजयति । न तेजोधातुं शान्तेति योजयति । न तेजोधातुम् अशान्तेति योजयति । न वायुधातुं शान्तेति योजयति । न वायुधातुम् अशान्तेति योजयति । नाकाशधातुं शान्त इति योजयति । नाकाशधातुम् अशान्त इति योजयति । न विज्ञानधातुं शान्त इति योजयति । न विज्ञानधातुम् अशान्त इति योजयति । नाविद्यां शान्तेति योजयति । नाविद्याम् अशान्तेति योजयति । न संस्कारान् शान्ता इति योजयति । न संस्कारान् अशान्ता इति योजयति । न विज्ञानं शान्तम् इति योजयति । न विज्ञानम् अशान्तम् इति योजयति । न नामरूपं शान्तम् इति योजयति न नामरूपम् अशान्तम् इति योजयति । न षडायतनं शान्तम् इति योजयति न षडायतनम् अशान्तम् इति योजयति । न स्पर्शं शान्तम् इति योजयति न स्पर्शम् अशान्तम् इति योजयति । न वेदनां शान्तेति योजयति न वेदनाम् अशान्तेति योजयति । न तृष्णां शान्तेति योजयति न तृष्णाम् अशान्तेति योजयति । नोपादानं शान्तम् इति योजयति नोपादानम् अशान्तम् इति योजयति । न भवं शान्तम् इति योजयति न भवम् अशान्तम् इति योजयति । न जातिं शान्तेति योजयति न जातिम् अशान्तेति योजयति । न जरामरणं शान्तम् इति योजयति न जरामरणम् अशान्तम् इति योजयति । न दानपारमितां शान्तेति योजयति न दानपारमिताम् अशान्तेति योजयति । न शीलपारमितां शान्तेति योजयति न शीलपारमिताम् अशान्तेति योजयति । न क्षान्तिपारमितां शान्तेति योजयति न क्षान्तिपारमिताम् अशान्तेति योजयति न वीर्यपारमितां शान्तेति योजयति न वीर्यपारमिताम् अशान्तेति योजयति । न ध्यानपारमितां शान्तेति योजयति । न ध्यानपारमिताम् अशान्तेति योजयति । न प्रज्ञापारमितां शान्तेति योजयति । न प्रज्ञापारमिताम् अशान्तेति योजयति । नाध्यात्मशून्यतां शान्तेति योजयति । नाध्यात्मशून्यताम् अशान्तेति योजयति । न बहिर्धाशून्यतां शान्तेति योजयति । न बहिर्धाशून्यताम् अशान्तेति योजयति । नाध्यात्मबहिर्धाशून्यतां शान्तेति योजयति । नाध्यात्मबहिर्धाशून्यताम् अशान्तेति योजयति । न शून्यताशून्यतां शान्तेति योजयति । न शून्यताशून्यताम् अशान्तेति योजयति । न महाशून्यतां शान्तेति योजयति । न महाशून्यताम् अशान्तेति योजयति । न परमार्थशून्यतां शान्तेति योजयति । न परमार्थशून्यताम् अशान्तेति योजयति । न संस्कृतशून्यतां शान्तेति योजयति । न संस्कृतशून्यताम् अशान्तेति योजयति । नासंस्कृतशून्यतां शान्तेति योजयति । नासंस्कृतशून्यताम् अशान्तेति योजयति । नात्यन्तशून्यतां शान्तेति योजयति । नात्यन्तशून्यताम् अशान्तेति योजयति । नानवराग्रशून्यतां शान्तेति योजयति । नानवराग्रशून्यताम् अशान्तेति योजयति । नानवकारशून्यतां शान्तेति योजयति । नानवकारशून्यताम् अशान्तेति योजयति । न प्रकृतिशून्यतां शान्तेति योजयति । न प्रकृतिशून्यताम् अशान्तेति योजयति । न सर्वधर्मशून्यतां शान्तेति योजयति । न सर्वधर्मशून्यताम् अशान्तेति योजयति । न स्वलक्षणशून्यतां शान्तेति योजयति न । स्वलक्षणशून्यताम् अशान्तेति योजयति । नानुपलम्भशून्यतां शान्तेति योजयति । नानुपलम्भशून्यताम् अशान्तेति योजयति । नाभावशून्यतां शान्तेति योजयति । नाभावशून्यताम् अशान्तेति योजयति । न स्वभावशून्यतां शान्तेति योजयति । न स्वभावशून्यताम् अशान्तेति योजयति । नाभावस्वभावशून्यतां शान्तेति योजयति । नाभावस्वभावशून्यताम् अशान्तेति योजयति । न स्मृत्युपस्थानानि शान्तानीति योजयति । न स्मृत्युपस्थानान्य् अशान्तानीति योजयति । न सम्यक्प्रहाणानि शान्तानीति । योजयति न सम्यक्प्रहाणान्य्
अशान्तानीति योजयति । न ऋद्धिपादान् शान्ता इति योजयति । न ऋद्धिपादान् अशान्ता इति योजयति । नेन्द्रियाणि शान्तानीति योजयति । नेन्द्रियाण्य् अशान्तानीति योजयति । न बलानि शान्तानीति योजयति । न बलान्य् अशान्तानीति योजयति । न बोध्यङ्गानि शान्तानीति योजयति । न बोध्यङ्गान्य् अशान्तानीति योजयति । नार्याष्टाङ्गमार्गं शान्तम् इति योजयति । नार्याष्टाङ्गमार्गम् अशान्तम् इति योजयति । न ध्यानानि शान्तानीति योजयति । न ध्यानान्य् अशान्तानीति योजयति । नाप्रमाणानि शान्तानीति योजयति । नाप्रमाणान्य् अशान्तानीति योजयति । नारूप्यसमापत्तीः शान्ता इति योजयति । नारूप्यसमापत्तीर् अशान्ता इति योजयति । न विमोक्षान् शान्ता इति योजयति । न विमोक्षान् अशान्ता इति योजयति । न नवानुपूर्वविहारसमापत्तीः शान्ता इति योजयति । न नावानुपूर्वविहारसमापत्तीर् अशान्ता इति योजयति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति येजयति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशान्तानीति योजयति । नाभिज्ञाः शान्ता इति योजयति । नाभिज्ञा अशान्ता इति योजयति । न समाधीन् शान्ता इति योजयति । न समाधीन् अशान्ता इति योजयति । न धारणीमुखानि शान्तानीति योजयति । न धारणीमुखान्य् अशान्तानीति योजयति । न दश तथागतबलानि शान्तानीति योजयति । न दश तथागतबलान्य् अशान्तानीति योजयति । न चत्वारि वैशारद्यानि शान्तानीति योजयति । न चत्वारि वैशारद्यान्य् अशन्तानीति योजयति । न चतस्रः प्रतिसंविदः शान्ता इति योजयति । न चतस्रः प्रतिसंविदो ऽशान्ता इति योजयति । न महामैत्रीं शान्तेति योजयति । न महामैत्रीम् अशान्तेति यो जयति । न महाकरुणां शान्तेति योजयति । न महाकरुणाम् अशान्तेति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् शान्ता इति योजयति । नाष्टादशावेणिकान् बुद्धधर्मान् अशान्ता इति योजयति । न श्रोत-आपत्तिफलं शान्तम् इति योजयति । न श्रोत-आपत्तिफलम् अशान्तम् इति योजयति । न सकृदागमिफलं शान्तम् इति योजयति न सकृद्गामिफलम् अशान्तम् इति योजयति । नानागामिफलं शान्तम् इति योजयति नानागमिमिफलम् अशान्तम् इति योजयति । नार्हत्त्वं शान्तम् इति योजयति नार्हत्त्वम् अशान्तम् इति योजयति । च प्रत्येकबोधिं शान्त इति योजयति न प्रत्येकबोधिम् अशान्त इति योजयति । न मार्गाकारज्ञतां शान्तेति योजयति । न मार्गाकारज्ञताम् अशान्तेति योजयति । न सर्वाकारज्ञतां शान्तेति योजयति । न सर्वाकारज्ञताम् अशन्तेति योजयति । एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रजापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युज्यमानो न रूपं शून्यम् इति वाशून्यम् इति वा युज्यते । न वेदनां शून्यम् इति वाशून्यम् इति वा युज्यते । न संज्ञां शून्यम् इति वाशून्यम् इति वा युज्यते । न संस्काराः शून्या इति वाशून्या इति वा युज्यते । न विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न चक्षुः शून्यम् इति वाशून्यम् इति वा युज्यते । न श्रोत्रं शून्यम् इति वाशून्यम् इति वा युज्यते । न घ्राणं शून्यम् इति वाशून्यम् इति वा युज्यते । न जिह्वां शून्यम् इति वाशून्यम् इति वा युज्यतै । न कायं शून्यम् इति वाशून्यम् इति वा युज्यते । न मनः शून्यम् इति वाशून्यम् इति वा युज्यते । न रूपं शून्यम् इति वाशून्यम् इति वा युज्यत । न शब्दं शून्यम् इति वाशून्यम् इति वा युज्यते । न गन्धं शून्यम् इति वाशून्यम् इति वा युज्यते । न रसं शून्यम् इति वाशून्यम् इति वा युज्यते । न स्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न धर्मान् शून्या इति वाशून्या इति वा युज्यते । न चक्षुर्विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न श्रोत्रविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न घ्राणविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न जिह्वाविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न कायविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न मनोविज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न चक्षुःसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न श्रोत्रसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न घ्राणसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न जिह्वासंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न कायस ं पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न मनःसंस्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न कायसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनां शून्येति वाशून्येति वा युज्यते । न पृथिवीधातुं शून्यम् इति वाशून्यम् इति वा युज्यते । नाब्धातुं शून्यम् इति वाशून्यम् इति वा युज्यते । न तेजोधातुं शून्यम् इति वाशून्यम् इति वा युज्यते । न वायुधातुं शून्यम् इति वाशून्यम् इति वा युज्यते । नाकाशधातुं शून्यम् इति वाशून्यम् इति वा युज्यते । न विज्ञानधातुं शून्य इति वाशून्य इति वा युज्यते । नाविद्यां शून्येति वाशून्येति वा युज्यते । न संस्कारान् शून्या इति वाशून्या इति वा युज्यते । न विज्ञानं शून्यम् इति वाशून्यम् इति वा युज्यते । न नामरूपं शून्यम् इति वाशून्यम् इति वा युज्यते । न षडायतनं शून्यम् इति वाशून्यम् इति वा युज्यते । न स्पर्शं शून्यम् इति वाशून्यम् इति वा युज्यत । न वेदनां शून्येति वाशून्येति वा युज्यते । न तृष्णां शून्येति वाशून्येति वा युज्यते । नोपादानं शून्यम् इति वाशून्यम् इति वा युज्यते । न भवं शून्य इति वाशून्य इति वा युज्यते । न जातिं शून्येति वाशून्येति वा युज्यते । न जरामरणं शून्यम् इति वाशून्यम् इति वा युज्यते । न दानपारमितां शून्येति वाशून्येति वा युज्यते । न शीलपारमितां शून्येति वाशून्येति वा युज्यत । न क्षान्तिपारमितां शून्येति वाशून्येति वा युज्यते । न वीर्यपारमितां शून्येति वाशून्येति वा युज्यते । न ध्यानपारमितां शून्येति वाशून्येति वा युज्यते । न प्रज्ञापारमितां शून्येति वाशून्येति वा युज्यते । नान्यात्मशून्यतां शून्येति वाशून्येति वा युज्यते । न बहिर्धाशून्यतां शून्येति वाशून्येति वा युज्यते । नाध्यात्मबहिर्धाशून्यतां शून्येति वाशून्येति वा युज्यते । न शून्यताशून्यतां शून्येति वाशून्येति वा युज्यते । न महाशून्यतां शून्येति वाशून्येति वा युज्यते । न परमार्थशून्यतां शून्येति वाशून्येति वा युज्यते । न संस्कृतशून्यतां शून्येति वाशून्येति वा युज्यते । नासंस्कृतशून्यतां शून्येति वाशून्येति वा युज्यते । नात्यन्तशून्यतां शून्येति वाशून्येति वा युज्यते । नानवराग्रशून्यतां शून्येति वाशून्येति वा युज्यते । नानवकारशून्यतां शून्येति वाशून्येति वा युज्यते । न प्रकृतिशून्यतां शून्येति वाशून्येति वा युज्यते । न सर्वधर्मशून्यतां शून्येति वाशून्येति वा युज्यते । न स्वलक्षणशून्यतां शून्येति वाशून्येति वा युज्यते । नानुपलम्भशून्यतां शून्येति वाशून्येति वा युज्यते । नाभावशून्यतां शून्येति वाशून्येति वा युज्यते । न स्वभावशून्यतां शून्येति वाशून्येति वा युज्यते । नाभावस्वभावशून्यतां शून्येति वाशून्येति वा युज्यते । न स्मृत्युपथानानि शून्यानीति वाशून्यानीति वा युज्यते । न सम्यक्प्रहाणानि शून्यानीति वाशून्यानीति वा युज्यते । नर्धिपादान् शून्या इति वाशून्या इति वा युज्यते । नेन्द्रियाणि शून्यानीति वाशून्यानीति वा युज्यते । न बलानि शून्यानीति वाशून्यानीति वा युज्यते । न बोध्यङ्गानि शून्यानीति वाशून्यानीति वा युज्यते । नार्याष्टाङ्गमार्गं शून्य इति वाशून्य इति वा युज्यते । नार्यसत्यानि शून्यानीति वाशून्यानीति वा युज्यते । न ध्यानानि शून्यानीति वाशून्यानीति वा युज्यते । नाप्रमाणानि शून्यानीति वाशून्यानीति वा युज्यते । नारूप्यसमापत्तीः शून्या इति वाशून्या इति वा युज्यते । नाष्टौ विमोक्षान् शून्या इति वाशून्या इति वा युज्यते । न नवानुपूर्वविहारसमापत्तीः शून्या इति वाशून्या इति वा युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति वाशून्यानीति वा युज्यते । नाभिज्ञाः शून्या इति वा अशून्या इति वा युज्यते । न समाधीन् शून्या इति वाशून्या इति वा युज्यते । न धारणीमुखानि शून्यानीति वाशून्यानीति वा युज्यते । न तथागतबलानि शून्यानीति वाशून्यानीति वा युज्यते । न वैशारद्यानि शून्यानीति वाशून्यानीति वा युज्यते । न प्रतिसंविदः शून्या इति वाशून्या इति वा युज्यते । न महामैत्रीं शून्येति वाशून्येति वा युज्यते । न महाकरुणां शून्येति वाशून्येति वा युज्यते । नावेणिकबुद्धधर्मान् शून्या इति वाशून्या इति वा युज्यते । न श्रोत-आपत्तिफलं शून्यम् इति वाशून्यम् इति वा युज्यते । न सकृदागामिफलं शून्यम् इति वाशून्यम् इति वा युज्यते । नानागामिफलं शून्यम् इति वाशून्यम् इति वा युज्यते । नार्हत्त्वं शून्यम् इति वाशून्यम् इति वा युज्यते । न प्रत्येकबोधिं शून्य इति वाशून्य इति वा युज्यते । न सर्वज्ञतां शून्येति वाशून्येति वा युज्यते । न मार्गाकारज्ञतां शून्येति वाशून्येति वा युज्यते । न सर्वाकारज्ञतां शून्येति वाशून्येति वा युज्यते । एवं चरन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न संज्ञां निमित्तेति वानिमित्तेति वा युज्यते । न संस्कारान् निमित्ता इति वानिमित्ता इति वा युज्यते । न विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न चक्षुर्निमित्तम् इति वानिमित्तम् इति वा युज्यते । न श्रोत्रं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न घ्राणं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते । न जिह्वां निमित्तम् इति वानिमित्तम् इति वा युज्यते । न कायं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न मनोनिमित्तम् इति वानिमित्तम् इति वा युज्यते । न रूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न शब्दं निमित्त इति वानिमित्त इति वा युज्यते । न गन्धं निमित्त इति वानिमित्त इति वा युज्यते । न रसं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न स्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न धर्मान् निमित्ता इति वानिमित्ता इति वा युज्यते । न चक्षुर्विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न श्रोत्रविज्ञानं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते । न घ्राणविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न जिह्वाविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न कायविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न मनोविज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न चक्षुःसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न श्रोत्रसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न घ्राणसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न जिह्वासंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न कायसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न मनःसंस्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न कायसंस्पर्शप्रत्ययां वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनां निमित्तेति वा अनिमित्तेति वा युज्यते । न पृथिवीधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नाब्धातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न तेजोधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न वायुधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नाकाशधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न विज्ञानधातुं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नाविद्यां निमित्तेति वानिमित्तेति वा युज्यते । न संस्कारान् निमित्ता इति वानिमित्ता इति वा युज्यते । न विज्ञानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न नामरूपं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न षडायतनं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न स्पर्शं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न वेदनां निमित्तेति वानिमित्तेति वा युज्यते । न तृष्णां निमित्तेति वानिमित्तेति वा युज्यते । नोपादानं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न भवं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न जातिं निमित्तेति वानिमित्तेति वा युज्यते । न जरामरणं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न दानपारमितां निमित्तेति वानिमित्तेति वा युज्यते । न शीलपारमितां निमित्तेति वानिमित्तेति वा युज्यते । न क्षान्तिपारमितां निमित्तेति वानिमित्तेति वा युज्यते । न वीर्यपारमितां निमित्तेति वानिमित्तेति वा युज्यते । न ध्यानपारमितां निमित्तेति वानिमित्तेति वा युज्यते । न प्रज्ञापारमितां निमित्तेति वानिमित्तेति वा युज्यते । नाध्यात्मशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न बहिर्धाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नाध्यात्मबहिर्धाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न शून्यताशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न महाशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न परमार्थशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न संस्कृतशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नासंस्कृतशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नात्यन्तशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नानवराग्रशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नानवकारशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न प्रकृतिशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न सर्वधर्मशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न स्वलक्षणशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नानुपलम्भशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नाभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न स्वभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । नाभावस्वभावशून्यतां निमित्तेति वानिमित्तेति वा युज्यते । न स्मृत्युपस्थानानि निमित्तानीति वानिमित्तानीति वा युज्यते । न सम्यक्प्रहाणानि निमित्तानीति वानिमित्तानीति वा युज्यते । नर्धिपादान् निमित्तान् इति वानिमित्तान् इति वा युज्यते । नेन्द्रियाणि निमित्तानीति वानिमित्तानीति वा युज्यते । न बलानि निमित्तानीति वानिमित्तानीति वा युज्यते । न बोध्यङ्गानि निमित्तानीति वानिमित्तानीति वा युज्यते । नार्याष्टाङ्गमार्गं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नार्यसत्यानि निमित्तानीति वानिमित्तानीति वा युज्यते । न ध्यानानि निमित्तानीति वानिमित्तानीति वा युज्यते । नाप्रमाणानि निमित्तानीति वानिमित्तानीति वा युज्यते । नारूप्यसमापत्तीर् निमित्ता इति वानिमित्ता इति वा युज्यते । न विमोक्षान् निमित्ता इति वानिमित्ता इति वा युज्यते । न नवानुपूर्वविहारसमापत्तीर् निमित्ता इति वानिमित्ता इति वा युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीति वानिमित्तानीति वा युज्यते । नाभिज्ञा निमित्ता इति वानिमित्ता इति वा युज्यते । न समाधीन् निमित्ता इति वानिमित्ता इति वा युज्यते । न धारणीमुखानि निमित्तानीति वानिमित्तानीति वा युज्यते । न तथागतबलानि निमित्तानीति वानिमित्तानीति वा युज्यते । न वैशारद्यानि निमित्तानीति वानिमित्तानीति वा युज्यते । न प्रतिस ं विदो निमित्ता इति वानिमित्ता इति वा युज्यते । न महामैत्रीं निमित्तेति वानिमित्तेति वा युज्यते । न महाकरुणां निमित्तेति वानिमित्तेति वा युज्यते । नाष्टादशावेणिकबुद्धधर्मान् निमित्ता इति वानिमित्ता इति वा युज्यते । न श्रोतआपत्तिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यत । न सकृदागामिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नानागामिफलं निमित्तम् इति वानिमित्तम् इति वा युज्यते । नार्हत्त्वं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न प्रत्येकबोधिं निमित्तम् इति वानिमित्तम् इति वा युज्यते । न सर्वज्ञतां निमित्तेति वानिमित्तेति वा युज्यते । न मार्गाकारज्ञतां निमित्तेति वानिमित्तेति वा युज्यते । न
सर्वाकारज्ञतां निमित्तेति वानिमित्तेति वा युज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न संज्ञां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न संस्कारान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न चक्षुः प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न श्रोत्रं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न घ्राणं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न जिह्वां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न कायं प्रणिहित इति वाप्रणिहित इति वा युज्यत । न मनः प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न रूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न शब्दं प्रणिहित इति वाप्रणिहित इति वा युज्यते । न गन्धं प्रणिहित इति वाप्रणिहित इति वा युज्यते । न रसं प्रणिहित इति वाप्रणिहित इति वा युज्यते । न स्पर्शं प्रणिहित इति वाप्रणिहित इति वा युज्यते । न धर्मान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न चक्षुर्विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यत । न श्रोत्रविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न घ्राणविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न जिह्वाविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न कायविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न मनोविज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न चक्षुःसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न श्रोत्रसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न घ्राण्संस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न जिह्वासंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न कायसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न मनःसंस्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न कायसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनां प्रणिहितेति वाप्रणिहितति वा युज्यते । न पृथिवीधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । नाब्धातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न तेजोधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न वायुधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । नाकाशधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न विज्ञानधातुं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । नाविद्यां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न संस्कारान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न विज्ञानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न नामरूपं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न षडायतनं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न स्पर्शं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न वेदना प्रणिहितेति वाप्रणिहितेति वा युज्यते । न तृष्णा प्रणिहितेति वाप्रणिहितेति वा युज्यते । नोपादानं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न भवं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न जातिं प्रणिहितेति वाप्रणिहितेति वा युज्यते । न जरामरणं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न दानपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न शीलपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न क्षान्तिपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न वीर्यपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न ध्यानपारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न प्रज्ञापारमितां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नाध्यात्मशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न बहिर्धाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नाध्यात्मबहिर्धाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न शून्यताशून्यता प्रणिहितेति वाप्रणिहितेति वा युज्यते । न महाशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न परमार्थशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न संस्कृतशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नासंस्कृतशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नात्यन्तशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नानवराग्रशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नानवकारशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न प्रकृतिशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न सर्वधर्मशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न स्वलक्षणशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नानुपलम्भशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नाभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न स्वभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नाभावस्वभावशून्यतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न स्मृत्युपस्थानानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न सम्यक्प्रहाणानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । नर्धिपादान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । नेन्द्रियाणि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न बलानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न बोध्यङ्गानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न मार्गं प्रणिहित इति वाप्रणिहित इति वा युज्यते । नार्यसत्यानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न ध्यानानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । नाप्रमाणानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । नारूप्यसमापत्तीः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । नाष्टौ विमोक्षान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । नाभिज्ञाः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न समाधीन् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न धारणीमुखानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न तथागतबलानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न वैशारद्यानि प्रणिहितानीति वाप्रणिहितानीति वा युज्यते । न प्रतिस ं विदः प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न महामैत्रीं प्रणिहितेति वाप्रणिहितेति वा युज्यते । न महाकरुणां प्रणिहितेति वाप्रणिहितेति वा युज्यते । नाष्टादशावेणिकान् बुद्धधर्मान् प्रणिहिता इति वाप्रणिहिता इति वा युज्यते । न श्रोतआपत्तिफलं
प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न सकृदागामिफलं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । नानागामिफलं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । नार्हत्त्वं प्रणिहितम् इति वाप्रणिहितम् इति वा युज्यते । न प्रत्येकबोधिं प्रणिहित इति वाप्रणिहित इति वा युज्यते । न सर्वज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न मार्गाकारज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । न सर्वाकारज्ञतां प्रणिहितेति वाप्रणिहितेति वा युज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् उत्पद्यते इति वा निरुध्यते इति वा युज्यते । न वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न संज्ञाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न संस्कारान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न चक्षुर् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न श्रोत्रम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न घ्राणम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न जिह्वाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न कायम् उत्पद्यत वा निरुध्यत इति वा युज्यते । न मन उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न रूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न शब्दम् उत्पद्यत इति वा निरुध्यत वा युज्यते । न गन्धम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न रसम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न स्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न धर्मान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न चक्षुर्विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न श्रोत्रविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न घ्राणविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न जिह्वाविज्ञानम् उत्पद्यत इति वा निरुध्यत वा युज्यते । न कायविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न मनोविज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न चक्षुःसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न श्रोत्रसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न घ्राणसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न जिह्वासंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न काम्संस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न मनःसंस्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न कायसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न पृथिवीधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाब्धातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न तेजोधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न वायुधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाकाशधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न विज्ञानधातुम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाविद्याम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न संस्कारान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न विज्ञानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न नामरूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न षडायतनम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न स्पर्शम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न वेदनाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न तृष्णाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नोपादानम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न भवम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न जातिम् उत्पद्यत वा निरुध्यत इति वा युज्यते । न जरामरणम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न दानपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न शीलपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न क्षान्तिपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न वीर्यपारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न ध्यानपारमिताम् उत्पद्यत वा निरुध्यत इति वा युज्यते । न प्रज्ञापारमिताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाध्यात्मशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न बहिर्धाशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाध्यात्मबहिर्धाशून्यताम् उत्पद्यत इति वा निरुध्यत वा युज्यते । न शून्यताशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न महाशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न परमार्थशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न संस्कृतशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नासंस्कृतशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नात्यन्तशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नानवराग्रशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नानवकारशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न प्रकृतिशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न सर्वधर्मशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न स्वलक्षणशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नानुपलम्भशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यत । नाभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न स्वभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नाभावस्वभावशून्यताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न स्मृत्युपस्थानान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न सम्यक्प्रहाणान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नर्धिपादान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नेन्द्रियाण्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न बलान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न बोध्यङ्गान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नार्याष्टाङ्गमार्गम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नार्यसत्यान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न ध्यानान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नाप्रमाणान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नारूप्यसमापत्तीः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नाष्टौ विमोक्षान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न नवानुपूर्वविहारसमापत्तीः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । नाभिज्ञा उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न समाधीन् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न धारणीमुखान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न तथागतबलान्य् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न वैशारद्यान्य् उत्पद्यन्त
इति वा निरुध्यन्त इति वा युज्यते । न प्रतिस ं विदः उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न महामैत्रीम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न महाकरुणाम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नावेणिकबुद्धधर्मान् उत्पद्यन्त इति वा निरुध्यन्त इति वा युज्यते । न श्रोतआपत्तिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न सकृदागामिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नानागामिफलम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । नार्हत्त्वम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न प्रत्येकबोधिम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न मार्गाकारज्ञताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । न सर्वाकारज्ञताम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अतीतम् इति युज्यते । न रूपम् अनागतम् इति युज्यते । न रूपं प्रत्युत्पन्नम् इति युज्यते । न वेदनाम् अतीतेति युज्यते । न वेदनाम् अनागतेति युज्यते । न वेदनां प्रत्युत्पन्नेति युज्यते । न संज्ञाम् अतीतेति युज्यते । न संज्ञाम् अनागतेति युज्यते । न संज्ञां प्रत्युत्पन्नेति युज्यते । न संस्कारान् अतीता इति युज्यते । न संस्कारान् अनागता इति युज्यते । न संस्कारान् प्रत्युत्पन्ना इति युज्यते । न विज्ञानम् अतीतम् इति युज्यते । न विज्ञानम् अनागतम् इति युज्यते । न विज्ञानं प्रत्युत्पन्नम् इति युज्यते । न चक्षुर् अतीतम् इति युज्यते । न चक्षुर् अनागतम् इति युज्यते । न चक्षुः प्रत्युत्पन्नम् इति युज्यते । न श्रोत्रम् अतीतम् इति युज्यते । न श्रोत्रम् अनागतम् इति युज्यते । न श्रोत्रं प्रत्युत्पन्नम् इति युज्यते । न घ्राणम् अतीतम् इति युज्यते । न घ्राणम् अनागतम् इति युज्यते । न घ्राणं प्रत्युत्पन्नम् इति युज्यते । न जिह्वाम् अतीतेति युज्यते । न जिह्वाम् अनागतेति युज्यते । न जिह्वां प्रत्युत्पन्नेति युज्यते । न कायम् अतीतम् इति युज्यते । न कायम् अनागतम् इति युज्यते । न कायं प्रत्युत्पन्नम् इति युज्यते । न मनो ऽतीतम् इति युज्यते । न मनो ऽनागतम् इति युज्यते । न मनः प्रत्युत्पन्नम् इति युज्यते । न रूपम् अतीतम् इति युज्यते । न रूपम् अनागतम् इति युज्यते । न रूपं प्रत्युत्पन्नम् इति युज्यते । न शब्दम् अतीतम् इति युज्यते । न शब्दम् अनागतम् इति युज्यते । न शब्दं प्रत्युत्पन्नम् इति युज्यते । न गन्धम् अतीतम् इति युज्यते । न गन्धम् अनागतम् इति युज्यते । न गन्धं प्रत्युत्पन्नम् इति युज्यते । न रसम् अतीतम् इति युज्यते । न रसम् अनागतम् इति युज्यते । न रसं प्रत्युत्पन्नम् इति युज्यते । न स्पर्शम् अतीतम् इति युज्यते । न स्पर्शम् अनागतम् इति युज्यते । न स्पर्शं प्रत्युत्पन्नम् इति युज्यते । न धर्मान् अतीता इति युज्यते । न धर्मान् अनागता इति युज्यते । न धर्मान् प्रत्युत्पन्ना इति युज्यते । न चक्षुर्विज्ञानम् अतीतम् इति युज्यते । न चक्षुर्विज्ञानम् अनागतम् इति युज्यते । न चक्षुर्विज्ञानं प्रत्युत्पन्नम् इति युज्यते । न श्रोत्रविज्ञानम् अतीतम् इति युज्यते । न श्रोत्रविज्ञानम् अनागतम् इति युज्यते । न श्रोत्रविज्ञानं प्रत्युत्पन्नम् इति युज्यते । न घ्राणविज्ञानम् अतीतम् इति युज्यते । न घ्राणविज्ञानम् अनागतम् इति युज्यते । न घ्राणविज्ञानं प्रत्युत्पन्नम् इति युज्यते । न जिह्वाविज्ञानम् अतीतम् इति युज्यते । न जिह्वाविज्ञानम् अनागतम् इति युज्यते । न जिह्वाविज्ञानं प्रत्युत्पन्नम् इति युज्यते । न कायविज्ञानम् अतीतम् इति युज्यते । न कायविज्ञानम् अनागतम् इति युज्यते । न कायविज्ञानं प्रत्युत्पन्नम् इति युज्यते । न मनोविज्ञानम् अतीतम् इति युज्यते । न मनोविज्ञानम् अनागतम् इति युज्यते । न मनोविज्ञानं प्रत्युत्पन्नम् इति युज्यते । न चक्षुःसंस्पर्शम् अतीतम् इति युज्यते । न चक्षुःसंस्पर्शम् अनागतम् इति युज्यते । न चक्षुःसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न श्रोत्रसंस्पर्शम् अतीतम् इति युज्यते । न श्रोत्रसंस्पर्शम् अनागतम् इति युज्यते । न श्रोत्रसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न घ्राणसंस्पर्शम् अतीतम् इति युज्यते । न घ्राणसंस्पर्शम् अनागतम् इति युज्यते । न घ्राणसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न जिह्वासंस्पर्शम् अतीतम् इति युज्यते । न जिह्वासंस्पर्शम् अनागतम् इति युज्यते । न जिह्वासंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न कायस ं पर्शम् अतीतम् इति युज्यते । न कायसंस्पर्शम् अनागतम् इति युज्यते । न कायसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न मनःसंस्पर्शम् अतीतम् इति युज्यते । न मनःसंस्पर्शम् अनागतम् इति युज्यते । न मनःसंस्पर्शं प्रत्युत्पन्नम् इति युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न चक्षुःसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युव्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न श्रोत्रसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न घ्राणसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न जिह्वासंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते । न कायसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न कायसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न कायसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्न इति युज्यते । न मनसंस्पर्शप्रत्ययां वेदनाम् अतीतेति युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनाम् अनागतेति युज्यते । न मनःसंस्पर्शप्रत्ययां वेदनां प्रत्युत्पन्नेति युज्यते । न पृथिवीधातुम् अतीत इति युज्यते । न पृथिवीधातुम् अनागत इति युज्यते । न पृथिवीधातुं प्रत्युत्पन्न इति युज्यते । नाब्धातुम् अतीत इति युज्यते । नाब्धातुम् अनागत इति युज्यते । नाब्धातुं प्रत्युत्पन्न इति युज्यते । न तेजोधातुम् अतीत इति ते । न तेजोधातुम् अनागत इति युज्यते । न तेजोधातुं प्रत्युत्पन्न इति युज्यते । न वायुधातुम् अतीत इति युज्यते । न वायुधातुम् अनागत इति युज्यते । न वायुधातुं प्रत्युत्पन्न इति युज्यते । नाकाशधातुम् अतीत इति युज्यते । नाकाशधातुम् अनागत इति युज्यते । नाकाशधातुं प्रत्युत्पन्न इति युज्यते । न विज्ञानधातुम् अतीत इति युज्यते । न विज्ञानधातुम् अनागत इति युज्यते । न विज्ञानधातुं प्रत्युत्पन्न इति युज्यते । नाविद्याम् अतीतेति युज्यते । नाविद्याम् अनागतेति युज्यते । नाविद्यां प्रत्युत्पन्नेति युज्यते । न संस्कारान् अतीता इति युज्यते । न संस्कारान् अनागता इति युज्यते । न संस्कारान् प्रत्युत्पन्ना इति युज्यते । न विज्ञानम् अतीतम् इति युज्यते । न विज्ञानम् अनागतम् इति युज्यते । न विज्ञानं प्रत्युत्पन्नम् इति युज्यते । न नामरूपम् अतीतम् इति युज्यते । न नामरूपम् अनागतम् इति युज्यते । न नामरूपं प्रत्युत्पन्नम् इति युज्यते । न षडायतनम् अतीतम् इति युज्यते । न षडायतनम् अनागतम् इति युज्यते । न षडायतनं प्रत्युत्पन्नम् इति युज्यते । न स्पर्शम् अतीतम् इति युज्यते । न स्पर्शम् अनागतम् इति युज्यते । न स्पर्शं प्रत्युत्पन्नम् इति युज्यते । न वेदनाम् अतीतेति युज्यते । न वेदनाम् अनागतेति युज्यते । न वेदनां प्रत्युत्पन्नेति युज्यते । न तृष्णाम् अतीतेति युज्यते । न तृष्णाम् अनागतेति युज्यते । न तृष्णां प्रत्युत्पन्नेति युज्यते । नोपादानम् अतीतम् इति युज्यते । नोपादानम् अनागतम् इति युज्यते । नोपादानं प्रत्युत्पन्नम् इति युज्यते । न भवम् अतीतम् इति युज्यते । न भवम् अनागतम् इति युज्यते । न
भवं प्रत्युत्पन्नम् इति युज्यते । न जातिम् अतीतेति युज्यते । स जातिम् अनागतेति युज्यते । न जातिं प्रत्युत्पन्नेति युज्यते । न जरामरणम् अतीतम् इति युज्यते । न जरामरणम् अनागतम् इति युज्यते । न जरामरणं प्रत्युत्पन्नम् इति युज्यते । न दानपारमिताम् अतीतेति
युज्यते । न दानपारमिताम् अनागतेति युज्यते । न दानपारमितां प्रत्युत्पन्नेति युज्यते । न शीलपारमिताम् अतीतेति युज्यते । न शीलपारमिताम् अनागतेति युज्यते । न शीलपारमितां प्रत्युत्पन्नेति युज्यते । न क्षान्तिपारमिताम् अतीतेति युज्यते । न क्षान्तिपारमिताम् अनागतेति युज्यते । न क्षान्तिपारमितां प्रत्युत्पन्नेति युज्यते । न वीर्यपारमिताम् अतीतेति युज्यते । न वीर्यपारमिताम् अनागतेति युज्यते । न वीर्यपारमितां प्रत्युत्पन्नेति युज्यते । न ध्यानपारमिताम् अतीतेति युज्यते । न ध्यानपारमिताम् अनागतेति युज्यते । न ध्यानपारमितां प्रत्युत्पन्नेति युज्यते । न प्रज्ञापारमिताम् अतीतेति युज्यते । न प्रज्ञापारमिताम् अनागतेति युज्यते । न प्रज्ञापारमितां प्रत्युत्पन्नेति युज्यते । नाध्यात्मशून्यताम् अतीतेति युज्यते । नाध्यात्मशून्यताम् अनागतेति युज्यते । नाध्यात्मशून्यतां प्रत्युत्पन्नेति युज्यते । न बहिर्धाशून्यताम् अतीतेति युज्यते । न बहिर्धाशून्यताम् अनागतेति युज्यते । न बहिर्धाशून्यतां प्रत्युत्पन्नेति युज्यते । नाध्यात्मबहिर्धाशून्यताम् अतीतेति युज्यते । नाध्यात्मबहिर्धाशून्यताम् अनागतेति युज्यते । नाध्यात्मबहिर्धाशून्यतां प्रत्युत्पन्नेति युज्यते । न शून्यताशून्यताम् अतीतेति युज्यते । न शून्यताशून्यताम् अनागतेति युज्यते । न शून्यताशून्यतां प्रत्युत्पन्नेति युज्यते । न महाशून्यताम् अतीतेति युज्यते न महाशून्यताम् अनागतेति युज्यते । न महाशून्यतां प्रत्युत्पन्नेति युज्यते । न परमार्थशून्यताम् अतीतेति युज्यते । न परमार्थशून्यताम् अनागतेति युज्यते । न परमार्थशून्यतां प्रत्युत्पन्नेति युज्यते । न संस्कृतशून्यताम् अतीतेति युज्यते । न संस्कृतशून्यताम् अनागतेति युज्यते । न संस्कृतशून्यतां प्रत्युत्पन्नेति युज्यते । नासंस्कृतशून्यताम् अतीतेति युज्यते । नासंस्कृतशून्यताम् अनागतेति युज्यते । नासंस्कृतशून्यतां प्रत्युत्पन्नेति युज्यते । नात्यन्तशून्यताम् अतीतेति युज्यते । नात्यन्तशून्यताम् अनागतेति युज्यते । नात्यन्तशून्यतां प्रत्युत्पन्नेति युज्यते । नानवराग्रशून्यताम् अतीतेति युज्यते । नानवराग्रशून्यताम् अनागतेति युज्यते । नानवराग्रशून्यतां प्रत्युत्पन्नेति युज्यते । नानवकारशून्यताम् अतीतेति युज्यते । नानवकारशून्यताम् अनागतेति युज्यते । नानवकारशून्यतां प्रत्युत्पन्नेति युज्यते । न प्रकृतिशून्यताम् अतीतेति युज्यते । न प्रकृतिशून्यताम् अनागतेति युज्यते । न प्रकृतिशून्यतां प्रत्युत्पन्नेति युज्यते । न सर्वधर्मशून्यताम् अतीतेति युज्यते । न सर्वधर्मशून्यताम् अनागतेति युज्यते । न सर्वधर्मशून्यतां प्रत्युत्पन्नेति युज्यते । न स्वलक्षणशून्यताम् अतीतेति युज्यते । न स्वलक्षणशून्यताम् अनागतेति युज्यते । न स्वलक्षणशून्यतां प्रत्युत्पन्नेति युज्यते । नानुपलम्भशून्यताम् अतीतेति युज्यते । नानुपलम्भशून्यताम् अनागतेति युज्यते । नानुपलम्भशून्यतां प्रत्युत्पन्नेति युज्यते । नाभावशून्यताम् अतीतेति युज्यते । नाभावशून्यताम् अनागतेति युज्यते । नाभावशून्यतां प्रत्युत्पन्नेति युज्यते । न स्वभावशून्यताम् अतीतेति युज्यते । न स्वभावशून्यताम् अनागतेति युज्यते । न स्वभावशून्यतां प्रत्युत्पन्नेति युज्यते । नाभावस्वभावशून्यताम् अतीतेति युज्यते । नाभावस्वभावशून्यताम् अनागतेति युज्यते । नाभावस्वभावशून्यतां प्रत्युत्पन्नेति युज्यते । न स्मृत्युपस्थानान्य् अतीतानीति युज्यते । न स्मृत्युपस्थानान्य् अनागतानीति युज्यते । न स्मृत्युपस्थानानि प्रत्युत्पन्नानीति युज्यते । न सम्यक्प्रहाणान्य् अतीतानीति युज्यते । न सम्यक्प्रहाणान्य् अनागतानीति युज्यते । न सम्यक्प्रहाणानि प्रत्युत्पन्नानीति युज्यते । नर्धिपादान् अतीता इति युज्यते । नर्धिपादान् अनागता इति युज्यते । नर्धिपादान् प्रत्युत्पन्ना इति युज्यते । नेन्द्रियाण्य् अतीतानीति युज्यते । नेन्द्रियाण्य् अनागतानीति युज्यते । नेन्द्रियाणि प्रत्युत्पन्नानीति युज्यते । न बलान्य् अतीतानीति युज्यते । न बलान्य् अनागतानीति युज्यते । न बलानि प्रत्युत्पन्नानीति युज्यते । न बोध्यङ्गान्य् अतीतानीति युज्यते । न बोध्यङ्गान्य् अनागतानीति युज्यते । न बोध्यङ्गानि प्रत्युत्पन्नानीति युज्यते । नार्याष्टाङ्गमार्गम् अतीत इति युज्यते । नार्याष्टाङ्गमार्गम् अनागत इति युज्यते । नार्याष्टाङ्गमार्गं प्रत्युत्पन्न इति युज्यते । नार्यसत्यान्य् अतीतानीति युज्यते । नार्यसत्यान्य् अनागतानीति युज्यते । नार्यसत्यानि प्रत्युत्पन्नानीति युज्यते । न ध्यानान्य् अतीतानीति युज्यते । न ध्यानान्य् अनागतानीति युज्यते । न ध्यानानि प्रत्युत्पन्नानीति युज्यते । नाप्रमाणान्य् अतीतानीति युज्यते । नाप्रमाणान्य् अनागतानीति युज्यते । नाप्रमाणानि प्रत्युत्पन्नानीति युज्यते । नारूप्यसमापत्तीर् अतीता इति युज्यते । नारूप्यसमापत्तीर् अनागता इति युज्यते । नारूप्यसमापत्तीः प्रत्युत्पन्ना इति युज्यते । नाष्टौ विमोक्षान् अतीता इति युज्यते । नाष्टौ विमोक्षान् अनागता इति युज्यते । नाष्टौ विमोक्षान् प्रत्युत्पन्ना इति युज्यते । न नवानुपूर्वविहारसमापत्तीर् अतीता इति युज्यते । न नवानुपूर्वविहारसमापत्तीर् अनागता इति युज्यते । न नवानुपूर्वविहारसमापत्तीः प्रत्यूत्पन्ना इति युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अतीतानीति युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनागतानीति युज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रत्युत्पन्नानीति युज्यते । नाभिज्ञा अतीता इति युज्यते । नाभिज्ञा अनागता इति युज्यते । नाभिज्ञाः प्रत्युत्पन्ना इति युज्यते । न समाधीन् अतीता इति युज्यते । न समाधीन् अनागता इति युज्यते । न समाधीन् प्रत्युत्पन्ना इति युज्यते । न धारणीमुखान्य् अतीतानीति युज्यते । न धारणीमुखान्य् अनागतानीति युज्यते । न धारणीमुखानि प्रत्युत्पन्नानीति युज्यते । न दश तथागतबलान्य् अतीतानीति युज्यते । न दश तथागतबलान्य् अनागतानीति युज्यते । न दश तथागतबलानि प्रत्युत्पन्नानीति युज्यते । न चत्वारि वैशारद्यान्य् अतीतानीति युज्यते । न चत्वारि वैशारद्यान्य् अनागतानीति युज्यते । न चत्वारि वैशारद्यानि प्रत्युत्पन्नानीति युज्यते । न चतस्रः प्रतिसंविदो ऽतीता इति युज्यते । न चतस्रः प्रतिसंविदो ऽनागता इति युज्यते । न चतरवः प्रतिसंविदः प्रत्युत्पन्ना इति युज्यते । न महामैत्रीम् अतीतेति युज्यते । न महामैत्रीम् अनागतेति युज्यते । न महामैत्रीं प्रत्युत्पन्नेति युज्यते । न महाकरुणाम् अतीतेति युज्यते । न महाकरुणाम् अनागतेति युज्य्गते । न महाकरुणां प्रत्युत्पन्नेति युज्यते । नाष्टादशावेणिकबुद्धधर्मान् अतीता इति युज्यते । नाष्टादशावेणिकबुद्धधर्मान् अनागता इति युज्यते । नाष्टादशावेणिकबुद्धधर्मान् प्रत्युत्पन्ना इति युज्यते । न श्रोतआपत्तिफलम् अतीतम् इति युज्यते । न श्रोतआपत्तिफलम् अनागतम् इति युज्यते । न श्रोतआपत्तिफलं प्रत्युत्पन्नम् इति युज्यते । न सकृदागामिफलम् अतीतम् इति युज्यते । न सकृदागामिफलम् अनागतम् इति युज्यते । न सकृदागामिफलं प्रत्युत्पन्नम् इति युज्यते ।
नानागामिफलम् अतीतम् इति युज्यते । नानागामिफलम् अनागतम् इति युज्यते । नानागामिफलं प्रत्युत्पन्नम् इति युज्यते । नार्हत्त्वम् अतीतम् इति युज्यते । नार्हत्त्वम् अनागतम् इति युज्यते । नार्हत्त्वं प्रत्युत्पन्नम् इति युज्यते । न प्रत्येकबोधिम् अतीतेति युज्यते । न प्रत्येकबोधिम् अनागतेति युज्यते । न प्रत्येकबोधिं प्रत्युत्पन्नेति युज्यते । न मार्गाकारज्ञताम् अतीतेति युज्यते । न मार्गाकारज्ञताम् अनागतेति युज्यते । न मार्गाकारज्ञतां प्रत्युत्पन्नेति युज्यते । न सर्वाकारज्ञताम् अतीतेति युज्यते । न सर्वाकारज्ञताम् अनागतेति युज्यते । न सर्वाकारज्ञतां प्रत्युत्पन्नेति युज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तः इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सारम् इति न दुर्बलम् इति युज्यते । न वेदनां सारेति न दुर्बलेति युज्यते । न संज्ञां सारेति न दुर्बलेति युज्यते । न संस्कारान् सारा इति न दुर्बला इति युज्यते । न विज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न चक्षुः सारम् इति न दुर्बलम् इति युज्यते । न श्रोत्रं सारम् इति न दुर्बलम् इति युज्यते । न घ्राणं सारम् इति न दुर्बलम् इति युज्यते । न जिह्वां सारेति न दुर्बलेति युज्यते । न कायं सारम् इति न दुर्बलम् इति युज्यते । न मनः सारम् इति न दुर्बलम् इति युज्यतै । न रूपं सारम् इति न दुर्बलम् इति युज्यते । न शब्दं सारम् इति न दुर्बलम् इति युज्यते । न गन्धं सारम् इति न दुर्बलम् इति युज्यते । न रसं सारम् इति न दुर्बलम् इति युज्यते । न स्पर्शं सारम् इति न दुर्बलम् इति युज्यते । न धर्मान् सारा इति न दुर्बला इति युज्यते । न चक्षुर्विज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न श्रोत्रविज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न घ्राणविज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न जिह्वाविज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न कायविज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न मनोविज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न चक्षुःसंस्पर्शः सारम् इति न दुर्बलम् इति वा युज्यते । न श्रोत्रसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते । न घ्राणसंस्पर्शः सारम् इति वा न दुर्बलम् इति वा युज्यते । न जिह्वासंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते । न कायसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते । न मनःसंस्पर्शः सारम् इति न दुर्बलम् इति युज्यते । न चक्षुःसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते । न श्रोत्रस ं पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते । न घ्राणसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते । न जिह्वासंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते । न कायसंस्पर्शप्रत्यया वेदना सारेति न दुर्बलेति युज्यते । न मनःसंस्पर्शप्रत्ययां वेदना सारेति न दुर्बलेति युज्यते । न पृथिवीधातुः सार इति न दुर्बल इति युज्यते । नाब्धातुः सार इति न दुर्बल इति युज्यते । न तेजोधातुः सार इति न दुर्बल इति युज्यते । न वायुधातुः सार इति न दुर्बल इति युज्यते । नाकाशधातुः सार इति न दुर्बल इति युज्यते । न विज्ञानधातुः सार इति न दुर्बल इति युज्यते । नाविद्या सरेति न दुर्बलेति युज्यते । न संस्कारान् सारा इति न दुर्बला इति युज्यते । न विज्ञानं सारम् इति न दुर्बलम् इति युज्यते । न नामरूपं सारम् इति न दुर्बलम् इति युज्यते । न षडायतनं सारम् इति न दुर्बलम् इति युज्यते । न स्पर्शः सार इति न दुर्बल इति युज्यते । न वेदना सारेति न दुर्बलेति युज्यते । न तृष्णा सारेति न दुर्बलेति युज्यते । नोपादानं सारम् इति न दुर्बलम् इति युज्यते । न भवं सारम् इति न दुर्बलम् इति युज्यते । न जातिं सारेति न दुर्बलेति युज्यते । न जरामरणं सारम् इति न दुर्बलम् इति युज्यते । न दानपारमिता सारेति न दुर्बलेति युज्यते । न शीलपारमिता सारेति न दुर्बलेति युज्यते । न क्षान्तिपारमिता सारेति न दुर्बलेति युज्यते । न वीर्यपारमिता सारेति न दुर्बलेति युज्यते । न ध्यानपारमिता सारेति न दुर्बलेति युज्यते । न प्रज्ञापारमिता सारेति न दुर्बलेति युज्यते । नाध्यात्मशून्यता सारेति न दुर्बलेति युज्यते । न बहिर्धाशून्यता सारेति न दुर्बलेति युज्यते । नाध्यात्मबहिर्धाशून्यता सारेति न दुर्बलेति युज्यते । न शून्यताशून्यता सारेति न दुर्बलेति युज्यते । न महाशून्यता सारेति न दुर्बलेति युज्यते । न परमार्थशून्यता सारेति न दुर्बलेति युज्यते । न संस्कृतशून्यता सारेति न दुर्बलेति युज्यते । नासंस्कृतशून्यता सारेति न दुर्बलेति स युज्यते । नात्यन्तरशून्यता सारेति न दुर्बलेत्ति युज्यते । नानवराग्रशून्यता सारेति न दुर्बलेति युज्यते । नानवकारशून्यता सारेति न दुर्बलेति युज्यते । न प्रकृतिशून्यता सारेति न दुर्बलेति युज्यते । न सर्वधर्मशून्यता सारेति न दुर्बलेति युज्यते । न स्वलक्षणशून्यता सारेति न दुर्बलेति युज्यते । नानुपलम्भशून्यता सारेति न दुर्बलेति युज्यते । नाभावशून्यता सारेति न दुर्बलेति युज्यते । न स्वभावशून्यता सारेति न दुर्बलेति युज्यते । नाभावस्वभावशून्यता सारेति न दुर्बलेति युज्यते । न स्मृत्युपस्थानानि साराणीति न दुर्बलानीति युज्यते । न सम्यक्प्रहाणानि साराणीति न दुर्बलानीति युज्यते । नर्धिपादाः सारा इति
न दुर्बला इति युज्यते । नेन्द्रियाणि साराणीति न दुर्बलानीति युज्यते । न बलानि साराणीति न दुर्बलानि युज्यते । न बोध्यङ्गानि साराणीति न दुर्बलानीति युज्यते । नार्याष्टाङ्गमार्गः सार इति न दुर्बल इति युज्यते । नार्यसत्यानि साराणीति न दुर्बलानीति युज्यते । न ध्यानानि साराणीति न दुर्बलानीति युज्यते । नाप्रमाणानि साराणीति न दुर्बलानीति युज्यते । नारूप्यसमापत्तीः सारा इति न दुर्बला इति युज्यते । नाष्टौ विमोक्षाः सारा इति न दुर्बला इति युज्यते । न नवानुपूर्वविहारसमापत्तीः सारा इति न दुर्बला इति युज्यते । न शून्यता सारा इति न दुर्बलेति युज्यते । न समाधयः सारा इति न दुर्बला इति युज्यते । नानिमित्तं सारम् इति न दुर्बलम् इति युज्यते । नाप्रणिहितं सारम् इति न दुर्बलम् इति युज्यते । नाभिज्ञाः सारा इति न दुर्बला इति युज्यते । न धारणीमुखानि साराणीति न दुर्बलानीति युज्यते । न दश तथागतबलानि साराणीति न दुर्बलानीति युज्यते । न चत्वारि वैशारद्यानि साराणीति न दुर्बलानीति युज्यते । न चतस्रः प्रतिस ं विदः सारा इति न दुर्बला इति युज्यते । न महामैत्री सारेति न दुर्बलेति युज्यते । न महाकरुणा सारेति न दुर्बलेति युज्यते । नाष्टादशावेणिकबुद्धधर्माः सारा इति न दुर्बला इति युज्यते । न श्रोतआपत्तिफलं सारम् इति न दुर्बलम् इति युज्यते । न सकृदागामिफलं सारम् इति न दुर्बलम् इति युज्यते । नानागामिफलं सारम् इति न दुर्बलम् इति युज्यते । नार्हत्त्वं सारम् इति न दुर्बलम् इति युज्यते । न प्रत्येकबोधिं सारेति न दुर्बलेति युज्यते । न मार्गाकारज्ञता सारेति न दुर्बलेति युज्यते । न सर्वाकारज्ञता सारेति न दुर्बलेति युज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न संज्ञास्तीति न नास्तीति युज्यते न वियुज्यते । न संस्कारा अस्तीति न नास्तीति युज्यते न वियुज्यते । न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न चक्षुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न श्रोत्रम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न घ्राणम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न जिह्वाम् अस्तीति नास्तीति युज्यते न वियुज्यते । न कायम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न मनो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न शब्दो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न गन्धो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न रसो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न स्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न धर्मा अस्तीति न नास्तीति युज्यते न वियुज्यते । न चक्षुर्विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न श्रोत्रविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न घ्राणविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न जिह्वाविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न कायविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न मनोविज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न चक्षुःसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न श्रोत्रसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न घ्राणसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न जिह्वासंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न कायसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न मनःसंस्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न चक्षुःसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न श्रोत्रसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न घ्राणसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न जिह्वासंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न कायसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न मनःसंस्पर्शप्रत्यया वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न पृथिवीधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । नाब्धातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न तेजोधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न वायुधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । नाकाशधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न विज्ञानधातुर् अस्तीति न नास्तीति युज्यते न वियुज्यते । नाविद्यास्तीति न नास्तीति युज्यते न वियुज्यते । न संस्कारा अस्तीति न नास्तीति युज्यते न वियुज्यते । न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न नामरूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न षडायतनम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न स्पर्शो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न वेदनास्तीति न नास्तीति युज्यते न वियुज्यते । न तृष्णास्तीति न नास्तीति युज्यते न वियुज्यते । नोपादानम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न भवो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न जातिर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न जरामरणम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न दानपारमितास्तीति न नास्तीति युज्यते न वियुज्यते । न शीलपारमितास्तीति न नास्तीति युज्यते न वियुज्यते । न क्षान्तिपारमितास्तीति न नास्तीति युज्यते न वियुज्यते । न वीर्यपारमितास्तीति न नास्तीति युज्यते न वियुज्यते । न ध्यानपारमितास्तीति न नास्तीति युज्यते न वियुज्यते । न प्रज्ञापारमितास्तीति न नास्तीति युज्यते न वियुज्यते । नाध्यात्मशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न बहिर्धाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नाध्यात्मबहिर्धाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न शून्यताशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न महाशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न परमार्थशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न संस्कृतशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नासंस्कृतशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नात्यन्तशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नानवराग्रशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नानवकारशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न प्रकृतिशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न सर्वधर्मशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न स्वलक्षणशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नानुपलम्भशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नाभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न स्वभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । नाभावस्वभावशून्यतास्तीति न नास्तीति युज्यते न वियुज्यते । न स्मृत्युपस्थानान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न सम्यक्प्रहाणान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । नर्धिपादा अस्तीति न नास्तीति युज्यते न वियुज्यते । नेन्द्रियाण्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न बलान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न बोध्यङ्गान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । नार्याष्टाङ्गमार्गो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । नार्यसत्यान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न ध्यानान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । नाप्रमाणान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । नारूप्यसमापत्तयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । नाष्टौ विमोक्षा अस्तीति न नास्तीति युज्यते न वियुज्यते । न नवानुपूर्वविहारसमापत्तयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । नाभिज्ञाः अस्तीति न नास्तीति युज्यते न वियुज्यते । न समाधयो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न धारणीमुखान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न दश तथागतबलान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न चत्वारि वैशारद्यान्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न चतस्रः प्रतिस ं विदो ऽस्तीति न नास्तीति युज्यते न वियुज्यते । न महामैत्र्य् अस्तीति न नास्तीति युज्यते न वियुज्यते । न महाकरुणास्तीति न नास्तीति युज्यते न वियुज्यते । नाष्टादशावेणिकबुद्धधर्मा अस्तीति न नास्तीति युज्यते न वियुज्यते । न श्रोतआपत्तिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न सकृदागामिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते । नानागामिफलम् अस्तीति न नास्तीति युज्यते न वियुज्यते । नार्हत्त्वम् अस्तीति न नास्तीति युज्यते न वियुज्यते । न
प्रत्येकबोधिर् अस्तीति न नास्तीति युज्यते न वियुज्यते । न मार्गाकारज्ञतास्तीति न नास्तीति युज्यते न वियुज्यते । न सर्वाकारज्ञतास्तीति न नास्तीति युज्यते न वियुज्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृते प्रज्ञापारमितायां चरति । न शीलपारमितायाः कृते प्रज्ञापारमितायां चरति । न क्षान्तिपारमितायाः कृते प्रज्ञापारमितायां चरति । न वीर्यपारमितायाः कृते प्रज्ञापारमितायां चरति । न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति । न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति । नाध्यात्मशून्यतायाः कृते प्रज्ञापारमितायां चरति । न बहिर्धाशून्यतायाः कृते प्रज्ञापारमितायां चरति । नाध्यात्मबहिर्धाशून्यतायाः कृते प्रज्ञापारमितायां चरति । न शून्यताशून्यतायाः कृते प्रज्ञापारमितायां चरति । न महाशून्यतायाः कृते प्रज्ञापारमितायां चरति । न परमार्थशून्यतायाः कृते प्रज्ञापारमितायां चरति । न संस्कृतशून्यतायाः कृते प्रज्ञापारमितायां चरति । नासंस्कृतशून्यतायां कृते प्रज्ञापारमितायां चरति । नात्यन्तशून्यतायाः कृते प्रज्ञापारमितायां चरति । नानवराग्रशून्यतायाः कृते प्रज्ञापारमितायां चरति । नानवकारशून्यतायाः कृते प्रज्ञापारमितायां चरति । न प्रकृतिशून्यतायाः कृते प्रज्ञापारमितायां चरति । न सर्वधर्मशून्यतायाः कृते प्रज्ञापारमितायां चरति । न स्वलक्षणशून्यतायाः कृते प्रज्ञापारमितायां चरति । नानुपलम्भशून्यतायाः कृते प्रज्ञापारमितायां चरति । नाभावशून्यतायाः कृते प्रज्ञापारमितायां चरति । न स्वभावशून्यतायाः कृते प्रज्ञापारमितायां चरति । नाभावस्वभावशून्यतायाः कृते प्रज्ञापारमितायां चरति । नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति । न सत्त्वपरिपाकहेतोः प्रज्ञापारमितायां चरति । न बुद्धक्षेत्रपरिशोधनार्थं प्रज्ञापारमितायां चरति । न स्मृत्युपस्थानानां कृते प्रज्ञापारमितायां चरति । न सम्यक्प्रहाणानां कृते प्रज्ञापारमितायां चरति । नर्धिपादानां कृते प्रज्ञापारमितायां चरति । नेन्द्रियाणां कृते प्रज्ञापारमितायां चरति । न बलानां कृते प्रज्ञापारमितायां चरति । न बोध्यङ्गानां कृते प्रज्ञापारमितायां चरति । नार्याष्टाङ्गमार्गस्य कृते प्रज्ञापारमितायां चरति । नार्यसत्यानां कृते प्रज्ञापारमितायां चरति । न ध्यानानां कृते प्रज्ञापारमितायां चरति । नाप्रमाणानां कृते प्रज्ञापारमितायां चरति । नारूप्यसमापत्तीनां कृते प्रज्ञापारमितायां चरति । नाष्टानां विमोक्षाणां कृते प्रज्ञापारमितायां चरति । न नवानुपूर्वविहारसमापत्तीनां कृते प्रज्ञापारमितायां चरति । न शून्यतायाः कृते प्रज्ञापारमितायां चरति । नानिमित्तस्य कृते प्रज्ञापारमिताया चरति । नाप्रणिहितस्य कृते प्रज्ञापारमितायां चरति । नाभिज्ञानां कृते प्रज्ञापारमितायां चरति । न समाधीनां कृते प्रज्ञापारमितायां चरति । न धारणीमुखानां कृते प्रज्ञापारमितायां चरति । न दशानां तथागतबलानां कृते प्रज्ञापारमितायां चरति । न चतुर्णां वैशारद्यानां कृते प्रज्ञापारमितायां चरति । न चतसृणां प्रतिस ं विदां कृते प्रज्ञापारमितायां चरति । न महामैत्र्याः कृते प्रज्ञापारमितायां चरति । न महाकरुणायाः कृते प्रज्ञापारमितायां चरति । नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति । न तथतायाः कृते प्रज्ञापारमितायां चरति । न धर्मधातोः कृते प्रज्ञापारमितायां चरति । न भूतकोटेः कृते प्रज्ञापारमितायां चरति ।
तत् कस्य हेतोर् न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति । कस्यचिद् धर्मस्य स ं भेदं वा नानाकरणं वा विशेषं वा समनुपश्यति । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
न स दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति । न दिव्यस्य श्रोत्रस्य कृते प्रज्ञापारमितायां चरति । न परचित्तज्ञानस्य कृते प्रज्ञापारमितायां चरति । न पूर्वनिवासानुस्मृतेः कृते प्रज्ञापारमितायां चरति । नर्धिविधेः कृते प्रज्ञापारमितायां चरति । नाश्रवक्षयज्ञानस्य कृते प्रज्ञापारमितायां चरति ।
तत् कस्य हेतोः । तथा हि प्रज्ञापारमितायां चरन् न प्रज्ञापारमिताम् एव समनुपश्यति प्राग् एव बोधिसत्त्वः कुत एव सर्वाकारं सर्वाभिज्ञा उपलप्स्यते । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्कुरिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि । नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सर्वान् सत्करिष्यामि गुरूकरिष्यामि मानयिष्यामि पूजयिष्यामि ।
न चास्यैवं भवति यत् ते बुद्धा भगवन्तो भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोष्याम्य् अहं । तत्र लोकधातुषु सत्त्वानां चेतसैव चित्तं प्रज्ञस्याम्य् अहं । तेषां पूर्वनिवासम् अनुस्मरिष्याम्य् अहं । दिव्येन चक्षुषा तान् सर्वांश् च्यवमानान् उपपद्यमानान् उपपन्नांश् च द्रक्ष्यामि । अहम् अप्रमेयासंख्येयान् सत्त्वान् परिनिर्वापयिष्यामीति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां युक्त इति वक्तव्यः ।
एवं खलु शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मा छिद्रान्वेष्य् अवतारगवेष्य् अवतारं न लभते । यान्य् अपि कानिचिल् लौकिकलोकोत्तराणि करणीयानि तान्य् अपि सर्वाणि प्रदलितानि भवन्ति । अनाभोगेनापरिकल्पितानि ये चास्य केचिल् लौकिकाः क्लेशास् ते सर्वे प्रदलिता भवन्ति । ये च ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजाः त्रायस्त्रिंशा देवाः यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवो ब्रह्मकायिका देवाः ब्रह्मपुरोहिता देवाः ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्वान् मैत्र्या स्फुरति । ये च ते दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिकाः ब्रह्मपुरोहिताः ब्रह्मपार्षद्याः महाब्रह्माः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्ताशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहा अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये च ते पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्त्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फला अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि च केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये चोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहा अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये च ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धो भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिताः ब्रह्मपार्षद्या महाभह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये च ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका ब्रह्मपुरोहिताः ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तरशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये च ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये ऽपि च ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये ऽपि च ते ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । ये ऽपि च ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति ।
ये च चत्वारो महाराजास् त्रायस्त्रिंशा देवा यामाः तुषिताः निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्याः महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभाः आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः अवृहाः अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वम् आरक्षन्ति । मा हैव कश्चिद् बोधिसत्त्वस्य महासत्त्वस्यान्तरायं कार्षीद् इति । ये ऽपि केचित् कायिका दोषास् ते ऽपि तस्य दृष्ट एव धर्मे सर्वेण सर्वं न भवन्ति । तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः सर्वसत्त्वान् मैत्र्या स्फुरति । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽन्यकृच्छ्रेण धारणीमूखसमाधिमुखानि प्रतिभानप्रतिस ं विन्मुखानि वाभिमुखीभवन्ति । सर्वोपपक्त्यायतनेषु च तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । तैश् च बुद्धैर् भगवद्भिर् न कदाचिद् विरहितो भवति यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यते ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अस्ति कश्चिद् धर्मो यो धर्मैः सार्धं संयुज्यते वा वियुज्यते वा । समेति वा न समेति वा । तत् कस्य हेतोस् तथा हि स तद् धर्मं न समनुपश्यति यो युज्यते वा वियुज्यते वा । समीयाद् वा न समीयाद् वा । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति कच्चिद् अहं धर्मधातुम् अभिस ं बुध्येयं न वाभिस ं बुध्येयं वा । तत् कस्य हेतोस् तथा हि न हि धर्मधातुम् अभिस ं बुद्धो नाभिस ं बुध्यते नाभिस ं भोत्स्यते । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मधातुव्यतिरिक्तं समनुपश्यति एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धर्मधातोर् धर्माणाञ् च नानाकरणं करोति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति धर्मधातुं प्रतिविध्येयं । तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण यो धर्मः प्रतिविध्येत । तथा हि स न धर्मधातुं शून्य इति योजयति नाशून्य इति योजयति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं शून्यतया योजयति न शून्यतां रूपेण योजयति । न वेदनां शून्यतया योजयति न शून्यतां वेदनया योजयति । न संज्ञां शून्यतया योजयति न शून्यतां संज्ञया योजयति । न संस्कारान् शून्यतया योजयति न शून्यता संस्कारैर् योजयति । न विज्ञानं शून्यतया योजयति न शून्यतां विज्ञानेन योययति । न चक्षुः शून्यतया योजयति न शून्यतां चक्षुषा योजयति । न श्रोत्रं शून्यतया योजयति न शून्यतां श्रोत्रेण योजयति । न घ्राणं शून्यतया योजयति न शून्यतां घ्राणेन योजयति । न जिह्वां शून्यतया योजयति न शून्यतां जिह्वया योजयति । न कायं शून्यतया योजयति न शून्यतां कायेन योजयति । न मनः शून्यतया योजयति न शून्यतां मनसा योजयति । न रूपं शून्यतया योजयति न शून्यतां रूपेण योजयति । न शब्दं शून्यतया योजयति न शून्यतां शब्देन योजयति । न गन्धं शून्यतया योजयति न शून्यतां गन्धेन योजयति । न रसं शून्यतया योजयति न शून्यतां रसेन योजयति । न स्पर्शं शून्यतया योजयति न शून्यतां स्पर्शेन योजयति । न धर्माञ् छून्यतया योजयति न शून्यतां धर्मेण योजयति । न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति । न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति । न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति । न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति । न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयति । न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां श्रोत्रविज्ञानधातुना योजयति । न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयति । न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति । न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति । न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयति । न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति । न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति । न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति । न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति । न कायविज्ञानधातुं शून्यतया योजयति । न शून्यतां कायविज्ञानधातुना योजयति । न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयति । न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति । न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति । न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति । न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति । तत् कस्य हेतोर् एष हि शारद्वतीपुत्र परमो योगो यद् उत शून्यतायोगः शून्यतायां शारद्वतीपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकभूमौ वा न प्रत्येकबुद्धभूमौ वा पतति । बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति । क्षिप्रञ् चानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यते । ये केचिच् छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस् तेषाम् अग्र आख्यायते ज्येष्ठ आख्यायते श्रेष्ठ आख्यायते वर आख्यायते प्रवर आख्यायते प्रणीत आख्यायते । तत् कस्य हेतोर् अनुत्तर एष योगो यद् उत प्रज्ञापारमितायोगः शून्यतानिमित्ताप्रणिहितयोगः । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो व्याकृतो वक्तव्यः ।
आसन्नीभूतश् चानुत्तरायां सम्यक्स ं बोधौ । एवं युज्यमानः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयासंख्येयानां सत्वानां अर्थं करोतीति । न चास्यैवं भवत्य् अहं प्रज्ञापारमितायां युज्यते वा वियुज्यते वा मां बुद्धा भगवन्तो व्याकरिष्यन्त्य् अहम् आसन्नीभूतो व्याकरणस्य । अहं बुद्धक्षेत्रं परिशोधयिष्याम्य् अहं सत्त्वान् परिपाचयिष्याम्य् अहम् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यत धर्मचक्रं प्रवर्तयिष्यामि । तत् कस्य हेतोस् तथा हि । स धर्मधातुं व्यतिरेकीकरोति । न स धर्मधातोः किञ्चिद् अन्यद् धर्मं समनुपश्यति । यः प्रज्ञापारमितायां चरेद् यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत । यो वानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्येत । तत् कस्य हेतोस् तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते । नात्मसंज्ञोत्पद्यते । न जीवसंज्ञोत्पद्यते । न जन्तुसंज्ञोत्पद्यते । न पोषसंज्ञोत्पद्यते । न पुरुषसंज्ञोत्पद्यते । न पुद्गलसंज्ञोत्पद्यते । न मनुजसंज्ञोत्पद्यते । न मानवसंज्ञोत्पद्यते । न कारकसंज्ञोत्पद्यते । न वेदकसंज्ञोत्पद्यते । न जानकसंज्ञोत्पद्यते । न पश्यकसंज्ञोत्पद्यते । तत् कस्य हेतोस् तथा ह्य् अत्यन्तं सत्त्वो नोत्पद्यते न निरुध्यते न हि सत्वस्योत्पादो निरोधः । यस्य च नोत्पादो न निरोधः स व थ प्रज्ञापारमितायां चरिष्यति । एवञ् चरञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति । सत्त्वशून्यतया प्रज्ञापारमितायां चरति । सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति । सत्त्वविविक्ततया प्रज्ञापारमितायां चरति । सत्त्वप्रकृत्या प्रज्ञापारमितायां चरति । सत्त्वास्वभावतया प्रज्ञापारमितायां चरति । एष शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत प्रज्ञापारमितायोगः अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो योगो यस् तदन्यान् योगान् अभिभूय तिष्ठति ।
अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो दश तथागतबलान्य् अभिनिर्हरति । चत्वारि वैशारद्यानि चतस्रः प्रतिस ं विदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकबुद्धधर्मान् अभिर्निर्हरति । अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो न मात्सर्यचित्तम् उत्पादयति । न दौःशील्यचित्तं न व्यापादचित्तं न कौसीद्यचित्तं न विक्षेपचित्तं न दौष्प्रज्ञचित्तम् उत्पादयति । एवम् उक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । यो भगवन् बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमितायोगेन विहरति । स कुतश् च्युत्वेहोपपन्नः । इतो वा च्युतः कुत्रोपपत्स्यते ।
भगवान् आह । यः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमितायोगेन विहरति सो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत्वेहोपपन्नो वेदितव्यः । तुषितेभ्यो देवनिकायेभ्यो मनुष्येभ्यो वा च्युत्वेहोपपन्नो वेदितव्यः । तत्र शारद्वतीपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत्वेहोपपन्नः । एष क्षिप्रम् इमं योगं समापद्यते । यद् उत प्रज्ञापारमितायोगं । अस्य जातिव्यतिवृत्तस्यापीमे गम्भीरा धर्मा अभिमुखीभवन्ति । पश्चात् प्रज्ञापारमितायोगं समापद्यते । यत्र यत्र च बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्स ं बुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति तत्र तत्रोपपद्यते । तांश् च तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । तत्र शारद्वतीपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवनिकायेभ्यश् च्युत्वेहोपपन्नो वेदितव्यः । स खल्व् एकजातिप्रतिबद्धास् तस्याविप्रनष्टा भवति षट्पारमिता । अत्रान्तर्गतानि भवन्ति सर्वधारणीमुखसमाधिमुखानि । यः पुनः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो मनुष्येभ्यश् च्युत्वा मनुष्याणाम् एव सभागताया उपपद्यते । तस्य बोधिसत्त्वस्य महासत्त्वस्यावैवर्तिकं बोधिसत्त्वं महासत्त्वं स्थापयित्वा धन्यानीन्द्रियाणि भवन्ति । न च क्षिप्रम् इमं प्रज्ञापारमितायोग समापद्यते । बुद्धक्षेत्रात् च्युतो बुद्धक्षेत्रं संक्रमिष्यति यत्र बुद्धा भवगन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । न च कदाचिद् अपि बुद्धैर् भगवद्भिर् विरहितो भविष्यति यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धः ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा अनुपायकुशलाः प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्ते । चतुर्थं ध्यानं समापद्यन्ते । षट्पारमितासु चरन्ति । ते ध्यानप्रतिलम्भेन दीर्घायुष्केषु देवेषूपपद्यन्ते । सचेत् पुनर् मानुष्यं प्रतिलम्भं लब्धा बुद्धान् भगवत आरागयन्ति । तेषां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि ।
अस्ति पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ध्यानानि समापद्यन्ते प्रज्ञापारमितायां चरन्ति ते चानुपायकुशलाः ध्यानान्य् उत्सृजन्ति । ते पुनर् एव कामधाताव् उपपद्यन्ते । तेषाम् अपि शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति । न तीक्ष्णानि । अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्ते । चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं समापद्यन्ते । करुणां समापद्यन्ते । मुदितां समापद्यन्ते । उपेक्षां समापद्यन्ते । आकाशानन्त्यायतनं समापद्यन्ते । विज्ञानानन्त्यायतनं समापद्यन्ते । आकिञ्चन्यायतनं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनं समापद्यन्ते । चत्त्वारि स्मृत्युपस्थानानि समापद्यन्ते । चत्वारि सम्यक्प्रहाणानि समापद्यन्ते । चतुर ऋद्धिपादान् समापद्यन्ते । पञ्चेन्द्रियाणि समापद्यन्ते । पञ्च बलानि समापद्यन्ते । सप्त बोध्यङ्गानि समापद्यन्ते । आर्याष्टाङ्गमार्गं समापद्यन्ते । महाकरुणां समापद्यन्ते । महाकरुणाः सन्त उपायकौशलेन । न ध्यानवसेनोपपद्यन्ते । न ब्राह्मविहारवसेन । नारूप्यसमापत्तिवसेनोपपद्यन्ते । तत्र पुनर् उपपद्यन्ते यत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति । ते पुनः प्रज्ञापारमितायोगेनाविरहिता इहैव भद्रकल्पे ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं भोत्स्यन्ते ।
अस्ति पुनः शारद्वतीपुत्र बोधिसत्त्वाः महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्ते । चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं समापद्यन्ते । महाकरुणां समापद्यन्ते । मुदितां समापद्यन्ते । उपेक्षां समापद्यन्ते । आकाशानन्त्यायतनं समापद्यन्ते । विज्ञानानन्त्यायतनं समापद्यन्ते । आकिञ्चन्यायतनं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनं समापद्यन्ते । ते चोपायकौशलेन ध्यानसमाधिसमापत्तिवसेनोपपद्यन्ते । ते पुनर् एवेह कामधाताव् उपपद्यन्ते । क्षत्रियमहाशालकुलेषूपपद्यन्ते । ब्राह्मणमहाशालकुलेषूपपद्यन्ते । गृहपतिमहाशालकुलेषूपपद्यन्ते सत्त्वपरिपाकाय न पुनर् भवाभिलाषात् ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वाः महासत्त्वाः प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्ते । चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं समापद्यन्ते । करुणां समापद्यन्ते । मुदितां समापद्यन्ते । उपेक्षां समापद्यन्ते । आकाशानन्त्यायतनं समापद्यन्ते । विज्ञानानन्त्यायतनं समापद्यन्ते । आकिञ्चन्यायतनं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनं समापद्यन्ते । उपायकौशलवसेन न ध्यानसमाधिसमापत्तिवसेनोपपद्यन्ते । ते चातुर्महाराजकायिकानां देवानां सभागतायां उपपपद्यन्ते । त्रायस्त्रिंशानां देवानां सभागतायां उपपद्यन्ते । यामानां देवानां सभागतायां उपपद्यन्ते । तुषितानां देवानां सभागतायां उपपद्यन्ते । निर्माणरतीनां देवानां सभागतायां उपपद्यन्ते । परनिर्मितवशवर्तिनां देवानां सभागतायां उपपद्यन्ते । तत्र स्थित्वा सत्त्वान् परिपाचयन्ति बुद्धक्षेत्रञ् च परिशोधयन्ति । बुद्धांश् च भगवत आरागयन्ति । अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः उपायकौशलेन प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्त । चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं समापद्यन्ते । करुणां समापद्यन्ते । मुदितां समापद्यन्ते । उपेक्षां समापद्यन्ते । आकाशानन्त्यायतनं समापद्यन्ते । विज्ञानानन्त्यायतनं समापद्यन्ते । आकिञ्चन्यायतनं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनं समापद्यन्ते । त इतश् च्युत्वा ब्रह्मलोक उपपद्यन्ते तत्र ब्रह्मणो भवन्ति । महाब्रह्मणः । अभिभुवो दशशतवर्षवर्तिनस् तेषां सत्त्वानाम् अग्र्या वरा प्रवरा वरिष्टास् ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धषेत्रं संक्रामन्ति । यथा तथागता अर्हन्तः सम्यक्स ं बुद्धा अनुत्तरां सम्यक्स ं बोधिम् अभिषम्बुध्य धर्मचक्रं प्रवर्तयन्ति । ते तांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् अध्येषन्ते धर्माचक्रप्रवर्तनाय ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः एकजातिप्रतिबद्धाः । प्रज्ञापारमितायां चरन्त उपायकौशलेन प्रथमं ध्यानं समापद्यन्ते । द्वितीयं ध्यानं समापद्यन्ते । तृतीयं ध्यानं समापद्यन्ते । चतुर्थं ध्यानं समापद्यन्ते । मैत्रीं समापद्यन्ते । करुणां समापद्यन्ते । मुदितां समापद्यन्ते । उपेक्षां समापद्यन्ते । आकाशानन्त्यायतनसमापत्तिं समापद्यन्ते । विज्ञानानन्त्यायतनसमापत्तिं समापद्यन्ते । आकिञ्चन्यायतनसमापत्तिं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते । चत्वारि स्मृत्युपस्थानानि भावयन्ति । चत्वारि सम्यक्प्रहाणानि भावयन्ति । पञ्चेन्द्रियाणि भावयन्ति । सप्त बोध्यङ्गानि भावयन्ति । आर्याष्टाङ्गमार्गं भावयन्ति । शून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यन्ते । न च तेषां वसेनोपपद्यन्ते । ते स ं मुखीभूतान् बुद्धान् भगवत आराग्र्य तत्र ब्रह्मचर्यं चरित्वा तुषितानां देवानां सभागतायां उपपद्यन्ते । ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः स्मृताः स ं प्रजानन्तो ऽनेकैर् देवकोटीनियुतशतसहस्रे परिवृताः पुरस्कृताः इहोपपत्तिं दर्शयित्वानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्य धर्मचक्रं प्रवर्तयन्ति नानाबुद्धक्षेत्रेषु ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते कामधाताव् उपपद्यन्ते । नारूप्यधाताव् उपपद्यन्ते । ते बुद्धक्षत्रेण बुद्धक्षेत्रं संक्रामन्ति । तथागतान् अर्हतः सम्यक्स ं बुद्धान् सत्कुर्वन्तो गुरूकुर्वन्तो मानयन्तः पूजयन्तः ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडन्तो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति । यत्र बुद्धक्षेत्रे न श्रावकयानस्य न प्रत्येकबुद्धयानस्य शब्दो ऽपि प्रज्ञायते ऽन्यत्र बुद्धयानात् ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् विक्रीडमाना बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति । यत्र बुद्धक्षेत्रेष्व् अपरिनिर्मितम् आयुष्प्रमाणं सत्त्वानां ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते लोकधातुं संक्रामन्ति । यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् ते तत्र गत्वा बुद्धस्य वर्णं भाषन्ते धर्मस्य संघस्य वर्णं भाषन्ते ते च सत्त्वास् तेन बुद्धशब्देन संघशब्देन चित्तानि प्रसाद्य यत्र बुद्धा भगवन्तस् तत्रोपपद्यन्ते ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां लाभिनश् चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानां आर्याष्टाङ्गस्य मार्गस्य दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिस ं विदां महामैत्र्याः महाकरुणायाः अष्टादशावेणिकबुद्धधर्माणां लाभिनस् ते न कदाचित् कामधाताव् उपपद्यन्ते । न रूपधाताव् उपपद्यन्ते । नारूप्यधाताव् उपपद्यन्ते । तत्र च सत्त्वानाम् अर्थं कुर्वन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्पारमितासु चरन्तः प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यामम् अवक्रामन्त्य् अवैवर्तिकभूमिं वानुप्राप्नुवन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादेनैवानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते । अभिस ं बुध्य सधर्मचक्रं प्रवर्त्याप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कृत्वानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति । तेषां परिनिर्वृतानां कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादेनैव प्रज्ञापारमितायोगं समापद्यन्ते । ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति । बुद्धानां भगवतां दर्शनाय सत्त्वपरिपाचनाय बुद्धक्षेत्रपरिशोधनाय । अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते तानि ध्यानाप्रमाणारूप्यसमापत्तीर् अनेकविधं विक्रीडन्ति । यद् उत प्रथमं ध्यानं समापद्यन्ते ततः प्रथमध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते द्वितीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थाय तृतीयं ध्यानं समापद्यन्ते । तृतीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थाय चतुर्थं ध्यानं समापद्यन्ते । चतुर्थाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थायाकाशानन्त्यायतनं समापद्यन्ते । आकाशानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थाय विज्ञानानन्त्यायतनं समापद्यन्ते । विज्ञानानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थायाकिञ्चन्यायतनं समापद्यन्ते । आकिञ्चन्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यन्ते । नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यन्ते । एवं खलु शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायाञ् चरन्त उपायकौशलेन समान्वागता इमानि ध्यानानि अप्रमाणानि च समाधिसमापत्तीश् च विष्कद्य समापद्यन्ते ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाश् चतुर्णां स्मृत्युपस्थानानां लाभिनश् चतुर्णां सम्यक्प्रहाणानां लाभिनश् चतुर्णाम् ऋद्धिपादानां लाभिनः पञ्चानाम् इन्द्रियाणां लाभिनः पञ्चानां बलानां लाभिनः सप्तानां बोध्यङ्गानां लाभिनः आर्याष्टाङ्गमार्गस्य लाभिनः चतुर्णाम् आर्यसत्यानां लाभिनः ध्यानानां लाभिनः चतुर्णाम् अप्रमाणानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनः अष्टानां विमोक्षाणां लाभिनः नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लाभिनः अभिज्ञानां लाभिनः समाधीनां लाभिनः धारणीमुखानां लाभिनः दशानां तथागतबलानां लाभिनः चतुर्णां वैशारद्यानां लाभिनः चतसृणां प्रतिस ं विदां लाभिनः अष्टादशानाम् आवेणिकबुद्धधर्माणां लाभिनः त्रयाणां विमोक्षमुखानां लाभिनः न च श्रोत-आपत्तिफलम् अनुप्राप्नुवन्ति । न सकृदागामिफलम् अनुप्राप्नुवन्ति । नानागामिफलम् अनुप्राप्नुवन्ति । नार्हत्त्वम् अनुप्राप्नुवन्ति । न प्रत्येकबोधिम् अनुप्राप्नुवन्ति । प्रज्ञापारमितायां चरन्त उपायकौशलेन परिगृहीताः आर्याष्टाङ्गमर्गं सत्त्वेभ्य उपदर्शयन्ति येन ते सत्त्वाः श्रोतआपत्तिफलम् अनुप्राप्नुवन्ति । सकृदागामिफलम् अनुप्राप्नुवन्ति । अनागामिफलम् अनुप्राप्नुवन्ति । अर्हत्त्वम् अनुप्राप्नुवन्ति । प्रत्येकबोधिम् अनुप्राप्नुवन्ति । यच् छारद्वतीपुत्र श्रावकप्रत्येकबुद्धानां फलप्राप्तिज्ञानं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः । इमे शारद्वतीपुत्र बोधिसत्त्वमहासत्त्वा अवैवर्तिका वेदितव्या । ये ऽनया प्रज्ञापारमितयैवं विहरन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमिता सुस्थित्वा तुषितभवनं शोधयन्ति । ते खलु पुनः शारद्वतीपुत्र बोधिसत्वा महासत्त्वाः भद्रकल्पिका वेदितव्याः ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतुर्णाम् अप्रमाणानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनः सप्तत्रिंशतां बोधिपक्षाणां धर्माणां लाभिनः षण्णाम् अभिज्ञानां लाभिनो दशतथागतबलानां लाभिनश् चतुर्णां वैशारद्यानां लाभिनश् चतसृणां प्रतिस ं विदां लाभिनः अष्टादशावेणिकबुद्धधर्माणां लाभिनः ते ऽत्रानुबोधाय चरन्ति चतुर्णां सत्यानां न च सत्यानि प्रतिविध्यन्ति । ते खलु पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा षट्सु पारमितासु चरन्तो लोकधातोर् लोकधातुं संक्रामन्ति । तत्र सत्त्वान् बोधौ समादापयन्ति । बुद्धक्षेत्रञ् च परिशोधयन्ति । ते खलु पुनः शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः अप्रमेयैर् असंख्येयैः कल्पैर् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं भोत्स्यन्ते ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा नित्यम् उद्युक्ताः सत्त्वानां कृते । ते न कदाचिद् अनर्थोपसंहिता वचम् आभाषन्ते । नाप्य् अनर्थोपसंहितं कायवाङमनस्कर्म कुर्वन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा स तत्रोद्युक्ताः सत्त्वानां कृते बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति । सत्त्वानां त्रीन् अपायपथां छिद्यन्तः ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा दानपारमितायां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानम् उपसंहरन्ति । अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः यानं यानार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यः माल्यं माल्यार्थिकेभ्यः विलेपनं विलेपनार्थिकेभ्यः शय्यासनं शय्यासनार्थिकेभ्यः वस्त्रं वस्त्रार्थिकेभ्यः आभरणम् आभरणार्थिकेभ्यः प्राजीविकं प्राजीविकार्थिकेभ्यः उपाश्रयम् उपाश्रयार्थिकेभ्यः कल्पिकजीवितपरिष्कारान् उपसंहरन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्पारमितासु स्थित्वा शीलपारमितां पुरस्कृत्य सत्त्वान् कायवाङ्मनःस ं वरे प्रतिष्ठापयन्ति । अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा क्षान्तिपारमितां पुरस्कृत्याक्रोधव्यापादे सत्त्वान् प्रतिष्ठापयन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा वीर्यपारमितां पुरस्कृत्य सर्वकुशलधर्माभियोगे सत्त्वान् प्रतिष्ठापयन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा ध्यानपारमितां पुरस्कृत्य शमथैकाग्रतायां कामविवेके च सत्त्वान् प्रतिष्ठापयन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा प्रज्ञापारमितां पुरस्कृत्य यादृश एव तथागतविग्रहस् तादृशम् आत्मभावम् अभिनिर्माय नैरयिकाणां सत्त्वानां तिर्यग्योनिगतानां सत्त्वानां यामलौकिकानां सत्त्वानां सर्वदुर्गतिसमतिक्रमाय धर्मं देशयन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये षट्सु पारमितासु स्थित्वा यादृशो बुद्धविग्रहस् तादृशम् आत्मभावम् अभिनिर्माय पूर्वस्यान् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते धर्मञ् च शृण्वन्ति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्युहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पाद्यन्त्य् एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते ।
दक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते धर्मञ् च शृण्वन्ति । बोधिसत्त्वसङ्घञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । पश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति बोधिसत्त्वसङ्घञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । उत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागातान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति । एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राणि उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति । एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते धर्मं शृण्वन्ति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति । एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहां पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति । एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । अधस्ताद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहाश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्ति । एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वाः तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वेभ्यो धर्मं देशयन्ति । तथागतान् पर्युपासन्ते । धर्मञ् च शृण्वन्ति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यन्ति । ते तत्र बुद्धक्षेत्रेषु निर्मितानि गृहीत्वा उदारतराणि च विशिष्टतराणि च बुद्धक्षेत्राणि निष्पादयन्त्य् एकजातिप्रतिलब्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र बुद्धक्षेत्रेषु निष्पद्यन्ते ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो द्वात्रिंशता महापुरुषलक्षणैः समन्वागता भूत्वा उत्तप्तैर् अपरिशुद्धैश् चेन्द्रियैः समन्वागता भवन्ति । तैस् तैः परिशुद्धैर् आत्मभावैर् बहुजनस्य प्रीतिप्रसादं जनयन्ति । ते च बहुजनस्य प्रियाश् च भवन्ति । मनापाश् च ते सत्त्वास् तेनैव चित्तप्रसादकुशलमूलेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता कायपरिशुद्धौ शिक्षितव्यं । वाक्यपरिशुद्धौ शिक्षितव्यं । मनःपरिशुद्धौ शिक्षितव्यं ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तः उत्तप्तानीन्द्रियाणि प्रतिलभन्ते तैर् उत्तप्तैर् इन्द्रियैर् आत्मानम् उत्कर्षयन्ति न परान् पंसयन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायाञ् च स्थित्वा न कदाचिद् दारिद्र्यं गच्छन्ति । न दुर्गतिविनिपातं प्रपतन्ति । यावन् नावैवर्तिकभूमिम् अनुप्राप्नुवन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दशकुशलान् कर्मपथान् न जातूत्सृजन्ति । यावन् नावैवर्तिकभूमिम् अनुप्राप्नुवन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः दानपारमितायां शीलपारमितायाञ् च स्थित्वा राजानो भवन्ति चक्रवर्तिनः । ते दशकुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयन्ति । दानेन च प्रियवद्यतया सत्त्वान् संगृह्णन्ति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा दानपारमितायां शीलपारमितायाञ् च स्थित्वानेकानि चक्रवर्तिराज्यानि परिगृह्णन्त्य् अनेकानि चक्रवर्तिराज्यशतसहस्राणि कारयन्ति । तत्र च स्थित्वानेकानि बुद्धकोटीशतसहस्रान्य् आरागयन्ति । तांश् च बुद्धान् भगवतः सत्कुर्वन्ति गुरूकुर्वन्ति मानयन्ति पूजयन्ति सर्वोपकरणैः सर्वपूजाभिश् च ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा सत्वानां मिथ्यादृष्टितम् अष्ठानां धर्मावभासं कुर्वन्ति । आत्मना च तेन धर्मावभासेन न कदाचिद् विरहिता भवन्ति । यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते । अयं शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानाम् उदयो बुद्धधर्मेषु । तस्मात् तर्हि शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सावद्यानां कायवाङ्मनस्कर्मणाम् अवकाशो न दातव्यः । एवम् उक्ते आयुश्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्य सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनःकर्मा । भगवान् आह । यदा शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यैवं भवति । अयं कायो येन कायारम्भ कुर्यां । इयं वाग्यया वागारम्भं कुर्यां । इदं मनो येन मनआरम्भं कुर्यां । अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य सावद्यकायवाङ्मनःकर्मारम्भः । न हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते । न वाचम् उपलभते । न चित्तम् उपलभते । येन कायेन यया वाचा येन मनसा मात्सर्यचित्तम् उत्पादयेत् दौःशील्यचित्तं व्यापादचित्तं कौशीद्यचित्तं विक्षेपचित्तं दौष्प्रज्ञचित्तम् उत्पादयेत् नैवं शारद्वतीपुत्र वेदितव्यम् । यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायदौष्ठुल्यम् उत्पादयेत् वाग्दौष्ठुल्यम् उत्पादयेत् मनोदौष्ठुल्यम् उत्पादयेत् नेदं स्थानं विद्यते । तत् कस्य हेतोस् तथा हि शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वाः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति । इदं बोधिसत्त्वस्य महासत्त्वस्यानवद्यं कायकर्म अनवद्यं वाक्कर्म अनवद्यं मनस्कर्म । आह कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति । भगवान् आह यदा शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते न वाचम् उपलभते न चित्तम् उपलभते । एवं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनोदौष्ठुल्यं शोधयति ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दशकुशलान् कर्मपथान् समादाय वर्तते । न श्रावकचित्तं वा प्रत्येकबुद्धचित्तं वोत्पादयति । सततसमितञ् चास्य सर्वसत्त्वेषु महाकरुणाचित्तं प्रत्युपस्थितं भवति । एवं बोधिसत्त्वस्य महासत्त्वस्य कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं परिशुद्धम् इति वदामि ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो बोधिसत्त्वमार्गं परिशोधयमानाः दानपारमितायां चरन्ति । शीलपारमितायां चरन्ति । क्षान्तिपारमितायां चरन्ति । वीर्यपारमितायां चरन्ति । ध्यानपारमितायां चरन्ति । आह कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । भगवान् आह । यदा शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते । न वाचम् उपलभते । न चित्तम् उपलभते । न दानपारमिताम् उपलभते । न शीलपारमिताम् उपलभते । न क्षान्तिपारमिताम् उपलभते । न वीर्यपारमिताम् उपलभते । न ध्यानपारमिताम् उपलभते । न प्रज्ञापारमिताम् उपलभते । न श्रावकयानम् उपलभते । न प्रत्येकयानम् उपलभते । न सम्यक्स ं बुद्धयानम् उपलभते । अयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । यद् उत सर्वधर्मान् उपलम्भतो अनायूहानियूहता । अनेन शारद्वतीपुत्र मार्गेण बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो गच्छन्ति । ते न शक्यो केनचिद् अवमर्दितुं । आह कथं चरन्तो भगवन् बोधिसत्त्वा महासत्त्वाः अनवमर्द्या भवन्ति । भगवान् आह । यदा बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु चरन्तो न रूपं मन्यन्ते न वेदनां मन्यन्ते न संज्ञां मन्यन्ते न संस्कारान् मन्यन्ते न विज्ञामं मन्यन्ते चक्षूरूपम् अपि न मन्यन्ते । श्रोत्रशब्दान् अपि न मन्यन्ते । घ्राणगन्धान् अपि न मन्यन्ते । जिह्वारसान् अपि न मन्यन्ते । कायस्पर्शान् अपि न मन्यन्ते । मनोधर्मान् अपि न मन्यन्ते । पृथिवीधातुं न मन्यन्ते । अब्धातुं न मन्यन्ते । तेजोधातुं न मन्यन्ते । वायुधातुं न मन्यन्ते । आकाशधातुं न मन्यन्ते । विज्ञानधातुं न मन्यन्ते । चक्षुर्धातुं न मन्यन्ते । रूपधातुं न मन्यन्ते । चक्षुर्विज्ञानधातुं न मन्यन्ते । श्रोत्रधातुं न मन्यन्ते । शब्दधातुं न मन्यन्ते । श्रोत्रविज्ञानधातुं न मन्यन्ते । घ्राणधातुं न मन्यन्ते । गन्धधातुं न मन्यन्ते । घ्राणविज्ञानधातुं न मन्यन्ते । जिह्वाधातुं न मन्यन्ते । रसधातुं न मन्यन्ते । जिह्वाविज्ञानधातुं न मन्यन्ते । कायधातुं न मन्यन्ते । स्प्रष्टव्यधातुं न मन्यन्ते । कायविज्ञानधातुं न मन्यन्ते । मनोधातुं न मन्यन्ते । धर्मधातुं न मन्यन्ते । मनोविज्ञानधातुं न मन्यन्ते । प्रतीत्यसमुत्पादं न मन्यन्ते । दानं न मन्यन्ते । शीलं न मन्यन्ते । क्षान्तिं न मन्यन्ते । वीर्यं न मन्यन्ते । ध्यानं न मन्यन्ते । प्रज्ञां न मन्यन्ते । अध्यात्मशून्यतां न मन्यन्ते । बहिर्धाशून्यतां न मन्यन्ते । अध्यात्मबहिर्धाशून्यतां न मन्यन्ते । शून्यताशून्यतां न मन्यन्ते । महाशून्यतां न मन्यन्ते । परमार्थशून्यतां न मन्यन्ते । संस्कृतशून्यतां न मन्यन्ते । असंस्कृतशून्यतां न मन्यन्ते । अत्यन्तशून्यतां न मन्यन्ते । अनवराग्रशून्यतां न मन्यन्ते । अनवकारशून्यतां न मन्यन्ते । प्रकृतिशून्यतां न मन्यन्ते । सर्वधर्मशून्यतां न मन्यन्ते । स्वलक्षणशून्यतां न मन्यन्ते । अनुपलम्भशून्यतां न मन्यन्ते । अभावशून्यतां न मन्यन्ते । स्वभावशून्यतां न मन्यन्ते । अभावस्वभावशून्यतां न मन्यन्ते । चत्वारि स्मृत्युपस्थानानि न मन्यन्ते । चत्वारि सम्यक्प्रहाणानि न मन्यन्ते । चतुर ऋद्धिपादान् न मन्यन्ते । पञ्चेन्द्रियाणि न मन्यन्ते । सप्त बोध्यङ्गानि न मन्यन्ते । आर्याष्टाङ्गमार्गं न मन्यन्ते । चत्वार्य् आर्यसत्यानि न मन्यन्ते । चत्वारि ध्यानानि न मन्यन्ते । चत्वार्य् अप्रमाणानि न मन्यन्ते । चतस्र आरूप्यसमापत्तीर् न मन्यन्ते । अष्टौ विमोक्षान् न मन्यन्ते । नवानुपूर्वविहारसमापत्तीर् न मन्यन्ते । शून्यतां न मन्यन्ते । आनिमित्तं न मन्यन्ते । अप्रणिहितं न मन्यन्ते । अभिज्ञां न मन्यन्ते । धारणीमुखानि न मन्यन्ते । दश तथागतबलानि न मन्यन्ते । चत्वारि वैशारद्यानि न मन्यन्ते । चतस्रः प्रतिस ं विदो न मन्यन्ते । महामैत्रीं न मन्यन्ते । महाकरुणां न मन्यन्ते । अष्टादशावेणिकान् बद्धधर्मान् न मन्यन्ते । श्रोतआपत्तिफलं न मन्यन्ते । सकृदागामिफलं न मन्यन्ते । अनागामिफलं न मन्यन्ते । अर्हत्त्वं न मन्यन्ते । प्रत्येकबोधिं न मन्यन्ते । मार्गाकारज्ञतां न मन्यन्ते । सर्वाकारज्ञतां न मन्यन्ते । अनुत्तरां सम्यक्स ं बोधिं न मन्यन्ते । संसारं न मन्यन्ते । निर्वाणं न मन्यन्ते । एवं खलु शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षड्भिः पारमिताभिर् विवर्धन्ते । न च केनचिद् अवमर्द्यन्ते ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु स्थित्वा सर्वज्ञज्ञानं परिपूरयन्ति । येन ज्ञानेन समन्वागता न जात्वपायेषूपपद्यन्ते । न मनुष्यदारिद्र्यम् अनुभवन्ति । न तथारूपम् आत्मभावं परिगृह्णन्ति येनात्मभावेन निन्दनीया भवन्ति सदेवमानुषासुरस्य लोकस्य । अथायुष्माञ् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत् । कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञज्ञानं येन ज्ञानेन समन्वागता बोधिसत्त्वा महासत्त्वा न जात्वपायेषूपपद्यन्ते । न मनुष्यदारिद्र्यम् अनुभवन्ति । न तथारूपम् आत्मभावं परिगृह्णन्ति येनात्मभावेन निन्दनीयो भवति सदेवमानुषासुरस्य लोकस्य ।
भगवान् आह । येन शारद्वतीपुत्र ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च श्र्णोति बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहाश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गादीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्व उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । ये न ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंगञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्स ं बुद्धान् पश्यति । धर्मञ् च शृणोति । बोधिसत्त्वसंघञ् च बुद्धक्षेत्रगुणव्यूहांश् च पश्यति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो न बुद्धसंज्ञाम् उत्पादयति । न संघसंज्ञाम् उत्पादयति । न श्रावकसंज्ञाम् उत्पादयति । न प्रत्येकबुद्धसंज्ञाम् उत्पादयति । न बोधिसत्त्वसंज्ञाम् उत्पादयति । न बुद्धसंज्ञाम् उत्पादयति । (?) नात्मसंज्ञाम् उत्पादयति । न परसंज्ञाम् उत्पादयति । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति न दानापारमिताम् उपलभते । शीलपारमितायां चरति न क्षान्तिपारमितायां चरति न क्षान्तिपारमितायाम् उपलभते । वीर्यपारमितायां चरति न वीर्यपारमिताम् उपलभते । ध्यानपारमितायां चरति न ध्यानपारमिताम् उपलभते । प्रज्ञापारमितायां चरति न प्रज्ञापारमिताम् उपलभते । अध्यात्मशून्यतां भावयति नाध्यात्मशून्यताम् उपलभते । बहिर्धाशून्यतां भावयति न बहिर्धाशून्यताम् उपलभते । अध्यात्मबहिर्धाशून्यतां भावयति नाध्यात्मबहिर्धाशून्यताम् उपलभते । शून्यताशून्यतां भावयति न शून्यताशून्यताम् उपलभते । महाशून्यतां भावयति न महाशून्यताम् उपलभते । परमार्थशून्यतां भावयति न परमार्थशून्यताम् उपलभते । संस्कृतशून्यतां भावयति न संस्कृतशून्यताम् उपलभते । असंस्कृतशून्यतां भावयति नासंस्कृतशून्यताम् उपलभते । अत्यन्तशून्यतां भावयति नात्यन्तशून्यताम् उपलभते । अनवराग्रशून्यतां भावयति नानवराग्रशून्यताम् उपलभते । अनवकारशून्यतां भावयति नानवकारशून्यताम् उपलभते । प्रकृतिशून्यतां भावयति न प्रकृतिशून्यताम् उपलभते । सर्वधर्मशून्यतां भावयति न सर्वधर्मशून्यताम् उपलभते । स्वलक्षणशून्यतां भावयति न स्वलक्षणशून्यताम् उपलभते । अनुपलम्भशून्यतां भावयति नानुपलम्भशून्यताम् उपलभते । अभावशून्यतां भावयति नाभावशून्यताम् उपलभते । स्वभावशून्यतां भावयति न स्वभावशून्यताम् उपलभते । अभावस्वभावशून्यतां भावयति नाभावस्वभावशून्यताम् उपलभते । चत्वारि स्मृत्युपस्थानानि भावयति न स्मृत्युपस्थानान्य् उपलभते । चत्वारि सम्यक्प्रहाणानि भावयति न च सम्यक्प्रहाणान्य् उपलभते । चतुर ऋद्धिपादान् भावयति नर्धिपादान् उपलभते । पञ्चेन्द्रियाणि भावयति न चेन्द्रियाण्य् उपलभते । पञ्चबलानि भावयति न च बलान्य् उपलभते । सप्त बोध्यङ्गानि भावयति न च बोध्यङ्गान्य् उपलभते । आर्याष्टाङ्गमार्गं भावयति नार्याष्टाङ्गमार्गम् उपलभते । आर्यसत्यानि भावयति न चार्यसत्यान्य् उपलभते । ध्यानानि भावयति न च ध्यानान्य् उपलभते । अप्रमाणानि भावयति न चाप्रमाणान्य् उपलभते । आरूप्यसमापत्तीर् भावयति न चारूप्यसमापत्तीर् उपलभते । अष्टौ विमोक्षान् भावयति न चाष्टौ विमोक्षान् उपलभते । नवानुपूर्वविहारसमापत्तीर् भावयति न च नवानुपूर्वविहारसमापत्तीर् उपलभते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न च शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते । अभिज्ञां भावयति न चाभिज्ञाम् उपलभते । समाधीन् भावयति न च समाधीन् उपलभते । धारणीमुखानि भावयति न च धारणीमुखान्य् उपलभते । दश तथागतबलानि भावयति न च तथागतबलान्य् उपलभते । चत्वारि वैशारद्यानि भावयति न च वैशारद्यान्य् उपलभते । चतस्रः प्रतिस ं विदो भावयति न च प्रतिस ं विद उपलभते । महामैत्रीं भावयति न च महामैत्रीम् उपलभते । महाकरुणां भावयति न च महाकरुणाम् उपलभते । अष्टादशावेणिकान् बुद्धधर्मान् भावयति न चाष्टादशावेणिकान् बुद्धधर्मान् उपलभते । श्रोतआपत्तिफलं भावयति न च श्रोतआपत्तिफलम् उपलभते । सकृदागामिफलं भावयति न च सकृदागामिफलम् उपलभते । अनागामिफलं भावयति न चानागामिफलम् उपलभते । अर्हत्वं भावयति न चार्हत्त्वम् उपलभते । प्रत्येकबोधिं भावयति न च प्रत्येकबोधिम् उपलभते । मार्गाकारज्ञतां भावयति न च
मार्गाकारज्ञताम् उपलभते । सर्वाकारज्ञतां भावयति न च सर्वाकारज्ञताम् उपलभते । इदं बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं । येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति सर्वबुद्धधर्मांश् च न समनुपश्यति ।
अस्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः पञ्च चक्षूंषि प्रतिलभन्ते । परिशोधयन्ति । कतमानि च पञ्च चक्षूंषि यद् उत मांसचक्षुर् दिव्यं चक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुः ।
आह कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुष्परिशुद्धिः । भगवान् आह । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो योजनशतं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो द्वियोजनशतं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वस् त्रीणि योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यश् चत्वारि योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः पञ्च योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः षड् योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः सप्त योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो ऽष्टौ योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो नव योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो दश योजनशतानि मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो योजनसहस्रं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो जम्बुद्वीपं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो द्वौ द्वीपौ मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः साहस्रं लोकधातुं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यो द्विसाहस्रं लोकधातुं मांसचक्षुषा पश्यति । अस्ति शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यस् त्रिसाहस्रं महासहस्रं लोकधातुं मांसचक्षुषा पश्यति । इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुःपरिशुद्धिः ।
आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य दिव्यचक्षुःपरिक्शुद्धिः । भगवान् आह । यच् छारद्वतीपुत्र चातुर्महाराजकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् त्रायस्त्रिंशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् यामानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् तुषितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यन् निर्माणरतीनां । देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् परनिर्मितवशवर्तिनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् ब्रह्मकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् ब्रह्मपुरोहितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् ब्रह्मपार्षद्यानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यन् महाब्रह्मणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् आभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् परीत्ताभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अप्रमाणाभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् आभास्वराणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वं प्रजानाति । यच् छुभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् परीत्तशुभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अप्रमाणशुभानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यच् छुभकृत्स्नानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् वृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् परीत्तवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अप्रमाणवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् वृहत्फलानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अवृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अतपानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् सुदृशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यत् सुदर्शनानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति । यद् अकनिष्ठानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानाति ।
यत् पुनः शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् चातुर्महाराजकायिका देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् त्रायस्त्रिंशा देवा न जानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् यामा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् तुषिता देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तन् निर्माणरतयो देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परनिर्मितवशवर्तिनो देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मकायिका देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मपुरोहिता देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् ब्रह्मपार्षद्या देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तन् महाब्रह्मणो देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् आभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्ताभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् प्रमाणाभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् आभास्वरा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् छुभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्तशुभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अप्रमाणशुभा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् शुभकृत्स्ना देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् वृहा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् परीत्तवृहा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अप्रमाणवृहा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अवृहत्फला देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अवृहा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अतपा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् सुदृशा देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तत् सुदर्शना देवा न प्रजानन्ति । यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अकनिष्ठा देवा न प्रजानन्ति ।
येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वदक्षिणम्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । येन दिव्येन चक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वः उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं प्रजानाति । इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यचक्षुःपरिशुद्धिः ।
आह । कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञाचक्षुःपरिशुद्धिः । भगवान् आह । येन शारद्वतीपुत्र चक्षुषा समान्वागतो बोधिसत्त्वो महासत्त्वः संस्कृतो ऽसंस्कृतो वा कुशलो वाकुशलो वा सावद्यो वानवद्यो वा संक्लेशो वा निःक्लेशो वा लौकिको वा लोकोत्तरो वा साश्रवो वानाश्रवो वा तद् धर्मं न प्रजानाति । येन प्रज्ञाचक्षुषा न कश्चिद् धर्मो ऽदृष्टो ऽश्रुतो ऽविज्ञातो भवेत् । इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञाचक्षुःपरिशुद्धिः ।
आह । कतमा बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः । भगवान् आह । इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषा प्रजानात्य् अयं पुद्गलः श्रद्धानुसारी अयं पुद्गलो धर्मानुसारी अयं पुद्गलः शून्यताविहारी । अस्य पुद्गलस्य शून्यताविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते । पञ्चभिर् इन्द्रियैः आनन्तर्यसमाधिं प्रक्ष्यत्य् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति । विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यन्ति सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् । अयम् उच्यते पुद्गलः श्रोतआपन्नः । स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करोत्य् अयं पुद्गलः सकृदागामी । स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी । स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् । अयम् आनिमित्तविहारी । अस्य पुद्गलस्य नानिमित्तेन विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते । पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यत्य् आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति । विमुक्तिज्ञानम् उत्पादयिष्यति । विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति । सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् अयम् उच्यते पुद्गलः श्रोतआपन्नः । स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करिष्यत्य् अयं पुद्गलः सकृदागामी । स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी । स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् । अयम् अप्रणिहितविहारी अस्य पुद्गलस्यान् प्रणितेन विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते । पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यन्ति । आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति । विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति । सत्कायदृष्टिं विचिकित्सां शीलव्रतपरामर्शम् अयम् उच्यते पुद्गलः श्रोतआपन्नः । स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वं करिष्यत्य् अयं पुद्गलः सकृदागामी । स तेनैव मार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणम् आगमिष्यत्य् अयं पुद्गलो ऽनागामी । स तेनैव मार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानौद्धत्यञ् च प्रहास्यत्य् अयं पुद्गलो ऽर्हन् । इयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो जानाति । यत् कञ्चित् समुदयधर्मं सर्वं तं निरोधधर्मेति विदित्वा श्रद्धादीनि पञ्चेन्द्रियाणि प्राप्नोतीयं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य धर्मचक्षुःपरिशुद्धिः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषा जानात्य् अयं प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति । शीलपारमितायां चरति । क्षान्तिपारमितायां चरति । वीर्यपारमितायां चरति । ध्यानपारमितायां चरति । प्रज्ञापारमितायां चरति । ततः श्रद्धेन्द्रियेण वीर्येन्द्रियेण समन्वागत उपायकौशलेन सञ्चिन्त्यात्मभावं परिग्रहीष्यति । कुशलमूलोपलम्भेन चायं बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते । ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते । गृहपतिमहाशालकुलेषूपपत्स्यन्ते । चातुर्महाराजकायिकेषु देवेषूपपत्स्यन्ते । त्रायस्त्रिंशेषु देवेषूपपत्स्यन्ते । यामेषु देवेषूपपत्स्यन्ते । तुषितेषु देवेषूपपत्स्यन्ते । निर्माणरतिषु देवेषूपपत्स्यन्ते । परनिर्मितवशवर्तिषु देवेषूपपत्स्यते । स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति सर्वसुखोपधानेन च तान् प्रत्युपस्थास्यति । बुद्धक्षेत्रञ् च परिशोधयिष्यति । तथागतांश् चार्हतः सम्यक्स ं बुद्धान् आरागयिष्यति सत्करिष्यति । गुरूकरिष्यति । मानयिष्यति । पूजयिष्यति । न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति । अयं बोधिसत्त्वो महासत्वो न निवर्तते यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं भोत्स्यते । इदम् अपि शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो जानात्य् अयं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्स ं बोधौ । अयं न व्याकृतः । अयं नियतः । अयम् अनियतः । इमे व्याकरिष्यन्ति । इमे न व्याकरिष्यन्ति । इमे अवैवर्तिकाः इन्द्रियलब्धाः । इमे नावैवर्तिकानेन्द्रियप्रतिलब्धाः । अस्याभिज्ञाः परिपूर्णाः । अस्य न परिपूर्णाः । अयं बोधिसत्त्वो महासत्त्वो ऽभिज्ञाभिः परिपूर्णाभिः पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । गुरूकरोति । मानयति । पूजयति । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । मानयति । पूजयति । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्स ं बुद्धान् आरागयति । पर्युपास्ते । सत्करोति । मानयति । पूजयति । अयम् अभिज्ञाः प्रतिलप्स्यन्ते अयं न प्रतिलप्स्यते । अयं क्षान्तिं प्रतिलब्धो ऽयं न क्षान्तिं प्रतिलब्धः । अयम् इन्द्रियप्रतिलब्धो ऽयं नेन्द्रियप्रतिलब्धः । अस्य बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति । अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रं न परिशुद्धं भविष्यति । अयं बोधिसत्त्वो महासत्त्वो महाप्रणिधानो ऽयं न महाप्रणिधानः । अनेन सत्त्वाः परिपाचिताः अनेन सत्त्वा न परिपाचिताः । अस्य बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते । अस्य न वर्णं भाषन्ते । इमे बोधिसत्त्वा महासत्त्वाः बुद्धानां भगवताम् आसत्त्वस्यायिनो भविष्यन्ति । इमे नासत्त्वस्थायिनः । अस्य बोधिसत्त्वस्य महासत्त्वस्य बोधिप्राप्तस्यायुर् अपरिमितं भविष्यति । अस्य परिमितं । अस्य प्रभाघोषो भिक्षुसंघश् चापरिमितो भविष्यति । अस्य परिमितः । अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्स ं बुद्धस्य बोधिसत्त्वसंघो भविष्यति । अस्य न भविष्यति । अयं दुष्करं चरिष्यत्य् अयं न चरिष्यति । अयं चरमभविको ऽयं न चरमभविकः । अयं बोधिमण्डे निषत्स्यति नायं निषत्स्यति । एषां बोधिसत्त्वानां महासत्त्वानां मारा भविष्यन्ति । नैषां भविष्यन्ति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां परिशुद्धं धर्मचक्षुः ।
आह कतमं पुनर् भगवन् बोधिसत्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः । भगवान् आह । यच् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानुत्तरं वज्रोपमं समाधिं समापद्य सर्वाकारज्ञताम् अनुप्राप्नोति । दशभिस् तथागतबलैः समन्वागतो भवति । चतुभिर् वैशारद्यैः समन्वागतो भवति । अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतो भवति । महामैत्र्या समन्वागतो भवति । महाकरुणया समन्वागतो भवति । महामुदितया समन्वागतो भवति । महोपेक्षया समन्वागतो भवति । अनावरणेन च बुद्धविमोक्षेण समन्वागतो भवति । तद् अस्य चक्षुर् येन चक्षुषा बोधिसत्त्वेन महासत्त्वेन सर्वाकारं नास्ति किञ्चिद् अदृष्टम् अश्रुतम् अमतम् अविज्ञातं । इदं शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुद्धस्य परिशुद्धं बुद्धचक्षुः ।
एव शारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्च चक्षूंषि परिशोधयितुकामेन प्रतिलब्धुकामेन च षट्सु पारमितासु योगः करणीयः । तत् कस्य हेतोः । तथा हि । शारद्वतीपुत्र षट्सु पारमितासु सर्वकुशलधर्मा अन्तर्गताः सर्वश्रावकधर्माश् च । सर्वप्रत्येकबुद्धधर्माश् च । ये खलु ते शारद्वतीपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितान् ते सम्यग् वदन्तो वदेयुः । तत् कस्य हेतोः । जनयित्री शारद्वतीपुत्र प्रज्ञापारमितैषां पञ्चानां चक्षुषां । एषु च पञ्चसु चक्षुषु बोधिसत्त्वा महसत्त्वाः शिक्षित्वानुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यन्ते । अस्यां शारद्वतीपुत्र प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो ऽभिज्ञापारमितां प्रतिलभते । सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति । इमाम् एव पृथिवीं कम्पयत्य् एको ऽपि भूत्वा बहुधा भवति । बहुधापि भूत्वा एको भवति । आविर्भवति तिरोभावम् अपि प्रत्यनुभवति । तिरः कुड्यं तिरः प्राकारं तिरः पर्वतम् अप्य् असंज्ञां कायेन गच्छति । तद्यथापि नामाकाशे पर्यंकेन क्रामति । तद्यथापि नाम शकुनिः पृथिव्याम् अप्य् उन्मज्जति न निमज्जनं करोति । तद्यथापि नामोदके ऽनुदके ऽप्य् अभियानेन गच्छति । तद्यथापि नाम पृथिव्यां धूमायते प्रज्वलत्य् अपि । तद्यथापि नाम महान् अग्निस्कन्धः । इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्धिकाव् एवं महानुभावाव् एवं महेशाख्यौ पाणिना परामार्ष्ट्वा ब्रह्मलोकं कायेन वशं वर्तयति तया चर्ध्या न मन्यते । तथा हि समृद्धिं नोपलभते यया मन्येत स्वभावशून्यताम् उपादाय स्वभावानुत्पादताम् उपादाय । स चेतनाम् अपि नोत्पादयति । ऋद्ध्या वा ऋद्ध्यभिनिर्हारेण वान्यत्र सर्वज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविधिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेनोभयाञ् छब्दान् शृणोति यद् उत दिव्यान् वा मानुष्यकान् वा । न च तेन दिव्येन श्रोत्रधातुना मन्यते अहं शब्दान् शृणोमीति । तथा हि स श्रोत्रं शब्दांश् च नोपलभते स्वभावशून्यताम् उपादाय स्वभावानुत्पादताम् उपादाय । स चेतनाम् अपि नोत्पादयति दिव्यश्रोत्रधाताव् अन्यत्र सर्वज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्रधातुसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । स सरागचित्तं न रागचित्तम् इति यथाभूतं प्रजानाति । स विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति । सदोषचित्तं सदोषचित्तम् इति यथाभूतं प्रजानाति । विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति । समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति । विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति । सतृष्णाचित्तं सतृष्णाचित्तम् इति यथाभूतं प्रजानाति । विगततृष्णं चित्तं विगततृष्णं चित्तम् इति यथाभूतं प्रजानाति । सोपादानं चित्तं सोपादानं चित्तम् इति यथाभूतं प्रजानाति । अनुपादानं चित्तम् अनुपादानं चित्तम् इति यथाभूतं प्रजानाति । विक्षिप्तचित्तं विक्षिप्तचित्तम् इति यथाभूतं प्रजानाति । परीत्तं चित्तं परीत्तं चित्तम् इति यथाभूतं प्रजानाति । विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति । महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति । अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति । समाहितं चित्तं समाहितं चित्तम् इति यथाभूतं प्रजानाति । असमाहितं चित्तम् असमाहितं चित्तम् इति यथाभूतं प्रजानाति । विविक्तं चित्तं विविक्तं चित्तम् इति यथाभूतं प्रजानाति । अविविक्तं चित्तम् अविविक्तं चित्तम् इति यथाभूतं प्रजानाति । साश्रवं चित्तं साश्रवं चित्तम् इति यथाभूतं प्रजानाति । अनाश्रवं चित्तम् अनाश्रवं चित्तम् इति यथाभूतं प्रजानाति । साङ्गणं चित्तं साङ्गणं चित्तम् इति यथाभूतं प्रजानाति । अनङ्गणं चित्तम् अनङ्गणं चित्तम् इति यथाभूतं प्रजानाति । सोत्तरं चित्तं सोत्तरं चित्तम् इति यथाभूतं प्रजानाति । अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति । तेन च परचित्तज्ञानेन न मन्यते । तथा हि तच् चित्तम् अचित्तम् अचिन्त्यताम् उपादाय । सो ऽहं प्रजानामीति न मन्यते । तथा हि स तच् चित्तं नोपलभते येन मन्येत स्वभावशून्यताम् उपादाय । स्वभावविविक्तताम् उपादाय । स्वभावानुत्पादताम् उपादाय । स चित्तज्ञानचेतनाम् अपि नोत्पादयति । न चित्तज्ञानाभिनिर्हारचेतनाम् अन्यत्र सर्वज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वचित्तचरितसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । सो ऽनेकविधपूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । एकम् अपि चित्तम् अनुस्मरति यावच् चित्तशतम् अप्य् अनुस्मरति । एकम् अपि दिवसम् अनुस्मरति यावद् द्विसशतम् अप्य् अनुस्मरति । एकम् अपि मासम् अनुस्मरति यावन् मासशतम् अप्य् अनुस्मरति । एकम् अपि वर्षम् अनुस्मरति यावद् वर्षशतम् अप्य् अनुस्मरति । एकम् अपि कल्पम् अनुस्मरति यावत् कल्पशतम् अप्य् अनुस्मरति । यावद् अनेकान्य् अपि कल्पशतान्य् अनुस्मरति । अनेकान्य् अपि कल्पसहस्राण्य् अनुस्मरति । अनेकान्य् अपि कल्पशतसहस्राण्य् अनुस्मरति । अनेकान्य् अपि कल्पकोटीनियुतशतसहस्राण्य् अनुस्मरति ।
अत्राहम् एवनामैवंगोत्र एवजातिर् एवमाहार एवंचिरस्थितिकः एवमायुःपर्यन्तः सो ऽहं ततश् चुतः सन्न् अत्रोपपन्नः । यावत् ततश् चुत इहोपपन्नः इति । साकारं सोद्देशं सनिदर्शम् आत्मनः परेषाञ् चानेकविधं पूर्वनिवासम् अनुस्मरति । तेन च पूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानेन न मन्यते । तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय । सो ऽहं प्रजानामीति न मन्यते । तथा हि स तद् एव ज्ञानं नोपलभते येन मन्येत । स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय । स्वभावानुत्पादताम् उपादाय स चेतनाम् अपि नोत्पादयति । अनुस्मृतिज्ञानेनान्यत्र सर्वज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्त्वान् पश्यति । च्यवमानान् उपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतान् दुर्गतान् यथाकर्मोपगतान् सत्त्वान् विजानाति । अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः वाग्दुश्चरितेन समन्वागताः मनोदुश्चरितेन समन्वागताः । आर्यानाम् अपवादकाः मिथ्यादृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते । अमी पुनर् भवन्तः कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः आर्यानाम् अनपवादकाः सम्यग्दृष्टयस् तद्धेतोस् तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते इति समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मधातुपरमे लोके आकाशधातुपर्यवसाने षड्गतिकानां च्युतोपपादं यथाभूतं प्रजानाति । तेन च न मन्यते । तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय । सो ऽहं पश्यामीति न मन्यते । तथा हि स तद् एव चक्षुर् नोपलभते येन मन्येत । स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुत्पादताम् उपादाय । स दिव्यचक्षुश्चेतनाम् अपि नोत्पादयति । न दिव्यचक्षुरभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दिव्यचक्षुःसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वानुप्राप्नोति । न किञ्चिद् धर्मं पश्यति यो ऽनुत्तरां सम्यक्स ं बोधिम् अभिस ं बुध्यते । स तयाभिज्ञया वज्रोपमं समाधिम् अधिगम्य सर्ववासनानुसन्धि क्लेशप्रहाणं कुरुते । न च तयाश्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञया मन्यते । तथा हि तज्ज्ञानम् अज्ञानम् अचिन्त्यभृत् । अहं प्रजानामीति न मन्यते । तथा हि स ताम् एवाश्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञां नोपलभते । यया मन्येत । स्वभावशून्यताम् उपादाय । स्वभावविविक्तताम् उपादाय । स्वभावानुत्पादताम् उपादाय । स आश्रवक्षयज्ञानचेतनाम् अपि नोत्पादयति । नाश्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकारात् । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स आश्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति । एवञ् च पुनः शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् षड् अभिज्ञाः परिपूरयति । वर्धते ऽनुत्तरया सम्यक्स ं बोध्या । सन्ति शारद्वतीपुत्र बोधिसत्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्ति । अत्यन्तशून्यतया अनवगृहीतचित्तताम् उपादाय । सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः शीलपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्ति । अत्यन्तशून्यतया आपत्त्यनध्यापत्तिताम् उपादाय । सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अक्षोभणताम् उपादाय । सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया कायिकचेतसिकवीर्यास्रंसनताम् उपादाय । सन्ति शारद्वतीपुत्र बाधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अविक्षिप्तचित्तताम् उपादाय । सन्ति शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः ये प्रज्ञापारमितायां चरन्तः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया दौःप्रज्ञचित्तानुपलब्धिताम् उपादाय । एवं शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतायाः पन्थानं शोधयन्त्य् अत्यन्तशून्यतया अनागमनागमनताम् उपादाय । अपरिग्रहताम् उपादाय । दानं परिग्रहताम् उपादाय प्रज्ञप्यते । शीलम् अशुचिताम् उपादाय प्रज्ञप्यते । क्षान्तिं क्षोभणताम् उपादाय प्रज्ञप्यते । वीर्यं कुसीदताम् उपादाय प्रज्ञप्यते । समाधिर् असमाहितम् उपादाय प्रज्ञप्यते । प्रज्ञां दुःप्रज्ञताम् उपादाय प्रज्ञप्यते । स तीर्ण इति न मन्यते । अतीर्ण इति न मन्यते । स दाता इति न मन्यते । अदाता इति न मन्यते । शीलवान् इति न मन्यते । दुःशील इति न मन्यते । क्षान्तिं स ं पन्न इति न मन्यते । क्रोधन इति न मन्यते । आरब्धवीर्य इति न मन्यते । कुसीद इति न मन्यते । समाहित इति न मन्यते । असमाहित इति न मन्यते । प्राज्ञ इति न मन्यते । दुःप्रज्ञ इति न मन्यते । आक्रुष्ट इति न मन्यते । वन्दित इति न मन्यते । सत्कृत इति न मन्यते । असत्कृत इति न मन्यते । तत् कस्य हेतोः । न हि शारद्वतीपुत्र अनुत्पाद आक्रुष्टो वेति मन्यते वन्दितो वेति मन्यते । सत्कृतो वेति मन्यते । असत्कृतो वेति मन्यते । तत् कस्य हेतोः । तथा हि प्रज्ञापारमिता सर्वम् अन्यतां समुच्छिनत्ति । इह शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ये गुणा भवन्ति । तेन श्रावकप्रत्येकबुद्धानां संविद्यन्ते । स इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपारयन्ति । बुद्धक्षेत्रञ् च परिशोधयन्ति । सर्वाकारज्ञताञ् चानुप्राप्नोति ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्यति । सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते । स सर्वधर्मसमतां प्रतिलभ्य सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति । स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति । मनापश् च । सर्वबोधिसत्त्वानाञ् च सर्वश्रावकाणाञ् च प्रत्येकबुद्धानाञ् च प्रियो भवति । मनापश् च । स यत्र यत्रोपपद्यमान उपपद्यते तत्र तत्र न जातु चक्षुषा अमनापाणि रूपाणि पश्यति । न श्रोत्रेणामनापान् शब्दान् शृणोति । न घ्राणेनामनापान् गन्धान् जिघ्रति । न जिह्वयामनापान् रसान् आस्वादयति । न कायेनामनापान् स्पर्शान् स्पृशति । न मनसामनापान् धर्मान् विजानाति । एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन् न परिहीयते ऽनुत्तरायाः सम्यक्स ं बोधेः ।
अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने त्रीणि भिक्षुशतानि यथाप्रावृतैश् चीवरैर् भगवन्तम् अभिच्छादयन्ति स्म । अनुत्तरायां सम्यक्स ं बोधौ चित्तम् उत्पादयन्ति स्म । अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुरकार्षीत् । अथायुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे । नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्स ं बुद्धाः स्मितम् आविष्कुर्वन्ति । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् । एतान्य् आनन्द त्रीणि भिक्षुशतानि एकषष्टे कल्पे महाकेतुनामानस् तथागता अर्हन्तः सम्यक्स ं बुद्धाः लोके उत्पत्स्यन्ते । तारकोपमे कल्पे त एत इतश् च्युताः समाना अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्स ं बुद्धस्य बुद्धक्षेत्रे उपपत्स्यन्ते । षष्ट्या च देवपुत्र सहस्रैः कामावचरैर् अनुत्तरायां सम्यक्स ं बोधौ चित्तान्य् उत्पादितानि । तानि च मैत्रेयं तथागतम् अर्हन्तं सम्यक्स ं बुद्धम् आरागयिष्यन्ति । तत्रैव च ब्रह्मचर्यं चरिष्यन्ति । स च मैत्रेयस् तथागतस् तान् व्याकरिष्यत्य् अनुत्तरायां सम्यक्स ं बोधाव् इति । अथ बुद्धानुभावेन तस्मिन् समये ताश् चतस्रः पर्षद इति निषन्ना एव पूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म । दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म । पश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति स्म । उत्तरस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म । उत्तरपूर्वस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म । पूर्वदक्षिणस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म । दक्षिणपश्चिमायान् दिशि बुद्धसहस्रं पश्यन्ति स्म । पश्चिमोत्तरस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म । अधस्ताद् दिशि बुद्धसहस्रं पश्यन्ति स्म । उपरिष्टाद् दिशि बुद्धसहस्रं पश्यन्ति स्म । न च तान् बुद्धक्षेत्रगुणव्यूहान् इह सहायां लोकधातौ पश्यन्ति स्म । यान् बुद्धक्षेत्रगुणव्यूहांस् तेषां बुद्धानां भगवतां तेषु लोकधातुषु पश्यन्ति स्म । अथ ततः पर्षदो दशप्राणिसहस्राणि प्रणिधानम् अकार्षुः । वयं कर्म तथा करिष्यामो येन कर्मणा कृतेनात्र बुद्धक्षेत्रेषूपपत्स्याम इति । अथ भगवांस् तेषां कुलपुत्राणां आशयं विदित्वा स्मितं प्रादुरकार्षीत् ।
अथायुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे । नाहेतु नाप्रत्ययं बुद्धा भगवन्तः स्मितम् आविष्कुर्वन्ति । भगवान् आह । पश्यसि त्वम् आनन्देमानि दश प्राणिसहस्राणि । आह । पश्यामि भगवन् । भगवान् आह । एतान्य् आनन्द दश प्राणिसहस्राणि इतश् च्युत्वा तत्र बुद्धक्षेत्रेषूत्पत्स्यन्ते । न च जातु विरहिता भविष्यन्ति तथागतैर् अर्हद्भिः सम्यक्स ं बुद्धैस् ततः पश्चाद् व्यूहराजनामानस् तथागता अर्हन्तः सम्यक्स ं बुद्धा लोके भविष्यन्ति । अथायुष्मान् शारद्वतीपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च सुभूतिर् आयुष्मांश् च पूर्णो मैत्रायणीपुत्र आयुष्मांश् च महाकाश्यप एते चान्ये च संबहुला अभिज्ञाताभिज्ञाता भिक्षवो बोधिसत्त्वाश् च महासत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाश् च भगवन्तम् एतद् अवोचन् । महापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । उदारपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । अग्र्यपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । विशिष्टपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । वरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । प्रवरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । प्रणीतपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । अनुत्तरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । निरुत्तरपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । असमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । असमसमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । असदृशपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । अनुपमपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । आकाशपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । स्वलक्षणशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । सर्वधर्मशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । अभावस्वभावशून्यतापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । सर्वगुणपरिपूरिपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । सर्वगुणसमन्वागतपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता । अनवमृद्यपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता ।
अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमन् दानं दत्तं दीयते दास्यते । तेनासमसमदानपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते । तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं शीलं रक्षितं रक्षन्ति रक्षिष्यन्ति । तेनासमसमशीलपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते । तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमक्षान्तिर् भाविता भाव्यते भाविष्यते । तेनासमसमा क्षान्तिपारमिता परिपूरिता परिपूर्यते परिपूरिष्यते । तेनासमसम आत्मलाभः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं वीर्यम् आरब्धं आरभ्यते आरप्स्यते । तेनासमसमा वीर्यपारमिता परिपूरिता परिपूर्यते परिपूरिष्यते । तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति । यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमानि ध्यानानि उत्पादितानि उत्पाद्यन्ते उत्पादयिष्यन्ते । तेनासमसमा ध्यानपारमिता परिपूरिता परिपूर्यते परिपूरयिष्यते । तेनासममम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्र भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमा प्रज्ञा भाविता भाव्यते भाविष्यते । तेनासमममा प्रज्ञापारमिता परिपूरिता परिपूर्यते परिपूरिष्यते । तेनासमसम आत्मभावः प्रतिलब्धः प्रतिलभ्यते प्रतिलप्स्यते । तेनासमसमस्य धर्मस्य लाभिनो जाता भवन्ति भविष्यन्ति यद् उतानुत्तरायाः सम्यक्स ं बोधेः ।
अत्रैव भगवन् प्रज्ञापारमितायां चरन् अममममस्य रूपस्य लाभी जातः असमसमाया वेदनाया लाभी जातः असमसमायाः संज्ञाया लाभी जातः असमममानां संस्काराणां लाभी जातः । असमसमस्य विज्ञानस्य लाभी जातः । असमसमां बोधिम् अभिस ं बुध्यासमसमं धर्मचक्रं प्रवर्तितवान् ।
अतीता अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमममस्य रूपस्य लाभिनो जाताः । असमममाया वेदनाया लाभिनो जाताः । असमसमायाः संज्ञाया लाभिनो जाताः असमसमानां संस्काराणां लाभिनो जाताः । असमसमस्य विज्ञानस्य लाभिनो जाताः । असमसमां बोधिम् अभिस ं बुध्यासमसमं धर्मचक्रं प्रवर्तितवन्तः ।
अनागता अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमसमस्य रूपस्य लाभिनो जाताः भविष्यन्ति । असमसमाया वेदनाया लाभिनो भविष्यन्ति । असमसमायाः संज्ञाया लाभिनो भविष्यन्ति । असमसमानां संस्काराणां लाभिनो भविष्यन्ति । असमसमस्य विज्ञानस्य लाभिनो भविष्यन्ति । असमसमां बोधिम् अभिस ं बुध्यासमसमं धर्मचक्रं प्रवर्तयिष्यन्ति ।
प्रत्युत्पन्ना अपि बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽसमसमस्य रूपस्य लाभिनो भवन्ति । असमसमाया वेदनाया लाभिनो भवन्ति । असमसमायाः संज्ञाया लाभिनो भवन्ति । असमसमानां संस्काराणां लाभिनो भवन्ति । असमसमस्य विज्ञानस्य लाभिनो भवन्ति । असमसमां बोधिम् अभिस ं बुध्यासमसमं धर्मचक्रं प्रवर्तयिष्यन्ति ।
तस्मात् तर्हि भगवन् बोधिसत्त्वैर् महासत्त्वैः सर्वधर्माणां पारंगन्तुकामैः प्रज्ञापारमितायां योगः करणीयः । नमस्करणीयास् ते भगवन् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽत्र प्रज्ञापारमितायां चरन्ति ।
एवम् उक्ते भगवांस् तान् संबहुलान् महाश्रावकान् तांश् च बोधिसत्त्वान् महासत्त्वान् एतद् अवोचत् । एवम् एतत् कुलपुत्रा एवम् एतत् यथा तथा, यथा वदथ, नमस्करणीयास् ते बोधिसत्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽत्र प्रज्ञापारमितायां चरन्ति । तत् कस्य हेतोः बोधिसत्त्वं हि कुलपुत्रा महासत्त्वम् आगम्य मनुष्यलोकस्य लोके प्रादुर्भावो भवति । देवलोकस्य लोके प्रादुर्भावो भवति । क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति । ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति । गृहपतिमहाशालकुलानां लोके प्रादुर् भावो भवति । राज्ञां चक्रवर्तिनां लोके प्रादुर्भावो भवति । चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति । त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति । यामानां देवानां लोके प्रादुर्भावो भवति । तुषितानां देवानां लोके प्रादुर्भावो भवति । निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति । परनिर्मितवशवर्तिनां देवानां लोके प्रादुर्भावो भवति । ब्राह्मकायिकानां देवानां लोके प्रादुर्भावो भवति । ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भवति । ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भवति । महाब्रह्मणां देवानां लोके प्रादुर्भावो भवति । आभानां देवानां लोके प्रादुर्भावो भवति । परीत्ताभानां देवानां लोके प्रादुर्भावो भवति । अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति । आभास्वराणां देवानां लोके प्रादुर्भावो भवति । शुभानां देवानां लोके प्रादुर्भावो भवति । परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति । अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति । शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति । वृहाणां देवानां लोके प्रादुर्भावो भवति । परीत्तवृहाणां देवानां लोके प्रादुर्भावो भवति । अप्रमाणवृहाणां देवानां लोके प्रादुर्भावो भवति । वृहत्फलानां देवानां लोके प्रादुर्भावो भवति । अवृहाणां देवानां लोके प्रादुर्भावो भवति । अतपानां देवानां लोके प्रादुर्भावो भवति । सुदृशानां देवानां लोके प्रादुर्भावो भवति । सुदर्शनानां देवानां लोके प्रादुर्भावो भवति । अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति । श्रोतआपन्नानां लोके प्रादुर्भावो भवति । सकृदागामिनां लोके प्रादुर्भावो भवति । अनागामिनां लोके प्रादुर्भावो भवति । अर्हतां लोके प्रादुभावो भवति । प्रत्येकबुद्धानां लोके प्रादुर्भावो भवति । बोधिसत्त्वानां महासत्त्वानां लोके प्रादुर्भावो भवति । तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां लोके प्रादुर्भावो भवति । बोधिसत्त्वं हि कुलपुत्रा महासत्त्वम् आगम्य अन्नस्य पानस्य यानस्य वस्त्राणां शय्यासनोपाश्रयप्राजीविकस्य मणिमुक्ताशङ्खशिलाप्रवालरजतजातरूपस्य लोके प्रादुर्भावो भवति । यावन्ति कुलपुत्राः सत्त्वानां सुखोपधानानि दिव्यानि च मानुषाणि च विसंयोगसुखञ् च सर्वन् तत् कुलपुत्रा बोधिसत्त्वं महासत्त्वम् आगम्य । तत् कस्य हेतोर् बोधिसत्त्वो हि कुलपुत्रा बोधिसत्त्वचारिकां चरन् षट्सु पारमितासु स्थित्वा आत्मना च दानं ददाति परांश् च दाने नियोजयति । आत्मना च शीलं रक्षति परांश् च शीले नियोजयति । आत्मना च क्षान्तिं भावयति । परांश् च क्षान्त्यां नियोजयति । आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति । आत्मना ध्यानान्य् उत्पादयति परांश् च ध्याने नियोजयति । आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञाभावनायां नियोजयति । बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वाः षट्सु पारमितासु चरन्ति । ते षट्सु पारमितासु चरन्त, सत्त्वाः लौकिकलोकोत्तराः स ं पत्तीर् अनुप्राप्नुवन्ति । तस्मात् तर्हि कुलपुत्राः बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां हितसुखाय प्रतिपन्नो भवति ।
अथ भगवांस् तस्यां वेलायां जिह्वेन्द्रियं मुखान् निर्णमय्य इमं त्रिसाहस्रमहासाहस्रं लोकधातुं स्फुरति स्म ।
अथ खलु ततो जिह्वेन्द्रियात् अनेकवर्णा नानावर्णा अर्चिषो निश्चरन्ति स्म । निश्चार्य पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् महतावभासेन स्फुरन्ति स्म ।
अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातवः एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्राः पश्चिमे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा उत्तरे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमे जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेने लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा पूर्वस्मिन् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । उत्तरस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा दक्षिणे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । उत्तरपूर्वस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा दक्षिणपश्चिमे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदौवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । पूर्वदक्षिणस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्राः पश्चिमोत्तरे दिग्भागे सहा नाम लोकधातुस् तत्र शाकमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । दक्षिणपश्चिमे दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा उत्तरपूर्वे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । पश्चिमोत्तरे दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्राः पूर्वदक्षिणे दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यहस ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा उपरिष्टाद् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनतायै । उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अप्रमेया असंख्येया बोधिसत्त्वा महासत्त्वास् तं प्रभाव्यूहं दृष्ट्वा स्वकस्वकेषु बुद्धक्षेणेषु बुद्धान् भगवतः परिपृच्छन्ति स्म । कस्यायं भगवन्न् अनुभावो येनेमे लोकधातव एवं महतावभासेन स्फुटाः । ते बुद्धा भगवन्तो ऽवोचन् । एष कुलपुत्रा अधस्ताद् दिग्भागे सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनेमं जिह्वेन्द्रियं निर्णमय्य गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटाः । यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितादेशनताय ।
अथ खलु ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत एवम् आहुः । तत्र वयं भगवन् गमिष्यामस् तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्स ं बुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तेषाञ् च दशदिक्सन्निपतितानां बोधिसत्त्वानां महासत्त्वानां दर्शनाय । तस्याश् च प्रज्ञापारमितायाः श्रवणाय । ते बुद्धा भगवन्त एवम् आहुः । यस्येदानीं कुलपुत्राः कालं मन्यध्वे । अथ ते बोधिसत्त्वा महासत्त्वा दशभ्यो दिग्भ्यस् तेषां तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां पादाञ् छिरोभिर् वन्दित्वा सप्तकृत्वः प्रदक्षिणीकृत्यानेकैः प्रकारान् छत्त्रध्वजपताकाः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवराणि सुवर्णरूप्यपुष्पाणि च गृहीत्वा महत्या तूर्यताडावचरसंगीत्या येन भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रामन्ति स्म । अथ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणः आभाः परीत्ताभाः अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभाः अप्रमाणशुभाः शुभकृत्स्नाः वृहाः परीत्तवृहाः अप्रमाणवृहाः वृहत्फलाः । शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शनाः अकनिष्ठा देवा दिव्यानि पुष्पमाल्यविलेपनधूपचूर्णानि दिव्यान्य् उत्पलपद्मपुण्डरीकानि दिव्यानि मान्दारमहामान्दारकेशरतमालपत्त्राणि गृहीत्वा येन भगवाञ् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्स ं बुद्धस् तेनोपसंक्रामन्ति स्म । अथ ते बोधिसत्त्वा महासत्त्वास् ते च देवास् ताभिः पुष्पमाल्य गन्धविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्समबुद्धम् अवकिरन्ति स्माभ्यवकिरन्ति स्म । अभिप्राकिरन्ति स्म । अथ तानि पुष्पादीन्य् उपरिवैहायसम् अभ्युद्गम्यास्मिंस् त्रिसाहस्रे महासाहस्रे लोकधातौ पुष्पकूटाकारः संस्थितो ऽभूत् । चतुरस्रश् चतुःस्थूणसमो भागशः सुविभक्तो रमणीयो मनोरमः । अथ ततः पर्षदः प्राणिकोटीनियुतशतसहस्रान्य् उत्थायासनेभ्यो येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् । वयम् अपि भगवन्न् अनागते ऽध्वन्य् एवं रूपाणां धर्माणां लाभिनो भवेमः । यथा रूपाणां तथागतो ऽर्हन् सम्यक्स ं बुद्धः । एवम् एव श्रावकसंघं परिहारः मे । एवञ् च पर्षदि धर्मं देशयामः । यथा तथागत एतर्हि धर्मं देशयति । अथ भगवांस् तेषाम् अध्याशयं विदित्वा सर्वधर्माणाञ् चानुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय । क्षान्तिं विदित्वा स्मितं प्रादुरकार्षीत् । अथायुष्मान् आनन्द उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् । को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितम् आविष्कुर्वन्ति । भगवान् आह । इत आनन्द पर्षदः प्राणिकोटीनियुतशतसहस्रैर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । एते चानागते ऽध्वन्य् अष्टषष्त्या कल्पकोटीभिर् बोध्यङ्गापुष्यनामापस् तथागता अर्हन्तः सम्यक्स ं बुद्धा लोके भविष्यन्ति पुष्पाकरे कल्पे ।
इति शतसाहस्रिकाः प्रज्ञापारमितायाः प्रथमः परिवर्तः ॥
अथ द्वितीयपरिवर्तः ।
अथ भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते । प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् आरभ्य धार्मीं कथां कर्तुं कथं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति । अथ तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणाम् एतद् अभूत् किं पुनर् आयुष्मान् सुभूतिस् तावत् केन प्रज्ञाप्रतिभानबलाधानसत्वाहेन बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेक्ष्यति । अथ वा बुद्धानुभावेनेति । अथायुष्मां सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतः परितर्कम् आज्ञायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयते स्म । यत् किञ्चिद् आयुष्मञ् छारद्वतीपुत्र भगवतः श्रावका भाषन्ते ऽभिलपन्त्य् उदीरयन्ति । सर्वः स तथागतस्य पुरुषकारः । यश् च तथागतेन धर्मो देशितः सर्वः स धर्मतया अविरुद्धः । तत् ते कुलपुत्रास् तत्र धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति । तथागत एवैष शारद्वतीपुत्रोपाययोगेन बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेक्ष्यत्य् अविषयो ऽत्रायुष्मञ् छारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदेष्टुं । अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । बोधिसत्त्वा महासत्त्वा इति भगवन्न् उच्यते । कतमस्यैतद् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा । नाहं भगवंस् तं धर्मं समनुपश्यामि । यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा । सो ऽहं भगवंस् तञ् च बोधिसत्त्वं ताञ् च प्रज्ञापारमितां तच् च बोधिसत्त्वनामासमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत् । नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति नाम तच् च प्रज्ञप्तिमात्रं । यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते जीवो जीव इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते जन्तुर् जन्तुर् इति नाम तच् च प्रज्ञप्तिमात्रं तच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते पोषः पोष इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते पुरुषः पुरुष इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते पुद्गलः पुद्गल इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते मनुजो मनुज इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते मानवो मानव इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते कारकः कारक इति नाम । तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते कारयिता कारयितेति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते उत्थापकः उत्थापक इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते समुत्थापकः समुत्थापक इति नाम तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते वेदको वेदक इति नाम । तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते वेदयितृको वेदयितृक इति नाम । तच् च नाम प्रज्ञप्तिमात्रं यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते जानको जानक इति नाम । तच् च नाम प्रज्ञप्तिमात्रं । यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते पश्यकः पश्यक इति नाम । तच् च नाम प्रज्ञप्तिमात्रं । यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवम् एव सुभूते या च प्रज्ञापारमिता यश् च बोधिसत्त्वो यच् च बोधिसत्त्वनाम सर्वम् एतत् प्रज्ञप्तिमात्रं । यच् च प्रज्ञप्तिधर्मं तस्य नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते यो ऽयम् आध्यात्मिक आत्मभावो रूपम् इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र
संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते येयम् आध्यात्मिकी वेदनेति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्यं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते येयम् आध्यात्मिकी संज्ञेति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते य इमे आध्यात्मिकाः संस्कारा इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते यद् इदम् आध्यात्मिकं विज्ञानम् इति नाम यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्वम् एतत् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । चक्षुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत चक्षुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । श्रोत्रम् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम्
एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत श्रोत्रम् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । घ्राणम् इति सुभूते यावद् एव प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत घ्राणम् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । जिह्वेति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत जिह्वेति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । काय इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत काय इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्ये । मन इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत मन इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । रूपम् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत रूपम् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । शब्द इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत शब्द इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । गन्ध इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत गन्ध इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । रस इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत रस इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । स्पर्श इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत स्पर्श इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । धर्मं इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत धर्मं इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । चक्षुर्धातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत चक्षुर्धातुर् इरि । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । रूपधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत रूपधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । चक्षुर्विज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत चक्षुर्विज्ञानधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । श्रोत्रधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत श्रोत्रधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । शब्दधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत शब्दधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । श्रोत्रविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत श्रोत्रविज्ञानधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । घ्राणधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत घ्राणधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । गन्धधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत गन्धधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । घ्राणविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत घ्राणविज्ञानधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । जिह्वाधातुर् इति सुभूते यवद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत जिह्वाधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । रसधातुर् इति प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत रसधतुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलाभ्यते । जिह्वाविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत जिह्वाविज्ञानधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । कायधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत कायधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । स्प्रष्टव्यधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत स्प्रष्टव्यधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । कायविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च
धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत कायविज्ञानधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । मनोधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत मनोधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । धर्मधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत धर्मधातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । मनोविज्ञानधातुर् इति सुभूते यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । यद् उत मनोविज्ञान धातुर् इति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति । यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते पोषम् आध्यात्मिक आत्मभाव इति नाम मात्रेण व्यवह्रियते । शीर्षास्थीनीति नाम व्यवह्रियते । ग्रीवास्थीनीति नाम व्यवह्रियते । स्कन्धास्थीनीति नाम व्यवह्रियते । पृष्ठास्थीनीति व्यवह्रियते । पार्श्वकास्थीनीति व्यवह्रियते । कट्यस्थीनीति नाम व्यवह्रियते । ऊर्वस्थीनीति नाम व्यवह्रियते । जङ्घास्थीनीति नाम व्यवह्रियते । पादास्थीनीति नाम व्यवह्रियते । धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । शीर्षास्थीनीति नाम ग्रीवास्थीनीति नाम बाह्वस्थीनीति नाम पृष्ठास्थीनीति नाम पार्श्वास्थीनीति नाम कट्यस्थीनीति नाम ऊर्वस्थीनीति नाम जङ्गास्थीनीति नाम । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते यानीमानि बाह्यानि तृणकाष्ठशाखापत्त्रपलाशानि सर्वान्य् एतानि नानानामधेयैर् व्यवह्रियन्ते तानि च एषाञ् च नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते ।
एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति । बोधिसत्त्वनामेति । यावद् एव धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते अतीतानां बुद्धानां भगवतां यावद् एव नाम मात्रं तिष्ठति । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । तद्यथापि नाम सुभूते स्वप्नः प्रतिश्रुत्काप्रतिभासो मायामरीचि उदकचन्द्रस् तथागतनिर्मितः सर्व एते धर्माः प्रज्ञप्तिमात्रं यस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवम् एव सुभूते यद् इदम् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति । सर्व एते धर्माः प्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र संज्ञासङ्केतमात्रेण व्यवह्रियते । तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतप्रज्ञप्त्या वा धर्मप्रज्ञप्त्या च शिक्षितव्यं ।
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नाम नित्यम् इति समनुपश्यति । न रूपं नामानित्यम् इति समनुपश्यति । न रूपं नाम सुखम् इति समनुपश्यति । न रूपं नाम दुःखम् इति समनुपश्यति । न रूपं नामात्मेति समनुपश्यति । न रूपं नामानात्मेति समनुपश्यति । न रूपं नाम शान्तम् इति समनुपश्यति । न रूपं नामाशान्तम् इति समनुपश्यति । न रूपं नाम शून्यम् इति समनुपश्यति । न रूपं नामाशून्यम् इति समनुपश्यति । न रूपं नाम निमित्तम् इति समनुपश्यति । न रूपं नामानिमित्तम् इति समनुपश्यति । न रूपं नाम प्रणिहितम् इति समनुपश्यति । न रूपं नामाप्रणिहितम् इति समनुपश्यति । न रूपं नाम संस्कृतम् इति समनुपश्यति । न रूपं नामासंस्कृतम् इति समनुपश्यति । न रूपं नाम संक्लेशम् इति समनुपश्यति । न रूपं नामासंक्लेशम् इति समनुपश्यति । न रूपं नाम व्यवदानम् इति समनुपश्यति । न रूपं नामोत्पाद इति समनुपश्यति । न रूपं नाम निरोध इति समनुपश्यति । न रूपं नाम विविक्तम् इति समनुपश्यति । न रूपं नामाविविक्तम् इति समनुपश्यति । न रूपं नाम कुशलम् इति समनुपश्यति । न रूपं नामाकुशलम् इति समनुपश्यति । न रूपं नाम सावद्यम् इति समनुपश्यति । न रूपं नाम निरवद्यम् इति समनुपश्यति । न रूपं नाम साश्रवम् इति समनुपश्यति । न रूपं नामानाश्रवम् इति समनुपश्यति । न रूपं नाम संक्लेशम् इति समनुपश्यति । न रूपं नाम निःक्लेशम् इति समनुपश्यति । न रूपं नाम लौकिकम् इति समनुपश्यति । न रूपं नाम लोकोत्तरम् इति समनुपश्यति । न रूपं नाम संसार इति समनुपश्यति । न रूपं नाम निर्वाणम् इति समनुपश्यति ।
न वेदनां नाम नित्येति समनुपश्यति । न वेदनां नामानित्येति समनुपश्यति । न वेदनां नाम सुखेति समनुपश्यति । न वेदनां नाम दुःखेति समनुपश्यति । न वेदनां नामात्मेति समनुपश्यति । न वेदनां नामानात्मेति समनुपश्यति । न वेदनां नाम शान्तेति समनुपश्यति । न वेदनां नामाशान्तेति समनुपश्यति । न वेदनां नाम शून्येति समनुपश्यति । न वेदनां नामाशून्येति समनुपश्यति । न वेदनां नाम निमित्तेति समनुपश्यति । न वेदनां नामानिमित्तेति समनुपश्यति । न वेदनां नाम प्रणिहितम् इति समनुपश्यति । न वेदनां नामाप्रणिहितम् इति समनुपश्यति । न वेदनां नाम संस्कृतम् इति समनुपश्यति । न वेदनां नामासंस्कृतम् इति समनुपश्यति । न वेदनां नाम संक्लेशम् इति समनुपश्यति । न वेदनां नाम व्यवदानम् इति समनुपश्यति । न वेदनां नामोत्पाद इति समनुपश्यति । न वेदनां नाम निरोध इति समनुपश्यति । न वेदनां नाम विविक्तेति समनुपश्यति । न वेदना नामाविविक्तेति समनुपश्यति । न वेदनां नाम कुशलेति समनुपश्यति । न वेदनां नामाकुशलेति समनुपश्यति । न वेदनां नाम सावद्येति समनुपश्यति । न वेदनां नामानवद्येति समनुपश्यति । न वेदनां नामसाश्रवेति समनुपश्यति । न वेदनां नामानाश्रवेति समनुपश्यति । न वेदनां नाम संक्लेशेति समनुपश्यति । न वेदनां नाम निःक्लेशेति समनुपश्यति । न वेदना नाम लौकिकेति समनुपश्यति । न वेदनां नाम लोकोत्तरेति समनुपश्यति । न वेदनां नाम संसार इति समनुपश्यति । न वेदनां नाम निर्वाण इति समनुपश्यति ।
न संज्ञां नाम नित्येति समनुपश्यति । न संज्ञां नामानित्येति समनुपश्यति । न संज्ञां नाम सुखम् इति समनुपश्यति । न संज्ञां नाम दुःखम् इति समनुपश्यति । न संज्ञां नामात्मेति समनुपश्यति । न संज्ञां नामानात्मेति समनुपश्यति । न संज्ञां नाम शान्तम् इति समनुपश्यति । न संज्ञां नामाशान्तम् इति समनुपश्यति । न संज्ञां नाम शून्येति समनुपश्यति । न संज्ञां नामाशून्येति समनुपश्यति । न संज्ञां नाम निमित्तम् इति समनुपश्यति । न संज्ञां नामानिमित्तम् इति समनुपश्यति । न संज्ञां नाम प्रणिहितम् इति समनुपश्यति । न संज्ञां नामाप्रणिहितम् इति समनुपश्यति । न संज्ञा नामा संस्कृतम् इति समनुपश्यति । न संज्ञां नामासंस्कृतम् इति समनुपश्यति । न संज्ञां नामोत्पाद इति समनुपश्यति । न संज्ञां नाम निरोध इति समनुपश्यति । न संज्ञां नाम संक्लेश इति समनुपश्यति । न संज्ञां नाम व्यवदानम् इति समनुपश्यति । न संज्ञां नाम विविक्तम् इति समनुपश्यति । न संज्ञां नामाविविक्तम् इति समनुपश्यति । न संज्ञा नाम कुशलेति समनुपश्यति । न संज्ञां नामाकुशलेति समनुपश्यति । न संज्ञां नाम सावद्येति समनुपश्यति । न संज्ञां नामानवद्येति समनुपश्यति । न संज्ञां नाम साश्रवेति समनुपश्यति । न संज्ञां नामानाश्रवेति समनुपश्यति । न संज्ञां नाम संक्लेश इति समनुपश्यति । न संज्ञां नाम निःक्लेशेति समनुपश्यति । न संज्ञां नाम लौकिकम् इति समनुपश्यति । न संज्ञां नाम लोकोत्तरेति समनुपश्यति । न संज्ञां नाम संसार इति समनुपश्यति । न संज्ञां नाम निर्वाणम् इति समनुपश्यति ।
न संस्कारा नाम नित्या इति समनुपश्यति । न संस्कारा नामानित्या इति समनुपश्यति । न संष्कारा नाम सुखा इति समनुपश्यति । न संस्कारा नाम दुःखा इति समनुपश्यति । न संस्कारा नामात्मान इति समनुपश्यति । न संस्कारा नामानत्मान इति समनुपश्यति । न संस्कारा नाम शान्ता इति समनुपश्यति । न संस्कारा नामाशान्ता इति समनुपश्यति । न संस्कारा नाम शून्या इति समनुपश्यति । न संस्कारा नामाशून्या इति समनुपश्यति । न संस्कारा नाम निमित्ता इति समनुपश्यति । न संस्कारा नामानिमित्ता इति समनुपश्यति । न संस्कारा नाम प्रणिहिता इति समनुपश्यति । न संस्कारा नामाप्रणिहिता इति समनुपश्यति । न संस्कारा नाम संस्कृता इति समनुपश्यति । न संस्कारा नामासंस्कृता इति समनुपश्यति । न संस्कारा नामोत्पादा इति समनुपश्यति । न संस्कारा नाम निरोधा इति समनुपश्यति । च संस्कारा नाम संक्लेशा इति समनुपश्यति । न संस्कारा नाम व्यवदाना इति समनुपश्यति । न संस्कारा नाम विविक्ता इति समनुपश्यति । न संस्कारा नामाविविक्ता इति समनुपश्यति । न संस्कारा नाम कुशला इति समनुपश्यति । न संस्कारा नामाकुशला इति समनुपश्यति । न संस्कारा नाम सावद्या इति समनुपश्यति । न संस्कारा नाम निरवद्या इति समनुपश्यति । न संस्कारा नाम साश्रवा इति समनुपश्यति । न संस्कारा नामानाश्रवा इति समनुपश्यति । न संस्कारा नाम संक्लेशा इति समनुपश्यति । न संस्कारा नाम निःक्लेशा इति समनुपश्यति । न संस्कारा नाम लौकिका इति समनुपश्यति । न संस्कारा नाम लोकोत्तरा इति समनुपश्यति । न संस्कारा नाम संसार इति समनुपश्यति । न संस्कारा नाम निर्वाणम् इति समनुपश्यति ।
न विज्ञानं नाम नित्यम् इति समनुपश्यति । न विज्ञानं नामानित्यम् इति समनुपश्यति । न विज्ञानं नाम सुखम् इति समनुपश्यति । न विज्ञानं नाम दुःखम् इति समनुपश्यति । न विज्ञानं नामात्मेति समनुपश्यति । न विज्ञानं नामानात्मेति समनुपश्यति । न विज्ञानं नाम शान्तम् इति समनुपश्यति । न विज्ञानं नामाशान्तम् इति समनुपश्यति । न विज्ञानं नाम शून्यम् इति समनुपश्यति । न विज्ञानं नामाशून्यम् इति समनुपश्यति । न विज्ञानं नाम निमित्तम् इति समनुपश्यति । न विज्ञानं नामानिमित्तम् इति समनुपश्यति । न विज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न विज्ञानां नामाप्रणिहितम् इति समनुपश्यति । न विज्ञानं नाम संस्कृतम् इति समनुपश्यति । न विज्ञानं नामासंस्कृतम् इति समनुपश्यति । न विज्ञानं नामोत्पाद इति समनुपश्यति । न विज्ञानं नाम निरोध इति समनुपश्यति । न विज्ञानं नाम संक्लेश इति समनुपश्यति । न विज्ञानं नाम व्यवदानम् इति समनुपश्यति । न विज्ञानं नाम विविक्तम् इति समनुपश्यति । न विज्ञानं नामाविविक्तम् इति समनुपश्यति । न विज्ञानं नाम कुशलम् इति समनुपश्यति । न विज्ञानं नामाकुशलम् इति समनुपश्यति । न विज्ञानं नाम सावद्यम् इति समनुपश्यति । न विज्ञानं नाम निरवद्यम् इति समनुपश्यति । न विज्ञानं नाम साश्रवम् इति समनुपश्यति । न विज्ञानं नामानाश्रवम् इति समनुपश्यति । न विज्ञानं नाम संक्लेश इति समनुपश्यति । न विज्ञानं नाम निःक्लेश इति समनुपश्यति । न विज्ञानं नाम लौकिकम् इति समनुपश्यति । न विज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न विज्ञानं नाम संसार इति समनुपश्यति । न विज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न चक्षुर् नाम नित्यम् इति समनुपश्यति । न चक्षुर् नामानित्यम् इति समनुपश्यति । न चक्षुर् नाम सुखम् इति समनुपश्यति । न चक्षुर् नाम दुःखम् इति समनुपश्यति । न चक्षुर् नामात्मेति समनुपश्यति । न चक्षुर् नामानात्मेति समनुपश्यति । न चक्षुर् नाम शान्तम् इति समनुपश्यति । न चक्षुर् नामाशान्तम् इति समनुपश्यति । न चक्षुर् नाम शून्यम् इति समनुपश्यति । न चक्षुर् नामाशून्यम् इति समनुपश्यति । न चक्षुर् नाम निमित्तम् इति समनुपश्यति । न चक्षुर् नामानिमित्तम् इति समनुपश्यति । न चक्षुर् नाम प्रणिहितम् इति समनुपश्यति । न चक्षुर् नामाप्रणिहितम् इति समनुपश्यति । न चक्षुर् नाम संस्कृतम् इति समनुपश्यति । न चक्षुर् नामासंस्कृतम् इति समनुपश्यति । न चक्षुर् नामोत्पाद इति समनुपश्यति । न चक्षुर् नाम निरोध इति समनुपश्यति । न चक्षुर् नाम संक्लेशम् इति समनुपश्यति । न चक्षुर् नाम व्यवदानम् इति समनुपश्यति । न चक्षुर् नाम विविक्तम् इति समनुपश्यति । न चक्षुर् नामाविविक्तम् इति समनुपश्यति । न चक्षुर् नाम कुशलम् इति समनुपश्यति । न चक्षुर् नामाकुशलम् इति समनुपश्यति । न चक्षुर् नाम सावद्यम् इति समनुपश्यति । न चक्षुर् नाम निरवद्यम् इति समनुपश्यति । न चक्षुर् नाम साश्रवम् इति समनुपश्यति । न चक्षुर् नामानाश्रवम् इति समनुपश्यति । न चक्षुर् नाम संक्लेशम् इति समनुपश्यति । न चक्षुर् नाम निःक्लेशम् इति समनुपश्यति । न चक्षुर् नाम लौकिकम् इति समनुपश्यति । न चक्षुर् नाम लोकोत्तरम् इति समनुपश्यति । न चक्षुर् नाम संसार इति समनुपश्यति । न चक्षुर् नाम निर्वाणम् इति समनुपश्यति ।
न रूपं नाम नित्यम् इति समनुपश्यति । न रूपं नामानित्यम् इति समनुपश्यति । न रूपं नाम सुखम् इति समनुपश्यति । न रूपं नाम दुःखम् इति समनुपश्यति । न रूपं नामात्मेति समनुपश्यति । न रूपं नामानात्मेति समनुपश्यति । न रूपं नाम शान्तम् इति समनुपश्यति । न रूपं नामाशान्तम् इति समनुपश्यति । न रूपं नाम शून्यम् इति समनुपश्यति । न रूपं नामाशून्यम् इति समनुपश्यति । न रूपं नाम निमित्तम् इति समनुपश्यति । न रूपं नामानिमित्तम् इति समनुपश्यति । न रूपं नाम प्रणिहितम् इति समनुपश्यति । न रूपं नामाप्रणिहितम् इति समनुपश्यति । न रूपं नाम संस्कृतम् इति समनुपश्यति । न रूपं नामासंस्कृतम् इति समनुपश्यति । न रूपं नामोत्पाद इति समनुपश्यति । न रूपं नाम निरोध इति समनुपश्यति । न रूपं नाम संक्लेशम् इति समनुपश्यति । न रूपं नाम व्यवदानम् इति समनुपश्यति । न रूपं नाम विविक्तम् इति समनुपश्यति । न रूपं नामाविविक्तम् इति समनुपश्यति । न रूपं नाम कुशलम् इति समनुपश्यति । न रूपं नामाकुशलम् इति समनुपश्यति । न रूपं नाम सावद्यम् इति समनुपश्यति । न रूपं नामानवद्यम् इति समनुपश्यति । न रूपं नाम साश्रवम् इति समनुपश्यति । न रूपं नामानाश्रवम् इति समनुपश्यति । न रूपं नाम संक्लेश इति समनुपश्यति । न रूपं नाम निःक्लेश इति समनुपश्यति । न रूपं नाम लौकिकम् इति समनुपश्यति । च रूपं नाम लोकोत्तरम् इति समनुपश्यति । न रूपं नाम संसार इति समनुपश्यति । न रूपं नाम निर्वाणम् इति समनुपश्यति ।
न चक्षुर्विज्ञानं नाम नित्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामानित्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम सुखम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम दुःखम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामात्मेति समनुपश्यति । न चक्षुर्विज्ञानं नामानात्मेति समनुपश्यति । न चक्षुर्विज्ञानं नाम शान्तम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामाशान्तम् इति समनुपष्यति । न चक्षुर्विज्ञानं नाम शून्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामाशून्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम निमित्तम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामानिमित्तम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम संस्कृतम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामासंस्कृतम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम संक्लेशम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम व्यवदानम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामोत्पाद इति समनुपश्यति । न चक्षुर्विज्ञानं नाम निरोध इति समनुपश्यति । न चक्षुर्विज्ञानं नाम विविक्तम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामाविविक्तम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम कुशलम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामाकुशलम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम सावद्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामानवद्यम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम साश्रवम् इति समनुपश्यति । न चक्षुर्विज्ञानं नामानाश्रवम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम संक्लेश इति समनुपश्यति । न चक्षुर्विज्ञानं नाम निःक्लेश इति समनुपश्यति । न चक्षुर्विज्ञानं नाम लौकिकम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न चक्षुर्विज्ञानं नाम संसार इति समनुपश्यति । न चक्षुर्विज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न चक्षुःसंस्पर्शो नाम नित्य इति समनुपश्यति । न चक्षुःसंस्पर्शो नामानित्य इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम सुखम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम दुःखम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामात्मेति समनुपश्यति । न चक्षुःसंस्पर्शो नामानात्मेति समनुपश्यति । न चक्षुःसंस्पर्शो नाम शान्तम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामाशान्तम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम शून्यम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामाशून्यम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम निमित्त इति समनुपश्यति । न चक्षुःसंस्पर्शो नामानिमित्त इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम प्रणिहितम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामाप्रणिहितम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम संस्कृतम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामासंस्कृतम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम संक्लेश इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामोत्पाद इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम निरोध इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम विविक्त इति समनुपश्यति । न चक्षुःसंस्पर्शो नामाविविक्तम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम कुशल इति समनुपश्यति । न चक्षुःसंस्पर्शो नामाकुशल इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम सावद्यम् इति समनुपश्यति । न चक्षुःसंस्पर्शो नामानवद्य इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम साश्रव इति समनुश्यति । न चक्षुःसंस्पर्शो नामानाश्रव इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम संक्लेश इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम निःक्लेश इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम लौकिक इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम संसार इति समनुपश्यति । न चक्षुःसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि तच् चक्षूरूपचक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । न सुखम् इति समनुपश्यति । न दुःखम् इति समनुपश्यति । नात्मेति समनुपश्यति । नानात्मेति समनुपश्यति । न शान्तम् इति समनुपश्यति । नाशान्तम् इति समनुपश्यति । न शून्यम् इति समनुपश्यति । नाशून्यम् इति समनुपश्यति । न निमित्तम् इति समनुपश्यति । नानिमित्तम् इति समनुपश्यति । न प्रणिहितम् इति समनुपश्यति । नाप्रणिहितम् इति समनुपश्यति । न संस्कृतम् इति समनुपश्यति । नासंस्कृतम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न व्यवदानम् इति समनुपश्यति । नोत्पाद इति समनुपश्यति । न निरोध इति समनुपश्यति । न विविक्तम् इति समनुपश्यति । नाविविक्तम् इति समनुपश्यति । न कुशलम् इति समनुपश्यति । नाकुशलम् इति समनुपश्यति । न सावद्यम् इति समनुपश्यति । नानवद्यम् इति समनुपश्यति । न साश्रवम् इति समनुपश्यति । नानाश्रवम् इति समनुपश्यति । न संक्लेश इति समनुपश्यति । न निःक्लेश इति समनुपश्यति । न लौकिकम् इति समनुपश्यति । न लोकोत्तरम् इति समनुपश्यति । न संसार इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
न श्रोत्रं नाम नित्यम् इति समनुपश्यति । न श्रोत्रं नामानित्यम् इति समनुपश्यति । न श्रोत्रं नाम सुखम् इति समनुपश्यति । न श्रोत्रं नाम दुःखम् इति समनुपश्यति । न श्रोत्रं नामात्मेति समनुपश्यति । न श्रोत्रं नामानात्मेति समनुपश्यति । न श्रोत्रं नाम शान्तम् इति समनुपश्यति । न श्रोत्रं नामाशान्तम् इति समनुपश्यति । न श्रोत्रं नाम शून्यम् इति समनुपश्यति । न श्रोत्रं नामाशून्यम् इति समनुपश्यति । न श्रोत्रं नाम निमित्तम् इति समनुपश्यति । न श्रोत्रं नामानिमित्तम् इति समनुपश्यति । न श्रोत्रं नाम प्रणिहितम् इति समनुपश्यति । न श्रोत्रं नामाप्रणिहितम् इति समनुपश्यति । न श्रोत्रं नाम संस्कृतम् इति समनुपश्यति । न श्रोत्रं नामासंस्कृतम् इति समनुपश्यति । न श्रोत्रं नाम संक्लेशम् इति समनुपश्यति । न श्रोत्रं नाम व्यवदानम् इति समनुपश्यति । न श्रोत्रं नामोत्पाद इति समनुपश्यति । न श्रोत्रं नाम निरोध इति समनुपश्यति । न श्रोत्रं नाम विविक्तम् इति समनुपश्यति । न श्रोत्रं नामाविविक्तम् इति समनुपश्यति । न श्रोत्रं नाम कुशलम् इति समनुपश्यति । न श्रोत्रं नामाकुशलम् इति समनुपश्यति । न श्रोत्रं नाम सावद्यम् इति समनुपश्यति । न श्रोत्रं नामानवद्यम् इति समनुपश्यति । न श्रोत्रं नाम साश्रवम् इति समनुपश्यति । न श्रोत्रं नामानाश्रवम् इति समनुपश्यति । न श्रोत्रं नाम संक्लेश इति समनुपश्यति । न श्रोत्रं नाम निःक्लेश इति समनुपश्यति । न श्रोत्रं नाम लौकिकम् इति समनुपश्यति । न श्रोत्रं नाम लोकोत्तरम् इति समनुपश्यति । न श्रोत्रं नाम संसार इति समनुपश्यति । न श्रोत्रं नाम निर्वाणम् इति समनुपश्यति ।
न शब्दो नाम नित्य इति समनुपश्यति । न शब्दो नामानित्य इति समनुपश्यति । न शब्दो नाम सुखम् इति समनुपश्यति । न शब्दो नाम दुःखम् इति समनुपश्यति । न शब्दो नामात्मेति समनुपश्यति । न शब्दो नामानात्मेति समनुपश्यति । न शब्दो नाम शान्तम् इति समनुपश्यति । न शब्दो नामाशान्तम् इति समनुपश्यति । न शब्दो नाम शून्यम् इति समनुपश्यति । न शब्दो नामाशून्यम् इति समनुपश्यति । न शब्दो नाम निमित्तम् इति समनुपश्यति । न शब्दो नामानिमित्तम् इति समनुपश्यति । न शब्दो नाम प्रणिहितम् इति समनुपश्यति । न शब्दो नामाप्रणिहितम् इति समनुपश्यति । न शब्दो नाम संस्कृतम् इति समनुपश्यति । न शब्दो मामासंस्कृतम् इति समनुपश्यति । न शब्दो नाम संक्लेश इति समनुपश्यति । न शब्दो नाम व्यवदानम् इति समनुपश्यति । न शब्दो नामोत्पाद इति समनुपश्यति । न शब्दो नाम निरोध इति समनुपश्यति । न शब्दो नाम विविक्त इति समनुपश्यति । न शब्दो नामाविविक्त इति समनुपश्यति । न शब्दो नाम कुशल इति समनुपश्यति । न शब्दो नामाकुशल इति समनुपश्यति । न शब्दो नाम सावद्यम् इति समनुपश्यति । न शब्दो नामानवद्यम् इति समनुपश्यति । न शब्दो नाम साश्रवम् इति समनुपश्यति । न शब्दो नामानाश्रवम् इति समनुपश्यति । न शब्दो नाम संक्लेश इति समनुपश्यति । न शब्दो नाम निःक्लेश इति समनुपश्यति । न शब्दो नाम लौकिकम् इति समनुपश्यति । न शब्दो नाम लोकोत्तरम् इति समनुपश्यति । न शब्दो नाम संसार इति समनुपश्यति । न शब्दो नाम निर्वाणम् इति समनुपश्यति ।
न श्रोत्रविज्ञानं नाम नित्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामानित्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम सुखम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम दुःखम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामात्मेति समनुपश्यति । न श्रोत्रविज्ञानं नामानात्मेति समनुपश्यति । न श्रोत्रविज्ञानं नाम शान्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामाशान्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम शून्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामाशून्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम निमित्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामानिमित्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम संस्कृतम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामासंस्कृतम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम व्यवदानम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामोत्पाद इति समनुपश्यति । न श्रोत्रविज्ञानं नाम निरोध इति समनुपश्यति । न श्रोत्रविज्ञानं नाम विविक्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामाविविक्तम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम कुशलम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामाकुशलम् इति समनुपश्यति । न श्रोत्रविज्ञान नाम सावद्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नामानवद्यम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम साश्रव इति समनुपश्यति । न श्रोत्रविज्ञानं नामानाश्रव इति समनुपश्यति । न श्रोत्रविज्ञानं नाम संक्लेश इति समनुपश्यति । न श्रोत्रविज्ञानं नाम निःक्लेश इति समनुपश्यति । न श्रोत्रविज्ञानं नाम लौकिकम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न श्रोत्रविज्ञानं नाम संसार इति समनुपश्यति । न श्रोत्रविज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न श्रोत्रसंस्पर्शो नाम नित्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामानित्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम सुख इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम दुःख इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामात्मेति समनुपश्यति । न श्रोत्रसंस्पर्शो नामानात्मेति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम शून्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामाशून्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम निमित्तम् इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामानिमित्तम् इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम प्रणिहित इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामाप्रणिहित इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम संस्कृत इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामासंस्कृत इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम संक्लेश इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामोत्पाद इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम निरोध इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम विविक्त इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामाविविक्त इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम कुशल इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामाकुशल इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम सावद्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामानवद्य इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम साश्रव इति समनुपश्यति । न श्रोत्रसंस्पर्शो नामानाश्रव इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम संक्लेश इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम निःक्लेश इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम लौकिक इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम संसार इति समनुपश्यति । न श्रोत्रसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि तच् छ्रोत्रशब्दश्रोत्रविज्ञानश्रोत्रसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । न सुखम् इति समनुपश्यति । न दुःखम् इति समनुपश्यति । नात्मेति समनुपश्यति । नानात्मेति समनुपश्यति । न शान्तम् इति समनुपश्यति । नाशान्तम् इति समनुपश्यति । न शून्यम् इति समनुपश्यति । नाशून्यम् इति समनुपश्यति । न निमित्तम् इति समनुपश्यपति । नानिमित्तम् इति समनुपश्यति । न प्रणिहितम् इति समनुपश्यति । नाप्रणिहितम् इति समनुपश्यति । न संस्कृतम् इति समनुपश्यति । नासंस्कृतम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न व्यवदानम् इति समनुपश्यति । नोत्पाद इति समनुपश्यति । न निरोध इति समनुपश्यति । न विविक्तम् इति समनुपश्यति । नाविविक्तम् इति समनुपश्यति । न कुशलम् इति समनुपश्यति । नाकुशलम् इति समनुपश्यति । न सावद्यम् इति समनुपश्यति । नानवद्यम् इति समनुपश्यति । न साश्रावम् इति समनुपश्यति । नानाश्रवम् इति समनुपश्यति । न संक्लेश इति समनुपश्यति । न निःक्लेश इति समनुपश्यति । न लौकिकम् इति समनुपश्यति । न लोकोत्तरम् इति समनुपश्यति । न संसार इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
न घ्राणं नाम नित्यम् इति समनुपश्यति । न घ्राणं नामानित्यम् इति समनुपश्मति । न घ्राणं नाम सुखम् इति समनुपश्यति । न घ्राणं नाम दुःखम् इति समनुपश्यति । न घ्राणं नामात्मेति समनुपश्यति । न घ्राणं नामानात्मेति समनुपश्यति । न घ्राणं नाम शून्यम् इति समनुपश्यति । न घ्राणं नामाशून्यम् इति समनुपश्यति । न घ्राणं नाम निमित्तम् इति समनुपश्यति । न घ्राणं नामानिमित्तम् इति समनुपश्यति । न घ्राणं नाम प्रणिहितम् इति समनुपश्यति । न घ्राणं नामाप्रणिहितम् इति समनुपश्यति । न घ्राणं नाम संस्कृतम् इति समनुपश्यति । न घ्राणं नामासंस्कृतम् इति समनुपश्यति । न घ्राणं नाम संक्लेश इति समनुपश्यति । न घ्राणं नाम व्यवदानम् इति समनुपश्यति । न घ्राणं नामोत्पाद इति समनुपश्यति । न घ्राणं नाम निरोध इति समनुपश्यति । न घ्राणं नाम विविक्तम् इति समनुपश्यति । न घ्राणं नामाविविक्तम् इति समनुपश्यति । न घ्राणं नाम कुशलम् इति समनुपश्यति । न घ्राणं नामाकुशलम् इति समनुपश्यति । न घ्राणं नाम सावद्यम् इति समनुपश्यति । न घ्राणं नामानवद्यम् इति समनुपश्यति । न घ्राण नाम साश्रवम् इति समनुपश्यति । न घ्राणं नामानाश्रवम् इति समनुपश्यति । न घ्राणं नाम संक्लेश इति समनुपश्यति । न घ्राणं नाम निःक्लेश इति समनुपश्यति । न घ्राणं नाम लौकिकम् इति समनुपश्यति । न घ्राणं नाम लोकोत्तरम् इति समनुपश्यति । न घ्राणं नाम संसार इति समनुपश्यति । न घ्राणं नाम निर्वाणम् इति समनुपश्यति ।
न गन्धो नाम नित्य इति समनुपश्यति । न गन्धो नामानित्यम् इति समनुपश्यति । न गन्धो नाम सुखम् इति समनुपश्यति । न गन्धो नाम दुःखम् इति समनुपश्यति । न गन्धो नामात्मेति समनुपश्यति । न गन्धो नामानात्मेति समनुपश्यति । न गन्धो नाम शान्त इति समनुपश्यति । न गन्धो नामाशान्त इति समनुपश्यति । न गन्धो नाम शून्य इति समनुपश्यति । न गन्धो नामाशून्य इति समनुपश्यति । न गन्धो नाम निमित्त इति समनुपश्यति । न गन्धो नामानिमित्त इति समनुपश्यति । न गन्धो नाम प्रणिहितम् इति समनुपश्यति । न गन्धो नामाप्रणिहितम् इति समनुपश्यति । न गन्धो नाम संस्कृतम् इति समनुपश्यति । न गन्धो नामासंस्कृतम् इति समनुपश्यति । न गन्धो नाम संक्लेश इति समनुपश्यति । न गन्धो नाम व्यवदानम् इति समनुपश्यति । न गन्धो नामोत्पाद इति समनुपश्यति । न गन्धो नाम निरोध इति समनुपश्यति । न गन्धो नाम विविक्त इति समनुपश्यति । न गन्धो नामाविविक्त इति समनुपश्यति । न गन्धो नाम कुशलम् इति समनुपश्यति । न गन्धो नामाकुशलम् इति समनुपश्यति । न गन्धो नाम सावद्यम् इति समनुपश्यति । न गन्धो नामानवद्यम् इति समनुपश्यति । न गन्धो नाम साश्रव इति समनुपश्यति । न गन्धो नामानाश्रव इति समनुपश्यति । न गन्धो नाम संक्लेश इति समनुपश्यति । न गन्धो नाम निःक्लेश इति समनुपश्यति । न गन्धो नाम लौकिक इति समनुपश्यति । न गन्धो नाम लोकोत्तर इति समनुपश्यति । न गन्धो नाम संसार इति समनुपश्यति । न गन्धो नाम निर्वाणम् इति समनुपश्यति ।
न घ्राणविज्ञानं नित्यम् इति समनुपश्यति । न घ्राणविज्ञानम् अनित्यम् इति समनुपश्यति । न घ्राणविज्ञानं नाम सुखम् इति समनुपश्यति । न घ्राणविज्ञानं नाम दुःखम् इति समनुपश्यति । न घ्राणविज्ञानं नामात्मेति समनुपश्यति । न घ्राणविज्ञानं नामानात्मेति समनुपश्यति । न घ्राणविज्ञानं नाम शान्तम् इति समनुपश्यति । न घ्राणविज्ञानं नामाशान्तम् इति समनुपश्यति । न घ्राणविज्ञानं नाम शून्यम् इति समनुपश्यति । न घ्राणविज्ञानं नामाशून्यम् इति समनुपश्यति । न घ्राणविज्ञानं नाम निमित्तम् इति समनुपश्यति । न घ्राणविज्ञानं नामानिमित्तम् इति समनुपश्यति । न घ्राणविज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न घ्राणविज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न घ्राणविज्ञानं नाम संस्कृतम् इति समनुपश्यति । न घ्राणविज्ञानं नामासंस्कृतम् इति समनुपश्यति । न घ्राणविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न घ्राणविज्ञानं नाम व्यवदानम् इति समनुपश्यति । न घ्राणविज्ञानं नामोत्पाद इति समनुपश्यति । न घ्राणविज्ञानं नाम निरोध इति समनुपश्यति । न घ्राणविज्ञानं नाम विविक्तम् इति समनुपश्यति । न घ्राणविज्ञानं नामाविविक्तम् इति समनुपश्यति । न घ्राणविज्ञानं नाम कुशलम् इति समनुपश्यति । न घ्राणविज्ञानं नामाकुशलम् इति समनुपश्यति । न घ्राणविज्ञानं नाम सावद्यम् इति समनुपश्यति । न घ्राणविज्ञानं नामानवद्यम् इति समनुपश्यति । न घ्राणविज्ञानं नाम साश्रवम् इति समनुपश्यति । न घ्राणविज्ञानं नामानाश्रवम् इति समनुपश्यति । न घ्राणविज्ञानं नाम संक्लेश इति समनुपश्यति । न घ्राणविज्ञानं नाम निःक्लेश इति समनुपश्यति । न घ्राणविज्ञानं नाम लौकिकम् इति समनुपश्यति । न घ्राणविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न घ्राणविज्ञानं नाम संसार इति समनुपश्यति । न घ्राणविज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न घ्राणसंस्पर्शो नाम नित्य इति समनुपश्यति । न घ्राणसंस्पर्शो नामानित्य इति समनुपश्यति । न घ्राणसंस्पर्शो नाम सुखम् इति समनुपश्यति । न घ्राणसंस्पर्शो नाम दुःखम् इति समनुपश्यति । न घ्राणसंस्पर्शो नामात्मेति समनुपश्यति । न घ्राणसंस्पर्शो नामानात्मेति समनुपश्यति । न घ्राणसंस्पर्शो नाम शान्त इति समनुपश्यति । न घ्राणसंस्पर्शो नामाशान्त इति समनुपश्यति । न घ्राणसंस्पर्शो नाम शून्य इति समनुपश्यति । न घ्राणसंस्पर्शो नामाशून्य इति समनुपश्यति । न घ्राणसंस्पर्शो नाम निमित्त इति समनुपश्यति । न घ्राणसंस्पर्शो नामानिमित्त इति समनुपश्यति । न घ्राणसंस्पर्शो नाम प्रणिहित इति समनुपश्यति । न घ्राणसंस्पर्शो नामाप्रणिहित इति समनुपश्यति । न घ्राणसंस्पर्शो नाम संस्कृत इति समनुपश्यति । न घ्राणसंस्पर्शो नामासंस्कृत इति समनुपश्यति । न घ्राणसंस्पर्शो नाम संक्लेश इति समनुपश्यति । न घ्राणसंस्पर्शो नाम व्यवदानम् इति समनुपश्यति । न घ्राणसंस्पर्शो नामोत्पाद इति समनुपश्यति । न घ्राणसंस्पर्शो नाम निरोध इति समनुपश्यति । न घ्राणसंस्पर्शो नाम विविक्त इति समनुपश्यति । न घ्राणसंस्पर्शो नामाविविक्त इति समनुपश्यति । न घ्राणसंस्पर्शो नाम कुशल इति समनुपश्यति । न घ्राणसंस्पर्शो नामाकुशल इति समनुपश्यति । न घ्राणसंस्पर्शो नाम सावद्य इति समनुपश्यति । न घ्राणसंस्पर्शो नामानवद्य इति समनुपश्यति । न घ्राणसंस्पर्शो नाम साश्रव इति समनुपश्यति । न घ्राणसंस्पर्शो नामानाश्रव इति समनुपश्यति । न घ्राणस ं पर्शो नाम संक्लेश इति समनुपश्यति । न घ्राणसंस्पर्शो नाम निःक्लेश इति समनुपश्यति । न घ्राणसंस्पर्शो नाम लौकिक इति समनुपश्यति । न घ्राणसंस्पर्शो नाम लोकोत्तर इति समनुपश्यति । न घ्राणसंस्पर्शो नाम संसार इति समनुपश्यति । न घ्राणसंस्पर्शो नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि तद्घ्राणगन्धघ्राणविज्ञानघ्राणसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । न सुखम् इति समनुपश्यति । न दुःखम् इति समनुपश्यति । नात्मेति समनुपश्यति । नानात्मेति समनुपश्यति । न शान्त इति समनुपश्यति । नाशान्त इति समनुपश्यति । न शून्य इति समनुपश्यति । नाशून्य इति समनुपश्यति । न निमित्त इति समनुपश्यति । नानिमित्त इति समनुपश्यति । न प्रणिहित इति समनुपश्यति । नाप्रणिहित इति समनुपश्यति । न संस्कृत इति समनुपश्यति । नासंस्कृत समनुपश्यति । न संक्लेश इति समनुश्यति । न व्यवदानम् इति समनुपश्यति । नोत्पाद इति समनुपश्यति । न निरोध इति समनुपश्यति । न विविक्त इति समनुपश्यति । नाविविक्त इति समनुपश्यति । न कुशल इति समनुपश्यति । नाकुशल इति समनुपश्यति । न सावद्य इति समनुपश्यति । नानवद्य इति समनुपश्यति । न साश्रव इति समनुपश्यति । नानाश्रव इति समनुपश्यति । न संक्लेश इति समनुपश्यति । न निःक्लेश इति समनुपश्यति । न लौकिक इति समनुपश्यति । न लोकोत्तर इति समनुपश्यति । न संसार इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
न जिह्वां नाम नित्येति समनुपश्यति । न जिह्वां नामानित्येति समनुपश्यति । न जिह्वां नाम सुखेति समनुपश्यति । न जिह्वां नाम दुःखेति समनुपश्यति । न जिह्वां नामात्मेति समनुपश्यति । न जिह्वां नामानात्मेति समनुपश्यति । न जिह्वां नाम शान्तेति समनुपश्यति । न जिह्वा नामाशन्तेति समनुपश्यति । न जिह्वां नाम शून्येति समनुपश्यति । न जिह्वां नामाशून्येति समनुपश्यति । न जिह्वां नाम निमित्तेति समनुपश्यति । न जिह्वां नामानिमित्तेति समनुपश्यति । न जिह्वां नाम प्रणिहितेति समनुपश्यति । न जिह्वां नामाप्रणिहितेति समनुपश्यति । न जिह्वां नाम संस्कृतेति समनुपश्यति । न जिह्वां नामासंस्कृतेति समनुपश्यति । न जिह्वां नाम संक्लेश इति समनुपश्यति । न जिह्वां नाम व्यवदानेति समनुपश्यति । न जिह्वां नामोत्पाद इति समनुपश्यति । न जिह्वां नाम निरोध इति समनुपश्यति । न जिह्वां नाम विविक्तेति समनुपश्यति । न जिह्वां नामाविविक्तेति समनुपश्यति । न जिह्वां नाम कुशलेति समनुपश्यति । न जिह्वां नामाकुशलेति समनुपश्यति । न जिह्वां नाम सावद्येति समनुपश्यति । न जिह्वां नामानवद्येति समनुपश्यति । न जिह्वां नामसाश्रवेति समनुपश्यति । न जिह्वां नामानाश्रवेति समनुपश्यति । न जिह्वा नाम संक्लेश इति समनुपश्यति । न जिह्वां नाम निःक्लेश इति समनुपश्यति । न जिह्वा नाम लौकिकेति समनुपश्यति । न जिह्वां नाम लोकोत्तरेति समनुपश्यति । न जिह्वां नाम संसार इति समनुपश्यति । न जिह्वां नाम निर्वाणम् इति समनुपश्यति ।
न रसो नाम नित्य इति समनुपश्यति । न रसो नामानित्य इति समनुपश्यति । न रसो नाम सुख इति समनुपश्यति । न रसो नाम दुःख इति समनुपश्यति । न रसो नामात्मेति समनुपश्यति । न रसो नामानात्मेति समनुपश्यति । न रसो नाम शान्त इति समनुपश्यति । न रसो नामाशान्त इति समनुपश्यति । न रसो नाम शून्य इति समनुपश्यति । न रसो नामाशून्य इति समनुपश्यति । न रसो नाम निमित्त इति समनुपश्यति । न रसो नामानिमित्त इति समनुपश्यति । न रसो नाम प्रणिहित इति समनुपश्यति । न रसो नामाप्रणिहित इति समनुपश्यति । न रसो नाम संस्कृत इति समनुपश्यति । न रसो नामासंस्कृत इति समनुपश्यति । न रसो नाम संक्लेश इति समनुपश्यति । न रसो नाम व्यवदान इति समनुपश्यति । न रसो नामोत्पाद इति समनुपश्यति । न रसो नाम निरोध इति समनुपश्यति । न रसो नाम विविक्त इति समनुपश्यति । न रसो नामाविविक्त इति समनुपश्यति । न रसो नाम कुशल इति समनुपश्यति । न रसो नामाकुशल इति समनुपश्यति । न रसो नाम सावद्य इति समनुपश्यति । न रसो नामानवद्य इति समनुपश्यति । न रसो नाम साश्रव इति समनुपश्यति । न रसो नामानाश्रव इति समनुपश्यति । न रसो नाम संक्लेश इति समनुपश्यति । न रसो नाम निःक्लेश इति समनुपश्यति । न रसो नाम लौकिक इति समनुपश्यति । न रसो नाम लोकोत्तर इति समनुपश्यति । न रसो नाम संसार इति समनुपश्यति । न रसो नाम निर्वाणम् इति समनुपश्यति ।
न जिह्वाविज्ञानं नाम नित्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नामानित्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम सुखम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम दुःखम् इति समनुपश्यति । न जिह्वाविज्ञानं नामात्मेति समनुपश्यति । न जिह्वाविज्ञानं नामानात्मेति समनुपश्यति । न जिह्वाविज्ञानं नाम शान्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नामाशान्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम शून्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नामाशून्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम निमित्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नामानिमित्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न जिह्वाविज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम संस्कृतम् इति समनुपश्यति । न जिह्वाविज्ञानं नामासंस्कृतम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम संक्लेश इति समनुपश्यति । न जिह्वाविज्ञानं नाम व्यवदानम् इति समनुपश्यति । न जिह्वाविज्ञानं नामोत्पाद इति समनुपश्यति । न जिह्वाविज्ञानं नाम निरोध इति समनुपश्यति । न जिह्वाविज्ञानं नाम विविक्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नामाविविक्तम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम कुशलम् इति समनुपश्यति । न जिह्वाविज्ञानं नामाकुशलम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम सावद्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नामानवद्यम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम साश्रवम् इति समनुपश्यति । न जिह्वाविज्ञानं नामानाश्रवम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम संक्लेश इति समनुपश्यति । न जिह्वाविज्ञानं नाम निःक्लेश इति समनुपश्यति । न जिह्वाविज्ञानं नाम लौकिकम् इति समनुपश्यति । न जिह्वाविज्ञानं नाम लोकोत्तर इति समनुपश्यति । न जिह्वाविज्ञनं नाम संसार इति समनुपश्यति । न जिह्वाविज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न जिह्वासंस्पर्शो नाम नित्य इति समनुपश्यति । न जिह्वासंस्पर्शो नामानित्य इति समनुपश्यति । न जिह्वासंस्पर्शो नाम सुख इति समनुपश्यति । न जिह्वासंस्पर्शो नाम दुःख इति समनुपश्यति । न जिह्वासंस्पर्शो नामात्मेति समनुपश्यति । न जिह्वासंस्पर्शो नामानात्मेति समनुपश्यति । न जिह्वासंस्पर्शो नाम शान्त इति समनुपश्यति । न जिह्वासंस्पर्शो नामाशान्त इति समनुपश्यति । न जिह्वासंस्पर्शो नाम शून्य इति समनुपश्यति । न जिह्वासंस्पर्शो नामाशून्य इति समनुपश्यति । न जिह्वासंस्पर्शो नाम निमित्त इति समनुपश्यति । न जिह्वासंस्पर्शो नामानिमित्त इति समनुपश्यति । न जिह्वासंस्पर्शो नाम प्रणिहित इति समनुपशसति । न जिह्वासंस्पर्शो नामाप्रणिहित इति समनुपश्यति । न जिह्वासंस्पर्शो नाम संस्कृत इति समनुपश्यति । न जिह्वासंस्पर्शो नामासंस्कृत इति समनुपश्यति । न जिह्वासंस्पर्शो नाम संक्लेश इति समनुपश्यति । न जिह्वासंस्पर्शो नाम व्यवदानम् इति समनुपश्यति । न जिह्वासंस्पर्शो नामोत्पाद इति समनुपश्यति । न जिह्वासंस्पर्शो नाम निरोध इति समनुपश्यति । न जिह्वासंस्पर्शो नाम विविक्त इति समनुपश्यति । न जिह्वासंस्पर्शो नामाविविक्त इति समनुपश्यति । न जिह्वासंस्पर्शो नाम कुशल इति समनुपश्यति । न जिह्वासंस्पर्शो नामाकुशल इति समनुपश्यति । न जिह्वासंस्पर्शो नाम सावद्य इति समनुपश्यति । न जिह्वासंस्पर्शो नामानवद्य इति समनुपश्यति । न जिह्वासंस्पर्शो नाम साश्रव इति समनुपश्यति । न जिह्वासंस्पर्शो नामानाश्रव इति समनुपश्यति । न जिह्वासंस्पर्शो नाम संक्लेश इति समनुपश्यति । न जिह्वासंस्पर्शो नाम निःक्लेश इति समनुपश्यति । न जिह्वासंस्पर्शो नाम लौकिक इति समनुपश्यति । न जिह्वासंस्पर्शो नाम लोकोत्तर इति समनुपश्यति । न जिह्वासंस्पर्शो नाम संसार इति समनुपश्यति । न जिह्वासंस्पर्शो नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि जिह्वारसजिह्वाविज्ञानजिह्वासंस्पर्शाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । न सुखम् इति समनुपश्यति । न दुःखम् इति समनुपश्यति । नात्मेति समनुपश्यति । नानात्मेति समनुपश्यति । न शान्तम् इति समनुपश्यति । नाशान्तम् इति समनुपश्यति । न शून्यम् इति समनुपश्यति । नाशून्यम् इति समनुपश्यति । न निमित्तम् इति समनुपश्यति । नानिमित्तम् इति समनुपश्यति । न प्रणिहितम् इति समनुपश्यति । नाप्रणिहितम् इति समनुपश्यति । न संस्कृतम् इति समनुपश्यति । नासंस्कृतम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न व्यवदानाम् इति समनुपश्यति । नोत्पापद इति समनुपश्यति । न निरोध इति समनुपश्यति । न विविक्तम् इति समनुपश्यति । नाविविक्तम् इति समनुपश्यति । न कुशलम् इति समनुपश्यति । नाकुशलम् इति समनुपश्यति । न सावद्यम् इति समनुपश्यति । नानवद्यम् इति समनुपश्यति । न साश्रवम् इति समनुपश्यति । नानाश्रवम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न निःक्लेशम् इति समनुपश्यति । न लौकिकम् इति समनुपश्यति । न लोकोत्तरम् इति समनुपश्यति । न संसार इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
न कायं नाम नित्यम् इति समनुपश्यति । न कायं नामानित्यम् इति समनुपश्यति । न कायं नाम सुखम् इति समनुपश्यति । न कायं नाम दुःखम् इति समनुपश्यति । न कायं नामात्मेति समनुपश्यति । न कायं नामानात्मेति समनुपश्यति । न कायं नाम शान्तम् इति समनुपश्यति । न कायं नामाशान्तम् इति समनुपश्यति । न कायं नाम शून्यम् इति समनुपश्यति । न कायं नामाशून्यम् इति समनुपश्यति । न कायं नाम निमित्तम् इति समनुपश्यति । न कार्यं नामानिमित्तम् इति समनुपश्यति । न कायं नाम प्रणिहितम् इति समनुपश्यति । न कायं नामाप्रणिहितम् इति समनुपश्यति । न कायं नाम संस्कृतम् इति समनुपश्यति । न कायं नामासंस्कृतम् इति समनुपश्यति । न कायं नाम संक्लेशम् इति समनुपश्यति । न कायं नाम व्यवदानम् इति समनुपश्यति । न कायं नामोत्पाद समनुपश्यति । न कायं नाम निरोध इति समनुपश्यति । न कायं नाम विविक्तम् इति समनुपश्यति । न कायं नामाविविक्तम् इति समनुपश्यति । न कायं नाम कुशलम् इति समनुपश्यति । न कायं नामाकुशलम् इति समनुपश्यति । न कायं नाम सावद्यम् इति समनुपश्यति । न कायं नामानवद्यम् इति समनुपश्यति । न कायं नाम साश्रवम् इति समनुपश्यति । न कायं नामानाश्रवम् इति समनुपश्यति । न कायं नाम संक्लेशम् इति समनुपश्यति । न कायं नाम निःक्लेशम् इति समनुपश्यति । न कायं नाम लौकिकम् इति समनुपश्यति । न कायं नाम लोकोत्तरम् इति समनुपश्यति । न कायं नाम संसार इति समनुपश्यति । न कायं नाम निर्वाणम् इति समनुपश्यति ।
न स्प्रष्टव्यं नाम नित्यम् इति समनुपश्यति । न स्प्रष्टव्यं नामानित्यम् इति समनुपश्यति । न स्प्रष्टव्यं नाम सुखम् इति समनुपश्यति । न स्प्रष्टव्यं नाम दुःखम् इति समनुपश्यति । न स्प्रष्टव्यं नामात्मेति समनुपश्यति । न स्प्रष्टव्यं नामानात्मेति समनुपश्यति । न स्प्रष्टव्यं नाम शान्तम् इति समनुपश्यति । न स्प्रष्टव्यं नामाशान्तम् इति समनुपश्यति । न स्प्रष्टव्यं नाम शून्यम् इति समनुपश्यति । न स्प्रष्टव्यं नामाशून्यम् इति समनुपश्यति । न स्प्रष्टव्यं नाम निमित्तम् इति समनुपश्यति । न स्प्रष्टव्यं नामानिमित्तम् इति समनुपश्यति । न स्प्रष्टव्यं नाम प्रणिहितम् इति समनुपश्यति । न स्प्रष्टव्यं नामाप्रणिहितम् इति समनुपश्यति । न स्प्रष्टव्यं नाम संस्कृतम् इति समनुपश्यति । न स्प्रष्टवं नामासंस्कृतम् इति समनुपश्यति । न स्प्रष्टव्यं नाम संक्लेशम् इति समनुपश्यति । न स्प्रष्टव्यं नाम व्यवदानम् इति समनुपश्यति । न स्प्रष्टव्यं नामोत्पाद इति समनुपश्यति । न स्प्रष्टव्यं नाम निरोध इति समनुपश्यति । न स्प्रष्टव्यं नाम विविक्तम् इति समनुपश्यति । न स्प्रष्टव्यं नामाविविक्तम् इति समनुपश्यति । न स्प्रष्टव्यं नाम कुशलम् इति समनुपश्यति । न स्प्रष्टव्यं नामाकुशलम् इति समनुपश्यति । न स्प्रष्टव्यं नाम सावद्यम् इति समनुपश्यति । न स्प्रष्टव्यं नामानवद्यम् इति समनुपश्यति । न स्प्रष्टव्यं नाम साश्रवम् इति समनुपश्यति । न स्प्रष्टव्यं नामानाश्रवम् इति समनुपश्यति । न स्प्रष्टव्यं नाम संक्लेश इति समनुपश्यति । न स्प्रष्टव्यं नाम निःक्लेश इति समनुपश्यति । न स्प्रष्टव्यं नाम लौकिकम् इति समनुपश्यति । न स्प्रष्टव्यं नाम लोकोत्तरम् इति समनुपश्यति । न स्प्रष्टव्यं नाम संसार इति समनुपश्यति । न स्प्रष्टव्यं नाम निर्वाणम् इति समनुपश्यति ।
न कायविज्ञानं नाम नित्यम् इति समनुपश्यति । न कायविज्ञानं नामानित्यम् इति समनुपश्यति । न कायविज्ञानं नाम सुखम् इति समनुपश्यति । न कायविज्ञानं नाम दुःखम् इति समनुपश्यति । न कायविज्ञानं नामात्मेति समनुपश्यति । न कायविज्ञानं नामानात्मेति समनुपश्यति । न कायविज्ञानं नाम शान्तम् इति समनुपश्यति । न कायविज्ञानं नामाशान्तम् इति समनुपश्यति । न कायविज्ञानं नाम शून्यम् इति समनुपश्यति । न कायविज्ञानं नामाशून्यम् इति समनुपश्यति । न कायविज्ञानं नाम निमित्तम् इति समनुपश्यति । न कायविज्ञानं नामानिमित्तम् इति समनुपश्यति । न कायविज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न कायविज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न कायविज्ञानं नाम संस्कृतम् इति समनुपश्यति । न कायविज्ञानं नामासंस्कृतम् इति समनुपश्यति । न कायविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न कायविज्ञानं नाम व्यवदानम् इति समनुपश्यति । न कायविज्ञानं नामोत्पाद इति समनुपश्यति । न कायविज्ञानं नाम विविक्तम् इति समनुपश्यति । न कायविज्ञानं नामाविविक्तम् इति समनुपश्यति । न कायविज्ञानं नाम कुशलम् इति समनुपश्यति । न कायविज्ञानं नामाकुशलम् इति समनुपश्यति । न कायविज्ञानं नाम सावद्यम् इति समनुपश्यति । न कायविज्ञानं नामानवद्यम् इति समनुपश्यति । न कायविज्ञानं नाम साश्रवम् इति समनुपश्यति । न कायविज्ञानं नामानाश्रवम् इति समनुपश्यति । न कायविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न कायविज्ञानं नाम निःक्लेशम् इति समनुपश्यति । न कायविज्ञानं नाम लौकिकम् इति समनुपश्यति । न कायविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न कायविज्ञानं नाम संसार इति समनुपश्यति । न कायविज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न कायसंस्पर्शं नाम नित्यम् इति समनुपश्यति । न कायसंस्पर्शं नामानित्यम् इति समनुपश्यति । न कायसंस्पर्शं नाम सुखम् इति समनुपश्यति । न कायसंस्पर्शं नाम दुःखम् इति समनुपश्यति । न कायसंस्पर्शं नामात्मेति समनुपश्यति । न कायसंस्पर्शं नामानात्मेति समनुपश्यति । न कायसंस्पर्शं नाम शान्तम् इति समनुपश्यति । न कायसंस्पर्शं नामाशान्तम् इति समनुपश्यति । न कायसंस्पर्शं नाम शून्यम् इति समनुपश्यति । न कायसंस्पर्शं नामाशून्यम् इति समनुपश्यति । न कायसंस्पर्शं नाम निमित्तम् इति समनुपश्यति । न कायसंस्पर्शं नामानिमित्तम् इति समनुपश्यति । न कायसंस्पर्शं नाम प्रणिहितम् इति समनुपश्यति । न कायसंस्पर्शं नामाप्रणिहितम् इति समनुपश्यति । न कायसंस्पर्शं नाम संस्कृतम् इति समनुपश्यति । न कायसंस्पर्शं नामासंस्कृतम् इति समनुपश्यति । न कायसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति । न कायसंस्पर्शं नाम व्यवदानम् इति समनुपश्यति । न कायसंस्पर्शं नामोत्पाद इति समनुपश्यति । न कायसंस्पर्शं नाम निरोध इति समनुपश्यति । न कायसंस्पर्शं नाम विविक्तम् इति समनुपश्यति । न कायसंस्पर्शं नामाविविक्तम् इति समनुपश्यति । न कायसंस्पर्शं नाम कुशलम् इति समनुपश्यति । न कायसंस्पर्शें नामाकुशलम् इति समनुपश्यति । न कायसंस्पर्शं नाम सावद्यम् इति समनुपश्यति । न कायसंस्पर्शं नामानवद्यम् इति समनुपश्यति । न कायसंस्पर्शं नाम साश्रवम् इति समनुपश्यति । न कायसंस्पर्शं नामानाश्रवम् इति समनुपश्यति । न कायसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति । न कायसंस्पर्शं नाम निःक्लेशम् इति समनुपश्यति । न कायसंस्पर्शं नाम लौकिकम् इति समनुपश्यति । न कायसंस्पर्शं नाम लोकोत्तरम् इति समनुपश्यति । न कायसंस्पर्शं नाम संसार इति समनुपश्यति । न कायसंस्पर्शं नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि तत् कायस्प्रष्टव्यकायविज्ञानकायसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं दुःखं वा अदुःखासुखं वा । तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । सुखम् इति न समनुपश्यति । दुःखम् इति न समनुपश्यति । नात्मेति समनुपश्यति । नानात्मेति समनुपश्यति । न शान्तम् इति समनुपश्यति । नाशान्त म् इति समनुपश्यति । न शून्यम् इति समनुपश्यति । नाशून्यम् इति समनुपश्यति । न निमित्तम् इति समनुपश्यति । नानिमित्तम् इति समनुपश्यति । न प्रणिहितम् इति समनुपश्यति । नाप्रणिहितम् इति समनुपश्यति । न संस्कृतम् इति समनुपशाति । नासंस्कृतम् इति समनुपश्यति । न संक्लेश इति समनुपश्यति । न व्यवदानम् इति समनुपश्यति । नोत्पादम् इति समनुपश्यति । न निरोधम् इति समनुपश्यति । न विविक्तम् इति समनुपश्यति । न कुशलम् इति समनुपश्यति । नाकुशलम् इति समनुपश्यति । न सावद्यम् इति समनुपश्यति । नानवद्यम् इति समनुपश्यति । न साश्रवम् इति समनुपश्यति । नानाश्रवम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न निःक्लेशम् इति समनुपश्यति । न लौकिकम् इति समनुपश्यति । न लोकोत्तरम् इति समनुपश्यति । न संसारम् इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
न मनो नाम नित्यम् इति समनुपश्यति । न मनो नामानित्यम् इति समनुपश्यति । न मनो नाम सुखम् इति समनुपश्यति । न मनो नाम दुःखम् इति समनुपश्यति । न ममो नामात्मेति समनुपश्यति । न मनो नामानात्मेति समनुपश्यति । न मनो नाम शान्तम् इति समनुपश्यति । न मनो नामाशान्तम् इति समनुपश्यति । न मनो नाम शून्यम् इति समनुपश्यति । न मनो नामाशून्यम् इति समनुपश्यति । न मनो नाम निमित्तम् इति समनुपश्यति । न मनो नामानिमित्तम् इति समनुपश्यति । न मनो नाम प्रणिहितम् इति समनुपश्यति । न मनो नामाप्रणिहितम् इति समनुपश्यति । न मनो नाम संस्कृतम् इति समनुपश्यति । न मनो नामासंस्कृतम् इति समनुपश्यति । न मनो नाम संक्लेशम् इति समनुपश्यति । न मनो नाम व्यवदानम् इति समनुपश्यति । न मनो नामोत्पाद इति समनुपश्यति । न ममो नाम निरोध इति समनुपश्यति । न मनो नाम विविक्तम् इति समनुपश्यति । न मनो नामाविविक्तम् इति समनुपश्यति । न मनो नाम कुशलम् इति समनुपश्यति । न मनो नामाकुशलम् इति समनुपश्यति । न मनो नाम सावद्यम् इति समनुपश्यति । न मनो नामानवद्यम् इति समनुपश्यति । न मनो नाम साश्रवम् इति समनुपश्यति । न मनो नामानाश्रवम् इति समनुपश्यति । न मनो नाम संक्लेशम् इति समनुपश्यति । न मनो नाम निःक्लेशम् इति समनुपश्यति । न मनो नाम लौकिकम् इति समनुपश्यति । न मनो नाम लोकोत्तरम् इति समनुपश्यति । न मनो नाम संसारम् इति समनुपश्यति । न मनो नाम निर्वाणम् इति समनुपश्यति ।
न धर्मान् नाम नित्या इति समनुपश्यति । न धर्मान् नामानित्या इति समनुपश्यति । न धर्मान् नाम सुखा इति समनुपश्यति । न धर्मान् नाम दुःखा इति समनुपश्यति । न धर्मान् नामात्मान इति समनुपश्यति । न धर्मान् नामानात्मान इति समनुपश्यति । न धर्मान् नाम शान्ता इति समनुपश्यति । न धर्मान् नामाशान्ता इति समनुपश्यति । न धर्मान् नाम शून्या इति समनुपश्यति । न धर्मान् नामाशून्या इति समनुपश्मति । न धर्मान् नाम निमित्ता इति समनुपश्यति । न धर्मान् नामानिमित्ता इति समनुपश्यति । न धर्मान् नाम प्रणिहिता इति समनुपश्यति । न धर्मान् नामाप्रणिहिता इति समनुपश्यति । न धर्मान् नाम संस्कृता इति समनुपश्यति । न धर्मान् नामासंस्कृता इति समनुपश्यति । न धर्मान् नाम संक्लेशा इति समनुपश्यति । न धर्मान् नाम व्यवदाना इति समनुपश्यति । न धर्मान् नामोत्पादा इति समनुपश्यति । न धर्मान् नामा निरोधा इति समनुपश्यति । न धर्मान् नाम विविक्ता इति समनुपश्यति । न धर्मान् नामाविविक्ता इति समनुपश्यति । न धर्मान् नाम कुशला इति समनुपश्यति । न धर्मान् नामाकुशला इति समनुपश्यति । न धर्मान् नाम सावद्या इति समनुपश्यति । न धर्मान् नामानवद्या इति समनुपश्यति । न धर्मान् नाम साश्रवा इति समनुपश्यति । न धर्मान् नामानाश्रवा इति समनुपश्यति । न धर्मान् नाम संक्लेशा इति समनुपश्यति । न धर्मान् नाम निःक्लेशा इति समनुपश्यति । न धर्मान् नाम लौकिका इति समनुपश्यति । न धर्मान् नाम लोकोत्तरा इति समनुपश्यति । न धर्मान् नाम संसारा समनुपश्यति । न धर्मान् नाम निर्वाणा इति समनुपश्यति ।
न मनोविज्ञानं नाम नित्यम् इति समनुपश्यति । न मनोविज्ञानं नामानित्यम् इति समनुपश्यति । न मनोविज्ञानं नाम सुखम् इति समनुपश्यति । न मनोविज्ञानं नाम दुःखम् इति समनुपश्यति । न मनोविज्ञानं नामात्मेति समनुपश्यति । न मनोविज्ञानं नामानात्मेति समनुपश्यति । न मनोविज्ञानं नाम शान्तम् इति समनुपश्यति । न मनोविज्ञानं नामाशान्तम् इति समनुपश्यति । न मनोविज्ञानं नाम शून्यम् इति समनुपश्यति । न मनोविज्ञानं नामाशून्यम् इति समनुपश्यति । न मनोविज्ञानं नाम निमित्तम् इति समनुपश्यति । न मनोविज्ञानं नामानिमित्तम् इति समनुपश्यति । न मनोविज्ञानं नाम प्रणिहितम् इति समनुपश्यति । न मनोविज्ञानं नामाप्रणिहितम् इति समनुपश्यति । न मनोविज्ञानं नाम संस्कृतम् इति समनुपश्यति । न मनोविज्ञानं नामासंस्कृतम् ति समनुपश्यति । न मनोविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न मनोविज्ञानं नाम व्यवदानम् इति समनुपश्यति । न मनोविज्ञानं नामोत्पादम् इति समनुपश्यति । न मनोविज्ञानं नाम निरोधम् इति समनुपश्यति । न मनोविज्ञानं नाम विविक्तम् इति समनुपश्यति । न मनोविज्ञानं नामाविविक्तम् इति समनुपश्यति । न मनोविज्ञानं नाम कुशलम् इति समनुपश्यति । न मनोविज्ञानं नामाकुशलम् इति समनुपश्यति । न मनोविज्ञानं नाम सावद्यम् इति समनुपश्यति । न मनोविज्ञानं नामानवद्यम् इति समनुपश्यति । न मनोविज्ञानं नाम साश्रवम् इति समनुपश्यति । न मनोविज्ञानं नामानाश्रवम् इति समनुपश्यति । न मनोविज्ञानं नाम संक्लेशम् इति समनुपश्यति । न मनोविज्ञानं नाम निःक्लेशम् इति समनुपश्यति । न मनोविज्ञानं नाम लौकिकम् इति समनुपश्यति । न मनोविज्ञानं नाम लोकोत्तरम् इति समनुपश्यति । न मनोविज्ञानं नाम संसारम् इति समनुपश्यति । न मनोविज्ञानं नाम निर्वाणम् इति समनुपश्यति ।
न मनःसंस्पर्शं नाम नित्यम् इति समनुपश्यति । न मनःसंस्पर्शं नामानित्यम् इति समनुपश्यति । न मनःसंस्पर्शं नाम सुखम् इति समनुपश्यति । न मनःसंस्पर्शं नाम दुःखम् इति समनुपश्यति । न मनःसंस्पर्शं नामात्मेति समनुपश्यति । न मनःसंस्पर्शं नामानात्मेति समनुपश्यति । न मनःसंस्पर्शं नाम शान्तम् इति समनुपश्यति । न मनःसंस्पर्शं नामाशान्तम् इति समनुपश्यति । न मनःसंस्पर्शं नाम शून्यम् इति समनुपश्यति । न मनःसंस्पर्शं नामाशून्यम् इति समनुपश्यति । न मनःसंस्पर्शं नाम निमित्तम् इति समनुपश्यति । न मनःसंस्पर्शं नामानिमित्तम् इति समनुपश्यति । न मनःसंस्पर्शं नाम प्रणिहितम् इति समनुपश्यति । न मनःसंस्पर्शं नामाप्रणिहितम् इति समनुपश्यति । न मनःसंस्पर्शं नाम संस्कृतम् इति समनुपश्यति । न मनःसंस्पर्शं नामासंस्कृतम् इति समनुपश्यति । न मनःसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति । न मनःसंस्पर्शं नाम व्यवदानम् इति समनुपश्यति । न मनःसंस्पर्शं नामोत्पाद इति समनुपश्यति । न मनःसंस्पर्शं नाम निरोध इति समनुपश्यति । न मनःसंस्पर्शं नाम विविक्तम् इति समनुपश्यति । न मनःसंस्पर्शं नामाविविक्तम् इति समनुपश्यति । न मनःसंस्पर्शं नाम कुशलम् इति समनुपश्यति । न मनःसंस्पर्शं नामाकुशलम् इति समनुपश्यति । न मनःसंस्पर्शं नाम सावद्यम् इति समनुपश्यति । न मनःसंस्पर्शं नामानवद्यम् इति समनुपश्यति । न मनःसंस्पर्शं नाम साश्रवम् इति समनुपश्यति । न मनःसंस्पर्शं नामानाश्रवम् इति समनुपश्यति । न मनःसंस्पर्शं नाम संक्लेशम् इति समनुपश्यति । न मनःसंस्पर्शं नाम निःक्लेशम् इति समनुपश्यति । न मनःसंस्पर्शं नाम लौकिकम् इति समनुपश्यति । न मनःसंस्पर्शं नाम लोकोत्तरम् इति समनुपश्यति । न मनःसंस्पर्शं नाम संसार इति समनुपश्यति । न मनःसंस्पर्शं नाम निर्वाणम् इति समनुपश्यति ।
यद् अपि तन् मनो धर्ममनोविज्ञानमनःसंस्पर्शप्रत्ययाद् उत्पद्यते । वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाम न नित्यम् इति समनुपश्यति । नानित्यम् इति समनुपश्यति । न सुखम् इति समनुपश्यति । न दुःखम् इति समनुपश्यति । नात्मेति समनुपश्यति । नानात्मति समनुपश्यति । न शान्तम् इति समनुपश्यति । नाशान्तम् इति समनुपश्यति । न शून्यम् इति समनुपश्यति नाशून्यम् इति समनुपश्यति । न निमित्तम् इति समनुपश्यति नानिमित्तम् इति समनुपश्यति । न प्रणिहितम् इति समनुपश्यति । नाप्रणिहितम् इति समनुपश्यति । न संस्कृतम् इति समनुपश्यति । नासंस्कृतम् इति समनुपश्यति । न संक्लेशम् इति समनुपश्यति । न व्यवदानम् इति समनुपश्यति । नोत्पादम् इति समनुपश्यति । न निरोध इति समनुपश्यति । न विविक्तम् इति समनुपश्यति । नाविविक्तम् इति समनुपश्यति । न कुशलम् इति समनुपश्यति । नाकुशलम् इति समनुपश्यति । न सावद्यम् इति समनुपश्यति । नानवद्यम् इति समनुपश्यति । न साश्रवम् इति समनुपश्यति । नानाश्रवम् इति समनुपश्यति । न संक्लेश इति समनुपश्यति । न निःक्लेश इति समनुपश्यति । न लौकिकम् इति समनुपश्यति । न लोकोत्तरम् इति समनुपश्यति । न संसारम् इति समनुपश्यति । न निर्वाणम् इति समनुपश्यति ।
तत् कस्य हेतोस् तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरंस् ताञ् च प्रज्ञापारमितां तञ् च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न संस्कृतधातौ समनुपश्यति । नासंस्कृतधातौ समनुपश्यति । तत् कस्य हेतोस् तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितानाम न समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति । न सम्यक्प्रहाणभावनायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
नर्धिपादभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
नेन्द्रियभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च बोधिसत्त्वं समनुपश्यति । न च बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अध्यात्मशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
बहिर्धाशून्यताभावनताय प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपशूरति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अध्यात्मबहिर्धाशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
शून्यताशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
महाशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
परमार्थशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम पश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
संस्कृतशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अत्यन्तशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम पश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अनवराग्रशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अनवकारशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
प्रकृतिशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
सर्वधर्मशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
स्वलक्षणशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अनुपलम्भशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अभावशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
स्वभावशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अभावस्वभावशून्यताभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
स्मृत्युपस्थानभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
आर्यसत्यभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
ध्यानभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अप्रमाणभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
आरूप्यसमापत्तिभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अष्टविमोक्षभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
नवानुपूर्वविहारसमापत्तिभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
शून्यताविमोक्षमुखभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
आनिमित्तविमोक्षभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अप्रणिहितविमोक्षभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
अभिज्ञाभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
समाधिभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । स बुद्धनाम समनुपश्यति ।
धारणीमुखभावनतायै प्रज्ञापरमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपसयति ।
दशतथागतबलभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
चतुर्वैशारद्यभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
प्रतिस ं विद्भावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति ।
आवेणिकबुद्धधर्मभावनतायै प्रज्ञापारमितायां चरति । न च प्रज्ञापारमितां समनुपश्यति । न च प्रज्ञापारमितानाम समनुपश्यति । न बोधिसत्त्वं समनुपश्यति । न बोधिसत्त्वनाम समनुपश्यति । न बुद्धं समनुपश्यति । न बुद्धनाम समनुपश्यति । अन्यत्र सर्वाकारज्ञतामनसिकारात् ।
तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति । यच् च धर्माणां धर्मलक्षणं तन् न संक्लिश्यते न व्यवदायते । एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतिकी धर्मप्रज्ञप्तिर् अवबोद्धव्या । स नामसङ्केतिकीं धर्माणां प्रज्ञप्तिम् अवबुध्य न रूपम् अभिनिवेक्ष्यते । न वेदनाम् अभिनिवेक्ष्यते । न संस्कारान् अभिनिवेक्ष्यते । न विज्ञानम् अभिनिवेक्ष्यते । न चक्षुर् अभिनिवेक्ष्यते । न रूपम् अभिनिवेक्ष्यते । न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते । न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि तच्चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते । न श्रोत्रम् अभिनिवेक्ष्यते । न शब्दम् अभिनिवेक्ष्यते । न श्रोत्रविज्ञानम् अभिनिवेक्ष्यते । न श्रोत्रसंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि तच्छ्रोत्रशब्दश्रोत्रविज्ञानश्रोत्रसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते । न घ्राणम् अभिनिवेक्ष्यते । न गन्धान् अभिनिवेक्ष्यते । न घ्राणविज्ञानम् अभिनिवेक्ष्यते । न घ्राणसंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि घ्राणगन्धघ्राणविज्ञानघ्राणसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते । न जिह्वाम् अभिनिवेक्ष्यते । न रसान् अभिनिवेक्ष्यते । न जिह्वाविज्ञानम् अभिनिवेक्ष्यते । न जिह्वासंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि तज्जिह्वारसजिह्वाविज्ञानजिह्वासंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा असुखादुःखं तद् अपि नाभिनिवेक्ष्यते । न कायम् अभिनिवेक्ष्यते । न स्प्रष्टव्यम् अभिनिवेक्ष्यते । न कायविज्ञानम् अभिनिवेक्ष्यते । न कायसंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि तत्कायस्प्रष्टव्यकायविज्ञानकायसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते । न मनो ऽभिनिवेक्ष्यते । न धर्मान् अभिनिवेक्ष्यते । न मनोविज्ञानम् अभिनिवेक्ष्यते । न मनःसंस्पर्शम् अभिनिवेक्ष्यते । यद् अपि तन्मनोधर्ममनोविज्ञामनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते ।
संस्कृतधातौ नाभिनिवेक्ष्यते । असंस्कृतधातौ नाभिनिवेक्ष्यते । दानपारमितायां नाभिनिवेक्ष्यते । शीलपारमितायां नाभिनिवेक्ष्यते । क्षान्तिपारमितायां नाभिनिवेक्ष्यते । वीर्यपारमितायां नाभिनिवेक्ष्यते । ध्यानपारमितायां नाभिनिवेक्ष्यते । प्रज्ञापारमितायां नाभिनिवेक्ष्यते । न नात्यन्ते ऽपि लक्षणे ऽप्य् आसां नाभिनिवेक्ष्यते । बोधिकाये नाभिनिवेक्ष्यते । मांसचक्षुषि नाभिनिवेक्ष्यते । दिव्यचक्षुषि नाभिनिवेक्ष्यते । प्रज्ञाचक्षुषि नाभिनिवेक्ष्यते । धर्मचक्षुषि नाभिनिवेक्ष्यते । बुद्धचक्षुषि नाभिनिवेक्ष्यते । अभिज्ञापारमितायां नाभिनिवेक्ष्यते । अध्यात्मशून्यतायां नाभिनिवेक्ष्यते । बहिर्धाशून्यतायां नाभिनिवेक्ष्यते । अध्यात्मबहिर्धाशून्यतायां नाभिनिवेक्ष्यते । शून्यताशून्यतायां नाभिनिवेक्ष्यते । महाशून्यतायां नाभिनिवेक्ष्यते । परमार्थशून्यतायां नाभिनिवेक्ष्यते । संस्कृतशून्यतायां नाभिनिवेक्ष्यते । असंस्कृतशून्यतायां नाभिनिवेक्ष्यते । अत्यन्तशून्यतायां नाभिनिवेक्ष्यते । अनवराग्रशून्यतायां नाभिनिवेक्ष्यते । अनवकारशून्यतायां नाभिनिवेक्ष्यते । प्रकृतिशून्यतायां नाभिनिवेक्ष्यते । सर्वधर्मशून्यतायां नाभिनिवेक्ष्यते । स्वलक्षणशून्यतायां नाभिनिवेक्ष्यते । अनुपलम्भशून्यतायां नाभिनिवेक्ष्यते । अभावशून्यतायां नाभिनिवेक्ष्यते । स्वभावशून्यतायां नाभिनिवेक्ष्यते । अभावस्वभावशून्यतायां नाभिनिवेक्ष्यते । स्मृत्युपस्थानेषु नाभिनिवेक्ष्यते । सम्यक्प्रहाणेषु नाभिनिवेक्ष्यते । ऋद्धिपादेषु नाभिनिवेक्ष्यते । इन्द्रियेषु नाभिनिवेक्ष्यते । बलेषु नाभिनिवेक्ष्यते । बोध्यङ्गेषु नाभिनिवेक्ष्यते । आर्याष्टाङ्गमार्गेषु नाभिनिवेक्ष्यते । आर्यसत्येषु नाभिनिवेक्ष्यते । ध्यानेषु नाभिनिवेक्ष्यते । अप्रमाणेषु नाभिनिवेक्ष्यते । आरूप्यसमापत्तिषु नाभिनिवेक्ष्यते । अष्टसु विमोक्षेषु नाभिनिवेक्ष्यते । नवस्व् अनुपूर्वविहारेषु नाभिनिवेक्ष्यते । शून्यतायां नाभिनिवेक्ष्यते । आनिमित्ते नाभिनिवेक्ष्यते । अप्रणिहिते नाभिनिवेक्ष्यते । अभिज्ञासु नाभिनिवेक्ष्यते । समाधिषु नाभिनिवेक्ष्यते । धारणीमुखेषु नाभिनिवेक्ष्यते । दशतथागतबलेषु नाभिनिवेक्ष्यते । चतुर्षु वैशारद्येषु नाभिनिवेक्ष्यते । धर्मधातौ नाभिनिवेक्ष्यते । चतसृषु प्रतिस ं वित्सु नाभिनिवेक्ष्यते । महामैत्र्यां नाभिनिवेक्ष्यते । महाकरुणायां नाभिनिवेक्ष्यते । अष्टादशावेणिकबुद्धधर्मेषु नाभिनिवेक्ष्यते । तथतायां नाभिनिवेक्ष्यते । भूतकोट्यां नाभिनिवेक्ष्यते । धर्मधातौ नाभिनिवेक्ष्यते । सत्वपरिपाके नाभिनिवेक्ष्यते । बुद्धक्षेत्रपरिशुद्धौ नाभिनिवेक्ष्यते । उपायकौशले नाभिनिवेक्ष्यते । तत् कस्य हेतोस् तथा हि ते सर्वधर्मा न संविद्यन्ते । यञ् चाभिनिविशेत । येन वाभिनिविशेत । यत्र वाभिनिविशेत ।
एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु प्रज्ञापारमितायां चरन् दानपारमितायां वर्धते । शीलपारमितायां विवर्धते । क्षान्तिपारमितायां विवर्धते । वीर्यपारमितायां विवर्धते । ध्यानपारमितायां विवर्धते । प्रज्ञापारमितायां विवर्धते । बोधिसत्वन्यामम् अवक्रामत्य् अवैवर्तिकां भूमिम् आक्रामात्य् अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति । सत्वान् परिपाठयन् बुद्धान् भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् बुद्धक्षेत्रपरिशोधनतायै ।
बुद्धानां भगवतां दर्शनायै तांश् च भगवतो दृष्ट्वा यैः कुशलमूलैर् आकाङ्क्षिष्यन्ते । तान् बुद्धान् भगवतः सत्कर्तुं गुरूकर्तुं मानयितुं पूजयितुं तानि वास्य कुशलमूलानि प्रादुर्भविष्यन्ति । तैर् एव कुशलमूलैस् तेषां बुद्धानां भगवताम् अन्तिके प्रादुर्भविष्यन्ति । तेषाञ् च बुद्धानां भगवताम् अन्तिके धर्मं श्रोष्यन्ति । यथा श्रुतश् च स धर्मो न जात्वोच्छेत्स्यते । यावद् अनुत्तरां सम्यक्स ं बोधिम् अभिस ं भोत्स्यते । धारणीमुखानि च प्रतिलप्स्यते । समाधिमुखानि च प्रतिलप्स्यते ।
एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसङ्केतिकी धर्मप्रज्ञप्तिर् अवबोद्धव्या । यः पुनः सुभूतिर् एवम् आह बोधिसत्त्वो महासत्त्व इति भगवन्न् उच्यते । तत् किं मन्यसे सुभूते रूपं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते आरूपि बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते वेदना बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र वेदनायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते वेदनायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवेदना बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संज्ञा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र संज्ञाया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे संज्ञायां बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे संज्ञेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंज्ञा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र संस्कारेभ्यो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संस्कारेषु बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारा इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंस्कारा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र विज्ञानाद् बोधिसत्त्व इति । आह नो हीदं भगवान् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञाने बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविज्ञानो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र चक्षुषो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुषि बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे बोधिसत्त्वे चक्षुर् इति । आह नो हीदं भयवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुर् बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मनसि सुभूते अन्यत्र श्रोत्राद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रे बोधिसत्त्व इति । आह नो हीदं भगवन् । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽघ्राणो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वा बोधिसत्त्वेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र कायाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते काये बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे काय इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते मनो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र मनसः बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनसि बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मन इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनस्को बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते रूपं बोधित्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र शब्दाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते शब्दे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्द इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अशब्दो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र गन्धाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते गन्धे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्ध इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अगन्धो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते रसो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र रसाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रसे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रस इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरसो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र स्पर्शाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् क मन्यसे सुभूते बोधिसत्त्वे स्पर्श इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अस्पर्शो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते धर्मा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र धर्मेभ्यो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते धर्मेषु बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मा इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अधर्मा बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर्धातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र चक्षुर्धातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर्धातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्धातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुर्धातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते रूपधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र रूपधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरूपधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर्विज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्विज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुर्विज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र श्रोत्रधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते शब्दधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र शब्दधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते शब्दधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अशब्दधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातुर् बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रविज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते घ्राणधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अघ्राणधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते गन्धधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र गन्धधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते गन्धधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अगन्धधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते घ्राणविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणविज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणविज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अघ्राणविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वाधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते रसधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र रसधातोर् बोधिसत्त्व इति । आह नो हीदं भगवान् । भगवान् आह । तत् किं मन्यसे सुभूते रसधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रसधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरसधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाविज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वाविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते कायधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र कायधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे कायधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते स्प्रष्टव्यधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्प्रष्टव्यधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे स्प्रष्टव्यधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अस्प्रष्टव्यधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते कायविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र कायविज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायविज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे कायविज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते मनोधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र मनोधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनोधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनोधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते धर्मधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र धर्मधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते धर्मधातौ बोधिसत्त्व इति । आह नो हीदं भमृवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अधर्मधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते मनोविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र मनोविज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनोविज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनोविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र पृथिवीधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते पृथिवीधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे पृथिवीधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अपृथिवीधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्राब्धातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽब्धातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोध्विसत्त्वे ऽब्धातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽनब्धातुर् बोधिसत्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र तेजोधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सूभूते तेजोधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे तेजोधातुर् इति । आह नो हीदं भगवन् भगवान् आह । तत् किं मन्यसे सुभूते अतेजोधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र वायुधातोर् बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते वायुधातौ बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्वे वायुधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवायुधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्राकाशधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते आकाशधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे आकाशधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अनाकाशधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र विज्ञानधातोर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानधातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानधातुर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविज्ञानधातुर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्राविद्याया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सूभूते अविद्यायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे ऽविद्येति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽनविद्या बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र संस्कारेभ्यो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारेषु बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारा इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंस्कारो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र विज्ञानाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञाने बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानम् इति । आह नो हीदं भगवान् । भगवान् आह तत् किं मन्यसे सुभूते अविज्ञानो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र नामरूपाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते नामरूपे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे नामरूपम् इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते अनामरूपो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र षडायतनाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते षडायतने बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे षडायतनम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अषडायतनो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र स्पर्शाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्श इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽस्पर्शो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते वेदना बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र वेदनाया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते वेदनायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवेदनो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र तृष्णाया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते तृष्णायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे तृष्णेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अतृष्णा बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्रोपादानाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते उपादाने बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे उपादानम् इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते अनुपादानो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते भवो बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र भवाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते भवे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे भव इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अभवो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जातेर् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जातौ बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जातिर् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजातिर् बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जरामरणाद् बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जरामरणे बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जरामरणम् इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजरामरणो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते या रूपस्य तथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र रूपतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरूपतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र वेदनातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवेदनातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र संज्ञातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संज्ञातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे संज्ञातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंज्ञातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र संस्कारतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संस्कारतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंस्कारतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र विज्ञानतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविज्ञानतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या चक्षुस्तथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र चक्षुस्तथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुस्तथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुस्तथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुस्तथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या श्रोत्रस्य तथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या घ्राणतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते अन्यत्र घ्राणतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अघ्राणतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या जिह्वातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जिह्वातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या कायतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र कायतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे कायतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायतथतो बोधिसत्त्व इति । आह नो हीदे भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या मनस्तथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र मनस्तथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनस्तथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मनस्तथता इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनस्तथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र रूपतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरूपतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या शब्दतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते अन्यत्र शब्दतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते शब्दतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अशब्दतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या गन्धतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र गन्धतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते गन्धतथतायां बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अगन्धतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या रसतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र रसतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रसतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रसतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरसतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या स्पर्शतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र स्पर्शतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्शतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अस्पर्शतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या धर्मतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र धर्मतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते धर्मतथतायां बोधिसत्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अधर्मतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या चक्षुर्धातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र चक्षुर्धातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर्धातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्धातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुर्धातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या रूपधातुतथता बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र रूपधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रूपधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रूपधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरूपधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या चक्षुर्विज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे चक्षुर्विज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अचक्षुर्विज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या श्रोत्रधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या शब्दधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र शब्दधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते शब्दधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे शब्दधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अशब्दधातुतथतो बोधिसत्त्व इति । आह नो हीदं बगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या श्रोत्रविज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे श्रोत्रविज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अश्रोत्रविज्ञानतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या घ्राणधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र घ्राणधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणधातुतथेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अघ्राणधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या गन्धधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र गन्धधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते गन्धधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे गन्धधातुतथेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यते सुभूते अगन्धधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या घ्राणविज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते घ्राणविज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे घ्राणविज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अघ्राणविज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या जिह्वाधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जिह्वाधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वाधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या रसधातुतथता सा बोधिदत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र रसधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते रसधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे रसधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अरसधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या जिह्वाविज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जिह्वाविज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जिह्वाविज्ञानतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजिह्वाविज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या कायधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र कायधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे कायधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या स्प्रष्टव्यधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्प्रष्टव्यधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे स्प्रष्टव्यधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अस्प्रष्टव्यधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या कायविज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र कायविज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते कायविज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे कायविज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अकायविज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या मनोधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र मनोधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनोधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनोधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या धर्मधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र धर्मधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते धर्मधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे धर्मधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अधर्मधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या मनोविज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते मनोविज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे मनोविज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अमनोविज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र पृथिवीधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते पृथिवीधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे पृथिवीधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अपृथिवीधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते याब्धातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्राब्धातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽब्धातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे ऽब्धातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽनब्धातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र तेजोधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते तेजोधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे तेजोधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अतेजोधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र वायुधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते वायुधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे वायुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवायुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या आकाशधातुतथतासा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्राकाशधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते आकाशधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे आकाशधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अनाकाशधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र विज्ञानधातुतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानधातुतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानधातुतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविज्ञानधातुतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते याविद्यातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्राविद्यातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविद्यातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे अविद्यातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अनविद्यातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र संस्कारतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संस्कारतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे संस्कारतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते असंस्कारतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र विज्ञानतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे विज्ञानतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अविज्ञानतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या नामरूपतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र नामरूपतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते नामरूपतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे नामरूपतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अनामरूपतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या षडायतनतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । तत् किं मन्यसे सुभूते अन्यत्र षडायतनतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते षडायतनतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे षडायतनतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अषडायतनतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या स्पर्शतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र स्पर्शतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते स्पर्शतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे स्पर्शतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अस्पर्शतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र वेदनातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यवे सुभूते वेदनातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे वेदनातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अवेदनातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या तृष्णातथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र तृष्णातथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते तृष्णातथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे तृष्णातथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अतृष्णातथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या उपादानतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्रोपादानतथताया बोधिसत्त्व इति । आहं नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते उपादानतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे उपादानतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अनुपादानतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या भवतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र भवतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते भवतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे भवतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अभवतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या जातितथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अन्यत्र जातितथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जातितथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जातितथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजातितथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते ऽन्यत्र जरामरणतथताया बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते जरामरणतथतायां बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते बोधिसत्त्वे जरामरणतथतेति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते अजरामरणतथतो बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह । तत् किं मन्यसे सुभूते अर्थवशं स ं पश्यन्न् एवं वदसि ।
न रूपां बोधिसत्त्व इति । नान्यत्र रूपाद् बोधिसत्त्व इति । न रूपे बोधिसत्त्व इति । न बोधिसत्त्वे रूपम् इति । नारूपो बोधिसत्त्व इति । न वेदना बोधिसत्त्व इति । नान्यत्र वेदनाया बोधिसत्त्व इति । न वेदनायां बोधिसत्त्व इति । न बोधिसत्त्वे वेदनेति । नावेदनो बोधिसत्त्व इति । न संज्ञा बोधिसत्त्व इति । नान्यत्र संज्ञाया बोधिसत्त्व इति । न संज्ञायां बोधिसत्त्व इति । न बोधिसत्त्वे संज्ञेति । नासंज्ञो बोधिसत्त्व इति । न संस्कारा बोधिसत्त्व इति । नान्यत्र संस्कारेभ्यो बोधिसत्त्व इति । न संस्कारेषु बोधिसत्त्व इति । नासंस्कारो बोधिसत्त्व इति । न विज्ञानं बोधिसत्त्व इति । नान्यत्र विज्ञानाद् बोधिसत्त्व इति । न विज्ञाने बोधिसत्त्व इति । नाविज्ञानो बोधिसत्त्व इति ।
न चक्षूर् बोधिसत्त्व इति । नान्यत्र चक्षुषो बोधिसत्त्व इति । न चक्षुषि बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुर् इति । नाचक्षुर् बोधिसत्त्व इति । न श्रोत्रं बोधिसत्त्व इति । नान्यत्र श्रोत्राद् बोधिसत्त्व इति । न श्रोत्रे बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रम् इति । नाश्रोत्रो बोधिसत्त्व इति । न घ्राणं बोधिसत्त्व इति । नान्यत्र घ्राणाद् बोधिसत्त्व इति । न घ्राणे बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणम् इति । नाघ्राणो बोधिसत्त्व इति । न जिह्वा बोधिसत्त्व इति । नान्यत्र जिह्वाया बोधिसत्त्व इति । न जिह्वायां बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वेति । नाजिह्वो बोधिसत्त्व इति । न कायो बोधिसत्त्व इति । नान्यत्र कायाद् बोधिसत्त्व इति । न काये बोधिसत्त्व इति । न बोधिसत्त्वे काय इति । नाकायो बोधिसत्त्व इति । न मनो बोधिसत्त्व इति । नान्यत्र मनसो बोधिसत्त्व इति । न मनसि बोधिसत्त्व इति । न बोधिसत्त्वे मन इति । नामनो बोधिसत्त्व इति ।
न रूपं बोधिसत्त्व इति । नान्यत्र रूपाद् बोधिसत्त्व इति । न रूपे बोधिसत्त्व इति । न बोधिसत्त्वे रूपम् इति । नारूपो बोधिसत्त्व इति । न शब्दो बोधिसत्त्व इति । नान्यत्र शब्दाद् बोधिसत्त्व इति । न शब्दे बोधिसत्त्व इति । न बोधिसत्त्वे शब्द इति । नाशब्दो बोधिसत्त्व इति । न गन्धो बोधिसत्त्व इति । नान्यत्र गन्धाद् बोधिसत्त्व इति । न गन्धे बोधिसत्त्व इति । न बोधिसत्त्वे गन्ध इति । नागन्धो बोधिसत्त्व इति । न रसो बोधिसत्त्व इति । नान्यत्र रसाद् बोधिसत्त्व इति । न रसे बोधिसत्त्व इति । न बोधिसत्त्वे रस इति । नारसो बोधिसत्त्व इति । न स्पर्शो बोधिसत्त्व इति । नान्यत्र स्पर्शाद् बोधिसत्त्व इति । न स्पर्शे बोधिसत्त्व इति । न बोधिसत्त्वे स्पर्श इति । नास्पर्शो बोधिसत्त्व इति । न धर्मो बोधिसत्त्व इति । नान्यत्र धर्मेभ्यो बोधिसत्त्व इति । न धर्मेषु बोधिसत्त्व इति । न बोधिसत्त्वे धर्मा इति । नाधर्मो बोधिसत्त्व इति । न चक्षुर्धातुर् बोधिसत्त्व इति । नान्यत्र चक्षुर्धातोर् बोधिसत्त्व इति । न चक्षुर्धातौ बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुर्धातुर् इति । नाचक्षुर्धातुर् बोधिसत्त्व इति । न रूपधातुर् बोधिसत्त्व इति । नान्यत्र रूपधातोर् बोधिसत्त्व इति । न रूपधातौ बोधिसत्त्व इति । न बोधिसत्त्वे रूपधातुर् इति । नारूपधातुर् बोधिसत्त्व इति । न चक्षुर्विज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्व इति । न चक्षुर्विज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुर्विज्ञानधातुर् इति । नाचक्षुर्विज्ञानधातुर् बोधिसत्त्व इति । न श्रोत्रधातुर् बोधिसत्त्व इति । नान्यत्र श्रोत्रधातोर् बोधिसत्त्व इति । न श्रोत्रधातौ बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रधातुर् इति । नाश्रोत्रधातुर् बोधिसत्त्व इति । न शब्दधातुर् बोधिसत्त्व इति । नान्यत्र शब्दधातोर् बोधिसत्त्व इति । न शब्दधातौ बोधिसत्त्व इति । न बोधिसत्त्वे शब्दधातुर् इति । नाशब्दधातुर् बोधिसत्त्व इति । न श्रोत्रविज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्व इति । न श्रोत्रविज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रविज्ञानधातुर् इति । नाश्रोत्रविज्ञानधातुर् बोधिसत्त्व इति । न घ्राणधातुर् बोधिसत्त्व इति । नान्यत्र घ्राणधातोर् बोधिसत्त्व इति । न घ्राणधातौ बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणधातुर् इति । नाघ्राणधातुर् बोधिसत्त्व इति । न गन्धधातुर् बोधिसत्त्व इति । नान्यत्र गन्धधातोर् बोधिसत्त्व इति । न गन्धधातौ बोधिसत्त्व इति । न बोधिसत्त्वे गन्धधातुर् इति । नागन्धधातुर् बोधिसत्त्व इति । न घ्राणविज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्व इति । न घ्राणविज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणविज्ञानधातुर् इति । नाघ्राणविज्ञानधातुर् बोधिसत्त्व इति । न जिह्वाधातुर् बोधिसत्त्व इति । नान्यत्र जिह्वाधातोर् बोधिसत्त्व इति । न जिह्वाधातौ बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वाधातुर् इति । नाजिह्वाधातुर् बोधिसत्त्व इति । न रसधातुर् बोधिसत्त्व इति । नान्यत्र रसधातोर् बोधिसत्त्व इति । न रसधातौ बोधिसत्त्व इति । न बोधिसत्त्वे रसधातुर् इति । नारसधातुर् बोधिसत्त्व इति । न जिह्वाविज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्व इति । न जिह्वाविज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वाविज्ञानधातुर् इति । नाजिह्वाविज्ञानधातुर् बोधिसत्त्व इति । न कायधातुर् बोधिसत्त्व इति । नान्यत्र कायधातोर् बोधिसत्त्व इति । न कायधातौ बोधिसत्त्व इति । न बोधिसत्त्वे कायधातुर् इति । नाकायधातुर् बोधिसत्त्व इति । न स्प्रष्टव्यधातुर् बोधिसत्त्व इति । नान्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्व इति । न स्प्रष्टव्यधातौ बोधिसत्त्व इति । न बोधिसत्त्वे स्प्रष्टव्यधातुर् इति । नास्प्रष्टव्यधातुर् बोधिसत्त्व इति । न कायविज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र कायविज्ञानधातोर् बोधिसत्त्व इति । न कायविज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे कायविज्ञानधातुर् इति । नाकायविज्ञानधातुर् बोधिसत्त्व इति । न मनोधातुर् बोधिसत्त्व इति । नान्यत्र मनोधातोर् बोधिसत्त्व इति । न मनोधातौ बोधिसत्त्व इति । न बोधिसत्त्वे मनोधातुर् इति । नामनोधातुर् बोधिसत्त्व इति । न धर्मधातुर् बोधिसत्त्व इति । नान्यत्र धर्मधातोर् बोधिसत्त्व इति । न धर्मधातौ बोधिसत्त्व इति । न बोधिसत्त्वे धर्मधातुर् इति । नाधर्मधातुर् बोधिसत्त्व इति । न मनोविज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र मनोविज्ञानधातोर् बोधिसत्त्व इति । न मनोविज्ञानधातौ बोधिसत्त्व इति । नामनोविज्ञानधातुर् बोधिसत्त्व इति ।
न पृथिवीधातुर् बोधिसत्त्व इति । नान्यत्र पृथिवीधातोर् बोधिसत्त्व इति । न पृथिवीधातौ बोधिसत्त्व इति । न बोधिसत्त्वे पृथिवीधातुर् इति । नापृथिवीधातुर् बोधिसत्त्व इति । नाब्धातुर् बोधिसत्त्व इति । नान्यत्राब्धातोर् बोधिसत्त्व इति । नाब्धातौ बोधिसत्त्व इति । न बोधिसत्त्वे ऽब्धातुर् इति । नानब्धातुर् बोधिसत्त्व इति । न तेजोधातुर् बोधिसत्त्व इति । नान्यत्र तेजोधातोर् बोधिसत्त्व इति । न तेजोधातौ बोधिसत्त्व इति । न बोधिसत्त्वे तेजोधातुर् इति । नातेजोधातुर् बोधिसत्त्व इति । न वायुधातुर् बोधिसत्त्व इति । नान्यत्र वायुधातोर् बोधिसत्त्व इति । न वायुधातौ बोधिसत्त्व इति । न बोधिसत्त्वे वायुधातुर् इति । नावायुधातुर् बोधिसत्त्व इति । नाकाशधातुर् बोधिसत्त्व इति । नान्यत्राकाशधातोर् बोधिसत्त्व इति । नाकाशधातौ बोधिसत्त्व इति । न बोधिसत्त्वे आकाशधातुर् इति । नानाकाशधातुर् बोधिसत्त्व इति ।
न विज्ञानधातुर् बोधिसत्त्व इति । नान्यत्र विज्ञानधातोर् बोधिसत्त्व इति । न विज्ञानधातौ बोधिसत्त्व इति । न बोधिसत्त्वे विज्ञानधातुर् इति । नाविज्ञानधातुर् बोधिसत्त्व इति । नाविद्या बोधिसत्त्व इति । नान्यत्राविद्याया बोधिसत्त्व इति । नाविद्यायां बोधिसत्त्व इति । न बोधिसत्त्वे ऽविद्येति । नानविद्यो बोधिसत्त्व इति । न संस्कारा बोधिसत्त्व इति । नान्यत्र संस्कारेभ्यो बोधिसत्त्व इति । न संस्कारेषु बोधिसत्त्व इति । न बोधिसत्त्वे संस्कारा इति । नासंस्कारो बोधिसत्त्व इति । न विज्ञानं बोधिसत्त्व इति । नान्यत्र विज्ञानाद् बोधिसत्त्व इति । न विज्ञाने बोधिसत्त्व इति । न बोधिसत्त्वे विज्ञानम् इति । नाविज्ञानो बोधिसत्त्व इति । न नामरूपं बोधिसत्त्व इति । नान्यत्र नामरूपाद् बोधिसत्त्व इति । न नामरूपे बोधिसत्त्व इति । न बोधिसत्त्वे नामरूपम् इति । नानामरूपो बोधिसत्त्व इति । न षडायतनं बोधिसत्त्व इति । नान्यत्र षडायतनाद् बोधिसत्त्व इति । न षडायतने बोधिसत्त्व इति । न बोधिसत्त्वे षडायतनम् इति । नाषडायतनो बोधिसत्त्व इति । न स्पर्शो बोधिसत्त्व इति । नान्यत्र स्पर्शाद् बोधिसत्त्व इति । न स्पर्शे बोधिसत्त्व इति । न बोधिसत्त्वे स्पर्श इति । नास्पर्शो बोधिसत्त्व इति । न वेदना बोधिसत्त्व इति । नान्यत्र वेदनाया बोधिसत्त्व इति । न वेदनायां बोधिसत्त्व इति । न बोधिसत्त्वे वेदनेति । नावेदनो बोधिसत्त्व इति । न तृष्णा बोधिसत्त्व इति । नान्यत्र तृष्णाया बोधिसत्त्व इति । न तृष्णायां बोधिसत्त्व इति । न बोधिसत्त्वे तृष्णेति । नातृष्णो बोधिसत्त्व इति । नोपादानं बोधिसत्त्व इति । नान्यत्रोपादानाद् बोधिसत्त्व इति । नोपादाने बोधिसत्त्व इति । न बोधिसत्त्वे उपादानम् इति । नानुपादानो बोधिसत्त्व इति । न भवो बोधिसत्त्व इति । नान्यत्र भवाद् बोधिसत्त्व इति । न भवे बोधिसत्त्व इति । न बोधिसत्त्वे भव इति । नाभवो बोधिसत्त्व इति । न जातिर् बोधिसत्त्व इति । नान्यत्र जातेर् बोधिसत्त्व इति । न जातौ बोधिसत्त्व इति । न बोधिसत्त्वे जातिर् इति । नाजातिर् बोधिसत्त्व इति । न जरामरणं बोधिसत्त्व इति । नान्यत्र जरामरणाद् बोधिसत्त्व इति । न जरामरणे बोधिसत्त्व इति । न बोधिसत्त्वे जरामरणम् इति । नाजरामरणो बोधिसत्त्व इति । न रूपतथता बोधिसत्त्व इति । नान्यत्र रूपतथताया बोधिसत्त्व इति । न रूपतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे रूपतथतेति । नारूपतथतो बोधिसत्त्व इति । न वेदनातथता बोधिसत्त्व इति । नान्यत्र वेदनातथताया बोधिसत्त्व इति । न वेदनातथतायां बोधिसत्त्व इति । न बोधिसत्त्वे वेदनातथतेति । नावेदनातथतो बोधिसत्त्व इति । न संज्ञातथता बोधिसत्त्व इति । नान्यत्र संज्ञातथतायाः बोधिसत्त्व इति । न संज्ञातथतायां बोधिसत्त्व इति । न बोधिसत्त्वे संज्ञातथतेति । नासंज्ञातथतो बोधिसत्त्व इति । न संस्कारतथता बोधिसत्त्व इति । नान्यत्र संस्कारतथताया बोधिसत्त्व इति । न संस्कारतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे संस्कारतथतेति । नासंस्कारतथतो बोधिसत्त्व इति । न विज्ञानतथता बोधिसत्त्व इति । नान्यत्र विज्ञानतथताया बोधिसत्त्व इति । न विज्ञानतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे विज्ञानतथतेति । नाविज्ञानतथतो बोधिसत्त्व इति ।
न चक्षुस्तथता बोधिसत्त्व इति । नान्यत्र चक्षुस्तथताया बोधिसत्त्व इति । न चक्षुस्तथतायां बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुस्तथतेति । नाचक्षुस्तथतो बोधिसत्त्व इति । न श्रोत्रतथता बोधिसत्त्व इति । नान्यत्र श्रोत्रतथताया बोधिसत्त्व इति । न श्रोत्रतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रतथतेति । नाश्रोत्रतथतो बोधिसत्त्व इति । न घ्राणतथता बोधिसत्त्व इति । नान्यत्र घ्राणतथताया बोधिसत्त्व इति । न घ्राणतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणतथतेति । नाघ्राणतथतो बोधिसत्त्व इति । न जिह्वातथता बोधिसत्त्व इति । नान्यत्र जिह्वातथताया बोधिसत्त्व इति । न जिह्वातथतायां बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वातथतेति । नाजिह्वातथतो बोधिसत्त्व इति । न कायतथता बोधिसत्त्व इति । नान्यत्र कायतथताया बोधिसत्त्व इति । न कायतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे कायतथतेति । नाकायतथतो बोधिसत्त्व इति । न मनस्तथता बोधिसत्त्व इति । नान्यत्र मनस्तथताया बोधिसत्त्व इति । न मनस्तथतायां नोधिसत्त्व इति । न बोधिसत्त्वे मनस्तथतेति । नामनस्तथतो बोधिसत्त्व इति ।
न रूपतथता बोधिसत्व इति । नान्यत्र रूपतथताया बोधिसत्त्व इति । न रूपतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे रूपतथतेति । नारूपतथतो बोधिसत्त्व इति । न शब्दतथता बोधिसत्त्व इति । नान्यत्र शब्दतथताया बोधिसत्व इति । न शब्दतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे शब्दतथतेति । नाशब्दतथतो बोधिसत्त्व इति । न गन्धतथता बोधिसत्त्व इति । नान्यत्र गन्धतथताया बोधिसत्त्व इति । न गन्धतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे गन्धतथतेति । नागन्धतथतो बोधिसत्त्व इति । न रसतथता बोधिसत्त्व इति । नान्यत्र रसतथताया बोधिसत्त्व इति । न रसतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे रसतथतेति । नारसतथतो बोधिसत्त्व इति । न स्पर्शतथता बोधिसत्त्व इति । नान्यत्र स्पर्शतथताया बोधिसत्त्व इति । न स्पर्शतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे स्पर्शतथतेति । नास्पर्शतथतो बोधिसत्त्व इति । न धर्मतथता बोधिसत्त्व इति । नान्यत्र धर्मतथताया बोधिसत्त्व इति । न धर्मतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे धर्मतथतेति । नाधर्मतथतो बोधिसत्त्व इति ।
न चक्षुर्धातुतथता बोधिसत्त्व इति । नान्यत्र चक्षुर्धातुतथताया बोधिसत्त्व इति । न चक्षुर्धातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुर्धातुतथतेति । नाचक्षुर्धातुतथतो बोधिसत्त्व इति । न रूपधातुतथता बोधिसत्त्व इति । नान्यत्र रूपधातुतथताया बोधिसत्त्व इति । न रूपधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे रूपधातुतथतेति । नारूपधातुतथतो बोधिसत्त्व इति ।
न चक्षुर्विज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्व इति । न चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे चक्षुर्विज्ञानधातुतथतेति । नाचक्षुर्विज्ञानधातुतथतो बोधिसत्त्व इति । न श्रोत्रधातुतथता बोधिसत्त्व इति । नान्यत्र श्रोत्रधातुतथताया बोधिसत्त्व इति । न श्रोत्रधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रधातुतथतेति । नाश्रोत्रधातुतथतो बोधिसत्त्व इति । न शब्दधातुतथता बोधिसत्त्व इति । नान्यत्र शब्दधातुतथताया बोधिसत्त्व इति । न शब्दधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे शब्दधातुतथतेति । नाशब्दधातुतथतो बोधिसत्त्व इति । न श्रोत्रविज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्व इति । न श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे श्रोत्रविज्ञानधातुतथतेति । नाश्रोत्रविज्ञानधातुतथतो बोधिसत्त्व इति । न घ्राणधातुतथता बोधिसत्त्व इति । नान्यत्र घ्राणधातुतथताया बोधिसत्त्व इति । न घ्राणधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणधातुतथतेति । नाघ्राणधातुतथतो बोधिसत्त्व इति । न गन्धधातुतथता बोधिसत्त्व इति । नान्यत्र गन्धधातुतथताया बोधिसत्त्व इति । न गन्धधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे गन्धधातुतथतेति । नागन्धधातुतथतो बोधिसत्त्व इति ।
न घ्राणविज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्व इति । न घ्राणविज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे घ्राणविज्ञानधातुतथतेति । नाघ्राणविज्ञानधातुतथतो बोधिसत्त्व इति ।
न जिह्वाधातुतथता बोधिसत्त्व इति । नान्यत्र जिह्वाधातुतथताया बोधिसत्त्व इति । न जिह्वाधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वाधातुतथतेति । नाजिह्वाधातुतथतो बोधिसत्त्व इति ।
न रसधातुतथता बोधिसत्त्व इति । नान्यत्र रसधातुतथताया बोधिसत्त्व इति । न रसधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे रसधातुतथतेति । नारसधातुतथतो बोधिसत्त्व इति ।
न जिह्वाविज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्व इति । न जिह्वाविज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे जिह्वाविञ्जानधातुतथतेति । नाजिह्वाविज्ञानधातुतथतो बोधिसत्त्व इति ।
न कायधातुतथता बोधिसत्त्व इति । नान्यत्र कायधातुतथताया बोधिसत्त्व इति । न कायधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे कायधातुतथेति । नाकायधातुतथतो बोधिसत्त्व इति ।
न स्प्रष्टव्यधातुतथता बोधिसत्त्व इति । नान्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्व इति । न स्प्रष्टव्यधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे स्प्रष्टव्यधातुतथतेति । नास्प्रष्टव्यधातुतथतो बोधिसत्त्व इति ।
न कायविज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र कायविज्ञानधातुतथताया बोधिसत्त्व इति । न कायविज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे कायविज्ञानधातुतथतेति । नाकायविज्ञानधातुतथतो बोधिसत्त्व इति ।
न मनोधातुतथता बोधिसत्त्व इति । नान्यत्र मनोधातुतथताया बोधिसत्त्व इति । न मनोधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे मनोधातुतथतेति । नामनोधातुतथतो बोधिसत्त्व इति ।
न धर्मधातुतथता बोधिसत्त्व इति । नान्यत्र धर्मधातुतथताया बोधिसत्त्व इति । न धर्मधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे धर्मधातुतथतेति । नाधर्मधातुतथतो बोधिसत्त्व इति ।
न मनोविज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्व इति । न मनोविज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे मनोविज्ञानधातुतथतेति । नामनोविज्ञानधातुतथतो बोधिसत्त्व इति ।
न पृथिवीधातुतथता बोधिसत्त्व इति । नान्यत्र पृथिवीधातुतथताया बोधिसत्त्व इति । न पृथिवीधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे पृथिवीधातुतथतेति । नापृथिवीधातुतथतो बोधिसत्त्व इति ।
नाब्धातुतथता बोधिसत्त्व इति । नान्यत्राब्धातुतथताया बोधिसत्त्व इति । नाब्धातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे ऽब्धातुतथतेति । नानब्धातुतथतो बोधिसत्त्व इति ।
न तेजोधातुतथता बोधिसत्त्व इति । नान्यत्र तेजोधातुतथताया बोधिसत्त्व इति । न तेजोधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे तेजोधातुतथतेति । नातेजोधातुतथतो बोधिसत्त्व इति ।
न वायुधातुतथता बोधिसत्त्व इति । नान्यत्र वायुधातुतथताया बोधिसत्त्व इति । न वायुधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे वायुधातुतथतेति । नावायुधातुतथतो बोधिसत्त्व इति ।
नाकाशधातुतथता बोधिसत्त्व इति । नान्यत्राकाशधातुतथताया बोधिसत्त्व इति । नाकाशधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे आकाशधातुतथतेति । नानाकाशधातुतथतो बोधिसत्त्व इति ।
न विज्ञानधातुतथता बोधिसत्त्व इति । नान्यत्र विज्ञानधातुतथताया बोधिसत्त्व इति । न विज्ञानधातुतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे विज्ञानधातुतथेति । नाविज्ञानधातुतथतो बोधिसत्व इति ।
नाविद्यातथता बोधिसत्त्व इति । नान्यत्राविद्यातथताया बोधिसत्त्व इति । नाविद्यातथतायां बोधिसत्त्व इति । न बोधिसत्त्वे ऽविद्यातथतेति । नाविद्यातथतो बोधिसत्त्व इति ।
न संस्कारतथता बोधिसत्त्व इति । नान्यत्र संस्कारतथताया बोधिसत्त्व इति । न संस्कारतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे संस्कारतथतेति । नासंस्कारतथतो बोधिसत्त्व इति ।
न विज्ञानतथता बोधिसत्त्व इति । नान्यत्र विज्ञानतथताया बोधिसत्त्व इति । न विज्ञानतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे विज्ञानतथतेति । नाविज्ञानतथतो बोधिसत्त्व इति ।
न नामरूपतथता बोधिसत्त्व इति । नान्यत्र नामरूपतथताया बोधिसत्त्व इति । न नामरूपतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे नामरूपतथतेति । नानामरूतथतो बोधिसत्त्व इति ।
न षडायतनतथता बोधिसत्त्व इति । नान्यत्र षडायतनतथताया बोधिसत्त्व इति । न षडायतनतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे षडायतनतथतेति । नाषडायतनतथतो बोधिसत्त्व इति ।
न स्पर्शतथता बोधिसत्त्व इति । नान्यत्र स्पर्शतथताया बोधिसत्त्व इति । न स्पर्शतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे स्पर्शतथतेति । नास्पर्शतथतो बोधिसत्त्व इति ।
न वेदनातथता बोधिसत्त्व इति । नान्यत्र वेदनातथताया बोधिसत्त्व इति । न वेदनातथतायां बोधिसत्त्व इति । न बोधिसत्त्वे वेदनातथतेति । नावेदनातथतो बोधिसत्त्व इति ।
न तृष्णातथता बोधिसत्त्व इति । नान्यत्र तृष्णातथताया बोधिसत्त्व इति । न तृष्णातथतायां बोधिसत्व इति । न बोधिसत्त्वे तृष्णातथतेति । नात्रष्णातथतो बोधिसत्त्व इति ।
नोपादानतथता बोधिसत्त्व इति । नान्यत्रोपादानतथताया बोधिसत्त्व इति । नोपादानतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे उपादानतथतेति । नानुपादानतथतो बोधिसत्त्व इति ।
न भवतथता बोधिसत्त्व इति । नान्यत्र भवतथताया बोधिसत्त्व इति । न भवतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे भवतथतेति । नाभवतथतो बोधिसत्त्व इति ।
न जातितथता बोधिसत्त्व इति । नान्यत्र जातितथताया बोधिसत्त्व इति । न जातितथतायां बोधिसत्त्व इति । न बोधिसत्त्वे जातितथतेति । नाजातितथतो बोधिसत्त्व इति ।
न जरामरणतथता बोधिसत्त्व इति । नान्यत्र जरामरणतथताया बोधिसत्त्व इति । न जरामरणतथतायां बोधिसत्त्व इति । न बोधिसत्त्वे जरामरणतथतेति । नाजरामरणतथतो बोधिसत्त्व इति ।
सुभूतिर् आह । अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपाद् बोधिसत्त्वो भविष्यति । कुतो रूपे बोधिसत्त्वो भविश्यति । कुतो बोधिसत्त्वे रूपं भविश्यति । कुतो ऽरूपो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वेदनाया बोधिसत्त्वो भविष्यति । कुतो वेदनायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वेदना भविष्यति । कुतो ऽवेदनो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संज्ञाया बोधिसत्त्वो भविष्यति । कुतः संज्ञायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे संज्ञा भविष्यति । कुतो ऽसंज्ञो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संस्कारेभ्यो बोधिसत्त्वो भविष्यति । कुतः संस्कारेषु बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे संस्कारा भविष्यन्ति । कुतो ऽसंस्कारो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानाद् बोधिसत्त्वो भविष्यति । कुतो विज्ञाने बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानं भविष्यति । कुतो ऽविज्ञानो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधित्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुरधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुषो बोधिसत्वो भविष्यति । कुतश् चक्षुषि बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे चक्षुर् भविष्यति । कुतो ऽचक्षुष्को बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्राधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र श्रोत्राद् बोधिसत्त्वो भविष्यति । कुतः श्रोत्रे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रं भविष्यति । कुतो ऽश्रोत्रो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्रणाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणाद् बोधिसत्वो भविष्यति । कुतो घ्राणे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणं भविष्यति । कुतो ऽघ्राणो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वाया बोधिसत्त्वो भविष्यति । कुतो जिह्वायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वा भविष्यति । कुतो ऽजिह्वो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र कायाद् बोधिसत्त्वो भविस्यति । कुतः काये बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायो भविष्यति । कुतो ऽकायो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो मनोधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनसो बोधिसत्त्वो भविष्यति । कुतो मनसि बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनो भविष्यति । कुतो ऽमनस्को बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपाद् बोधिसत्त्वो भविष्यति । कुतो रूपे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रूपं भविष्यति । कुतो ऽरूपो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः शब्दाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र शब्दाद् बोधिसत्त्वो भविष्यति । कुतः शब्दे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे शब्दो भविष्यति । कुतो ऽशब्दो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो गन्धाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र गन्धाद् बोधिसत्त्वो भविष्यति । कुतो गन्धे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे गन्धो भविष्यति । कुतो ऽगन्धो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रसाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रसाद् बोधिसत्त्वो भविष्यति । कुतो रसे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रसो भविष्यति । कुतो ऽरसो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्पर्शाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्पर्शाद् बोधिसत्त्वो भविष्यति । कुतः स्पर्शे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्पर्शो भविष्यति । कुतो ऽस्पर्शो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो धर्माधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र धर्माद् बोधिसत्त्वो भविष्यति । कुतो धर्मे बोधिसत्त्वो भविस्यति । कुतो बोधिसत्त्वे धर्मो भविष्यति । कुतो ऽधर्मो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुर्धात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुर्धातोर् बोधिसत्त्वो भविष्यति । कुतश् चक्षुर्धातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे चक्षुर्धातुर् भविष्यति । कुतो ऽचक्षुर्धातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपधातोर् बोधिसत्त्वो भविष्यति । कुतो रूपधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रूपधातुर् भविष्यति । कुतो ऽरूपधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुर्विज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुर्विज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतश् चक्षुर्विज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे चक्षुर्विज्ञानधातुर् भविष्यति । कुतो ऽचक्षुर्विज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्रधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र श्रोत्रधातोर् बोधिसत्त्वो भविष्यति । कुतः श्रोत्रधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रधातुर् भविष्यति । कुतो ऽश्रोत्रधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः शब्दधात्वधिवचनं बोधिसत्त्वो भविय्यति । कुतो ऽन्यत्र शब्दधातोर् बोधिसत्त्वो भविष्यति । कुतः शब्दधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे शब्दधातुर् भविष्यति । कुतो ऽशब्दधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्रविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र श्रोत्रविज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतः श्रोत्रविज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रविज्ञानधातुर् भविष्यति । कुतो ऽश्रोत्रविज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्राणधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणाधातोर् बोधिसत्त्वो भविष्यति । कुतो घ्राणधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणधातुर् भविष्यति । कुतो ऽघ्राणधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो गन्धधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र गन्धधातोर् बोधिसत्त्वो भविष्यति । कुतो गन्धधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे गन्धधातुर् भविष्यति । कुतो ऽगन्धधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्राणविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणविज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतो घ्राणविज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणविज्ञानधातुर् भविष्यति । कुतो ऽघ्राणविज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वाधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वाधातोर् बोधिसत्त्वो भविष्यति । कुतो जिह्वाधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वाधातुर् भविष्यति । कुतो ऽजिह्वाधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलम्यते । तत् कुतो रसधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रसधातोर् बोधिसत्त्वो भविष्यति । कुतो रसधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रसधातुर् भविष्यति । कुतो ऽरसधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वाविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वाविज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतो जिह्वाविज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वाविज्ञानधातुर् भविष्यति । कुतो ऽजिह्वाविज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र कायधातोर् बोधिसत्त्वो भविष्यति । कुतः कायधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायधातुर् भविष्यति । कुतो ऽकायधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्प्रष्टव्यधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्प्रष्टव्यधातोर् बोधिसत्त्वो भविष्यति । कुतः स्प्रष्टव्यधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्प्रष्टव्यधातुर् भविष्यति । कुतो ऽस्प्रष्टव्यधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र कायविज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतः कायविज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायविज्ञानधातुर् भविष्यति । कुतो ऽकायविज्ञानधातुर् भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । कुतो मनोधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनोधातोर् बोधिसत्त्वो भविष्यति । कुतो मनोधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनोधातुर् भविष्यति । कुतो ऽमनोधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो धर्मधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र धर्मधातोर् बोधिसत्त्वो भविष्यति । कुतो धर्मधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे धर्मधातुर् भविष्यति । कुतो ऽधर्मधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो मनोविज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनोविज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतो मनोविज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनोविज्ञानधातुर् भविष्यति । कुतो ऽमनोविज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः पृथिवीधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र पृथिवीधातोर् ब्बोधिसत्त्वो भविष्यति । कुतः पृथिवीधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे पृथिवीधातुर् भविष्यति । कुतो ऽपृथिवीधातुर् भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो ऽब्धात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्राब्धातोर् बोधिसत्त्वो भविष्यति । कुतो ऽब्धातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे ऽब्धातुर् भविष्यति । कुतो ऽनब्धातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतस् तेजोधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र तेजोधातोर् बोधिसत्त्वो भविष्यति । कुतस् तेजोधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे तेजोधातुर् भविष्यति । कुतो ऽतेजोधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वायुधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वायुधातोर् बोधिसत्त्वो भविष्यति । कुतो वायुधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वायुधातुर् भविष्यति । कुतो ऽवायुधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुत आकाशधात्वधिवचनं बोधिसत्त्वो भविष्यति । तत् कुतो ऽन्यत्राकाशधातो बोधिसत्त्वो भविष्यति । कुत आकाशधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे आकाशधातुर् भविष्यति । कुतो ऽनाकाशधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानधात्वधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानधातोर् बोधिसत्त्वो भविष्यति । कुतो विज्ञानधातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानधातुर् भविष्यति । कुतो ऽविज्ञानधातुर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो ऽविद्याधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्रा विद्याया बोधिसत्त्वो भविष्यति । कुतो ऽविद्यायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे ऽविद्या भविष्यति । कुतो ऽनविद्यो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संस्कारेभ्यो बोधिसत्त्वो भविष्यति । कुतः संस्कारेषु बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे संस्कारो भविष्यति । कुतो ऽसंस्कारो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानाद् बोधिसत्त्वो भविष्यति । कुतो विज्ञाने बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानं भविष्यति । कुतो ऽविज्ञानो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो नामरूपाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र नामरूपाद् बोधिसत्त्वो भविष्यति । कुतो नामरूपे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे नामरूपं भविष्यति । कुतो ऽनामरूपो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः षडायतनाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र षडायतनाद् बोधिसत्त्वो भविष्यति । कुतः षडायतना बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे षडायतनं भविष्यति । कुतो ऽषडायतनो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्पर्शाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्पर्शाद् बोधिसत्त्वो भविष्यति । कुतः स्पर्शे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्पर्शो भविष्यति । कुतो ऽस्पर्शो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वेदनाया बोधिसत्त्वो भविष्यति । कुतो वेदनायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वेदना भविष्यति । कुतो ऽवेदनो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतस् तृष्णाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र तृष्णाया बोधिसत्त्वो भविष्यति । कुतस् तृष्णायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे तृष्णा भविष्यति । कुतो ऽतृष्णो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुत उपादानाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्रोपादानाद् बोधिसत्त्वो भविष्यति । कुत उपादाने बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे उपादानं भविष्यति । कुतो ऽनुपादानो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो भवाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र भवाद् बोधिसत्त्वो भविष्यति । कुतो भवे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे भवो भविष्यति । कुतो ऽभवो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जात्यधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जातेर् बोधिसत्त्वो भविष्यति । कुतो जातौ बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जातिर् भविष्यति । कुतो ऽजातिर् बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जरामरणाधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जरामरणाद् बोधिसत्त्वो भविष्यति । कुतो जरामरणे बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जरामरणं भविष्यति । कुतो ऽजरामरणो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपतथताया बोधिसत्त्वो भविष्यति । कुतो रूपतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रूपतथता भविष्यति । कुतो ऽरूपतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वेदनातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वेदनातथताया बोधिसत्त्वो भविष्यति । कुतो वेदनातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वेदनातथता भविष्यति । कुतो ऽवेदनातथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संज्ञातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संज्ञातथताया बोधिसत्त्वो भविष्यति । कुतः संज्ञातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे संज्ञातथता भविष्यति । कुतो ऽसंज्ञातथतो बोधिसत्त्वो भाविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संस्कारतथताया बोधिसत्त्वो भविष्यति । कुतः संस्कारतथतायां बोधिसत्त्वो भविष्यति । कुतः बोधिसत्त्वे संस्कारतथता भविष्यति । कुतो ऽसंस्कारतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानतथताया बोधिसत्त्वो भविष्यति । कुतो विज्ञानतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानतथता भविष्यति । कुतो ऽविज्ञानतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुस्तथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुस्तथताया बोधिसत्त्वो भविष्यति । कुतश् चक्षुस्तथतायां बोधिसत्त्वो भविव्यति । कुतो बोधिसत्त्वे चक्षुस्तथता भविष्यति । कुतो ऽचक्षुस्तथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्रतथताधिवचनं बोधिसत्त्वो भविश्यति । कुतो ऽन्यत्र श्रोत्रतथताया बोधिसत्त्वो भविष्यति । कुतः श्रोत्रतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रतथता भविष्यति । कुतो ऽश्रोत्रतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्राणतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणतथताया बोधिसत्त्वो भविष्यति । कुतो घ्राणतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणतथता भविष्यति । कुतो ऽघ्राणतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वातथताया बोधिसत्त्वो भविष्यति । कुतो जिह्वातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वातथता भविष्यति । कुतो ऽजिह्वातथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र कायतथताया बोधिसत्त्वो भविष्यति । कुतः कायतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायतथता भविष्यति । कुतो ऽकायतथता बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलते । तत् कुतो मनस्तथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनस्तथताया बोधिसत्त्वो भविष्यति । कुतो मनस्तथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनस्तथता भविष्यति । कुतो ऽमनस्तथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपतथताया बोधिसत्त्वो भविष्यति । कुतो रूपतथतायां बोधिसलो भविष्यति । कुतो बोधिसत्त्वे रूपतथता भविष्यति । कुतो ऽरूपतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः शब्दतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र शब्दतथताया बोधिसत्त्वो भविष्यति । कुतः शब्दतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे शब्दतथता भविष्यति । कुतो ऽशब्दतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो गन्धतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र गन्धतथताया बोधिसत्त्वो भविष्यति । कुतो गन्धतथतायां बोधिसत्त्वो भविव्यति । कुतो बोधिसत्त्वे गन्धतथता भविष्यति । कुतो ऽगन्धतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रसतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रसतथताया बोधिसत्त्वो भविष्यति । कुतो रसतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रसतथता भविष्यति । कुतो ऽरसतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्पर्शतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्पर्शतथताया बोधिसत्त्वो भविष्यति । कुतः स्पर्शतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्पर्शतथता भविष्यति । कुतो ऽस्पर्शतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो धर्मतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र धर्मतथताया बोधिसत्त्वो भविष्यति । कुतो धर्मतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे धर्मतथता भविष्यति । कुतो ऽधर्मतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुर्धातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुर्धातुतथताया बोधिसत्त्वो भविष्यति । कुतश् चक्षुर्धातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे चक्षुर्धातुतथता भविष्यति । कुतो ऽचक्षुर्धातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रूपधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रूपधातुतथताया बोधिसत्त्वो भविष्यति । कुतो रूपधातुतथतायां बोधित्त्ववो भविष्यति । कुतो बोधिसत्त्वे रूपधातुतथता भविष्यति । कुतो ऽरूपधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतश् चक्षुर्विज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र चक्षुर्विज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतश् चक्षुर्विज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे चक्षुर्विज्ञानधातुतथता भविष्यति । कुतो ऽचक्षुर्विज्ञानधातुतथतो बोधिसत्त्वो भविव्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्रधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र श्रोत्रधातुतथताया बोधिसत्त्वो भविष्यति । कुतः श्रोत्रधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रधातुतथता भविष्यति । कुतो ऽश्रोत्रधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः शब्दधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र शब्दधातुतथताया बोधिसत्त्वो भविष्यति । कुतः शब्दधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे शब्दधातुतथता भविष्यति । कुतो ऽशब्दधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः श्रोत्रविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र श्रोत्रविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतः श्रोत्रविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे श्रोत्रविज्ञानधातुतथता भविष्यति । कुतो ऽश्रोत्रविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बाधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्राणधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणधातुतथताया बोधिसत्त्वो भविष्यति । कुतो घ्राणधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणधातुतथता भविष्यति । कुतो ऽघ्राणधातुतथता बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो गन्धधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र गन्धधातुतथताया बोधिसत्त्वो भविष्यति । कुतो गन्धधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे गन्धधातुतथता भविष्यति । कुतो ऽगन्धधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो घ्राणविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र घ्राणविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतो घ्राणविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे घ्राणविज्ञानधातुतथता भविष्यति । कुतो ऽघ्राणविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वाधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वाधातुतथताया बोधिसत्त्वो भविष्यति । कुतो जिह्वाधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वाधातुतथता भविष्यति । कुतो ऽजिह्वाधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो रसधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र रसधातुतथताया बोधिसत्त्वो भविष्यति । कुतो रसधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे रसधातुतथता भविष्यति । कुतो ऽरसधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जिह्वाविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जिह्वाविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतो जिह्वाविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जिह्वाविज्ञानधातुतथता भविष्यति । कुतो ऽजिह्वाविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायधातुतथताधिवचनं बोधिसत्त्वो भविस्यति । कुतो ऽन्यत्र कायधातुतथताया बोधिसत्त्वो भविष्यति । कुतः कायधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायधातुतथता भविष्यति । कुतो ऽकायधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्प्रष्टव्यधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्प्रष्टव्यधातुतथताया बोधिसत्त्वो भविष्यति । कुतः स्प्रष्टव्यधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्प्रष्टव्यधातुतथता भविष्यति । कुतो ऽस्प्रष्टव्यधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः कायविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र कायविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतः कायविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे कायविज्ञानधातुतथता भविष्यति । कुतो ऽकायविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो मनोधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनोधातुतथताया बोधिसत्त्वो भविष्यति । कुतो मनोधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनोधातुतथता भविष्यति । कुतो ऽमनोधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो धर्मधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र धर्मधातुतथताया बोधिसत्त्वो भविष्यति । कुतो धर्मधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे धर्मधातुतथता भविष्यति । कुतो ऽधर्मधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो मनोविज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र मनोविज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतो मनोविज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे मनोविज्ञानधातुतथता भविष्यति । कुतो ऽमनोविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः पृथिवीधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र पृविवीधातुतथताया बोधिसत्त्वो भविष्यति । कुतः पृथिवीधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे पृथिवीधातुतथता भविष्यति । कुतो ऽपृथिवीधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । कुतो ऽब्धातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्राब्धातुतथताया बोधिसत्त्वो भविष्यति । कुतो ऽब्धातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे ऽब्धातुतथता भविष्यति । कुतो ऽनब्धातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतस् तेजोधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र तेजोधातुतथताया बोधिसत्त्वो भविष्यति । कुतस् तेजोधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे तेजोधातुतथता भविष्यति । कुतो ऽतेजोधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वायुधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वायुधातुतथताया बोधिसत्त्वो भविष्यति । कुतो वायुधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वायुधातुतथता भविष्यति । कुतो ऽवायुधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुत आकाशधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्राकाशधातुतथताया बोधिसत्त्वो भविष्यति । कुत आकाशधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे आकाशधातुतथता भविष्यति । कुतो ऽनाकाशधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानधातुतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानधातुतथताया बोधिसत्त्वो भविष्यति । कुतो विज्ञानधातुतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानधातुतथता भविष्यति । कुतो ऽविज्ञानधातुतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो ऽविद्यातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्राविद्यातथताया बोधिसत्त्वो भविष्यति । कुतो ऽविद्यातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे ऽविद्यातथता भविष्यति । कुतो ऽनविद्यातथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः संस्कारतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र संस्कारतथताया बोधिसत्त्वो भविष्यति । कुतः संस्कारतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे संस्कारतथता भविष्यति । कुतो ऽसंस्कारतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो विज्ञानतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र विज्ञानतथताया बोधिसत्त्वो भविष्यति । कुतो विज्ञानतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे विज्ञानतथता भविष्यति । कुतो ऽविज्ञानतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो नामरूपतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र नामरूपतथताया बोधिसत्त्वो भविष्यति । कुतो नामरूपतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे नामरूपतथता भविष्यति । कुतो ऽनामरूपतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः षडायतनतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र षडायातनतथताया बोधिसत्त्वो भविष्यति । कुतः षडायतनतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे षडायतनतथता भविव्यति । कुतो ऽषडायतनतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतः स्पर्शतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र स्पर्शतथताया बोधिसत्त्वो भविष्यति । कुतः स्पर्शतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे स्पर्शतथता भविष्यति । कुतो ऽस्पर्शतथतोबोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो वेदनातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र वेदनातथताया बोधिसत्त्वो भविष्यति । कुतो वेदनातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे वेदनातथता भविष्यति । कुतो ऽवेदनातथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कूतस् तृष्णातथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र तृष्णातथताया बोधिसत्त्वो भविष्यति । कुतस् तृष्णातथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे तृष्णातथता भविष्यति । कुतो ऽतृष्णातथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुत उपादानतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्रोपादानतथताया बोधिसत्त्वो भविष्यति । कुत उपादानतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे उपादानतथता भविष्यति । कुतो ऽनुपादानतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो भवतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र भवतथताया बोधिसत्त्वो भविष्यति । कुतो भवतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे भवतथता भविष्यति । कुतो ऽभवतथतो बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जातितथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जातितथताया बोधिसत्त्वो भविष्यति । कुतो जातितथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जातितथता भविष्यति । कुतो ऽजतितथतो बोधिसत्त्वो भधिष्यति ।
अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । तत् कुतो जरामरणतथताधिवचनं बोधिसत्त्वो भविष्यति । कुतो ऽन्यत्र जरामरणतथताया बोधिसत्त्वो भविष्यति । कुतो जरामरणतथतायां बोधिसत्त्वो भविष्यति । कुतो बोधिसत्त्वे जरामरणतथता भविष्यति । कुतो ऽजरामरणतथतो बोधिसत्त्वो भविष्यति ।
भगवान् आह । साधु साधु सुभूते एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्धितायां प्रज्ञापारमितानुपलब्धितायां शिक्षितव्यम् । यत् पुनः सुभूतिर् एवम् आह । कतमस्यैतद् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति । तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्काराणाम् एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगावान् आह तत् किं मन्यसे सुभूते विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपनित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञानित्यताया एतद् अधिवचनं आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारनित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् क मन्यसे सुभू संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञाननित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपसुखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपदुःखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनासुखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनादुःखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञासुखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवम् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञादुःखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारसुखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवम् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारदुःखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानसुखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानदुःखताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानानात्मताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नोहिदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह । तत् किं मन्यसे सुभूते संस्कारशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्काराशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाशून्यताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपनिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते । वेदनानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारनिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारानिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञाननिमित्तताया एतद् अधिवचनं बोधिसत्त्व इति आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानानिमित्तताया एतद् अधिवचमं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
भगवान् आह तत् किं मन्यसे सुभूते रूपप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते वेदनाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संज्ञाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्कारप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते संस्काराप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् । भगवान् आह तत् किं मन्यसे सुभूते विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति । आह नो हीदं भगवन् ।
अत्यन्ततया भगवन् रूपं न संविद्यते नोपलभ्यते । कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् वेदना न संविद्यते नोपलभ्यते । कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञा न संविद्यते नोपलभ्यते । कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् बोधिसत्त्वो न संविद्यते नोपलभ्यते । कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् रूपनित्यता न संविद्यते नोपलभ्यते । कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् रूपानित्यता न संविद्यते नोपलभ्यते । कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् वेदनानित्यता न संविद्यते नोपलभ्यते । कुतो वेदनानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् वेदनानित्यता न संविद्यते नोपलभ्यते । कुतो वेदनानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञानित्यता न न संविद्यते नोपलभ्यते । कुतः संज्ञानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञानित्यता न संविद्यते नोपलभ्यते । कुतः संज्ञानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारनित्यता न संविद्यते नोपलभ्यते । कुतः संस्कारनित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारानित्यता न संविद्यते नोपलभ्यते । कुतः संस्कारानित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञाननित्यता न संविद्यते नोपलभ्यते । कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञानानित्यता न संविद्यते नोपलभ्यते । कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् रूपसुखं न संविद्यते नोपलभ्यते । कुतः रूपसुखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् रूपदुःखं न संविद्यते नोपलभ्यते । कुतो रूपदुःखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् वेदनासुखं न संविद्यते नोपलभ्यते । कुतो वेदनासुखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् वेदनादुःखं न संविद्यते नोपलभ्यते । कुतो वेदनादुःखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञासुखं न संविद्यते नोपलभ्यते । कुतः संज्ञासुखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञादुःखं न संविद्यते नोपलभ्यते । कुतः संज्ञादुःखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारसुखं न संविद्यते नोपलभ्यते । कुतः संस्कारसुखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारदुःखं न संविद्यते नोपलभ्यते । कुतः संस्कारदुःखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञानसुखं न संविद्यते नोपलभ्यते । कुतो विज्ञानसुखाधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञानदुःखं न संविद्यते नोपलभ्यते । कुतो विज्ञानदुःखाधिवचनं बोधिसलो भविष्यति ।
अत्यन्ततया भगवन् रूपात्मा न संविद्यते नोपलभ्यते । कुतो रूपात्माधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् नैरात्म्यं न संविद्यते नोपलभ्यते । कुतो रूपनैरात्म्याधिवचनं बोधिसत्त्वो भविव्यति । अत्यन्ततया भगवन् वेदनात्मा न संविद्यते नोपलभ्यते । कुतो वेदनात्माधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् नैरात्म्यं न संविद्यते नोपलभ्यते । कुतो वेदनानैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञात्मा न संविद्यते नोपलभ्यते । कुतः संज्ञात्माधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संज्ञानैरात्म्यं न संविद्यते नोपलभ्यते । कुतः संज्ञानैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारात्मा न संविद्यते नोपलभते । कुतः संस्कारात्माधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् संस्कारनैरात्म्यं न संविद्यते नोपलभ्यते । कुतः संस्कारनैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञानात्मा न संविद्यते नोपलभ्यते । कुतो विज्ञानात्माधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् विज्ञाननैरात्म्यं न संविद्यते नोपलभ्यते । कुतो विज्ञाननैरात्म्याधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् शान्तं न विद्यते नोपलभ्यते । कुतो रूपशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते । कुतो रूपाशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते । कुतो वेदनाशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते । कुतो ऽवेदनाशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते । कुतः संज्ञाशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते । कुतः संज्ञाशान्ताधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते । कुतः संस्कारशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलहते । कुतः संस्काराशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शान्तं न संविद्यते नोपलभ्यते । कुतः विज्ञानशान्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशान्तं न संविद्यते नोपलभ्यते । कुतो विज्ञानाशान्ताधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवान् शून्यं न संविद्यते नोपलभ्यते । कुतो रूपशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते । कुतो वेदनाशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते । कुतो वेदनाशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते । कुतः संज्ञाशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते । कुतो संज्ञाशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते । कुतः संस्कारशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते । कुतः संस्काराशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् शून्यं न संविद्यते नोपलभ्यते । कुतो विज्ञानशून्याधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् अशून्यं न संविद्यते नोपलभ्यते । कुतो विज्ञानाशून्याधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया निमित्तं न संविद्यते नोपलभते । कुतो रूपनिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतो रूपानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतो वेदनानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतो वेदनानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतः संज्ञानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते न संविद्यते नोपलभ्यते । कुतो रूपाशून्याधिवचनं बोधिसत्त्वो भविष्यति । कुतः संज्ञानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतः संस्कारनिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतः संस्कारानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतो विज्ञाननिमित्ताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् निमित्तं न संविद्यते नोपलभ्यते । कुतो विज्ञानानिमित्ताधिवचनं बोधिसत्त्वो भविष्यति ।
अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो रूपप्रणिहिताधिवचनं बोधिसत्त्वो भविध्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो रूपाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो वेदनाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो वेदनाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतः संज्ञाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतः संज्ञाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतः संस्कारप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतः संस्काराप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो विज्ञानप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति । अत्यन्ततया भगवन् प्रणिहितं न संविद्यते नोपलभ्यते । कुतो विज्ञानाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति ।
भगवान् आह । साधु साधु सुभूते एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलम्भमानेन वेदनाधिवचनम् अनुपलम्भमानेन संज्ञाधिवचनम् अनुपलम्भमानेन संस्काराधिवचनम् अनुपलम्भमानेन विज्ञानाधिवचनम् अनुपलम्भमानेन । रूपनित्याधिवचनम् अनुपलम्भमानेन रूपानित्याधिवचनम् अनुपलम्भमानेन वेदनानित्याधिवचनम् अनुपलम्भमानेन वेदनानित्याधिवचनम् अनुपलम्भमानेन संज्ञानित्याधिवचनम् अनुपलम्भमानेन संज्ञानित्याधिवचनम् अनुपलम्भमानेन संस्कारनित्याधिवचनम् अनुपलम्भमानेन संस्कारानित्याधिवचनम् अनुपलम्भमानेन विज्ञाननित्याधिवचनम् अनुपलम्भमानेन विज्ञानानित्याधिवचनम् अनुपलम्भमानेन । रूपसुखाधिवचनम् अनुपलम्भमानेन रूपदुःखाधिवचनम् अनुपलम्भमानेन वेदनासुखाधिवचनम् अनुपलम्भमानेन वेदनादुःखाधिवचनम् अनुपलम्भमानेन । संज्ञासुखाधिवचनम् अनुपलम्भमानेन संज्ञादुःखाधिवचनम् अनुपलम्भमानेन संस्कारसुखाधिवचनम् अनुपलम्भमानेन संस्कारदुःखाधिवचनम् अनुपलम्भमानेन विज्ञानसुखाधिवचनम् अनुपलम्भमानेन विज्ञानदुःखाधिवचनम् अनुपलम्भनामेन । रूपात्माधिवचनम् अनुपलम्भमानेन रूपानात्माधिवचनम् अनुपलम्भमानेन वेदनात्माधिवचनम् अनुपलम्भमानेन वेदनानात्माधिवचनम् अनुपलम्भमानेन संज्ञात्माधिवचनम् अनुपलम्भमानेन संज्ञानात्माधिवचनम् अनुपलम्भमानेन संस्कारात्माधिवचनम् अनुपलम्भमानेन संस्कारानात्माधिवचनम् अनुपलम्भमानेन विज्ञानात्माधिवचनम् अनुपलम्भमानेन विज्ञानानात्माधिवरनम् अनुपलम्भमानेन रूपशान्ताधिवचनम् अनुपलम्भमानेन रूपाशान्ताधिवचनम् अनुपलम्भमानेन वेदनाशान्ताधिवचनम् अनुपलम्भमानेन वेदनाशान्ताधिवचनम् अनुपलम्भमानेन संज्ञाशान्ताधिवचनम् अनुपलम्भमानेन संज्ञाशान्ताधिवचनम् अनुपलम्भमानेन संस्कारशान्ताधिवचनम् अनुपलम्भमानेन संस्काराशान्ताधिवचनम् अनुपलम्भमानेन विज्ञानशान्ताधिवचनम् अनुपलम्भमानेन विज्ञानाशान्ताधिवचनम् अनुपलम्भमानेन रूपशून्याधिवचनम् अनुपलम्भमानेन रूपाशून्याधिवचनम् अनुपलम्भमानेन वेदनाशून्याधिवचनम् अनुपलम्भमानेन वेदनाशून्याधिवचनम् अनुपलम्भमानेन संज्ञाशून्याधिवचनम् अनुपलम्भमानेन संज्ञाशून्याधिवचनम् अनुपलम्भमानेन संस्कारशून्याधिवचनम् अनुपलम्भमानेन संस्काराशून्याधिवचनम् अनुपलम्भमानेन विज्ञानशून्याधिवचनम् अनुपलम्भमानेन विज्ञानाशून्याधिवचनम् अनुपलम्भमानेन । रूपनिमित्ताधिवचनम् अनुपलम्भमानेन रूपानिमित्ताधिवचनम् अनुपलम्भमानेन वेदनानिमित्ताधिवचनम् अनुपलम्भमानेन वेदनानिमित्ताधिवचनम् अनुपलम्भमानेन । संज्ञानिमित्ताधिवचनम् अनुपलम्भमानेन संज्ञानिमित्ताधिवचनम् अनुपलम्भमानेन संस्कारानिमित्ताधिवचनम् अनुपलम्भमानेन संस्कारानिमित्ताधिवचनम् अनुपलम्भमानेन विज्ञाननिमित्ताधिवचनम् अनुपलम्भमानेन विज्ञाननिमित्ताधिवचनम् अनुपलम्भमानेन रूपप्रण्हिताधिवचनम् अनुपलम्भमानेन रूपाप्रणिहिताधिवचनम् अनुपलम्भनेन वेदनाप्रणिहिताधिवचनम् अनुपलम्भमानेन वेदनाप्रणिहिताधिवचनम् अनुपलम्भमानेन संज्ञाप्रणिहिताधिवचनम् अनुपलम्भमानेन संज्ञाप्रणिहिताधिवचनम् अनुपलम्भमानेन संस्कारप्रणिहिताधिवचनम् अनुपलम्भमानेन संस्काराप्रणिहिताधिवचनम् अनुपलम्भमानेन विज्ञानप्रणिहिताधिवचनम् अनुपलम्भमानेन विज्ञानाप्रणिहिताधिवचनम् अनुपलम्भमानेन प्रज्ञापारमितायां शिक्षितव्यम् ।
यत् पुनः सुभूते वदसि नाहं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति । न सुभूते धर्मो धर्मधातुं समनुपश्यति । न संज्ञाधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुः संज्ञाधातुं समनुपश्यति । न संस्कारधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुः संस्कारधातुं समनुपश्यति । न विज्ञानधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुर् विज्ञानधातुं समनुपश्यति । न चक्षुर्धातुर् धर्मधातुं समनुपश्यति । न धर्मधातुश् चक्षुर्धातुं समनुपश्यति । न श्रोत्रधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुः श्रोत्रधातुं समनुपश्यति । न घ्राणधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुर् घ्राणधातुं समनुपश्यति । न जिह्वाधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुर् जिह्वाधातुं समनुपश्यति । न कायधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुः कायधातुं समनुपश्यति । न मनोधातुर् धर्मधातुं समनुपश्यति । न धर्मधातुर् मनोधातुं समनुपश्यति ।
न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति । नासंस्कृतधातुः संस्कृतधातुं समनुपश्यति । न च संस्कृतधातुव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं । नासंस्कृतव्यतिरेकेन संस्कृतधातुः शक्यः प्रज्ञपयितुं । एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति । असमनुपश्यन् नोत्त्रस्यति । न सन्त्रस्यति न सन्त्रासम् आपद्यते । न वास्य कस्मिंश्चिद् धर्मे चित्तम् अवलीयते । न विप्रतिसारीभवति मानसं । तत् कस्य हेतोस् तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं समनुपश्यति । वेदनां न समनुपश्यति । संज्ञां न समनुपश्यति । संस्कारान् न समनुपश्यति । विज्ञानं न समनुपश्यति । चक्षुर् न समनुपश्येत । श्रोत्रं न समनुपश्यति । घ्राणं न समनुपश्यति । जिह्वां न समनुपश्यति । कायं न समनुपश्यति । मनो न समनुपश्यति । रूपं न समनुपश्यति । शब्दं न समनुपश्यति । गन्धं न समनुपश्यति । रसं न समनुपश्यति । स्पर्शं न समनुपश्यति । धर्मं न समनुपश्यति । पृथिवीधातुं न समनुपश्यति । अब्धातुं न समनुपश्यति । तेजोधातुं न समनुपश्यति । वायुधातुं न समनुपश्यति । आकाशधातुं न समनुपश्यति । विज्ञानधातुं न समनुपश्यति । अविद्यां न समनुपश्यति । संस्कारान् न समनुपश्यति । विज्ञानं न समनुपश्यति । नामरूपं न समनुपश्यति । षडायतनं न समनुपश्यति । स्पर्शं न समनुपश्यति । वेदनां न समनुपश्यति । तृष्णां न समनुपश्यति । उपादानं न समनुपश्यति । भवं न समनुपश्यति । जातिं न समनुपश्यति । जरामरणं न समनुपश्यति । रागं न समनुपश्यति । द्वेषं न समनुपश्यति । मोहं न समनुपश्यति । आत्मानं न समनुपश्यति । सत्वं न समनुपश्यति । जीवं न समनुपश्यति । जन्तुं न समनुपश्यति । पोषं न समनुपश्यति । पुरुषं न समनुपश्यति । मनुजं न समनुपश्यति । मानवं न समनुपश्यति । कारकं न समनुपश्यति । कारापकं न समनुपश्यति । वेदकं न समनुपश्यति । वेदयितृकं न समनुपश्यति । जानकं न समनुपशयति । पश्यकं न समनुपश्यति । कामधातुं न समनुपश्यति । रूपधातुं न समनुपश्यति । आरूप्यधातुं न समनुपश्यति । श्रावकचित्तं न समनुपश्यति । प्रत्येकबुद्धचित्तं न समनुपश्यति । बोधिचित्तं न समनुपश्ग्नति । श्रावकधर्मान् न समनुपश्यति । प्रत्येकबुद्धं न समनुपश्यति । प्रत्येकबुद्धधर्मान् न समनुपश्यति । बोधिसत्त्वं न समनुपश्यति । बोधिसत्त्वधर्मान् न समनुपश्यति । बुद्धं न समनुपश्यति । बुद्धधर्मान् न समनुपश्यति । बोधिं न समनुपश्यति । यावत् सर्वधर्मान् लौकिकलोकोत्तरान् न समनुपश्यति । स सर्वधर्मान् न समनुपश्यति । न सन्त्रस्यति । न सन्त्रासम् आपद्यते ।
आह केन कारणेन भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्मेषु चित्तं नावलीयते । न संलीयते । भगवान् आह । तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति । अनेन कारणेन सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वेषु धर्मेषु चित्तं नावलीयते । न संलीयते । आह । कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य मनो न सन्त्रासम् आपद्यते । भगवान् आह । तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुञ् च नोपलभते । न समनुपश्यति । एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनो न सन्त्रासम् आपद्यते । एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं । सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते तञ् च बोधिसत्त्वं नोपलभते । तच् च बोधिसत्त्वनाम नोपलभते । एवम् एव बोधिसत्त्वस्याववादः । एषैवानुशासनी ।
शतसाहसस्र्याः प्राज्ञापारमिताया द्वितीयः परिवर्तः ॥
अथ तृतीयपरिवर्तः ।
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । रूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । संज्ञां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । संस्कारान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । चक्षुर् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । श्रोत्रं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । घ्राणं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । जिह्वां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । कायं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । मनो भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । रूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । शब्दं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । गन्धं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । रसं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । स्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । धर्मान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् ।
चक्षुर्विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । श्रोत्रविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । घ्राणविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । जिह्वाविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । कायविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । मनोविज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ।
चक्षुःसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । श्रोत्रसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । घ्राणसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । जिह्वासंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । कायसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । मनःसंस्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् ।
चक्षुःसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । श्रोत्रसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । घ्राणसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । जिह्वासंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । कायसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । मनःसंस्पर्शजां वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अविद्यां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । संस्कारान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । विज्ञानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । नामरूपं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । षडायतनं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । स्पर्शं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । वेदनां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । तृष्णां भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । उपादानं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । भवं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । जातिं भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् भगवन् परिज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ।
रागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । द्वेषं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । मोहं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सत्कायदृष्टिं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । विचिकित्सां प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । शीलव्रतपरामर्शं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । कामरागव्यापादं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । कामरागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अरूपरागं प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । संयोजनानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनुशयान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पर्युत्थानानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुर आहारान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुरो योगान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुर ओघान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुरो ग्रन्थान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वार्य् उपादानानि प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुरो विप्रयासान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । दशाकुशलान् कर्मपथान् प्रहातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ।
दशकुशलान् कर्मपथान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वारि ध्यानानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वार्य् अप्रमाणानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतस्रः आरूप्यसमापत्तीः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पञ्चाभिज्ञाः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । दानपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । शीलपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । क्षान्तिपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । वीर्यपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ध्यानपारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । प्रज्ञापारमितां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अध्यात्मशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । बहिर्धाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अध्यात्मबहिर्धाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । शून्यताशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । महाशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । परमार्थशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । संस्कृतशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । असंस्कृतशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अत्यन्तशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनवराग्रशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनवकारशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । प्रकृतिशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमितायां शिक्षितव्यं । सर्वधर्मशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । स्वलक्षणशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अनुपलम्भशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । स्वभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अभावस्वभावशून्यतां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वारि स्मृत्युपस्थानानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वारि सम्यक्प्रहाणानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुर ऋद्धिपादान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पञ्चेन्द्रियाणि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पञ्च बलानि परिप्युरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सप्त बोध्यङ्गानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । आर्याष्टाङ्गमार्गं परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वार्य् आर्यसत्यानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अष्टौ विमोक्षान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । दश तथागतबलानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चत्वारि वैशारद्यानि परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतस्रः प्रतिस ं विदः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । महामैत्रीं परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् । महाकरुणां परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । बोध्यङ्गवतिं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् ।
यत्र प्रथमध्याननिरोधः समापद्यते । निरोधाद् व्युत्थाय द्वितीयं ध्यानं समापद्यते । द्वितीयात् ध्यानाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय तृतीयं ध्यानं समापद्यते । तृतीयात् ध्यानाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय चतुर्थं ध्यानं समापद्यते । चतुर्थात् ध्यानाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय मैत्रीसमाधिं समापद्यते । मैत्र्याः समाधेर् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय करुणासमाधिं समापद्यते । करुणासमाधेर् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय मुदितासमाधिं समापद्यते । मुदितासमाधेर् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थायोपेक्षासमाधिं समापद्यते । उपेक्षासमाधेर् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थायाकाशानन्त्यायतनं समापद्यते । आकाशानन्त्यायतनाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय आकिञ्चन्यायतनं समापद्यते । आकिञ्चन्यायतनाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय विज्ञानानन्त्यायतनं समापद्यते । विज्ञानानन्त्यायनाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते । नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधः समापद्यते । निरोधाद् व्युत्थाय सिंहविक्लम्भितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सिंहविक्रीडितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार्मितायां शिक्षितव्यं । सर्वधारणीमुखसमाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । शूरङ्गमं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । रत्नमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चन्द्रप्रभं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चन्द्रध्वजकेतुं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्ममुद्रागतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अवलोकितमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । धर्मधातुनियतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रञापारमितायां शिक्षितव्यं । नियतध्वजकेतुं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । वज्रोपमं समाधिं समापत्तुकामेन बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मप्रवेशमुखं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । समाधिराजं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । राजमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । बलव्यूहं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । समुद्गतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मनिरुक्तिं नियतप्रवेशं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मज्ञानाधिवासनप्रवेशं समाधि समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । दशदिग्व्यवलोकितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधारणीमुखमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मास ं प्रशेषं समाधिं #रेअद् सर्वधर्मासंप्रमोषं समाधिं# समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वधर्मसमवशरणाकारमुद्रां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । आकाशस्थानस्थितं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । त्रिमण्डलपरिशुद्धं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अच्युताभिज्ञां समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पात्रगतं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । ध्वजाग्रकेयूरं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । सर्वक्लेशनिर्दहनं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । चतुर्मारबलनिराकरणं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । आकाशासङ्गविमुक्तिनिरुपलेपं समाधिं समापत्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । इति ह्य् एतान्य् अन्यानि च समाधिमुखानि प्रतिलब्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ।
पुनर् अपरं भगवन् सर्वसत्त्वानाम् अभिप्रायान् परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन कुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णो नापायेषु पतति । न हीनकूलेषूपपद्यते । न श्रावकभूमौ न प्रत्येकबुद्धभूमौ तिष्ठति । न च बोधिसत्त्वो महासत्त्वो मूर्धानं पततीति । प्रज्ञापारमितायां शिक्षितव्यं ।
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् । कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धानं पतति । एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत् । यद् आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकौशलेन षट्सु पारमितासु चरति । अनुपायकौशलेन शून्यतानिमित्ताप्रणिहितान् समाधीन् आगम्य नैव श्रावकभूमौ पतति । न प्रत्येकबुद्धभूमौ पतति । नैव बोधिसत्त्वन्यामम् अवक्रामेति । अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्यामः । आह । केन कारणेनायुष्मन् सुभूते अयं बोधिसत्त्वस्य महासत्त्वस्यामः । सुभूतिर् आह । आम इत्य् आयुष्मञ् छारद्वतीपुत्र उच्यते बोधिसत्त्वस्य महासत्त्वस्यामः । धर्मतृष्णाः । आह । कतमा आयुष्मन् सुभूते धर्मतृष्णाः । सुभूतिर् आह । इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं शून्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनाशून्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञाशून्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्काराः शून्या इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानं शून्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः ।
पुनर् अपरं शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनाम् अनित्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञाम् अनित्येत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्कारान् अनित्या इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानम् अनित्यम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः ॥
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः पज्ञापारमितायां चरन् रूपं दुःखम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनां दुःखेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञां दुःखेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्कारान् दुःखा इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानं दुःखम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनाम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञाम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्कारान् अनात्मान इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानम् अनात्मेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनाम् आनिमित्तेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञाम् आनिमित्तेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्कारान् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानम् आनिमित्तम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृणा आमः ।
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । वेदनाम् अप्रणिहितेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संज्ञाम् अप्रणिहितेत्य् अभिनिविशते ऽधितिष्ठति संजानाति । संस्कारान् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । विज्ञानम् अप्रणिहितम् इत्य् अभिनिविशते ऽधितिष्ठति संजानाति । इयम् उच्यते आयुष्मन् शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः ।
इदं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यं । इयं वेदना प्रहातव्या अनेन वेदना प्रहातव्या । इयं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्या । इमे संस्काराः प्रहातव्याः । अनेन संस्काराः प्रहातव्याः । इदं विज्ञानं प्रहातव्यम् । अनेन विज्ञानं प्रहातव्यम् इति । इदं दुःखं परिज्ञेयं । अनेन दुःखं परिज्ञेयम् इति । अयं समुदयः प्रहातव्यः । अनेन समुदयः प्रहातव्यः इति । अयं निरोधः साक्षात्कर्तव्यः । अनेन निरोधः साक्षात्कर्तव्यः । अयं मार्गो भावयितव्यः । अनेन मार्गो भावयितव्यः इति । अयं संक्लेशः । इदं व्यवदानम् इति । इमे धर्माः सेवितव्याः । इमे धर्मा न सेवितव्याः । इह बोधिसत्त्वेन महासत्त्वेन चरितव्यम् इह न चरितव्यम् इति । अयं बोधिसत्त्वस्य महासत्त्वस्य मार्गो ऽयं न मार्ग इति । इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षेयं न शिक्षेति । इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमितेयं न दानपारमिता । इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितेयं न शीलपारमितेति । इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितेयं न क्षान्तिपारमिता । इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितेयं न वीर्यपारमिता । इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितेयं न ध्यानपारमिता । इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितेयं न प्रज्ञापारमिता । इदं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति । अथ नोधिसत्त्वस्य महासत्त्वस्य न्यामः ।
सचेद् आयुष्मञ् छरद्वतीपुत्र बोधिसात्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् अभिनिविशते ऽधितिष्ठति संजानाति । अयं बोधिसत्त्वस्य महासत्त्वस्यानुलोमिकी धर्मतृष्णा आमः । आह । कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य न्यामः । सुभूतिर् आह । इहायुष्मञ् छारद्वतीपुत्र बोधिसात्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आध्यात्मशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति । न बहिर्धाशून्यतायां अध्यात्मशून्यतां समनुपश्यति । न बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति । नाध्यात्मशून्यतायां बहिर्धाशून्यतां समनुपश्यति । नाध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतां समनुपश्यति । न शून्यताशून्यतायाम् अध्यात्मबहिर्धाशून्यतां समनुपश्यति । न शून्यताशून्यतायां महाशून्यतां समनुपश्यति । न महाशून्यतायां परमार्थशून्यतां समनुपश्यति । न परमार्थशून्यतायां महाशून्यतां समनुपश्यति । न परमार्थशून्यतायां संस्कृतशून्यतां समनुपश्यति । न संस्कृतशून्यतायां परमार्थशून्यतां समनुपश्यति । न संस्कृतशून्यतायाम् असंस्कृतशून्यतां समनुपश्यति । नासंस्कृतशून्यतायां संस्कृतशून्यतां समनुपश्यति । नासंस्कृतशून्यतायाम् अनवराग्रशून्यतां समनुपश्यति । नानवराग्रशून्यतायाम् असंस्कृतशून्यतां समनुपश्यति । नानवराग्रशून्यतायाम् अनवकारशून्यतां समनुपश्यति । नानवकारशून्यतायाम् अनवराग्रशून्यतां समनुपश्यति । नानवकारशून्यतायाम् अत्यन्तशून्यतां समनुपश्यति । नात्यन्तशून्यतायां प्रकृतिशून्यतां समनुपश्यति । न प्रकृतिशून्यतायाम् अत्यन्तशून्यतां समनुपश्यति । न प्रकृतिशून्यतायां सर्वधर्मशून्यतां समनुपश्यति । न सर्वधर्मशून्यतायां प्रकृतिशून्यतां समनुपश्यति । न सर्वधर्मशून्यतायां स्वलक्षणशून्यतां समनुपश्यति । न स्वलक्षणशून्यतायां सर्वधर्मशून्यतां समनुपश्यति । न स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतां समनुपश्यति । नानुपलम्भशून्यतायां स्वलक्षणशून्यतां समनुपश्यति । नानुपलम्भशून्यतायाम् अभावशून्यतां समनुपश्यति । नाभावशून्यतायाम् अनुपलम्भशून्यतां समनुपश्यति । नाभावशून्यतायां स्वभाववशून्यतां समनुपश्यति । न स्वभावशून्यतायाम् अभावशून्यतां समनुपश्यति । न स्वभावशून्यतायाम् अभावस्वभावशून्यतां समनुपश्यति । नाभावस्वभावशून्यतायां सर्वधर्मशून्यतां समनुपश्यति ।
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वन्यामम् अवक्रामति । पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम् । यथा शिक्षमाणेन रूपं ज्ञातव्यं तेन च न मन्तव्यं । वेदनाज्ञातव्या तया च वेदनया न मन्तव्यं । संज्ञा ज्ञातव्या तया च संज्ञया न मन्तव्यं । संस्कारा ज्ञातव्याः तैश् च संस्कारैर् न मन्तव्यं । विज्ञानं ज्ञातव्यं तेन च विज्ञानेन न मन्तव्यं । चक्षुर् ज्ञातव्यं तेन च चक्षुषा न मन्तव्यं । श्रोत्रं ज्ञातव्यं तेन च श्रोत्रेण न मन्तव्यं । घ्राणं ज्ञातव्यं तेन च घ्राणेन न मन्तव्यं । जिह्वा ज्ञातव्या तया च जिह्वया न मन्तव्यं । कायं ज्ञातव्यं तेन च कायेन न मन्तव्यं । मनो ज्ञातव्यं तेन च मनसा न मन्तव्यं । रूपं ज्ञातव्यं तेन च रूपेण न मन्तव्यं । शब्दो ज्ञातव्यस् तेन च शब्देन न मन्तव्यं । गन्धो ज्ञातव्यस् तेन च गन्धेन न मन्तव्यं । रसो ज्ञातव्यस् तेन च रसेन न मन्तव्यं । स्पर्शो ज्ञातव्यस् तेन च स्पर्शेन न मन्तव्यम् । धर्मा ज्ञातव्यास् तैश् च धर्मैर् न मन्तव्यं । चक्षुर्विज्ञानं ज्ञातव्यं तेन च चक्षुर्विज्ञानेन न मन्तव्यं । श्रोत्रविज्ञानं ज्ञातव्यं तेन च श्रोत्रविज्ञानेन न मन्तव्यं । घ्राणविज्ञानं ज्ञातव्यं तेन च घ्राणविज्ञानेन न मन्तव्यं । जिह्वाविज्ञानं ज्ञातव्यं तेन च जिह्वाविज्ञानेन न मन्तव्यं । कायविज्ञानं ज्ञातव्यं तेन च कायविज्ञानेन न मन्तव्यं । मनोविज्ञानं ज्ञातव्यं तेन च मनोविज्ञानेन न मन्तव्यम् ।
चक्षुःसंस्पर्शो ज्ञातव्यस् तेन च चक्षुःसंस्पर्शेन न मन्तव्यं । श्रोत्रसंस्पर्शो ज्ञातव्यस् तेन च श्रोत्रसंस्पर्शेन न मन्तव्यं । घ्राणसंस्पर्शो ज्ञातव्यस् तेन च घ्राणसंस्पर्शेन न मन्तव्यं । जिह्वासंस्पर्शो ज्ञातव्यस् तेन च जिह्वासंस्पर्शेन न मन्तव्यं । कायसंस्पर्शो ज्ञातव्यस् तेन च कायसंस्पर्शेन न मन्तव्यं । मनःसंस्पर्शो ज्ञातव्यस् तेन च मनःसंस्पर्शेन न मन्तव्यं ।
चक्षुःसंस्पर्शप्रत्यया वेदना ज्ञातव्या । तया च चक्षुःसंस्पर्शप्रत्ययवेदनया न मन्तव्यं । श्रोत्रसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च श्रोत्रसंस्पर्शप्रत्ययवेदनया न मन्तव्यं । घ्राणसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च घ्राणसंस्पर्शप्रत्ययवेदनया न मन्तव्यं । जिह्वासंस्पर्शप्रत्ययवेदना ज्ञातव्या । तया च जिह्वासंस्पर्शप्रत्ययवेदनया न मन्तव्यं । कायसंस्पर्शप्रत्ययवेदना ज्ञातव्या तया च कायसंस्पर्शप्रत्ययवेदनया न मन्तव्यं । मनःसंस्पर्शप्रत्ययवेदना ज्ञातव्या । तया च मनःसंस्पर्शप्रत्ययवेदनया न मन्तव्यम् ।
पृथिवीधातुर् ज्ञातव्यस् तेन च पृथिवीधातुना न मन्तव्यं । अब्धातुर् ज्ञातव्यस् तेन चाब्धातुना न मन्तव्यं । तेजोधातुर् ज्ञातव्यस् तेन च तेजोधातुना न मन्तव्यं । वायुधातुर् ज्ञातव्यस् तेन च वायुधातुना न मन्तव्यं । आकाशधातुर् ज्ञातव्यस् तेन चाकाशधातुना न मन्तव्यं । विज्ञानधातुर् ज्ञातव्यस् तेन च विज्ञानधातुना न मन्तव्यं । अविद्या ज्ञातव्या तया चाविद्यया न मन्तव्यं । संस्कारा ज्ञातव्यास् तैश् च संस्कारैर् न मन्तव्यं । विज्ञानं ज्ञातव्यं तेन च विज्ञानेन न मन्तव्यं । नामरूपं ज्ञातव्यं तेन च नामरूपेण न मन्तव्यं । षडायतनं ज्ञातव्यं तेन च षडायतनेन न मन्तव्यं । स्पर्शो ज्ञातव्यस् तेन च स्पर्शेन न मन्तव्यं । वेदना ज्ञातव्या तया च वेदनया न मन्तव्यं । तृष्णा ज्ञातव्या तया च तृष्णया न मन्तव्यं । उपादानं ज्ञातव्यं तेन चोपादानेन न मन्तव्यं । भवो ज्ञातव्यस् तेन च भवेन न मन्तव्यं । जातिर् ज्ञातव्या तया च जात्या न मन्तव्यं । जरामरणं ज्ञातव्यं तेन च जरामरणेन न मन्तव्यं ।
दानपारमिता ज्ञातव्या तया च दानपारमितया न मन्तव्यं । शीलपारमिता ज्ञातव्या तया च शीलपारमितया न मन्तव्यं । क्षान्तिपारमिता ज्ञातव्या तया च क्षान्तिपारमितया न मन्तव्यं । वीर्यपारमिता ज्ञातव्या तया च वीर्यपारमितया न मन्तव्यं । ध्यानपारमिता ज्ञातव्या तया च ध्यानपारमितया न मन्तव्यं । प्रज्ञापारमिता ज्ञातव्या तया च प्रज्ञापारमितया न मन्तव्यं ।
अध्यात्मशून्यता ज्ञातव्या तया चाध्यात्मशून्यतया न मन्तव्यं । बहिर्धाशून्यता ज्ञातव्या तया च बहिर्धाशून्यतया न मन्तव्यं । अध्यात्मबहिर्धाशून्यता ज्ञातव्या तया चाध्यात्मबहिर्धाशून्यतया न मन्तव्यं । शून्यताशून्यता ज्ञातव्या तया च शून्यताशून्यतया न मन्तव्यं । महाशून्यता ज्ञातव्या तया च महाशून्यतया न मन्तव्यं । परमार्थशून्यता ज्ञातव्या तया च परमार्थशून्यतया न मन्तव्यं । संस्कृतशून्यता ज्ञातव्या तया च संस्कृतशून्यतया न मन्तव्यं । असंस्कृतशून्यता ज्ञातव्या तया चासंस्कृतशून्यतया न मन्तव्यं । अत्यन्तशून्यता ज्ञातव्या तया च अत्यन्तशून्यतया न मन्तव्यं । अनवराग्रशून्यता ज्ञातव्या तया चानवराग्रशून्यतया न मन्तव्यं । अनवकारशून्यता ज्ञातव्या तया चानवकारशून्यतया न मन्तव्यं । अनुपलम्भशून्यता ज्ञातव्या तया चानुपलम्भशून्यतया न मन्तव्यं । अभावशून्यता ज्ञातव्या तया चाभावशून्यतया न मन्तव्यं । स्वभावशून्यता ज्ञातव्या तथा च स्वभावशून्यतया न मन्तव्यं । स्वलक्षणशून्यता ज्ञातव्या तया च स्वलक्षणशून्यतया न मन्तव्यं । अभावस्वभावशून्यता ज्ञातव्या तया चाभावस्वभावशून्यतया न मन्तव्यं ।
ध्यानानि ज्ञातव्यानि तैश् च ध्यानैर् न मन्तव्यं । अप्रमाणानि ज्ञातव्यानि तैश् चाप्रमाणैर् न मन्तव्यं । आरूप्यसमापत्तयो ज्ञातव्यास् ताभिश् चारूप्यसमापत्तिभिर् न मन्तव्यं । अभिज्ञाः ज्ञातव्यास् ताभिश् चाभिज्ञाभिर् न मन्तव्यं । पञ्चचक्षूंषि ज्ञातव्यानि तैश् च पञ्चचक्षुर्भिर् न मन्तव्यं । स्मृत्युपस्थानानि ज्ञातव्यानि तैश् च स्मृत्युपस्थानैर् न मन्तव्यं । सम्यक्प्रहाणानि ज्ञातव्यानि तैश् च सम्यक्प्रहाणैर् न मन्तव्यं । ऋद्धिपादा ज्ञातव्यास् तैश् च ऋद्धिपादैर् न मन्तव्यं । इन्द्रियाणि ज्ञातव्यानि तैश् चेन्द्रिर्यैर् न मन्तव्यं । बलानि ज्ञातव्यानि तैश् च बलैर् न मन्तव्यं । बोध्यङ्गानि ज्ञातव्यानि तैश् च बोध्यङ्गैर् न मन्तव्यं । आर्याष्टाङ्गमार्गो ज्ञातव्यस् तेन चार्याष्टाङ्गमार्गेण न मन्तव्यं । आर्यसत्यानि ज्ञातव्यानि तैश् चार्यसत्यैर् न मन्तव्यं । अष्टौ विमोक्षा ज्ञातव्यास् तैश् चाष्टविमोक्षैर् न मन्तव्यं । नवानुपूर्वविहारसमापत्तयो ज्ञातव्यास् ताभिश् च नवभिर् अनुपूर्वविहारसमापत्तिभिर् न मन्तव्यं । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ज्ञातव्यानि तैश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् न मन्तव्यं । समाधयो ज्ञातव्यास् तैश् च समाधिभिर् न मन्तव्यं । धारणीमुखानि ज्ञातव्यानि तैश् च धारणीमुखैर् न मन्तव्यं । दशतथागतबलानि ज्ञातव्यानि तैश् च दशतथागतबलैर् न मन्तव्यं । चत्वारि वैशारद्यानि ज्ञातव्यानि तैश् च वैशारद्यैर् न मन्तव्यं । चतस्रः प्रतिस ं विदो ज्ञातव्याः ताभिश् च प्रतिस ं विद्भिर् न मन्तव्यं । महामैत्री ज्ञातव्या तया च महामैत्र्या न मन्तव्यं । महाकरुणा ज्ञातव्या तया च महाकरुणया न मन्तव्यं । अष्टादशावेणिकबुद्धधर्मा ज्ञातव्यास् तैश् चाष्टादशावेणिकधर्मैर् न मन्तव्यं ।
एवं खलु आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तेनापि बोधिचित्तेन न मन्तव्यं । असमसमचित्तेन न मन्तव्यं । उदारचित्तेन न मन्तव्यं । तत् कस्य हेतोस् तथा हि तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरता । आह । का पुनर् आयुष्मन् सुभूते चित्तस्य प्रकृतिप्रभास्वरता । सुभूतिर् आह । यदायुष्मञ् छारद्वतीपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं न संयोजनैः संयुक्तं न विसंयुक्तं । न दृष्टिकृतैः संयुक्तं न विसंयुक्तं । न श्रावकचित्तेन संयुक्तं न विसंयुक्तं । न प्रत्येकबुद्धचित्तेन संयुक्तं न विसंयुक्तं । इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य चित्तस्य प्रकृतिप्रभास्वरता । आह । किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तं । सुभूतिर् आह । किं पुनर् आयुष्मन् शारद्वतीपुत्र या अचित्तता तत्रास्तिता या अस्तिता वा नास्तिता वा न संविद्यते नोपलभ्यते । आह नो हीदं आयुष्मन् सुभूते । सुभूतिर् आह । सचेद् आयुष्मञ् छारद्वतीपुत्र तत्रास्तिता या अस्तिता वा नास्तिता वा न संविद्यते नोपलभ्यते । अपि नु युक्तस् ते एष पर्यनुयोगो यदायुष्मञ् छारद्वतीपुत्र एवम् आहास्ति तच् चित्तम् अचित्तम् इति । आह । का पुनर् आयुष्मन् सुभूते अचित्तता । सुभूतिर् आह । अविकारा अविवाल्पा आयुष्मञ् छारद्वतीपुत्राचित्तता याः सर्वधर्माणां तथता । इयम् उच्यते अचिन्त्या अचित्तता । आह । किं पुनर् आयुष्मन् सुभूते यथैव चित्तम् अविकारम् अविकल्पं तथैव रूपम् अप्य् अविकारम् अविकल्पं तथैव वेदनाप्य् अविकारा अविकल्पा । तथैव संज्ञाप्य् अविकारा अविकल्पा । तथैव संस्कारा अप्य् अविकारा अविकल्पाः । तथैव विज्ञानम् अप्य् अविकारम् अविकल्पम् ।
यथैव चित्तम् अविकारम् अविकल्पं तथैव चक्षुर् अप्य् अविकारम् अविकल्पं । तथैव श्रोत्रम् अप्य् अविकारम् अविकल्पं । तथैव घ्राणम् अप्य् अविकारम् अप्य् अविकल्पं । तथैव जिह्वाप्य् अविकारा अविकल्पा । तथैव कायो ऽप्य् अविकारो ऽविकल्पः । तथैव मनो ऽप्य् अविकारम् अविकल्पं । तथैव चित्तम् अविकारम् अविकल्पं । तथैव रूपम् अप्य् अविकारम् अविकल्पं । तथैव शब्दो ऽप्य् अविकारो ऽविकल्पः । तथैव गन्धो ऽप्य् अविकारो ऽविकल्पः । तथैव रसो ऽप्य् अविकारो ऽविकल्पः । तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः । तथैव धर्मा अप्य् अविकारा अविकल्पा । तथैव चित्तम् अप्य् अविकारम् अविकल्पं । तथैव चक्षुर्धातुर् अप्य् अविकारो ऽविकल्पः । तथैव रूपधातुर् अप्य् अविकारो ऽविकल्पः । तथैव चक्षुर्विज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव श्रोत्रधातुर् अप्य् अविकारो ऽविकल्पः । तथैव शब्दधातुर् अप्य् अविकारो ऽविकल्पः । तथैव श्रोत्रविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव घ्राणधातुर् अप्य् अविकारो ऽविकल्पः । तथैव गन्धधातुर् अप्य् अविकारो ऽविकल्पः । तथैव घ्राणविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव जिह्वाधातुर् अप्य् अविकारो ऽविकल्पः । तथैव रसधातुर् अप्य् अविकारो ऽविकल्पः । तथैव जिह्वाविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव कायधातुर् अप्य् अविकारो ऽविकल्पः । तथैव स्प्रष्टव्यधातुर् अप्य् अविकारो ऽविकल्पः । तथैव कायविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव मनोधातुर् अप्य् अविकारो ऽविकल्पः । तथैव धर्मधातुर् अप्य् अविकारो ऽविकल्पः । तथैव मनोविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः ।
यथैव चित्तम् अविकारम् अविकल्पं । तथैवाविद्या प्य् अविकाराविकल्पा । तथैव संस्कारा अप्य् अविकारा अविकल्पाः । तथैव विज्ञानम् अप्य विकारम् अविकल्पं । तथैव नामरूपम् अप्य् अविकारम् अविकल्पं । तथैव षडायतनम् अप्य् अविकारम् अविकल्पं । तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः । तथैव वेदनाप्य् अविकारा अविकल्पा । तथैव तृष्णाप्य् अविकारा अविकल्पा । तथैवोपादानम् अप्य् अविकारम् अविकल्पं । तथैव भवो ऽप्य् अविकारो ऽविकल्पः । तथैव जातिर् अप्य् अविकारा अविकल्पा । तथैव जरामरणम् अप्य् अविकारम् अविकल्पं ।
यथैव चित्तम् अविकारम् अविकल्पं । तथैव दानपारमिताप्य् अविकाराविकल्पा । तथैव शीलपारमिताप्य् अविकाराविकल्पा । तथैव क्षान्तिपारमिताप्य् अविकाराविकल्पा । तथैव वीर्यपारमिताप्य् अविकाराविकल्पा । तथैव ध्यानपारमिताप्य् अविकाराविकल्पा । तथैव प्रज्ञापारमिताप्य् अविकाराविकल्पा ।
यथैव चित्तम् अविकारम् अविकल्पं । तथैवाध्यात्मशून्यताप्य् अविकाराविकल्पा । तथैव बहिर्धाशून्यताप्य् अविकाराविकल्पा । तथैवाध्यात्मबहिर्धाशून्यताप्य् अविकाराविकल्पा । तथैव शून्याशून्यताप्य् अविकाराविकल्पा । तथैव महाशून्यताप्य् अविकाराविकल्पा । तथैव परामार्थशून्यताप्य् अविकाराविकल्पा । तथैव संस्कृतशून्यताप्य् अविकाराविकल्पा । तथैवात्यन्तशून्यताप्य् अविकाराविकल्पा । तथैवानवराग्रशून्यताप्य् अविकाराविकल्पा । तथैवानवकारशून्यताप्य् अविकाराविकल्पा । तथैव प्रकृतिशून्यताप्य् अविकाराविकल्पा । तथैव सर्वधर्मशून्यताप्य् अविकाराविकल्पा । तथैव स्वलक्षणशून्यताप्य् अविकाराविकल्पा । तथवानुपलम्भशून्यताप्य् अविकाराविकल्पा । तथैवाभावशून्यताप्य् अविकाराविकल्पा । तथैव स्वभावशून्यताप्य् अविकाराविकल्पा । तथैवाभावस्वभावशून्यताप्य् अविकाराविकल्पा ।
यथैव चित्तम् अविकारम् अविकल्पं । तथैव स्मृत्युपस्थानान्य् अविकाराण्य् अविकल्पानि । तथैव सम्यक्प्रहाणान्य् अविकाराण्य् अविकल्पानि । तथैव ऋद्धिपादा अप्य् अविकारा अविकल्पाः । तथैवेन्द्रियाण्य् अविकाराण्य् अविकल्पानि । तथैव ध्यानान्य् अविकाराण्य् अविकल्पानि । तथैव बोध्यङ्गान्य् अविकाराण्य् अविकल्पानि । तथैवार्याष्टाङ्गमार्गो ऽप्य् अविकारो ऽविकल्पः । तथैवार्यसत्यान्य् अविकाराण्य् अविकल्पानि । तथैव ध्यानान्य् अविकाराण्य् अविकल्पानि । तथैवाप्रमाणान्य् अविकाराण्य् अविकल्पानि । तथैवारूप्यसमापत्तयो ऽप्य् अविकाराः अविकल्पाः । तथैवाष्टौ विमोक्षा अप्य् अविकारा अविकल्पा । तथैव नवानुपूर्वविहारसमापत्तयो ऽप्य् अविकारा अविकल्पाः । तथैव शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अविकाराण्य् अविकल्पानि । तथैवाभिज्ञाप्य् अविकारा अविकल्पा । तथैव समाधयो ऽप्य् अविकाराः अविकल्पाः । तथैव धारणीमुखान्य् अविकाराण्य् अविकल्पानि । तथैव दश तथागतबलान्य् अविकाराण्य् अविकल्पानि । तथैव वैशारद्यान्य् अविकाराण्य् अविकल्पानि । तथैव चतस्रः प्रतिस ं विदो ऽप्य् अविकारा अविकल्पाः । तथैव महामैत्र्य् अप्य् अविकाराविकल्पा । तथैव महाकरुणाप्य् अविकाराविकल्पा । तथैवाष्टादशावेनिकबुद्धधर्मा अप्य् अविकारा अविकल्पाः ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव श्रोतआपत्तिफलम् अप्य् अविकारम् अविकल्पं । तथैव सकृदागामिफलम् अप्य् अविकारम् अविकल्पं । तथैवानागामिफलम् अप्य् अविकारम् अविकल्पं । तथैवार्हत्वम् अप्य् अविकारम् अविकल्पं । तथैव प्रत्येकबोधिर् अप्य् अविकाराविकल्पा । तथैव मार्गाकारज्ञताप्य् अविकाराविकल्पा । तथैव सर्वाकारज्ञताप्य् अविकाराविकल्पा ।
सुभूतिर् आह । एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव चक्षुर् अप्य् अविकारम् अविकल्पं । तथैव श्रोत्रम् अप्य् अविकारम् अविकल्पं । तथैव घ्राणम् अप्य् अविकारम् अविकल्पं । तथैव जिह्वाप्य् अविकाराविकल्पा । तथैव कायो ऽप्य् अविकारो ऽविकल्पः । तथैव मनो ऽप्य् अविकारम् अविकल्पं ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव रूपम् अप्य् अविकरम् अविकल्पं । तथैव शब्दो ऽप्य् अविकारो ऽविकल्पः । तथैव गन्धो ऽप्य् अविकारो ऽविकल्पः । तथैव रसो ऽप्य् अविकारो ऽविकल्पः । तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः । तथैव धर्मा अप्य् अविकारा अविकल्पा ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव चक्षुर्धातुर् अप्य् अविकारो ऽविकल्पः । तथैव रूपधातुर् अप्य् अविकारो ऽविकल्पः । तथैव चक्षुर्विज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव श्रोत्रधातुर् अप्य् अविकारो ऽविकल्पः । तथैव शब्दधातुर् अप्य् अविकारो ऽविकल्पः । तथैव श्रोत्रविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव घ्राणधातुर् अप्य् अविकारो ऽविकल्पः । तथैव गन्धधातुर् अप्य् अविकारो ऽविकल्पः । तथैव घ्राणविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव जिह्वाधातुर् अविकारो ऽविकल्पः । तथैव रसधातुर् अप्य् अविकारो ऽविकल्पः । तथैव जिह्वाविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव कायधातुर् अप्य् अविकारो ऽविकल्पः । तथैव स्प्रष्टव्यधातुर् अप्य् अविकारो ऽविकल्पः । तथैव कायविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः । तथैव मनोधातुर् अप्य् अविकारो ऽविकल्पः । तथैव धर्मधातुर् अप्य् अविकारो ऽविकल्पः । तथैव मनोविज्ञानधातुर् अप्य् अविकारो ऽविकल्पः ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैवाविद्याप्य् अविकाराविकल्पा । तथैव संस्कारा अप्य् अविकारा अविकल्पाः । तथैव विज्ञानम् अप्य् अविकारम् अविकल्पं । तथैव नामरूपम् अप्य् अविकारम् अविकल्पं । तथैव षडायतनम् अप्य् अविकारम् अविकल्पं । तथैव स्पर्शो ऽप्य् अविकारो ऽविकल्पः । तथैव वेदनाप्य् अविकाराविकल्पा । तथैव तृष्णाप्य् अविकाराविकल्पा । तथैवोपादानम् अप्य् अविकारम् अविकल्पं । तथैव भवो ऽप्य् अविकारो ऽविकल्पः । तथैव जातिर् अप्य् अविकाराविकल्पा । तथैव जरामरणम् अप्य् अविकारम् अविकल्पं । तथैव दानपारमिताप्य् अविकाराविकल्पा । तथैव शीलपारमिताप्य् अविकाराविकल्पा । तथैव क्षान्तिपारमिताप्य् अविकाराविकल्पा । तथैव वीर्यपारमिताप्य् अविकाराविकल्पा । तथैव ध्यानपारमिताप्य् अविकाराविकल्पा । तथैव प्रज्ञापारमिताप्य् अविकाराविकल्पा ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैवाध्यात्मशून्युताप्य् अविकाराविकल्पा । तथैव बहिर्धाशून्यताप्य् अविकाराविकल्पा । तथैवाध्यात्मबहिर्धाशून्यताप्य् अविकाराविकल्पा । तथैव शून्यताशून्यताप्य् अविकाराविकल्पा । तथैव महाशून्यताप्य् अविकाराविकल्पा । तथैव परमार्थशून्यताप्य् अविकाराविकल्पा । तथैव संस्कृतशून्याताप्य् अविकाराविकल्पा । तथैवासंस्कृतशून्यताप्य् अविकाराविकल्पा । तथैवात्यन्तशून्यताप्य् अविकाराविकल्पा । तथैवानवराग्रशून्यताप्य् अविकाराविकल्पा । तथैवानवकारशून्यताप्य् अविकाराविकल्पा । तथैव प्रकृतिशून्यताप्य् अविकाराविकल्पा । तथैव सर्वधर्मशून्यताप्य् अविकाराविकल्पा । तथैव स्वलक्षणशून्यताप्य् अविकाराविकल्पा । तथैवानुपलम्भशून्यताप्य् अविकाराविकल्पा । तथैवाभावशून्यताप्य् अविकाराविकल्पा । तथैव स्वभावशून्यताप्य् अविकाराविकल्पा । तथैवाभावस्वभावशून्यताप्य् अविकाराविकल्पा ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव स्मृत्युपस्थानान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैव सम्यक्प्रहाणान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैवर्धिपादा अप्य् अविकारा अविकल्पा । तथैवेन्द्रियाण्य् अप्य् अविकाराण्य् अविकल्पानि । तथैव बोध्यङ्गान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैवार्याष्टाङ्गमार्गो ऽप्य् अविकारो ऽविकल्पः । तथैवार्यसत्यान्य् अविकाराण्य् अविकल्पानि । तथैव ध्यानान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैवाप्रमाणान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैवारूप्यसमापत्तयो ऽप्य् अविकारा अविकल्पा । तथैवाष्टौ विमोक्षा अप्य् अविकारा अविकल्पा । तथैवानुपूर्वाविहारसमापत्तयो ऽप्य् अविकाराः अविकल्पाः । तथैव शून्यतानिमित्ताप्राणिहितविमोक्षमुखान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैवाभिज्ञा अप्य् अविकारा अविकल्पा । तथैव समाधयो ऽप्य् अविकारा अविकल्पाः । तथैव धारणीमुखान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैव महामैत्र्य् अविकारा अविकल्पा । तथैव महाकरुणाप्य् अविकाराविकल्पा । तथैव दश तथागतबलान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैव चत्वारि वैशारद्यान्य् अप्य् अविकाराण्य् अविकल्पानि । तथैव चतस्रः प्रतिस ं विदो ऽप्य् अविकारा अविकल्पा । तथैवाष्टादशावेणिकबुद्धधर्मा अप्य् अविकारा अविकल्पा ।
यथैव चित्तम् अचित्तम् अविकारम् अविकल्पं । तथैव श्रोतआपत्तिफलम् अप्य् अविकारम् अविकल्पं । तथैव सकृदागामिफलम् अप्य् अविकारम् अविकल्पं । तथैवानागामिफलम् अप्य् अविकारम् अविकल्पं । तथैवार्हत्वम् अप्य् अविकारम् अविकल्पं । तथैव प्रत्येकबोधिर् अप्य् अविकाराविकल्पा । तथैव मार्गाकारज्ञताप्य् अविकाराविकल्पा । तथैव सर्वाकारज्ञताप्य् अविकाराविकल्पा । तथैव सर्वज्ञताप्य् अविकाराविकल्पा ।
अथायुष्माञ् छारद्वतीपुत्रः आयुष्मते सुभूतये साधुकारम् अदात् । साधु साधु आयुष्मन् सुभूते । यथापि नाम त्वं भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो नामिषदायादः । प्रत्यक्षचक्षुर् धर्मेषु कायसाक्षी । यथापि तद् अरण्यविहारिणां श्रावकाणां अग्र्यतायां भगवता निर्दिष्टस्यायम् उपदेशः । एवम् आयुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं । अतो बोधिसत्त्वो महासत्त्वो ऽवैवर्तिक उपपरीक्षितव्यः । अविरहितश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां वेदितव्यः । श्रावकभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता प्रयत्रतः श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या । प्रत्येकबुद्धभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या । बोधिसत्त्वभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या । बुद्धभूमाव् अपि शिक्षितुकामेनायुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्या ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसि कर्तव्या । तत् कस्य हेतोः । अत्र हि प्रज्ञापारमितायां विस्तरेण त्रीणि यानान्य् उपदिशन्ते यत्र बोधिसत्त्वैः श्रावकैः प्रत्येकबुद्धैश् च सततसमितं शिक्षितव्यं ॥
शतसाहस्र्यां प्रज्ञापारमितायां तृतीयः परिवर्तः ॥
अथ चतुर्थपरिवर्तः ।
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत् । यो ऽहं भगवन् बोधिसत्त्वं प्रज्ञापारमितां न विन्दामि नोपलभते । सो ऽहं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमिताञ् चाविन्दन्न् अनुपलभमानः कतमं बोधिसत्त्वं महासत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि । एतद् एव मे भगवन् कौकृत्यं स्याद् यो ऽहं सर्वधर्माणाम् आयं व्ययञ् चानुपलभमानो नामधेयमात्रेणायव्ययं कुर्यात् । यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा । अपि नु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितम् ।
रूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् रूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्य कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् वेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वेदनाया संज्ञाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् संज्ञाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवन्स् तद् अपि संज्ञानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । संस्काराणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि ॥ सो ऽहं भगवन् संस्काराणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भवन्स् तद् अपि संस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नमधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
चक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवंश् चक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुर्नामधेयं न स्थिथं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । श्रोत्रस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यति । सो ऽहं भगवन् श्रोत्रस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि यद् उत बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । घ्राणस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् घ्राणस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् घ्राणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जिह्वाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जिह्वाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कायस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कायस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मनसो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मनस आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
रूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् रूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । तत् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि रूपनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । शब्दस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शब्दस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । गन्धस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् गन्धस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि गन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । रसस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् रसस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । स्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । धर्माणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
चक्षुर्विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् चक्षुर्विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुर्विज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । श्रोत्रविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् श्रोत्रविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्य इति । अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । घ्राणविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् घ्राणविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जिह्वाविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जिह्वाविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वाविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कायविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कायविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कायविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं च स्थितं न विष्ठितं नाधिष्ठितं । मनोविज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मनोविज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मनोविज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
चक्षुःसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् चक्षुःसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुःसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । श्रोत्रसंस्पर्शस्याहं भगवन्न् आयं व्ययश् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् श्रोत्रसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । घ्राणसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् घ्राणसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जिह्वासंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जिह्वासंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वासंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कायसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कायसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कायसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मनःसंस्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मनःसंस्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मनःसंस्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
चक्षुःसंस्पर्शजाया वेदनायाहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवंश् चक्षुःसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि चक्षुःसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । श्रोत्रसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् श्रोत्रसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि श्रोत्रसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । घ्राणसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् घ्राणसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि घ्राणसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जिह्वासंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जिह्वासंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जिह्वासंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कायसंस्पर्शजाया वेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कायसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कायसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मनःसंस्पर्शजावेदनाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मनःसंस्पर्शजावेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मनःसंस्पर्शजावेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
पृथिवीधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् पृथिवीधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि पृथिवीधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अब्धातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अब्धातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि अब्धातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तेजोधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवंस् तेजोधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति अपि तु खलु पुनर् भगवंस् तद् अपि तेजोधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वायुधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् वायुधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि वायुधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । आकाशधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् आकाशधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् आकाशधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
विज्ञानधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् विज्ञानधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञानधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अविद्याया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अविद्याया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अविद्यानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । संस्काराणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् संस्काराणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि संस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
विज्ञानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् विज्ञानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । नामरूपस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् नामरूपस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामरूपनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । षडायतनस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् षडायतनस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि षडायतननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । स्पर्शस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्पर्शस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं म स्थितं न विष्ठितं नाथिष्ठितं । वेदनायाहं भगवन्न् आयं व्ययञ् च नोपलभे स समनुपश्यामि । सो ऽहं भगवन् वेदनाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि वेदनानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तृष्णाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवंस् तृष्णाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि तृष्णानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
उपादानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् उपादानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि उपादाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जातेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जातेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जातिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जरामरणस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जरामरणस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जरामरणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अविद्यानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अविद्यानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि अविद्यानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । संस्कारनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् संस्कारनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि संस्कारनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । विज्ञाननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् विज्ञाननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि विज्ञाननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । नामरूपनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् नामरूपनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि नामरूपनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । षडायतननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् षडायतननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि षडायतननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । स्पर्शनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्पर्शनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्पर्शनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वेदनानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् वेदनानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि वेदनानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तृष्णानिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् तृष्णानिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि तृष्णानिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । उपादाननिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् उपादाननिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादाननिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । भवनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् भवनिरोधस्यायं व्ययञ् चानुपलमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि भवनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जातिनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जातिनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जातिनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जरामरणनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जरामरणनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जरामरणनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न
स्थितं न विष्ठितं नाधिष्ठितं ।
रागस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि रागनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । द्वेषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् द्वेषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि द्वेषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मोहस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मोहस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मोहनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं तत् कस्य हेतोः अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
दृष्टिगतानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् दृष्टिगतानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि दृष्टिगतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । आत्मनो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् आत्मन आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् आत्मनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सत्त्वस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् सत्त्वस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि सत्त्वनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जीवस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जीवस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जीवनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । जन्तोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जन्तोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जन्तुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । सर्वं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । पोषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् पोषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि पोषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । पुरुषस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् पुरुषस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि पुरुषनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । पुद्गलस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् पुद्गलस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि पुद्गलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मनुजस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मनुजस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मनुजनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
मानवस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मानवस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मानवनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कारकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कारकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कारकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वेदकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् वेदकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति। अपि तु खलु पुनर् भगवंस् तद् अपि वेदकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
जानकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् जानकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि जानकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । पश्यकस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् पश्यकस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि पश्यकनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
दानपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् दानपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि दानपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । शीलपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शीलपारमिताया आयं व्यायञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि शीलपारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । क्षान्तिपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् क्षान्तिपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि क्षान्तिपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । वीर्यपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् वीर्यपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि वीर्यपारमितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । ध्यानपारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् ध्यानपारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि ध्यानपारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । प्रज्ञापारमिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रज्ञापारमिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनस् तद् अपि प्रज्ञापारमिता नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
अध्यात्मशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अध्यत्मशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अध्यात्मशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । बहिर्धाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् बहिर्धाशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि बहिर्धाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठित । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अध्यात्मबहिर्धाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अध्यात्मबर्हिद्धशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अध्यात्मबहिर्धाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । शून्यताशुन्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शून्यताशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि शून्यताशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । महाशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् महाशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि महाशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । परमार्थशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् परमार्थशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि परमार्थशून्यताया नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सत्कृतशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् संस्कृतशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि संस्कृतशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अत्यन्तशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अत्यन्तशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अत्यन्तशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अनवराग्रशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनवराग्रशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनवराग्रशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अनवकारशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनवकारशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनवकारशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । प्रकृतिशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रकृतिशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि प्रकृतिशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सर्वधर्मशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् सर्वधर्मशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि सर्वधर्मशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । स्वलक्षणशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्वलक्षणशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्वलक्षणशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
अनुपलम्भशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनुपलम्भशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनुपलम्भशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । स्वभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्वभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्वभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अभावस्वभावशून्यताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अभावस्वभावशून्यताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अभावस्वभावशून्यतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
स्मृत्युपस्थानानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्मृत्युपस्थानानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि स्मृत्युपस्थाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सम्यक्प्रहाणानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् सम्यक्प्रहाणानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि सम्यक्प्रहाणनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
ऋद्धिपादानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् ऋद्धिपादानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् ऋद्धिपादनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । इन्द्रियाणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् इन्द्रियाणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपीन्द्रियनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । बलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् बलानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि बलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधैयस्य । बोध्यङ्गानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् बोध्यङ्गानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि बोध्यङ्गनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । आर्याष्टाङ्गमार्गस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि सो ऽहं भगवन्न् आर्याष्टाङ्गःमार्गस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् आर्याष्टाङ्गमार्गनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । शून्यताविमोक्षमुखस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शून्यताविमोक्षमुखस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि शून्यताविमोक्षमुखनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठित । प्रणिहितविमोक्षमुखस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रणिहितविमोक्षमुखस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि प्रणिहितविमोक्षमुखनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । चतुर्णाम् अपि भगवन् ध्यानानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् चतुर्णां ध्यानानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि ध्याननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मैत्र्या अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मैत्र्या आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मैत्रीनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । करुणाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् करुणाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि करुणानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मुदिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मुदिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मुदितानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । उपेक्षाया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् उपेक्षाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपेक्षा नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । चतसृणाम् अहं भगवन्न् आरूप्यसमापत्तीनाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् आरूप्यसमापत्तिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । बुद्धानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् बुद्धानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व
इति । अपि तु खलु पुनर् भगवंस् तद् अपि बुद्धानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । धर्मानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्मानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि धर्मानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सङ्घानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् सङ्घानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि सङ्घानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
शीलानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शीलानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् । कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि शीलानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । त्यागानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् त्यागानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि त्यागानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कायगतानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कायगतानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कायगतानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
उद्वेगानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् उद्वेगानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि नोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उद्वेगानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । आलापानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् आलापानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् आलापानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मरणानुस्मृतेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मरणानुस्मृतेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मरणानुस्मृतिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मांसचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मांसचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि मांसचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । दिव्यचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् दिव्यचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि दिव्यचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । प्रज्ञाचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रज्ञाचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि प्रज्ञाचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । धर्मचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्मचक्षुष आयं व्ययञ् चानुपलमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि धर्मचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । बुद्धचक्षुषो ऽहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् बुद्धचक्षुष आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि बुद्धचक्षुर्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
षण्णाम् अभिज्ञानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् षण्णाम् अभिज्ञानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि षडभिज्ञानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । दशानां तथागतबलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् दशानां तथागतबलानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि दशतथागतबलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । चतुर्णां वैशारद्यानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् चतुर्णां वैशारद्यानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि वैशारद्यनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । चतसृणां प्रतिस ं विदाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् चतसृणां प्रतिस ं विदाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि प्रतिस ं विन्नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । महाकरुणाया अहं भगवन्न् आयं व्ययञ् च नोपलधे न समनुपश्यामि । सो ऽहं भगवन् महाकरुणाया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि महाकरुणानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अष्टादशावेणिकबुद्धधर्माणाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अष्टादशावेणिकबुद्धधर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अष्टादशावेणिकबुद्धधर्मनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् स्वप्नोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । मायोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भवगन् मायोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । प्रतिश्रुत्कोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रतिश्रुत्कोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । प्रतिभासोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रतिभासोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो न समनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
प्रतिबिम्बोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् प्रतिबिम्बोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं माधिष्ठितं । मरीच्युपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् मरीच्युपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । दकचन्द्रोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् दकचन्द्रोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं विष्ठितं नाधिष्ठितं । निमित्तकोपमानाम् अहं पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् निमित्तकोपमानां पञ्चानाम् उपादानस्कन्धानाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् उपादानस्कन्धनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । विविक्तस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् विविक्तस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनस् तद् अपि विविक्तनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
शान्तस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् शान्तस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि शान्तनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठित् । अनुत्पादस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनुत्पादस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनुत्पादनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
अनिरोधस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनिरोधस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनिरोधनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अप्रादुर्भावस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् अप्रादुर्भावस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अप्रादुर्भावनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अनभिसंस्कारस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अनभिसंस्कारस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अनभिसंस्कारनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं माधिष्ठितं । असंक्लेशस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् असंक्लेशस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् असंक्लेशनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । व्यवदानस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् व्यवदानस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि व्यवदाननामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
धर्मधातोर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्मधातोर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि धर्मधातुनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तथागतस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् तथागतस्यायं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि तथागतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । भूतकोटेर् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् भूतकोटेर् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि भूतकोटिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
धर्मस्थितिताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्मस्थितिताया आयं व्ययञ् चानुपलभमानो ऽसमनुपस्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि धर्मस्थितिनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । धर्मनियामताया अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् धर्मनियामताया आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि धर्मनियामतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । कुशलाकुशलानाम् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् कुशलाकुशलानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि कुशलाकुशलनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । लौकिकलोकोत्तराणाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् लौकिकलोकोत्तराणां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि लौकिकलोकोत्तरनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । संस्कृतासंस्कृतानाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् संस्कृतासंस्कृतानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि संस्कृतासंस्कृतनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
साश्रवाणाम् अहं भगवन् धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् साश्रवाणां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि साश्रवधर्मं नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । अतीतानागतप्रत्युत्पन्नानाम् अहं धर्माणाम् आयं व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन्न् अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयं व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अप्य् अतीतानागतप्रत्युत्पन्नानां धर्माणां नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
अनतीतस्यानागतस्यां प्रत्युत्पन्नस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । किं न तद् इत्य् उच्यते । असंस्कृतं हि नातीतं नानागतं न प्रत्युत्पन्नं । असंस्कृतस्याहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । कतमच् चासंस्कृतं यस्य नोत्पादो न स्थितिर् न भङ्गः भगवतो ऽप्य् अहं भगवन्न् आयं व्ययञ् च नोपलभे न समनुपश्यामि । पूर्वस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । दक्षिणस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । पश्चिमायां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । उत्तरस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । उत्तरपूर्वस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । पूर्वदक्षिणस्यां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । दक्षिणपश्चिमायां दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानाम् आयश् च व्ययञ् च नोपलभे न समनुपश्यामि । पश्चिमोत्तरस्यां दिस्य् अहं भगवम् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । अधस्ताद् दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । उपरिष्टाद् दिश्य् अहं भगवन् गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्स ं बुद्धानां सश्रावकसंघानां सबोधिसत्त्वानाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अवदिष्याम्य् अनुशासिष्यामि । कतमाञ् च प्रज्ञापारमिताम् उपदेक्ष्यामि । अपि तु खलु पुनर् भगवंस् तद् अपि तथागतनामधेयं न स्थितं न विष्ठितं नाथिष्ठितं । तद् अपि संघनामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि । सो ऽहं भगवन् सर्वधर्मतथताया आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति । अपि तु खलु पुनर् भगवंस् तद् अपि सर्वधर्मतथतानामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं ।
यापि भगवन् नामधर्मसंकेतकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति । सा न केनचिद् वचनीया रूपेण वा वेदनया वा संज्ञया वा संस्कारैर् वा विज्ञानेन वा चक्षुषा वा श्रोत्रेण वा घ्राणेन वा जिह्वया वा कायेन वा मनसा वा रूपेण वा शब्देन वा गन्धेन वा रसेन वा स्पर्शेन वा धर्मेण वा । चक्षुर्विज्ञानेन वा श्रोत्रविज्ञानेन वा घ्राणविज्ञानेन वा जिह्वाविज्ञानेन वा कायविज्ञानेन वा मनोविज्ञानेन वा । चक्षुःसंस्पर्शेन वा श्रोत्रसंस्पर्शेन वा घ्राणसंस्पर्शेन वा जिह्वासंस्पर्शेन वा कायसंस्पर्शेन वा मनःसंस्पर्शेन वा । चक्षुःसंस्पर्शप्रत्ययवेदनया वा श्रोत्रसंस्पर्शप्रत्ययवेदनया वा घ्राणसंस्पर्शप्रत्ययवेदनया वा जिह्वासंस्पर्शप्रत्ययवेदनया वा कायसंस्पर्शप्रत्ययवेदनया वा मनःसंस्पर्शप्रत्ययवेदनया वा । पृथिवीधातुना वा अब्धातुना वा तेजोधातुना वा वायुधातुना वा आकाशधातुना वा विज्ञानधातुना वा । अविद्यया वा संस्कारैर् वा विज्ञानेन वा नामरूपेण वा षडायतनेन वा स्पर्शेन वा वेदनया वा तृष्णया वा उपादानेन वा भवेन वा जात्या वा जरामरणेन वा । दानपारमितया वा शीलपारमितया वा क्षान्तिपारमितया वा वीर्यपारमितया वा ध्यानपारमितया वा प्रज्ञापारमितया वा । अध्यात्मशून्यतया वा बहिर्धाशून्यतया वा अध्यात्मबहिर्धाशून्यतया वा । शून्यताशून्यतया वा परमार्थशून्यतया वा । असंस्कृतशून्यतया वा अत्यन्तशून्यतया वा अनवकारशून्यतया वा प्रकृतिशून्यतया वा सर्वधर्मशून्यतया वा स्वलक्षणशून्यतया वा अनुपलम्भशून्यतया वा अभावशून्यतया वा स्वभावशून्यतया वा अभावस्वभावशून्यतया वा । स्मृत्युपस्थानैर् वा सम्यक्प्रहाणैर् वा ऋद्धिपादैर् वा इन्द्रियैर् वा बलैर् वा बोध्यङ्गैर् वा आर्याष्टाङ्गमार्गेण वा आर्यसत्यैर् वा ध्यानैर् वा अप्रमाणैर् वा आरूप्यसमापत्तिभिर् वा शून्यतानिमित्ताप्रणिहितविशेषैर् वा तथागतबलैर् वा वैशारद्यैर् वा प्रतिस ं विद्भिर् वा महामैत्र्या वा महाकरुणया वा आवेणिकबुद्धधर्मैर् वा यावद् एव धर्मप्रज्ञप्तिः । तथापि नाम भगवन् सप्त इति नाम केनचिद् वचनीयं । मायेति वा नाम केनचिद् वचणीयं प्रतिश्रुत्केति नाम प्रतिभास इति नाम केनचिद् वचनीयं । मरीचिकेति नाम केनचिद् वचनीयं । दकचन्द्र इति केनचिद् वचनीयं । तथागत इति केनचिद् वचनीयं । तद्यथापि नाम भगवन् आकाशम् इति नाम केनचिद् वचनीयं । पृथिवीति नाम केनचिद् वचनीयं । आप इति नाम केनचिद् वचनीयं । तेज इति नाम केनचिद् वचनीयं । वायुर् इति नाम केनचिद् वचनीयं । तथतेति नाम केनचिद् वचनीयं । अवितथतेति नाम केनचिद् वचनीयं ।
अनन्यतथतेति नाम न केनचिद् वचनीयं । धर्मतथतेति नाम न केनचिद् वचनीयं । धर्मधातुर् इति न केनचिद् वचनीयं । धर्मस्थितितेति न केनचिद् वचनीयं । भूतकोटिर् इति नाम न केनचिद् वचनीयं । दानपारमितेति नाम न केनचिद् वचनीयं । शीलपारमितेति नाम न केनचिद् वचनीयं । क्षान्तिपारमितेति नाम न केनचिद् वचनीयं । वीर्यपारमितेति नाम न केनचिद् वचनीयं । ध्यानपारमितेति नाम न केनचिद् वचनीयं । प्रज्ञापारमितेति नाम न केनचिद् वचनीयं ।
शीलम् इति नाम न केनचिद् वचनीयं । समाधिर् इति नाम न केनचिद् वचनीयं । प्रज्ञेति नाम न केनचिद् वचनीयं । विमुक्तिर् इति नाम न केनचिद् वचनीयं । विमुक्तिज्ञानदर्शनम् इति नाम न केनचिद् वचनीयं । श्रोतआपन्न इति नाम न केनचिद् वचनीयं । श्रोतआपन्नः न केनचिद् वचनीयः । श्रोतआपन्नधर्मा इति नाम न केनचिद् वचनीयः । सकृदागामीति नाम न केनचिद् वचनीयं । सकृदागामिधर्मा इति नाम न केनचिद् वचनीयं । अनागामीति नाम न केनचिद् वचनीयं । अनागामिधर्मा इति नाम न केनचिद् वचनीयं । अर्हन्न् इति नाम न केनचिद् वचनीयं । अर्हद्धर्मा इति नाम न केनचिद् वचनीयं । प्रत्येकबुद्ध इति नाम न केनचिद् वचनीयं । प्रत्येकबुद्धधर्मा इति न केनचिद् वचनीयं । बोधिसत्त्व इति नाम न केनचिद् वचनीयं । बोधिसत्त्वधर्मा इति नाम न केनचिद् वचनीयं । सम्यक्स ं बुद्ध इति नाम न केनचिद् वचनीयं ।
कुशलेन वाकुशलेन वा सावद्येन वा अनवद्येन वा नित्येन वा अनित्येन वा सुखेन वा दुःखेन वा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेन वा भावेन वा अभावेन वा । इमम् अप्य् अहं भगवन्न् अर्थवशं प्रतीत्यैवं वदाम्य् एतद् एव मे कौकृत्यं स्यात् यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं कुर्यां यद् उत बोधिसत्त्व इति प्रज्ञापारमितेति वा । अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं नैव स्थितं न विष्ठितं नाधिष्ठितं । तत् कस्य हेतोर् अविद्यमानत्वात् तस्य नामधेयस्य । एवं तन् नामधेयं न स्थितं न विष्ठितं नाधिष्ठितं । सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं प्रज्ञापारमितायां भाष्यमाणायाम् एभिर् आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् उपदिश्यमानायां चित्तं नावलीयते न संलीयते । न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते नियतं स बोधिसत्त्वो महासत्त्वो ऽवैवर्तिको बोधिसत्त्वभूमौ वेदितव्यः स्थितं इत्य् अस्थानयोगेन ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे तेन न स्थातव्यं । वेदनायां तेन न स्थातव्यं । संज्ञायां तेन न स्थातव्यं । संस्कारेषु तेन न स्थातव्यं । विज्ञाने तेन न स्थातव्यं । चक्षुंसि तेन न स्थातव्यं । श्रोत्रे तेन न स्थातव्यं । घ्राणे तेन न स्थातव्यं । जिह्वायां तेन न स्थातव्यं । काये तेन न स्थातव्यं । मनसि तेन न स्थातव्यं । रूपे तेन न स्थातव्यं । शब्दे तेन न स्थातव्यं । गन्धे तेन न स्थातव्यं । रसे तेन न स्थातव्यं । स्पर्शे तेन न स्थातव्यं । धर्मेषु तेन न स्थातव्यं । चक्षुर्विज्ञाने तेन न स्थातव्यं । श्रोत्रविज्ञाने तेन न स्थातव्यं । घ्राणविज्ञाने तेन न स्थातव्यं । जिह्वाविज्ञाने तेन न स्थातव्यं । कायविज्ञाने तेन न स्थातव्यं । मनोविज्ञाने तेन न स्थातव्यं । चक्षुःसंस्पर्शे तेन न स्थातव्यं । श्रोत्रसंस्पर्शे तेन न स्थातव्यं । घ्राणसंस्पर्शे तेन न स्थातव्यं । जिह्वासंस्पर्शे तेन न स्थातव्यं । कायसंस्पर्शे तेन न स्थातव्यं । मनःसंस्पर्शे तेन न स्थातव्यं ।
चक्षुःसंस्पर्शजायां वेदनायां तेन न स्थातव्यं । श्रोत्रसंस्पर्शजायां वेदनायां तेन न स्थातव्यं । घ्राणसंस्पर्शजायां वेदनायां तेन न स्थातव्यं । जिह्वासंस्पर्शजायां वेदनायां तेन न स्थातव्यं । कायसंस्पर्शजायां वेदनायां तेन न स्थातव्यं । मनःसंस्पर्शजायां वेदनायां तेन न स्थातव्यं । पृथिवीधातौ तेन न स्थातव्यं । अब्धातौ तेन न स्थातव्यं । तेजोधातौ तेन न स्थातव्यं । वायुधातौ तेन न स्थातव्यं । आकाशधातौ तेन न स्थातव्यं । विज्ञानधातौ तेन न स्थातव्यं । अविद्यायां तेन न स्थातव्यं । संस्कारेषु तेन न स्थातव्यं । विज्ञाने तेन न स्थातव्यं । नामरूपे तेन न स्थातव्यं । षडायतने तेन न स्थातव्यं । स्पर्शे तेन न स्थातव्यं । वेदनायां तेन न स्थातव्यं । तृष्णायां तेन न स्थातव्यं । उपादाने तेन न स्थातव्यं । जातौ तेन न स्थातव्यं । जरामरणे तेन न स्थातव्यं ।
तत् कस्य हेतोस् तथा हि भगवन् रूपं रूपेण शून्यं । या च रूपशून्यता न तद् रूपं न चान्यत्र रूपाच् छून्यता । रूपम् एव शून्यता शून्यतैव रूपं । वेदना वेदनया शून्या । या च वेदनाशून्यता न सा वेदेना । न चान्यत्र वेदनायाः शून्यता । वेदनैव शून्यता । शून्यतैव वेदना । संज्ञा संज्ञया शून्यता । या च संज्ञायाः शून्यता न सा संज्ञा । न चान्यत्र संज्ञायाः शून्यता संज्ञैव शून्यता शून्यतैव संज्ञा । संस्काराः संस्कारैः शून्याः । या च संस्कारशून्यता न त संस्काराः न चान्यत्र संस्कारेभ्यः शून्यतासंस्कारा एव शून्यता शून्यतैव संस्काराः । विज्ञानं विज्ञानेन शून्यं । या च विज्ञानशून्यता तद् विज्ञानं । न चान्यत्र विज्ञानाच् छून्यता विज्ञानम् एव शून्यता शून्यतैव विज्ञानं । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे तेन न स्थातव्यं । वेदनायां तेन न स्थातव्यं । संज्ञायां तेन न स्थातव्यं । संस्कारेषु तेन न स्थातव्यं । विज्ञाने तेन न स्थातव्यं ।
तथा हि भगवन् चक्षुश् चक्षुषा शून्यं । या च चक्षुःशून्यता न तच् चक्षुः न चान्यत्र चक्षुषः शून्यता । चक्षुर् एव शून्यता शून्यतैव चक्षुः । श्रोत्रं श्रोत्रेण शून्यं । या च श्रोत्रशून्यता न तत् श्रोत्रं । न चान्यत्र श्रोत्राच् छून्यता श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं । घ्राणं घ्राणेन शून्यं । या च घ्राणशून्यता न तद् घ्राणं । न चान्यत्र घ्राणाच् छून्यता । घ्राणम् एव शून्यता शून्यतैव घ्राणं । जिह्वा जिह्वया शून्या । या च जिह्वाशून्यता न सा जिह्वा न चान्यत्र जिह्वायाः शून्यता जिह्वैव शून्यता शून्यतैवं जिह्वा । कायः कायेन शून्यः । या च कायशून्यता न स कायः न चान्यत्र कायाच् छून्यता । काय एव शून्यता शून्यतैव कायः । मनो मनसा शून्यं । या च मनःशून्यता न तन् मनः । न चान्यत्र मनसः शून्यता मन एव शून्यता शून्यतैव मनः । रूपं रूपेण शून्यं । या च रूप्यशून्यता न तद् रूपं । न चान्यत्र रूपाच् छून्यता रूपम् एव शून्यता शून्यतैव रूपं । शब्दः शब्देन शून्यः । या च शब्दशून्यता न स शब्दः । न चान्यत्र शब्दाच् छून्यता । शब्द एव शून्यता शून्यतैव शब्दः । गन्धो गन्धेन शून्यः । या च गन्धशून्यता न स गन्धः । न चान्यत्र गन्धाच् छून्यता गन्ध एव शून्यता शून्यतैव गन्धः । रसो रसेन शून्यः । या च रसशून्यता न रसः । न चान्यत्र रसाच् छून्यता रस एव शून्यता शून्यतैव रसः । स्पर्शः स्पर्शेन शून्यः । या च स्पर्शशून्यता न स स्पर्शः । न चान्यत्र स्पर्शाच् छून्यता स्पर्श एव शून्यता शून्यतैव स्पर्शः । धर्मा धर्मैः शून्याः । या च धर्मशून्यता न ते धर्माः । न चान्यत्र धर्मेभ्येः शून्यता धर्मा एव शून्यता शून्यतैव धर्माः ।
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं । या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं । न चान्यत्र चक्षुर्विज्ञानाच् छून्यता । चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं । श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं । या च श्रोत्रविज्ञानशून्यता न तत् श्रोत्रविज्ञानं । न चान्यत्र श्रोत्रविज्ञानाच् छून्यता । श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं । घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं । या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं न चान्यत्र घ्राणविज्ञानाच् छून्यता । घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं । जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं । या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं । न चान्यत्र जिह्वाविज्ञानाच् छून्यता जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं । कायविज्ञानं कायविज्ञानेन शून्यं । या च कायविज्ञानशून्यता न तत् कायविज्ञानं । न चान्यत्र कायविज्ञानाच् छून्यता शून्यतैव कायविज्ञानं । मनोविज्ञानं मनोविज्ञानेन शून्यं । या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं । न चान्यत्र मनोविज्ञानाच् छून्यता । मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं ।
चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः । या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः । न चान्यत्र चक्षुःसंस्पर्शाच् छून्यता । चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः । श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः । या च श्रोत्रसंस्पर्शशून्यता न स श्रोत्रसंस्पर्शः । स चान्यत्र श्रोत्रसंस्पर्शाच् छून्यता । श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः । घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः । या च घ्राणसंस्पर्शशून्यता न स घ्राणसंस्पर्शः । न चान्यत्र घ्राणसंस्पर्शाच् छून्यता । घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः । जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः । या च जिह्वासंस्पर्शशून्यता न स जिह्वासंस्पर्शः । न चान्यत्र जिह्वासंस्पर्शाच् छून्यता । जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः । कायसंस्पर्शः कायसंस्पर्शेन शून्यः । या च कायसंस्पर्शशून्यता न स कायसंस्पर्शः । स चान्यत्र कायसंस्पर्शाच् छून्यता । कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः । मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः । या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शः । न चान्यत्र मनःसंस्पर्शाच् छून्यता । मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः ।
चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या । या च चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता न सा चक्षुःसंस्पर्शप्रत्ययवेदना न चान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः शून्यता । चक्षुःसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदना । श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया शून्या । न चान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः शून्यता । श्रोत्रसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदना । घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या । या च घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता न सा घ्राणसंस्पर्शप्रत्ययवेदना न चान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः शून्यता । घ्राणसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव घ्राणासंस्पर्श्प्रत्ययः वेदना । जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनयाशून्या । या च जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता न सा जिह्वासंस्पर्शप्रत्ययवेदना । न चान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः शून्यता । जिह्वासंस्पर्शप्रत्ययवेदनैव शून्यता । शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदना । कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या । या च कायसंस्पर्शप्रत्ययवेदनाशून्यता न सा कायसंस्पर्शप्रत्ययवेदना । न चान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः शून्यता । कायसंस्पर्शप्रत्ययवेदनैव शून्यता । शून्यतैव कायसंस्पर्शप्रत्ययवेदना । मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या । या च मनःसंस्पर्शप्रत्ययवेदनाशून्यता न सा मनःसंस्पर्शप्रत्ययवेदना । न चान्यत्र मनःसंस्पर्शप्रत्ययवेदनयाः शून्यता । मनःसंस्पर्शप्रत्ययवेदनैव शून्यता । शून्यतैव मनःसंस्पर्शप्रत्ययवेदना ।
पृथिवीधातुः पृथिवीधातुना शून्यः । या च पृथिवीधातुशून्यता न स पृथिवीधातुः । न चान्यत्र पृथिवीधातोः शून्यता । पृथिवीधातुर् एव शून्यता शून्यतैव पृथिवीधातुः । अब्धातुर् अब्धातुना शून्यः या चाब्धातुशून्यता न सो ऽब्धातुः । न चान्यत्राब्धातोः शून्यता । अब्धातुर् एव शून्यता शून्यतैवाब्धातुः । तेजोधातुस् तेजधातुना शून्यः । या च तेजोधातुशून्यता न स तेजोधातुः । न चान्यत्र तेजोधातोः शून्यता । तेजोधातुर् एव शून्यता शून्यतैव तेजोधातुः । वायुधातुर् वायुधातुना शून्यः । या च वायुधातुशून्यता न स वायुधातुः । न चान्यत्र वायुधातोः शून्यता । वायुधातुर् एव शून्यता शून्यतैव वायुधातुः । आकाशधातुर् आकाशधातुना शून्यः । या चाकाशधातुशून्यता न स आकाशधातुः । न चान्यत्राकाशधातोः शून्यता । आकाशधातुर् एव शून्यता । शून्यतैवाकाशधातुः । विज्ञानधातुर् विज्ञानधातुना शून्यः । या च विज्ञानधातुशून्यता न स विज्ञानधातुः । न चान्यत्र विज्ञानधातोः शून्यता । विज्ञानधातुर् एव शून्यता शून्यतैव विज्ञानधातुः । अविद्या भगवन्न् अविद्यया शून्या । या चाविद्याशून्यता न साविद्या । न चान्यत्राविद्यायाः शून्यता । अविद्यैव शून्यता शून्यतैवाविद्या । संस्काराः संस्कारैः शून्याः । या च संस्कारशून्यता न ते संस्काराः । न चान्यत्र संस्कारेभ्यः शून्यता । संस्कारा एव शून्यता । शून्यतैव संस्कारा । विज्ञानं विज्ञानेन शून्यं । या च विज्ञानशून्यता न तद् विज्ञानं । न चान्यत्र विज्ञानाच् छून्यता । विज्ञानम् एव शून्यता शून्यतैव विज्ञानं ।
नामरूपं नामरूपेण शून्यं । या च नामरूपशून्यता न तन् नामरूपं । न चान्यत्र नामरूपाच् छून्यता । नामरूपम् एव शून्यता शून्यतैव नामरूपं । षडायतनं षडायतनेन शून्यं । या च षडायतनशून्यता न तत् षडायतनं । न चान्यत्र षडायतनाच् छून्यता । षडायतनम् एव शून्यता शून्यतैव षडायतनं । स्पर्शः स्पर्शेन शून्यः । या च स्पर्शशून्यता न स स्पर्शः । न चान्यत्र स्पर्शाच् छून्यता । स्पर्श एव शून्यता शून्यतैव स्पर्शः । वेदना वेदनया शून्या । या च वेदनाशून्यता न सा वेदना । न चान्यत्र वेदना शून्यता । वेदनैव शून्यता शून्यतैव वेदना । तृष्णा तृष्णया शून्या । या च तृष्णाशून्या न सा तृष्णा । न चान्यत्र तृष्णायाः शून्यता । तृष्णैव शून्यता शून्यतैव तृष्णा । उपादानम् उपादानेन शून्यं या चोपादानशून्यता न तद् उपादानं । न चान्यत्रोपादानाच् छून्यता । उपादानम् एव शून्यता शून्यतैवोपादानं । भवो भवेन शून्यः । या च भवशून्यता न स भवः । न चान्यत्र भवाच् छून्यता । भव एव शून्यता शून्यतैव भवः । जातिर् जात्या शून्या । या च जातिशून्यता न सा जातिः । न चान्यत्र जातेः शून्यता । जातिर् एव शून्यता शून्यतैव जातिः । जरामरणं जरामरणेन शून्यं । या च जरामरणशून्यता न तत् जरामरणं । न चान्यत्र जरामरणाच् छून्यता । जरामरणम् एव शून्यता शून्यतैव जरामरण ।
अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अविद्यायां न स्थातव्यं । संस्कारेषु न स्थातव्यं । विज्ञाने न स्थातव्यं । नामरूपे न स्थातव्यं । षडायतने न स्थातव्यं । स्पर्शे न स्थातव्यं । वेदनायां न स्थातव्यं । तृष्णायां न स्थातव्यं । उपादाने न स्थातव्यं । जरामरणे न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानपारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि दानपारमिता दानपारमितया शून्या । या च दानपारमिताशून्यता न सा दानपारमिता । न चान्यत्र दानपारमितायाः शून्यता । दानपारमितैव शून्याता शून्यतैव दानपारमिता । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शीलपारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । शीलपारमिता शीलपारमितया शून्या । या च शीलपारमिताशून्यता न सा शीलपारमिता । न चान्यत्र शीलपारमितायाः शून्यता । शीलपारमितैव शून्यता शून्यतैव शीलपारमिता । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता क्षान्तिपारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । क्षान्तिपारमिता क्षान्तिपारमितया शून्या । या च क्षान्तिपारमिताशून्यता न सा क्षान्तिपारमिता । न चान्यत्र क्षान्तिपारमितायाः शून्यता । क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वीर्यपारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । वीर्यपारमिता वीर्यपारमितया शून्या । या च वीर्यपारमिताशून्यता न सा वीर्यपारमिता । न चान्यत्र वीर्यपारमितायाः शून्यता । वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानपारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । ध्यानपारमिता ध्यानपारमितया शून्या । या च ध्यानपारमिताशून्यता न सा ध्यानपारमिता । न चान्यत्र ध्यानपारमितायाः शून्यता । ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । प्रज्ञापारमिता प्रज्ञापारमितया शून्या । या च प्रज्ञापारमिताशून्यता न सा प्रज्ञापारमिता । न चान्यत्र प्रज्ञापारमितायाः शून्यता । प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता षट्षु पारमितासु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्षु स्मृत्युपस्थानेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि । या च भगवन् स्मृत्युपस्थानशून्यता न तानि स्मृत्युपस्थानानि । न चान्यत्र स्मृत्युपस्थानेभ्यः शून्यता । स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारतायां चरता स्मृत्युपस्थानेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सम्यक्प्रहाणेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि । या च सम्यक्प्रहाणशून्यता न तानि सम्यक्प्रहाणानि । न चान्यत्र सम्यक्प्रहाणेभ्यः शून्यता सम्यक्प्रहाणान्य् एव शून्यता शून्यतैव सम्यक्प्रहाणानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सम्यक्प्रहाणेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ऋद्धिपादेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन्न् ऋद्धिपादाः ऋद्धिपादैः शून्याः । या च ऋद्धिपादशून्यता न ते ऋद्धिपादाः । न चान्यत्र ऋद्धिपादेभ्यः शून्यता । ऋद्धिपादा एव शून्यता शून्यतैव ऋद्धिपादाः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ऋद्धिपादेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इन्द्रियेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् इन्द्रियाणीन्द्रियैः शून्यानि या च भगवन्न् इन्द्रियशून्यता न तानीन्द्रियाणि । न चान्यत्रेन्द्रियेभ्यः शून्यता इन्द्रियाण्य् एव शून्यता शून्यतैवेन्द्रियाणि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता इन्द्रियेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता पञ्चसु बलेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् बलानि बलैः शून्यानि या च भगवन् बलशून्यता न तानि बलानि । न चान्यत्र बलेभ्यः शून्यता । बलान्य् एव शून्यता शून्यतैव बलानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बलेषु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तसु बोध्यङ्गेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् बोध्यङ्गानि बोध्यङ्गैः शून्यानि । या च भगवन् बोध्यङ्गशून्यता न तानि बोध्यङ्गानि । न चान्यत्र बोध्यङ्गेभ्यः शून्यता । बोध्यङ्गान्य् एव शून्यता शून्यतैव बोध्यङ्गानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तसु बोध्यङ्गेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आर्याष्टाङ्गमार्गे न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् मार्गो मार्गेण शून्यः । या च भगवन् मार्गशून्यता न स मार्गः न चान्यत्र मार्गाच् छून्यता मार्गा एव शून्यता शून्यतैव मार्गः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता मार्गे न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् आर्यसत्येषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् आर्यसत्यानि आर्यसत्यैः शून्यानि या च भगवन्न् आर्यसत्यशून्यता न तान्य् आर्यसत्यानि न चान्यत्रार्यसत्येभ्यः शून्यता । आर्यसत्यान्य् एव शून्यता शून्यतैवार्यसत्यानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आर्यसत्येषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् ध्यानानि ध्यानैः शून्यानि । या च ध्यानशून्यता न तानि ध्यानानि । न चान्यत्र ध्यानेभ्यः शून्यता । ध्यानान्य् एव शून्यता । शून्यतैव ध्यानानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता ध्यानेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् अप्रमाणेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् अप्रमाणानि प्रमाणैः शून्यानि या च भगवन्न् अप्रमाणशून्यता न तान्य् अप्रमाणानि । न चान्यत्राप्रमाणेभ्यः शून्यता अप्रमाणान्य् एव शून्यता शून्यतैवाप्रमाणानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अप्रमाणेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्ष्व् आरूप्यसमापत्तिषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः । या च भगवन्न् आरूप्यसमापत्तिशून्यता न ता आरूप्यसमापत्तयः । न चान्यत्रारूप्यसमापत्तिभ्यः शून्यता आरूप्यसमापत्तय एव शून्यता शून्यतैवारूप्यसमापत्तयः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आरूप्यसमापत्तिषु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताष्टासु विमोक्षेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् विमोक्षा विमोक्षैः शून्याः । या च भगवन् विमोक्षशून्यता न ते विमोक्षाः । न चान्यत्र विमोक्षेभ्यः शून्यता विमोक्षा एव शून्यता शून्यतैव विमोक्षाः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विमोक्षेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नवस्व् अनुपूर्वविहारसमापत्तिषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः । या च भगवन्न् अनुपूर्वविहारसमापत्तिशून्यता न ता अनुपूर्वविहारसमापत्तयः । न चान्यत्रानुपूर्वविहारसमापत्तिभ्यः शून्यता अनुपूर्वविहारसमापत्तय एव शून्यता शून्यतैवानुपूर्वविहारसमापत्तयः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अनुपूर्वविहारसमापत्तिषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शून्यतानिमित्ताप्रणिहितेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि । या च भगवन् शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । न चान्यत्रशून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः शून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव शून्यता शून्यतैव शून्यतानिमित्ताप्राणिहितविमोक्षमुखानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दशतथागतबलेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवंस् तथागतबलानि तथागतबलैः शून्यानि । या च भगवंस् तथागतबलशून्यता न तानि तथागतबलानि । न चान्यत्र तथागतबलेभ्यः शून्यता । तथागतबलान्य् एव शून्यता शून्यतैव तथागतबलानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथागतबलेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतुर्षु वैशारद्येषु न स्थातव्यं । तत् कस्य हेतोस् ताथा हि । भगवन् वैशारद्यानि वैशारद्यैः शून्यानि । या च भगवन् वैशारद्यशून्यता न तानि वैशारद्यानि । न चान्यत्र वैशारद्येभ्यः शून्यता । वैशारद्यान्य् एव शून्यता शून्यतैव वैशारद्यानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वैशारद्येषु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता चतसृषु प्रतिस ं वित्सु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् प्रतिस ं विदः प्रतिस ं विद्भिः शून्याः । या च प्रतिस ं विच्छून्यता न ताः प्रतिस ं विदः । न चान्यत्र प्रतिस ं विद्भ्यः शून्यता प्रतिस ं विद एव शून्यता । शून्यतैव प्रतिस ं विदः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रतिस ं वित्सु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महाकरुणायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् महाकरुणा महाकरुण्या शून्या । या च महाकरुणाशून्यता न सा महाकरुणा । न चान्यत्र महाकरुणायाः शून्यता । महाकरुणैव शून्यता, शून्यतैव महाकरुणा । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महाकरुणायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अष्टादशावेणिकबुद्धधर्मे न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् आवेणिकबुद्धधर्माः आवेणिकबुद्धधर्मैः शून्याः । या च भगवन्न् आवेणिकबुद्धधर्मशून्यता न ते आवेणिकबुद्धधर्माः । न चान्यत्रावेणिकबुद्धधर्मेभ्यः शून्यता । आवेणिकबुद्धधर्मा एव शून्यता शून्यतैवावेणिकबुद्धधर्माः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता आवेणिकबुद्धधर्मेषु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताक्षरेषु न स्थातव्यं । एकोदाहारेषु न स्थातव्यं । पृथगुव्युदाहारे न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् अक्षरान्य् अक्षरैः शून्या या चाक्षरशून्यता न तान्य् अक्षाराणि । न चान्यत्राक्षरेभ्यः शून्यता अक्षराण्य् एव शून्यता । शून्यतैवाक्षराणि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञासु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन्न् अभिज्ञा अभिज्ञाभिः शून्या । या चाभिज्ञाशून्यता न ता अभिज्ञाः । न चान्यत्राभिज्ञाभ्यः शून्यता अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञासु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वसमाधिमुखेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् सर्वसमाधिमुखानि सर्वसमाधिमुखैः शून्यानि । या च समाधिमुखशून्यता न तानि समाधिमुखानि । न चान्यत्र समाधिमुखेभ्यः शून्यता । समाधिमुखान्य् एव शून्यता शून्यतैव समाधिमुखानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वसमाधिमुखेषु न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् धारणीमुखानि धारणीमुखैः शून्यानि । या च धारणीमुखशून्यता न तानि धारणीमुखानि । न चान्यत्र धारणीमुखेभ्यः शून्यता । धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् रूपानित्यता रूपानित्यतया शून्या । या च रूपानित्यताशून्यता न सा रूपानित्यता । न चान्यत्र रूपानित्यायाः शून्यता । रूपानित्यतैव शून्यता । शून्यतैव रूपानित्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपानित्यतायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानित्येति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् वेदनानित्यता वेदनानित्यतया शून्या । या च वेदनानित्यताशून्यता न सा वेदनानित्यता । न चान्यत्र वेदनानित्यतायाः शून्यता । वेदनानित्यतैव शून्यता शून्यतैव वेदनानित्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानित्यतायां न स्थातव्यं । तेन प्रज्ञापारमितायां चरता संज्ञानित्येति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संज्ञानित्यता संज्ञानित्यतया शून्या । या च संज्ञानित्यताशून्यता न सा संज्ञानित्यता । न चान्यत्र संज्ञानित्यतायाः शून्यता । संज्ञानित्यतैव शून्यता शून्यतैव संज्ञानित्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानित्येति न स्थातव्यं । तेन प्रज्ञापारमितायां चरता संस्कारा अनित्या इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संस्कारानित्यता संस्कारानित्यतया शून्या । या च संस्कारानित्यताशून्यता न सा संस्कारानित्यता । संस्कारानित्यतैव शून्यता शून्यतैव संस्कारानित्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कार अनित्या इति न स्थातव्यं । तेन प्रज्ञापारमितायां चरता विज्ञानम् अनित्यम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् विज्ञानानित्यता विज्ञानानित्यतया शून्या । या च भगवन् विज्ञानानित्यताशून्यता न सा विज्ञानानित्यता । न चान्यत्र विज्ञानानित्यतायाः शून्यता । विज्ञानानित्यतैव शून्यता शून्यतैव विज्ञानानित्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनित्यम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं दुःखम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि रूपदुःखता रूपदुःखतया शून्यता । या च रूपदुःखताशून्यता न सा रूपदुःखता । न चान्यत्र रूपदुःखतायाः शून्यता । रूपदुःखतैव शून्यता शून्यतैव रूपदुःखता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपदुःखतायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना दुःखेति न स्थाथव्यं । तत् कस्य हेतोस् तथा हि । भगवन् वेदनादुःखता वेदनादुःखतया शून्या । या च वेदनादुःखताशून्यता न सा वेदनादुःखता । न चान्यत्र वेदनादुःखतायाः शून्यता । वेदना दुःखतैव शून्यता शून्यतैव वेदनादुःखता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनादुःखतायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा दुःखेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संज्ञादुःखता संज्ञादुःखतया शून्या । या च संज्ञादुःखताशून्यता न सा संज्ञादुःखता । न चान्यत्र संज्ञादुःखतायाः शून्यता । संज्ञादुःखतैव शून्यता शून्यतैव संज्ञादुःखता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञादुःखतायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा दुःखा इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संस्कारदुःखता संस्कारदुःखतया शून्या । या च संस्कारदुःखताशून्यता न सा संस्कारदुःखता । न चान्यत्र संस्कारदुःखतायाः शून्यता । संस्कारदुःखतैव शून्यता शून्यतैव संस्कारदुःखता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारदुःखतायां न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं दुःखम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् विज्ञानदुःखता विज्ञानदुःखतया शून्या । या च विज्ञानदुःखताशून्यता न सा विज्ञानदुःखता । न चान्यत्र विज्ञानदुःखतायाः शून्यता । विज्ञानदुःखतैव शून्यता शून्यतैव विज्ञानदुःखता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानदुःखतायां न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनात्मेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् रूपानात्मता रूपानात्मतया शून्या । या च रूपानात्मताशून्यता न सा रूपानात्मता । न चान्यत्र रूपानात्मतायाः शून्यता । रूपानात्मतैव शून्यता शून्यतैव रूपानात्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनात्मेति न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानात्मेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् वेदनानात्मता वेदनानात्मतया शून्या या च वेदनानात्मताशून्यता न सा वेदनानात्मता । न चान्यत्र वेदनानात्मतायाः शून्यता । वेदनानात्मतैव शून्यता शून्यतैव वेदनानात्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानात्मेति न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानात्मेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संज्ञानात्मता संज्ञानात्मतया शून्या । या च संज्ञानात्मताशून्यता न सा संज्ञानात्मता । न चान्यत्र संज्ञानात्मतायाः शून्यता । संज्ञानात्मतैव शून्यता शून्यतैव संज्ञानात्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानात्मेति न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अनात्मान इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संस्कारानात्मता संस्कारानात्मतया शून्या । या च संस्कारानात्मताशून्यता न सा संस्कारानात्मता । न चान्यत्र संस्कारानात्मतायाः शून्यता । संस्कारानात्मतैव शून्यता शून्यतैव संस्कारानात्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अनात्मान इति न स्थातव्यं । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनात्मेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् विज्ञानानात्मता विज्ञानानात्मतया शून्या । या च विज्ञानानात्मताशून्यता न सा विज्ञानानात्मता । न चान्यत्र विज्ञानानात्मतायाः शून्यता । विज्ञानानात्मतैव शून्यता । शून्यतैव विज्ञानानात्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अनात्मेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शान्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् रूपशान्तता रूपशान्ततया शून्या । या च रूपशान्तताशून्यता न सा रूपशान्तता । न चान्यत्र रूपशान्ततायाः शून्यता । रूपशान्ततैव शून्यता । शून्यतैव रूपशान्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शान्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशान्तेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् वेदनाशान्तता वेदनाशान्ततया शून्या । या च वेदनाशान्तताशून्यता न सा वेदनाशान्तता । न चान्यत्र वेदनाशान्ततायाः शून्यता । वेदनाशान्ततैव शून्यता । शून्यतैव वेदनाशान्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशान्तेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशान्तेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संज्ञाशान्तता संज्ञाशान्ततया शून्या । या च संज्ञाशान्तताशून्यता न सा संज्ञाशान्तता । न चान्यत्र संज्ञाशान्ततायाः शून्यता । संज्ञाशान्ततैव शून्यता शून्यतैव संज्ञाशान्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशान्तेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञाणरमितायां चरता संस्काराः शान्त इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संस्कारशान्तता संस्कारशान्ततया शून्या । या च संस्कारशान्तताशून्यता न सा संस्कारशान्तता । न चान्यत्र संस्कारशान्ततायाः शून्यता । संस्कारशान्ततैव शून्यता । शून्यतैव संस्कारशान्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शान्त इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता । विज्ञानं शान्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् विज्ञानशान्तता विज्ञानशान्ततया शून्या । या च विज्ञानशान्तताशून्यता न सा विज्ञानशान्तता । न चान्यत्र विज्ञानशान्ततायाः शून्यता । विज्ञानशान्ततैव शून्यता । शून्यतैव विज्ञानशान्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां चरता विज्ञानं शान्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् रूपशून्यता रूपशून्यतया शून्या । या च रूपशून्यता न सा रूपशून्यता । न चान्यत्र रूपशून्यतायाः शून्यता । रूपशून्यतैव शून्यता शून्यतैव रूपशून्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशून्येति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् वेदनाशून्यता वेदनाशून्यतया शून्या । या च वेदनाशून्यता न सा वेदनाशून्यता । न चान्यत्र वेदनाशून्यतायाः शून्यता । वेदनाशून्यतैव शून्यता शून्यतैव वेदनाशून्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाशून्येति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशून्येति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संज्ञाशून्यता संज्ञाशून्यतया शून्या । या च संज्ञाशून्यता न सा संज्ञाशून्यता । न चान्यत्र संज्ञाशून्यतायाः शून्यता । संज्ञाशून्यतैव शून्यता शून्यतैव संज्ञाशून्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाशून्येति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शून्या इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संस्कारशून्यता संस्कारशून्यतया शून्या । या च संस्कारशून्यता न सा संस्कारशून्यता । न चान्यत्र संस्कारशून्यतायाः शून्यता संस्कारशून्यतैव शून्यता । शून्यतैव संस्कारशून्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः शून्य इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानशून्यम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् विज्ञानशून्यता विज्ञानशून्यतया शून्या । या च विज्ञानशून्यताशून्यता न सा विज्ञानशून्यता । न चान्यत्र विज्ञानशून्यतायाः शून्यता । विज्ञानशून्यतैव शून्यता शून्यतैव विज्ञानशून्यता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं शून्यम् इति न स्थावव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् आनिमित्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् रूपानिमित्तता रूपानिमित्ततया शून्या । या च रूपानिमित्तताशून्यता न सा रूपानिमित्तता । न चान्यत्र रूपानिमित्ततायाः शून्यता । रूपानिमित्ततैव शून्यता । शून्यतैव रूपानिमित्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिताया चरता रूपम् आनिमित्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानिमित्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् वेदनानिमित्तता वेदनानिमित्ततया शून्या । या च वेदनानिमित्तताशून्यता न सा वेदनानिमित्तता । न चान्यत्र वेदनानिमित्ततायाः शून्यता । वेदनानिमित्ततैव शून्यता । शून्यतैव वेदनानिमित्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनानिमित्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानिमित्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संज्ञानिमित्तता संज्ञानिमित्ततया शून्या । या च संज्ञानिमित्तताशून्यता न सा संज्ञानिमित्तता । न चान्यत्र संज्ञानिमित्ततायाः शून्यता । संज्ञानिमित्ततैव शून्यता शून्यतैव संज्ञानिमित्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञानिमित्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा आनिमित्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि संस्कारानिमित्तता संस्कारानिमित्ततया शून्या । या च संस्कारानिमित्तताशून्यता न सा संस्कारानिमित्तता । न चान्यत्र संस्कारानिमित्ततायाः शून्यता । संस्कारानिमित्ततैव शून्यता । शून्यतैव संस्कारानिमित्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन
महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा आनिमित्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं आनिमित्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् विज्ञानानिमित्तता विज्ञानानिमित्ततया शून्या । या च विज्ञानानिमित्तताशून्यता न सा विज्ञानानिमित्तता । न चान्यत्र विज्ञानानिमित्ततायाः शून्यता । विज्ञानानिमित्ततैव शून्यता शून्यतैव विज्ञानानिमित्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् आनिमित्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अप्रणिहितम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् रूपाप्रणिहितता रूपाप्रणिहिततया शून्या । या च रूपाप्रणिहितताशून्यता न सा रूपाप्रणिहितता । न चान्यत्र रूपाप्रणिहिततायाः शून्यता । रूपाप्रणिहिततैव शून्यता । शून्यतैव रूपाप्रणिहितता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अप्रणिहितम् इति न स्थातव्य । पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताप्रणिहितेति न स्थावव्यं । तत् कस्य हेतोस् तथा हि भगवन् वेदनाप्रणिहितता वेदनाप्रणिहिततया शून्या । या च वेदनाप्रणिहितताशून्यता न सा वेदनाप्रणिहितता । न चान्यत्र वेदनाप्रणिहिततायाः शून्यता । वेदनाप्रणिहिततैव शून्यता । शून्यतैव वेदनाप्रणिहितता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदनाप्रणिहितेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाप्रणिहितेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संज्ञाप्रणिहिता संज्ञाप्रणिहिततया शून्या । या च संज्ञाप्रणिहितताशून्यता न सा संज्ञाप्रणिहितता । न चान्यत्र संज्ञाप्रणिहिततायाः शून्यता । संज्ञाप्रणिहिततैव शून्यता । शून्यतैव संज्ञाप्रणिहितता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञाप्रणिहितेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः अप्रणिहिता इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संस्काराप्रणिहितता संस्काराप्रणिहिततया शून्या । या च संस्काराप्रणिहितताशून्यता न सा संस्काराप्रणिहितता । न चान्यत्र संस्काराप्रणिहिततायाः शून्यता । संस्काराप्रणिहिततैव शून्यता । शून्यतैव संस्काराप्रणिहितता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा अप्रणिहिता इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अप्रणिहितम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् विज्ञानाप्रणिहितता विज्ञानाप्रणिहिततया शून्या । या च विज्ञानाप्रणिहितताशून्यता । न सा विज्ञानाप्रणिहितता । न चान्यत्र विज्ञानाप्रणिहिततायाः शून्यता । विज्ञानाप्रणिहिततैव शून्यता । शून्यतैव विज्ञानाप्रणिहितता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानम् अप्रणिहितम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं विविक्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् रूपविविक्तता रूपविविक्ततया शून्या । या च रूपविविक्तताशून्यता न सा रूपविविक्तता । न चान्यत्र रूपविविक्ततायाः शून्यता । रूपविविक्ततैव शून्यता शून्यतैव रूपविविक्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं विविक्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना विविक्तेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् वेदनाविविक्तता वेदनाविविक्ततया शून्या । या च वेदनाविविक्तताशून्यता न सा वेदनाविविक्तता । न चान्यत्र वेदनाविविक्ततायाः शून्यता । वेदनाविविक्ततैव शून्यता शून्यतैव वेदनाविविक्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वेदना विविक्तेति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा विविक्तेति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् संज्ञाविविक्तता संज्ञाविविक्ततया शून्या । या च संज्ञाविविक्तताशून्यता न सा संज्ञाविविक्तता । न चान्यत्र संज्ञाविविक्ततायाः शून्यता । संज्ञाविविक्ततैव शून्यता शून्यतैव संज्ञाविविक्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संज्ञा विविक्तेति न स्थातव्य्ंअ ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्काराः विविक्तता इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि । भगवन् संस्कारविविक्तता संस्कारविविक्ततया शून्या । या च संस्कारविविक्तताशून्यता न सा संस्कारविविक्तता । न चान्यत्र संस्कारविविक्ततायाः शून्यता । संस्कारविविक्ततैव शून्यता । शून्यतैव संस्कारविविक्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संस्कारा विविक्ता इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं विविक्तम् इति न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् विज्ञानविविक्तता विज्ञानविविक्ततया शून्या । या च विज्ञानविविक्तताशून्यता न सा विज्ञानविविक्तता । न चान्यत्र विज्ञानविविक्ततायाः शून्यता । विज्ञानविविक्ततैव शून्यता । शून्यतैव विज्ञानविविक्तता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता विज्ञानं विविक्तम् इति न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् तथता तथतया शून्या । या च तथताशून्यता न सा तथता । न चान्यत्र तथतायाः शून्यता । तथतैव शून्यता । शून्यतैव तथता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् धर्मता धर्मतया शून्या । या च धर्मताशून्यता न सा धर्मता । न चान्यत्र धर्मतायाः शून्यता । शून्यतैव धर्मता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् धर्मधातु धर्मधातुना शून्या । या च धर्मधातुशून्यता न स धर्मधातुः । न चान्यत्र धर्मधातोः शून्यता । धर्मधातुर् एव शून्यता । शून्यतैव धर्मधातुः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतयां न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् धर्मनियामता धर्मनियामतया शून्या । या च धर्मनियामताशून्यता न सा धर्मनियामता । न चान्यत्र धर्मनियामतायाः शून्यता । धर्मनियामतैव शून्यता । शून्यतैव धर्मनियामता । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यं ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यं । तत् कस्य हेतोस् तथा हि भगवन् । भूतकोटिर् भूतकोट्या शून्या । या च भूतकोटिशून्यता न सा भूतकोटिः । न चान्यत्र भूतकोट्याः शून्यता । भूतकोटिर् एव शून्यता । शून्यतैव भूतकोटिः । अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यं ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रूपे तिष्ठति । रूपस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वेदनायां तिष्ठति । वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संज्ञायां तिष्ठति । संज्ञाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संस्कारे तिष्ठति । संस्काराणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञाने तिष्ठति । विज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुषि तिष्ठति । चक्षुषो ऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रे तिष्ठति । श्रोत्रस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानशेन घ्राणे तिष्ठति । घ्राणस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वायां तिष्ठति । स जिह्वाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन काये तिष्ठति । स कायस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनसि तिष्ठति । स मनसो ऽभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रूपे तिष्ठति । स रूपस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शब्दे तिष्ठति । स शब्दस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन गन्धे तिष्ठति । स गन्धस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन रसे तिष्ठति । स रसस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्पर्शे तिष्ठति । स स्पर्शस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मेषु तिष्ठति । स धर्माणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोस् तथा हि । अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुर्विज्ञाने तिष्ठति । स चक्षुर्विज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रविज्ञाने तिष्ठति । स श्रोत्रविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणविज्ञाने तिष्ठति । स घ्राणविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वाविज्ञाने तिष्ठति । स जिह्वाविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायविज्ञाने तिष्ठति । स कायविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञाने तिष्ठति । स मनोविज्ञानस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोस् तथा हि अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुःसंस्पर्शे तिष्ठति । स चक्षुःसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रसंस्पर्शे तिष्ठति । स श्रोत्रसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणसंस्पर्शे तिष्ठति । स घ्राणसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वासंस्पर्शे तिष्ठति । स जिह्वासंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायसंस्पर्शे तिष्ठति । स कायसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनःसंस्पर्शे तिष्ठति । स मनःसंस्पर्शस्याभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोस् तथा हि अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चक्षुःसंस्पर्शजायां वेदनायां तिष्ठति । स चक्षुःसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोत्रसंस्पर्शजायां वेदनायां तिष्ठति । स श्रोत्रसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन घ्राणस ं पर्शजायां वेदनायां तिष्ठति । स घ्राणसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जिह्वासंस्पर्शजायां वेदनायां तिष्ठति । स जिह्वासंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन कायसंस्पर्शजायां वेदनायां तिष्ठति । स कायसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मनःसंस्पर्शजायां वेदनायां तिष्ठति । स मनःसंस्पर्शजाया वेदनाया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन पृथिवीधातौ तिष्ठति । स पृथिवीधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाब्धातौ तिष्ठति । सो ऽब्धातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तेजोधातौ तिष्ठति । स तेजोधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वायुधातौ तिष्ठति । स वायुधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाकाशधातौ तिष्ठति । स आकाशधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विज्ञानधातौ तिष्ठति । स विज्ञानधातोर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन विद्यायां तिष्ठति । सो ऽविद्याया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन संस्कारेषु तिष्ठति । स संस्काराणाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकरगतेन मानसेन नामरूपे तिष्ठति । स नामरूपस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन षडायतने तिष्ठति । स षडायतनस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्पर्शे तिष्ठति । स स्पर्शस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवम् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वेदनायां तिष्ठति । स वेदनाया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तृष्णायां तिष्ठति । स तृष्णायां अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनोपादाने तिष्ठति । स उपादानस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन भवे तिष्ठति । स भवस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जातौ तिष्ठति । स जातेर् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन जरामरणे तिष्ठति । स जरामरणस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न नियाति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन दानपारमितायां तिष्ठति । स दानपारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शीलपारमितायां तिष्ठति । स शीलपारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन क्षान्तिपारमितायां चरति । स क्षान्तिपारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन वीर्यपारमितायां तिष्ठति । स वीर्यपारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ध्यानपारमितायां तिष्ठति । स ध्यानपारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रज्ञापारमितायां तिष्ठति । स प्रज्ञापारमिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाध्यात्मशून्यतायां तिष्ठति । सो ऽध्यात्मशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कार्ममकारगतेन मानसेन बहिर्धाशून्यतायां तिष्ठति । स बहिर्धाशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाध्यात्मबहिर्धाशून्यतायां तिष्ठति । सो ऽध्यात्मबहिर्धाशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शून्यताशून्यतायां तिष्ठति । स शून्यताशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन महाशून्यतायां तिष्ठति । स महाशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन परमार्थशून्यतायां तिष्ठति । स परमार्थशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन संस्कृतशून्यतायां तिष्ठति । स संस्कृतशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौसालेनाहङ्कारममकारगतेन मानसेनात्यन्तशून्यतायां तिष्ठति । सो ऽत्यन्तसंस्कृताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानवराग्रशून्यतायां तिष्ठति । सो ऽनवराग्रशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रकृतिशून्यतायां तिष्ठति । स प्रकृतिशून्यताया अभिसंष्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सर्वधर्मशून्यतायां तिष्ठति । स सर्वधर्मशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्वलक्षणशून्यतायां तिष्ठति । स स्वलक्षणशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानुपलम्भशून्यतायां तिष्ठति । सो ऽनुपलम्भशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभावशून्यतायां तिष्ठति । सो ऽभावशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्वभावशून्यतायां तिष्ठति । स स्वभावशून्यताया अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वं प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभावस्वभावशून्यतायां तिष्ठति । सो ऽभावस्वभावशून्यताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन स्मृत्युपस्थानेषु तिष्ठति । स स्मृत्युपस्थानानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सम्यक्प्रहाणेषु तिष्ठति । स सम्यक्प्रहाणानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ऋद्धिपादेषु तिष्ठति । स ऋद्धिपादानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां । सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनेन्द्रियेषु तिष्ठति । स इन्द्रियाणाम् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन बलेषु तिष्ठति । स बलानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्याष्टाङ्गमार्गे तिष्ठति । स आर्याष्टाङ्गमार्गस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्यसत्येषु तिष्ठति । स आर्यसत्यानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन ध्यानेषु तिष्ठति । स ध्यानानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाप्रमाणेषु तिष्ठति । सो ऽप्रमाणानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनारूप्यसमापत्तिषु तिष्ठति । स आरूप्यसमापत्तीनाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाष्टासु विमोक्षेषु तिष्ठति । स विमोक्षाणाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् पज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन नवानुपूर्वविहारसमापत्तिषु तिष्ठति । स नवानुपूर्वविहारसमापत्तीनाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु तिष्ठति । स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाभिज्ञासु तिष्ठति । सो ऽभिज्ञानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्वः प्रज्ञापारमितायां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन समाधिषु तिष्ठति । स समाधीनाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धारणीमुखेषु तिष्ठति । स धारणीमुखानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन दशसु तथागतबलेषु तिष्ठति । स तथागतबलानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चतुर्षु वैशारद्येषु तिष्ठति । स वैशारद्यानाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन चतसृषु प्रतिस ं वित्सु तिष्ठति । स प्रतिस ं विदाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन महाकरुणायां तिष्ठति । स महाकरुणाया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनाष्टादशावेणिकबुद्धधर्मेषु तिष्ठति । सो ऽष्टादशावेणिकबुद्धधर्माणाम् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन श्रोतआपत्तिफले तिष्ठति । स श्रोतआपत्तिफलस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सकृदागामिफले तिष्ठति । स सकृदागामिफलस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानागामिफले तिष्ठति । सो ऽनागामिफलस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनार्हत्वे तिष्ठति । सो ऽर्हत्वस्याभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन प्रत्येकबोधौ तिष्ठति । स प्रत्येकबोधेर् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन मार्गाकारज्ञतायां तिष्ठति । स मार्गाकारज्ञताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन सर्वाकारज्ञतायां तिष्ठति । स सर्वाकारज्ञतया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्राज्ञपारमितां न परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन तथतायां तिष्ठति । स तथताया अभिसंष्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनावितथतायां तिष्ठति । सो ऽवितथताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेनानन्यतथतायां तिष्ठति । सो ऽनन्यतथताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मतायां तिष्ठति । स धर्मताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मधातौ तिष्ठति । स धर्मधातोर् अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मस्थितितायां तिष्ठति । स धर्मस्थितिताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगम् आपद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन धर्मनियामतायां तिष्ठति । स धर्मनियामताया अभिसंस्कारे चरति । न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकौशलेनाहङ्कारममकारगतेन मानसेन भूतकोटौ तिष्ठति । स भूतकोटेर् अभिसंस्कारे चरति न चरति प्रज्ञापारमितायां । तत् कस्य हेतोर् न ह्य् अभिसंस्कारे चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिगृह्णाति । न प्रज्ञापारमितायोगं समापद्यते । अपरिपूरयन् प्रज्ञापारमितां न निर्याति सर्वाकारज्ञतायां ।
तत् कस्य हेतोस् तथा हि भगवन् रूपम् अपरिगृहीतं यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यतानुपादाय । वेदनापरिगृहीता यश् च वेदनाया अपरिग्रहो न सा वेदना प्रकृतिशून्यतानुपादाय । संज्ञापरिगृहीता यश् च संज्ञाया अपरिग्रहो न सा संज्ञा प्रकृतिशून्यतानुपादाय । संस्कारा अपरिगृहीताः यश् च संस्काराणाम् अपरिग्रहो न ते संस्काराः प्रकृतिशून्यतानुपादाय । विज्ञानम् अपरिगृहीतं यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यतानुपादाय । चक्षुर् अपरिगृहीतं यश् च चक्षुषो ऽपरिग्रहः न तच् चक्षुः प्रकृतिशून्यतानुपादाय । श्रोत्रम् अपरिगृहीतं यश् च श्रोत्रस्यापरिग्रहो न तत् श्रोत्रं प्रकृतिशून्यतानुपादाय । घ्राणम् अपरिगृहीतं यश् च घ्राणस्यापरिग्रहो न तद् घ्राणं प्रकृतिशून्यतानुपादाय । जिह्वापरिगृहीतायश् च जिह्वाया अपरिग्रहो न सा जिह्वा प्रकृतिशून्यतानुपादाय । कायो ऽपरिगृहीतः यश् च कायस्यापरिग्रहो न स कायः प्रकृतिशून्यतानुपादाय । मनो ऽपरिगृहीतं यश् च मनसो ऽपरिग्रहो न तन् मनः प्रकृतिशून्यतानुपादाय । रूपम् अपरिगृहीतं यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यतानुपादाय । शब्दो ऽपरिगृहीतो यश् च शब्दस्यापरिग्रहो न स शब्दः प्रकृतिशून्यतानुपादाय । गन्धो ऽपरिगृहीतो यश् च गन्धस्यापरिग्रहो न स गन्धः प्रकृतिशून्यतानुपादाय । रसो ऽपरिगृहीतो यश् च रसस्यापरिग्रहो न स रसः प्रकृतिशून्यतानुपादाय । स्पर्शो ऽपरिगृहीतो यश् च स्पर्शस्यापरिग्रहो न स स्पर्शः प्रकृतिशून्यतानुपादाय । धर्मा अपरिगृहीताः यश् च धर्माणाम् अपरिग्रहो न ते धर्माः प्रकृतिशून्यतानुपाद्याय । चक्षुर्विज्ञानम् अपरिगृहीतं यश् च चक्षुर्विज्ञानस्यापरिग्रहो न तत् चक्षुः प्रकृतिशून्यतानुपादाय । ज्ञानम् अपरिगृहीतं यश् च ज्ञानस्यापरिग्रहो न स ज्ञानं प्रकृतिशून्यतानुपादाय । श्रोत्रविज्ञानम् अपरिगृहीतं यश् च श्रोत्रविज्ञानस्यापरिग्रहो न तत् श्रोत्रविज्ञानं प्रकृतिशून्यतानुपादाय । घ्राणविज्ञानम् अपरिगृहीतं यश् च घ्राणविज्ञानस्यापरिग्रहो न तत् घ्राणविज्ञानं प्रकृतिशून्यतानुपादाय । जिह्वाविज्ञानम् अपरिगृहीतं यश् च जिह्वाविज्ञानस्यापरिग्रहो न तत् जिह्वाविज्ञानं प्रकृतिशून्यतानुपादाय । कायविज्ञानम् अपरिगृहीतं यश् च कायविज्ञानस्यापरिग्रहो न तत् कायविज्ञानं प्रकृतिशून्यतानुपादाय । मनोविज्ञानम् अपरिगृहीतं यश् च मनोविज्ञानस्यापरिग्रहो न तन् मनोविज्ञानं प्रकृतिशून्यतानुपादाय । चक्षुःसंस्पर्शो ऽपरिगृहीतो यश् च चक्षुःसंस्पर्शस्यापरिग्रहो न स चक्षुःसंस्पर्शः प्रकृतिशून्यतानुपादाय । श्रोत्रसंस्पर्शो ऽपरिगृहीतो यश् च श्रोत्रस ं पर्शस्यापरिग्रहो न स श्रोत्रसंस्पर्शः प्रकृतिशून्यतानुपादाय । घ्राणसंस्पर्शो ऽपरिगृहीतो यश् च घ्राणसंस्पर्शस्यापरिग्रहो न स घ्राणसंस्पर्शः प्रकृतिशून्यतानुपादाय । जिह्वासंस्पर्शो ऽपरिगृहीतो यश् च जिह्वासंस्पर्शस्यापरिग्रहो न स जिह्वासंस्पर्शः प्रकृतिशून्यतानुपादाय । कायसंस्पर्शो ऽपरिगृहीतो यश् च कायसंस्पर्शस्यापरिग्रहो न स कायसंस्पर्शः प्रकृतिशून्यतानुपादाय । मनःसंस्पर्शो ऽपरिगृहीतो यश् च मनःसंस्पर्शस्यापरिग्रहो न स मनःसंस्पर्शः प्रकृतिशून्यतानुपादाय ।
चक्षुःसंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय । श्रोत्रसंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय । घ्राणसंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहः न सा घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय । जिह्वासंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय । कायसंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय । मनःसंस्पर्शप्रत्ययवेदनापरिगृहीता । यश् च मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहो न सा मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्यताम् उपादाय ।
पृथिवीधातुर् अपरिगृहीतः । यश् च पृथिवीधातोर् अपरिग्रहो न स पृथिवीधातुः प्रकृतिशून्यताम् उपादाय । अब्धातुर् अपरिगृहीतो यश् चाब्धातोर् अपरिग्रहो न सो ऽब्धातुः प्रकृतिशून्यताम् उपादाय । तेजोधातुर् अपरिगृहीतो यश् च तेजोधातोर् अपरिग्रहो न स तेजोधातुः प्रकृतिशून्यताम् उपादाय । वायुधातुर् अपरिगृहीतो यश् च वायुधातोर् अपरिग्रहो न स वायुधातुः प्रकृतिशून्यताम् उपादाय । आकाशधातुर् अपरिगृहीतो यश् चाकाशधातोर् अपरिग्रहः न स आकाशधातुः प्रकृतिशून्यताम् उपादाय ।
विज्ञानधातुर् अपरिगृहीतो यश् च विज्ञानधातोर् अपरिग्रहो न स विज्ञानधातुः प्रकृतिशून्यताम् उपादाय । अविद्यापरिगृहीता । यश् चाविद्याया अपरिग्रहो न सा अविद्या प्रकृतिशून्यताम् उपादाय । संस्कारा अपरिगृहीता । यश् च संस्काराणाम् अपरिग्रहो न ते संस्काराः प्रकृतिशून्यताम् उपादाय । विज्ञानम् अपरिगृहीतं । यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय । नामरूपम् अपरिगृहीतं । यश् च नामरूपस्यापरिग्रहो न तन् नामरूपं प्रकृतिशून्यताम् उपादाय । षडायतनम् अपरिगृहीतं । यश् च षडायतनस्यापरिग्रहो न तत् षडायतनं प्रकृतिशून्यताम् उपादाय । स्पर्शो ऽपरिगृहीतो यश् च स्पर्शस्यापरिग्रहो न स स्पर्शः प्रकृतिशून्यताम् उपादाय । वेदनापरिगृहीता । यश् च वेदनाया अपरिग्रहो न सा वेदना प्रकृतिशून्यताम् उपादाय । तृष्णापरिगृहीता । यश् च तृष्णाया अपरिग्रहो न सा तृष्णा प्रकृतिशून्यताम् उपादाय । उपादानम् अपरिगृहीतं । यश् चोपादानस्यापरिग्रहो न तद् उपादानं प्रकृतिशून्यताम् उपादाय । भवो ऽपरिगृहीतो यश् च भवस्यापरिग्रहो न स भवः प्रकृतिशून्यताम् उपादाय । जातिर् अपरिगृहीता । यश् च जातेर् अपरिग्रहो न सा जातिः प्रकृतिशून्यताम् उपादाय । जरामरणम् अपरिगृहीतं यश् च जरामरणस्यापरिग्रहो न तत् जरामरणं प्रकृतिशून्यताम् उपादाय ।
दानपारमितापरिगृहीता । यश् च दानपारमिताया अपरिग्रहो न सा दानपारमिता प्रकृतिशून्यताम् उपादाय । शीलपारमितापरिगृहीता । यश् च शीलपारमिताया अपरिग्रहो न सा शीलपारमिता प्रकृतिशून्यताम् उपादाय । क्षान्तिपारमितापरिगृहीता । यश् च क्षान्तिपारमिताया अपरिग्रहो न सा क्षान्तिपारमिता प्रकृतिशून्यताम् उपादाय । वीर्यपारमितापरिगृहीता । यश् च वीर्यपारमिताया अपरिग्रहो न सा वीर्यपारमिता प्रकृतिशून्यताम् उपादाय । ध्यानपारमितापरिगृहीता । यश् च ध्यानपारमिताया अपरिग्रहो न सा ध्यानपारमिता प्रकृतिशून्यताम् उपादाय । प्रज्ञापारमितापरिगृहीता । यश् च प्रज्ञापारमितायां अपरिग्रहो न सा प्रज्ञापारमिता प्रकृतिशून्यताम् उपादाय ।
अध्यात्मशून्यतापरिगृहीता । यश् चाध्यात्मशून्यताया अपरिग्रहो न सा अध्यात्मशून्यता प्रकृतिशून्यताम् उपादाय । बहिर्धाशून्यतापरिगृहीता । यश् च बहिर्धाशून्यताया अपरिग्रहो न सा बहिर्धाशून्यता प्रकृतिशून्यताम् उपादाय । अध्यात्मबहिर्धाशून्यतापरिगृहीता । यश् चाध्यात्मबहिर्धाशून्यताया अपरिग्रहो न साध्यात्मबहिर्धाशून्यता प्रकृतिशून्यताम् उपादाय । शून्यताशून्यतापरिगृहीता यश् च शून्यताशून्यताया अपरिग्रहो न सा शून्यताशून्यता । प्रकृतिशून्यताम् उपादाय । महाशून्यतापरिगृहीता । यश् च महाशून्यतायाः अपरिग्रहो न सा महाशून्यता प्रकृतिशून्यताम् उपादाय । परमार्थशून्यतापरिगृहीता । यश् च परमार्थशून्यताया अपरिग्रहो न सा परमार्थशून्यता प्रकृतिशून्यताम् उपादाय । संस्कृतशून्यतापरिगृहीता । यश् च संस्कृतशून्यताया अपरिग्रहो न सा संस्कृतशून्यता प्रकृतिशून्यताम् उपादाय । असंस्कृतशून्यतापरिगृहीता यश् चासंस्कृतशून्यताया अपरिग्रहो न सा संस्कृतशून्यता प्रकृतिशून्यताम् उपादाय । अत्यन्तशून्यतापरिगृहीता यश् चात्यन्तशून्यताया अपरिग्रहो न सा अत्यन्तशून्यता प्रकृतिशून्यताम् उपादाय । अनवराग्रशून्यतापरिगृहीता । यश् चानवराग्रशून्यताया अपरिग्रहो न सानवराग्रशून्यता प्रकृतिशून्यताम् उपादाय । अनवकारशून्यतापरिगृहीता यश् चानवकारशून्यताया अपरिग्रहो न सानवकारशून्यता प्रकृतिशून्यताम् उपादाय । प्रकृतिशून्यतापरिगृहीता । यश् च प्रकृतिशून्यताया अपरिग्रहो न सा प्रकृतिशून्यता प्रकृतिशून्यताम् उपादाय । सर्वधर्मशून्यतापरिगृहीता । यश् च सर्वधर्मशून्यताया अपरिग्रहो न सा सर्वधर्मशून्यता प्रकृतिशून्यताम् उपादाय । स्वलक्षणशून्यतापरिगृहीता । यश् च स्वलक्षणशून्यताया अपरिग्रहो न सा स्वलक्षणशून्यता प्रकृतिशून्यताम् उपादाय । अनुपलम्भशून्यतापरिगृहीता यश् चानुपलम्भशून्यताया अपरिग्रहो न सानुपलम्भशून्यता प्रकृतिशून्यताम् उपादाय । अभावशून्यतापरिगृहीता । यश् चाभावशून्यताया अपरिग्रहो न साभावशून्यता प्रकृतिशून्यताम् उपादाय । स्वभावशून्यतापरिगृहीता । यश् च स्वभावशून्यताया अपरिग्रहो न सा स्वभावशून्यता प्रकृतिशून्यताम् उपादाय । अभावस्वभावशून्यतापरिगृहीता यश् चाभावस्वभावशून्यताया अपरिग्रहो न साभावस्वभावशून्यता प्रकृतिशून्यताम् उपादाय ।
स्मृत्युपस्थानान्य् अपरिगृहीतानि । यश् च स्मृत्युपस्थानानाम् अपरिग्रहो न तानि स्मृत्युपस्थानानि प्रकृतिशून्यताम् उपादाय । सम्यक्प्रहाणान्य् अपरिगृहीतानि । यश् च सम्यक्प्रहाणानाम् अपरिग्रहो न तानि सम्यक्प्रहाणानि प्रकृतिशून्यताम् उपादाय । ऋद्धिपादा अपरिगृहीता । यश् च ऋद्धिपादानाम् अपरिग्रहो न ते ऋद्धिपादाः प्रकृतिशून्यताम् उपादाय । इन्द्रियाण्य् अपरिगृहीतानि । यश् चेन्द्रियाणाम् अपरिग्रहो न तानीन्द्रियाणि प्रकृतिशून्यताम् उपादाय । बलान्य् अपरिगृहीतानि । यश् च बलानाम् अपरिग्रहो न तानि बलानि प्रकृतिशून्यताम् उपादाय । बोध्यङ्गान्य् अपरिगृहीतानि । यश् च बोध्यङ्गानाम् अपरिग्रहो न तानि बोध्यङ्गानि प्रकृतिशून्यताम् उपादाय । आर्याष्टाङ्गमार्गो ऽपरिगृहीतो यश् चार्याष्टाङ्गमार्गस्यापरिग्रहो न स आर्याष्टाङ्गमार्गः प्रकृतिशून्यताम् उपादाय । आर्यसत्यान्य् अपरिगृहीतानि । यश् चार्यसत्यानाम् अपरिग्रहो न तान्य् आर्यसत्यानि प्रकृतिशून्यताम् उपादाय । ध्यानान्य् अपरिगृहीतानि । यश् च ध्यानानाम् अपरिग्रहो न तानि ध्यानानि प्रकृतिशून्यताम् उपादाय । अप्रमाणान्य् अपरिगृहीतानि । यश् चाप्रमाणानाम् अपरिग्रहो न तान्य् अप्रमाणानि प्रकृतिशून्यताम् उपादाय । आरूप्यसमापत्तयो ऽपरिगृहीता । यश् चारूप्यसमापत्तीनाम् अपरिग्रहो न ता आरूप्यसमापत्तयः प्रकृतिशून्यताम् उपादाय । अष्टविमोक्षा अपरिगृईता यश् च विमोक्षाणाम् अपरिग्रहो न ते विमोक्षाः प्रकृतिशून्यताम् उपादाय । नवानुपूर्वविहारसमापत्तयो ऽपरिगृहीताः । यश् च नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहो न ता नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्यताम् उपादाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपरिगृहीतानि । यश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यताम् उपादाय । अभिज्ञाः अपरिगृहीताः यश् चाभिज्ञानाम् अपरिग्रहो न ता अभिज्ञाः प्रकृतिशून्यताम् उपादाय । समाधयो ऽपरिगृहीताः यश् च समाधीनाम् अपरिग्रहो न ते समाधयः प्रकृतिशून्यताम् उपादाय । धारणीमुखान्य् अपरिगृहीतानि । यश् च धारणीमुखानाम् अपरिग्रहो न तानि धारणीमुखानि प्रकृतिशून्यताम् उपादाय । दश तथागतबलान्य् अपरिगृहीतानि । यश् च तथागतबलानाम् अपरिग्रहो न तानि तथागतबलानि प्रकृतिशून्यताम् उपादाय । वैशारद्यान्य् अपरिगृहीतानि यश् च वैशारद्यानाम् अपरिग्रहो न तानि वैशारद्यानि प्रकृतिशून्यताम् उपादाय । चतस्रः प्रतिस ं विदो ऽपरिगृहीताः । यश् च चतसृणां प्रतिस ं विदाम् अपरिग्रहो न ताः प्रतिस ं विदः प्रकृतिशून्यताम् उपादाय । महाकरुणा अपरिगृहीता । यश् च महाकरुणाया अपरिग्रहो न सा महाकरुणा प्रकृतिशून्यताम् उपादाय । अष्टादाशावेणिकबुद्धधर्मा अपरिगृहीताः । यश् चावेणिकबुद्धधर्माणाम् अपरिग्रहो न ते आवेणिकबुद्धधर्माः प्रकृतिशून्याताम् उपादाय । श्रोतआपत्तिफलम् अपरिगृहीतं । यश् च श्रोतआपत्तिफलस्यापरिग्रहो न तत् श्रोतआपत्तिफलं प्रकृतिशून्यताम् उपादाय । सकृदागामिफलम् अपरिगृहीतं । यश् च सकृदागामिफलस्यापरिग्रहो न तत् सकृदागामिफलं प्रकृतिशून्यताम् उपादाय । अनागामिफलम् अपरिगृहीतं । यश् चानागामिफलस्यापरिग्रहो न तद् अनागामिफलं प्रकृतिशून्यताम् उपादाय । अर्हत्त्वम् अपरिगृहीतं । यश् चार्हत्त्वस्यापरिग्रहो न तद् अर्हत्वं प्रकृतिशून्यताम् उपादाय । प्रत्येकबोधिर् अपरिगृहीता यश् च प्रत्येकबोधेर् अपरिग्रहो न सा प्रत्येकबोधिः प्रकृतिशून्यताम् उपादाय । मार्गाकारज्ञतापरिगृहीता । यश् च मार्गाकारज्ञतायाः अपरिग्रहो न सा मार्गाकारज्ञता प्रकृतिशून्यताम् उपादाय । सर्वाकारज्ञतापरिगृहीता । यश् च सर्वाकारज्ञताया अपरिग्रहो न सा सर्वाकारज्ञता प्रकृतिशून्यताम् उपादाय । तथतापरिगृहीता । यश् च तथताया अपरिग्रहो न सा तथता प्रकृतिशून्यताम् उपादाय । अवितथतापरिगृहीता । यश् चावितथताया अपरिग्रहो न सा अवितथता प्रकृतिशून्यताम् उपादाय । अनन्यतथतापरिगृहीता । यश् चानन्यतथताया अपरिग्रहो न सा अनन्यतथता प्रकृतिशून्यताम् उपादाय । धर्मतापरिगृहीता । यश् च धर्मताया अपरिग्रहो न सा धर्मता प्रकृतिशून्यताम् उपादाय । धर्मधातुर् अपरिगृहीतो यश् च धर्मधातोर् अपरिग्रहो न स धर्मधातुः प्रकृतिशून्यताम् उपादाय । धर्मस्थितिता अपरिगृहीता । यश् च धर्मस्थितिताया अपरिग्रहो न सा धर्मस्थितिता प्रकृतिशून्यताम् उपादाय । धर्मनियामतापरिगृहीता । यश् च धर्मनियामताया अपरिग्रहो न सा धर्मनियामता प्रकृतिशून्यताम् उपादाय । भूतकोटिर् अपरिगृहीता । यत्र भूतकोटेर् अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय । सापि प्रज्ञापारमितापरिगृहीता यश् च प्रज्ञापारमितायाः अपरिग्रहो न सा प्रज्ञापारमिता प्रकृतिशून्यताम् उपादाय ।
एवं खलु भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्मा व्युपपरीक्षितव्याः । तथा परीक्षितव्या यथा न क्वचिद् धर्मेषु मनसो व्यवचारो भवेत् । इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणनियतम् असंहार्यम् असाधारणं सर्वश्रावकप्रत्येकबुद्धैः । यत्र समाधिमण्डले विहरन् बोधिसत्त्वो महासत्त्वो निर्यास्यति सर्वाकारज्ञतायाः । सापि सर्वाकारज्ञतापरिगृहीता अध्यात्मशून्यताम् उपादाय । बहिर्धाशून्यताम् उपादाय । अध्यात्मबहिर्धाशून्यताम् उपादाय । शून्यताशून्यताम् उपादाय । महाशून्यताम् उपादाय । परमार्थशून्यताम् उपादाय । संस्कृतशून्यताम् उपादाय । असंस्कृतशून्यताम् उपादाय । अत्यन्तशून्यताम् उपादाय । अनवराग्रशून्यताम् उपादाय । अनवकारशून्यताम् उपादाय । प्रकृतिशून्यताम् उपादाय । सर्वधर्मशून्यताम् उपादाय । स्वलक्षणशून्यताम् उपादाय । अनुपलम्भशून्यताम् उपादाय । अभावशून्यताम् उपादाय । स्वभावशून्यताम् उपादाय । अभावस्वभावशून्यताम् उपादाय ।
तत् कस्य हेतोर् न हि सा निमित्ततो वक्तव्या । तथा हि निमित्तुः क्लेशतः । कतरन् निमित्तम् इति । रूपं निमित्तं संज्ञा निमित्तं संस्कारनिमित्तं विज्ञानं निमित्तं चक्षुर् निमित्तं श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तं मनो निमित्तं । रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं । स्पर्शो निमित्तं । धर्मा निमित्तं । चक्षुर्विज्ञानं निमित्तं श्रोत्रविज्ञानं निमित्तं । घ्राणविज्ञामं निमित्तं जिह्वाविज्ञानं निमित्तं कायविज्ञानं निमित्तं मनोविज्ञानं निमित्तं । चक्षुःसंस्पर्शजावेदना निमित्तं । श्रोत्रसंस्पर्शजावेदना निमित्तं । घ्राणसंस्पर्शजावेदना निमित्तं । जिह्वासंस्पर्शजावेदना निमित्तं । कायसंस्पर्शजावेदना निमित्तं । मनःसंस्पर्शजावेदना निमित्तं । पृथिवीधातुर् निमित्तं । अब्धातुर् निमित्तं । तेजोधातुर् निमित्तं । वायुधातुर् निमित्तं । आकाशधातुर् निमित्तं । विज्ञानधातुर् निमित्तं । अविद्या निमित्तं । संस्कारा निमित्तं । नामरूपं निमित्तं । षडायतनं निमित्तं । वेदना निमित्तं । तृष्णा निमित्तं । उपादानं निमित्तं । भवो निमित्तं । जरामरणं निमित्तं । दानपारमिता निमित्तं । शीलपारमिता निमित्तं । क्षान्तिपारमिता निमित्तं । वीर्यपारमिता निमित्तं । ध्यानपारमिता निमित्तं । प्रज्ञापारमिता निमित्तं । अध्यात्मशून्यता निमित्तं । बहिर्धाशून्यता निमित्तं । अध्यात्मबहिर्धाशून्यता निमित्तं । शून्यताशून्यता निमित्तं । महाशून्यता निमित्तं । परमार्थशून्यता निमित्तं । संस्कृतशून्यता निमित्तं । असंस्कृतशून्यता निमित्तं । अत्यन्तशून्यता निमित्तं । अनवराग्रशून्यता निमित्तं । अनवकारशून्यता निमित्तं । प्रकृतिशून्यता निमित्तं । सर्वधर्मशून्यता निमित्तं । स्वलक्षणशून्यता निमित्तं । अनुपलम्भशून्यता निमित्तं । अभावशून्यता निमित्तं । स्वभावशून्यता निमित्तं । अभावस्वभावशून्यता निमित्तं । आर्याष्टाङ्गमार्गो निमित्तं । आर्यसत्यानि निमित्तं । ध्यानानि निमित्तं । अप्रमाणानि निमित्तं । आरूप्यसमापत्तयो निमित्तं । अष्टौ विमोक्षा निमित्तं । नवानुपूर्वविहारसमापत्तयो निमित्तं । शून्यता निमित्तं । प्रणिहितं निमित्तं । अभिज्ञा निमित्तं । समाधयो निमित्तं । धारणीमुखानि निमित्तं । दश तथागतबलानि निमित्तं । चत्वारि वैशारद्यानि निमित्तं । चतस्रः प्रतिस ं विदो निमित्तं । महाकरुणा निमित्तं । अष्टादशावेणिका बुद्धधर्मा निमित्तं । अक्षराणि निमित्तानि । एको दाहरो निमित्तं । व्युदाहरो निमित्तं । पृथग्दाहरो निमित्तं ।
अयम् उच्यते क्लेशः सचेत् स निमित्तत उदग्रहीतव्यो भविष्यत्वेवे ऽश्रेणिकः परिव्राजकः श्रद्धां प्रतिलप्स्यते । नात्र सर्वज्ञज्ञाने । कतमा श्रद्धा यद् उत प्रज्ञापारमितायाः अभिश्रद्धधानतावकल्पनता अधिमुच्यनता प्रत्ययनता चित्तता तुलना व्युपपरीक्षणता । तच् च न निमित्तयोगेन । एवम् आनिमित्तानिमित्तानुग्रहीतव्या । श्रेणिकः पुनः परिव्राजको ऽत्र सर्वज्ञाने ऽधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः । सो ऽवतीर्य न रूपं परिगृहीतवान् । न वेदनां परिगृहीतवान् । न संज्ञां परिगृहीतवान् । न संस्कारान् परिगृहीतवान् । न विज्ञानं परिगृहीतवान् । तथा हि स्वलक्षणशून्येषु सर्वधर्मेषु परिग्राहकं नोपलब्धा । तत् कस्य हेतोस् तथा हि नाध्यात्मप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धाप्रात्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तत् ज्ञानं समनुपश्यति स्म । तत् कस्य हेतोस् तथा हि स तद् धर्मं न समनुपश्यति स्म । येन प्रजानीयात् यो वा प्रजानीयात् । यद् वा प्रजानीयात् । नाध्यात्मरूपस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धारूपस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धारूपस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्ररूपात् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धावेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धावेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मसंज्ञायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धासंज्ञायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धासंज्ञायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रसंज्ञायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मसंस्काराणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धासंस्काराणां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धासंस्काराणां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रसंस्कारेभ्यः तत् ज्ञानं समनुपस्यति स्म । नाध्यात्मविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मञ् चक्षुषस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा चक्षुषस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा चक्षुषस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र चक्षुषस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा श्रोत्रस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र श्रोत्रात् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मं घ्राणस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा घ्राणस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा घ्राणस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र घ्राणात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जिह्वायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जिह्वायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा जिह्वायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जिह्वायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं कायस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा कायस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा कायस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र कायस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्यं मनसस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा मनसस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा मनसस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र मनमस् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
नाध्यात्मं रूपस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा रूपस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा रूपस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र रूपात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं शब्दस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा शब्दस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा शब्दस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र शब्दस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं गन्धस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा गन्धस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा गन्धस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र गन्धस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं रसस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा रसस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा रसस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र रसस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धर्माणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धर्माणां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा धर्माणां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र धर्मेभ्यस् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र चक्षुर्विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र श्रोत्रविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं न समनुपश्यति स्म । नाप्य् अन्यत्र घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जिह्वाविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र कायविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं विज्ञानस्य तत् मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति । नाध्यात्मबहिर्धा मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र मनोविज्ञानस्य तत् ज्ञानं समनुपश्यति । नाध्यात्मं चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा चक्षुःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र चक्षुःसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा श्रोत्रसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र श्रोत्रसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा घ्राणविज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मंबहिर्धा घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र घ्राणसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्प्यति स्म । नाध्यात्मबर्हिर्धाजिह्वासंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जिह्वासंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा कायसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र कायसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा मनःसंस्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र मनःसंस्पर्शात् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं नाप्य् अन्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्यबहिर्धा घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । समनुपश्यति स्म । नाध्यात्मबहिर्धा जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र कायसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र मनःसंस्पर्शप्रत्ययवेदनायास् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र पृथिवीधातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अब्धातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा ब्धातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा ब्धातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राब्धातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र तेजोधातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं वायुधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा वायुधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा वायुधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र वायुधातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा आकाशधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राकाशधातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र विज्ञानधातोस् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मम् अविद्यायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा विद्यायास् तत् ज्ञानं समनुपश्त्यति स्म । नाध्यात्मबहिर्धा विद्यायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राविद्यायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं संस्काराणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा संस्काराणां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा संस्काराणां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र संस्काराणां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र विज्ञानस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं नामरूपस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नामरूपस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नामरूपस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र नामरूपस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मं षडायतनस्य तत् ज्ञानं समनुप्श्यति स्म । न बहिर्धा षडायतनस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा षडायतनस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र षडायतनस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा स्पर्शस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र स्पर्शात् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं वेदनायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा वेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा वेदनायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र व्éदनायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं तृष्णायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा तृष्णायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा तृष्णायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र तृष्णायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं भवस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा भवस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा भवस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र भवस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जातेस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जातेस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा जातेस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जातेस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं जरामरणस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा जरामरणस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा जरामरणस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र जरामरणस्य तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र दानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र शीलपारमितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र क्षान्तिपारमितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र वीर्यपारमितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र ध्यानपारमितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र प्रज्ञापारमितायास् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मम् अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा अध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राध्यात्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र बहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा अध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राध्यात्मबहिर्धा शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं शून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यतिम् स्म । नाप्य् अन्यत्र शून्यताशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र महाशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र परमार्थशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र संस्कृतशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अत्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा त्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा त्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रात्यन्तशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रानवराग्रशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रानवकारशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र प्रकृतिशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र सर्वधर्मशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र स्वलक्षणशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रानुपलम्भशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा भावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा भावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र स्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अभावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा भावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राभावस्वभावशून्यतायास् तत् ज्ञानं समनुपश्यति स्म ।
स नाध्यात्मं स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र स्मृत्युपस्थानानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं सम्यक्प्रहाणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र सम्यक्प्रहाणानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र बहिर्धा ऋद्धिपादानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् इन्द्रियाणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा इन्द्रियाणां समनुपश्यति स्म । नाध्यात्मबहिर्धा इन्द्रियाणां तत् ज्ञानं नाप्य् अन्यत्रेन्द्रियाणां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं बलानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा बलानां समनुपश्यति स्म । नाध्यात्मबहिर्धा बलानां तत् ज्ञानं समनुसमनुपश्यति स्म । नाप्य् अन्यत्र बलानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र बोध्यङ्गानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् आर्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा र्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा र्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रार्याष्टाङ्गमार्गस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् आर्यसत्यानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा र्यसत्यानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा र्यसत्यानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रार्यसत्येभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं ध्यानानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा ध्यानानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा ध्यानानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र ध्यानेभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अप्रामाणानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा प्रमाणानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा प्रमाणानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राप्रमाणानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा आरूप्यसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रारूप्यसमापत्तिभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा विमोक्षाणां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र विमोक्षेभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनुपूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा पूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा पूर्वविहारसमापत्तीनां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रापूर्वविहारसमापत्तिभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अभिज्ञानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धाभिज्ञानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धाभिज्ञानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्राभिज्ञाभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं समाधीनां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा समाधीनां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र समाधिभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा धारणीमुखानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र धारणीमुखेभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा दशानां तथागतबलानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र दशतथागतबलेभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा वैशारद्यानां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र वैशारद्येभ्यस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं प्रतिस ं विदां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा प्रतिस ं विदां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा प्रतिस ं विदां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र प्रतिस ं विदां तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र महाकरुणायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा आवेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रावेणिकबुद्धधर्माणां तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र श्रोतआपत्तिफलस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र सकृदागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नागामिफलस्य तत् ज्ञानं समम्पश्यति स्म । नाप्य् अन्यत्रानागामिफलस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अर्हत्वस्य तत् ज्ञानं समनुपश्यति स्म । न बहिर्धार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रार्हत्वस्य तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र प्रत्येकबोधेस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र मार्गाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र सर्वाकारज्ञतायास् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
स नाध्यात्मं तथतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा तथतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा तथतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र तथतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अवितथतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा वितथतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा वितथतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रावितथतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मम् अनन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा नन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा नन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्रानन्यतथतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धर्मतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धर्मतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा धर्मतायास् तत् ज्ञानं समनुपश्फति स्म । नाप्य् अन्यत्र धर्मतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मधर्मधातोस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र धर्मधातोस् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र धर्मस्थितितायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं धर्मनियामतायास् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा धर्मानियामतायास् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा धर्मनियामतायास् तत् ज्ञानं समनुपश्यति स्म । स नाध्यात्मं भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म । न बहिर्धा भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म । नाध्यात्मबहिर्धा भूतकोटेस् तत् ज्ञानं समनुपश्यति स्म । नाप्य् अन्यत्र भूत्कोटेस् तत् ज्ञानं समनुपश्यति स्म । अध्यात्मबहिर्धाशून्यताम् उपादाय ।
अत्र पर्यायेण श्रेणिकः परिव्राजको ऽधिमुक्त्येः सो ऽत्राधिमुच्य श्रद्धानुसारी सर्वाकारज्ञताज्ञानेनावतीर्णो धर्मतां प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय । स एवम् अधिमुक्तस् तेन न कश्चिद् धर्मः परिगृहीतः । अनिमित्तमनसिकारताम् उपादाय । नाप्य् अनेन कश्चिद् धर्म उपलब्धो ऽयं परिगृह्णीयाद् अधिमुच्येद् वा सर्वधर्माग्रहानुत्सर्गताम् उपादाय । स निर्वाण नापि न मन्यते स्म सर्वधर्मम् अवनताम् उपादाय । इयम् अपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । अपारपारगमनताम् उपादाय । यद् रूपं न परिगृह्णाति । वेदनां न परिगृह्णाति । संज्ञां न परिगृह्णाति । संस्कारा न परिगृह्णाति । विज्ञानं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । चक्षुर् न परिगृह्णाति । श्रोत्रं न परिगृह्णाति । घ्राणं न परिगृह्णाति । जिह्वां न परिगृह्णाति । कायं न परिगृह्णाति । मनो न परिगृह्णाति । सर्वधर्मा न परिगृहीतताम् उपादाय । रूपं न परिगृह्णाति । शब्दं न परिगृह्णाति । गन्धं न परिगृह्णाति । रसं न परिगृह्णाति । स्पर्शं न परिगृह्णाति । सर्वधर्मान् न परिगृह्णाति । धर्मान् न परिगृह्णाति । सर्वधर्मा न परिगृहीताम् उपादाय । चक्षुर्विज्ञानं न परिगृह्णाति । श्रोत्रविज्ञानं न परिगृह्णाति । घ्राणविज्ञानं न परिगृह्णाति । जिह्वाविज्ञानं न परिगृह्णाति । कायविज्ञानं न परिगृह्णाति । मनोविज्ञानं न परिगृह्णाति । सर्वधर्मा न परिगृहीतताम् उपादाय । चक्षुःसंस्पर्शं न परिगृह्णाति । श्रोत्रसंस्पर्शं न परिगृह्णाति । घ्राणसंस्पर्शं न परिगृह्णाति । जिह्वासंस्पर्शं न परिगृह्णाति । कायसंस्पर्शं न परिगृह्णाति । मनःसंस्पर्शं न परिगृह्णाति । सर्वधर्मा न परिगृहीतताम् उपादाय । चक्षुःसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । श्रोत्रसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । घ्राणसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । जिह्वासंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । कायसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । मनःसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय ।
पृथिवीधातुं न परिगृह्णाति । अब्धातुं न परिगृह्णाति । तेजोधातुं न परिगृह्णाति । वायुधातुं न परिगृह्णाति । आकाशधातुं न परिगृह्णाति । विज्ञानधातुं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अविद्यां न परिगृह्णाति । संस्कारा न परिगृह्णाति । विज्ञानं न परिगृह्णाति । नामरूपं न परिगृह्णाति । षडायतनं न परिगृह्णाति । स्पर्शं न परिगृह्णाति । वेदनां न परिगृह्णाति । तृष्णां न परिगृह्णाति । उपादानं न परिगृह्णाति । भवं न परिगृह्णाति । जातिं न परिगृह्णाति । जरामरणं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । दानपारमितां न परिगृह्णाति । शीलपारमितां न परिगृह्णाति । क्षान्तिपारमितां न परिगृह्णाति । वीर्यपारमितां न परिगृह्णाति । ध्यानपारमितां न परिगृह्णाति । प्रज्ञापारमितां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अध्यात्मशून्यतां न परिगृह्णाति । बहिर्धाशून्यतां न परिगृह्णाति । अध्यात्मबहिर्धाशून्यतां न परिगृह्णाति । शून्यताशून्यतां न परिगृह्णाति । महाशून्यतां न परिगृह्णाति । परमार्थशून्यतां न परिगृह्णाति । संस्कृतशून्यतां न परिगृह्णाति । असंस्कृतशून्यतां न परिगृह्णाति । अत्यन्तशून्यतां न परिगृह्णाति । अनवराग्रशून्यतां न परिगृह्णाति । अनवकारशून्यतां न परिगृह्णाति । प्रकृतिशून्यतां न परिगृह्णाति । सर्वधर्मशून्यतां न परिगृह्णाति । स्वलक्षणशून्यतां न परिगृह्णाति । अनुपलम्भशून्यतां न परिगृह्णाति । अभावशून्यतां न परिगृह्णाति । स्वभावशून्यतां न परिगृह्णाति । अभावस्वभावशून्यतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय ।
स्मृत्युपस्थानानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । सम्यक्प्रहाणानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । ऋद्धिपादान् न परिगृहाति । सर्वधर्मापरिगृहीतताम् उपादाय । इन्द्रियाणि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । बलानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । बोध्यङ्गानि न परिगृहाति । सर्वधर्मापरिगृहीतताम् उपादाय । आर्याष्टाङ्गमार्गं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । आर्यसत्यानि न परिगृहीतानि । सर्वधर्मापरिगृहीतताम् उपादाय । ध्यानानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अप्रमाणानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । आरूप्यसमापत्तीर् न परिगृहाति । सर्वधर्मापरिगृहीतताम् उपादाय । अष्टाविमोक्षान् न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । नवानुपूर्वविहारसमापत्तीर् न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न परिगृहीतानि । सर्वधर्मापरिगृहीतताम् उपादाय । अभिज्ञा न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । समाधीन् न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । धारणीमुखानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । दश तथागतबलानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । चत्वारि वैशारद्यानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । तिस्रः प्रतिस ं विदो न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । महाकरुणां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । आवेणिकबुद्धधर्मा न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । श्रोतआपत्तिफलं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । सकृदागामिफलं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अनागामिफलं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अर्हत्वं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । प्रत्येकबोधिं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । मार्गाकारज्ञतां न परिगृह्णाति । सर्वाधर्मापरिगृहीतताम् उपादाय । सर्वाकारज्ञतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । तथतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अवितथता न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अनन्यतथतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । धर्मतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । धर्मधातुं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । धर्मस्थितितां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । धर्मनियामतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । भूतकोटिं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय ।
परान्तरा परिनिर्वात्य् अपरिपूर्णैः प्रणिधानैर् अपरिपूर्णैश् चतुर्भिः स्मृत्युपस्थानैर् अपरिपूर्णैश् चतुर्भिः सम्यक्प्रहाणैर् अपरिपूणैश् चतुर्भिः ऋद्धिपादैर् अपरिपूर्णैः पञ्चभिर् इन्द्रियैर् अपरिपूर्णैः पञ्चभिर् बलैर् अपरिपूर्णैः सप्तभिर् बोध्यङ्गैर् अपरिपूर्णैर् नार्याष्टाङ्गमार्गेण । अपरिपूर्णैश् चतुर्भिर् आर्यसत्यैर् अपरिपूर्णैश् चतुर्भिर् ध्यानैर् अपरिपूर्णैश् चतुर्भिः प्रमाणैर् अपरिपूर्णाभिश् चतसृभिर् आरूप्यसमापत्तिर् अपरिपूर्णैर् अष्टाभिर् विमोक्षैर् अपरिपूर्णाभिर् नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिपूर्णैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अपरिपूर्णाभिर् अभिज्ञाभिर् अपरिपूर्णैः समाधिभिर् अपरिपूणैर् धारणीमुखैर् अपरिपूर्णैर् दशभिस् तथागतबलैर् अपरिपूणैश् चतुर्भिर् वैशारद्यैर् अपरिपूर्णाभिश् चतसृभिः प्रतिसंविद्भिर् अपरिपूर्णया महाकरुणया । अपरिपूर्णैर् अष्टादशभिर् आवेणिकबुद्धधर्मैः ।
तत् कस्य हेतोस् तथा हि तानि प्रणिधानान्य् अप्रणिधानानि । तत् स्मृत्युपस्थानान्य् अस्मृत्युपस्थानानि । सम्यक्प्रहाणान्य् असम्यक्प्रहाणानि । ऋद्धिपादा अनृद्धिपादाः । इन्द्रियाण्य् अनिन्द्रियाणि । बलान्य् अबलानि । बोध्यङ्गान्य् अबोध्यङ्गानि । आर्याष्टाङ्गमार्गो ऽनार्यष्टाङ्गमार्गः । आर्यसत्यान्य् अनार्यसत्यानि । ध्यानान्य् अध्यानानि । अप्रमाणान्य् अनप्रमाणानि । आरूप्यसमापत्तयो ऽनारूप्यसमापत्तयः । अष्टौ विमोक्षा अविमोक्षा । नवानुपूर्वविहारसमापत्तयो ऽनवानुपूर्वविहारसमापत्तयः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशून्यतानिमित्ताप्रणिहितविमोक्षमुखानि । अभिज्ञाः अनभिज्ञाः । समाधयो ऽसमाधयः । धारणीमुखान्य् अधारणीमुखानि । तथागतबलान्य् अतथागतबलानि । वैशारद्यान्य् अवैशारद्यानि । प्रतिस ं विदो ऽप्रतिस ं विदः । महाकरुणा अमहाकरुणा । आवेणिकबुद्धधर्माः अनावेणिकबुद्धधर्माः । इयं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । यद् रूपं न परिगृह्णाति । वेदनां न परिगृह्णाति । संज्ञां न परिगृह्णाति । संस्कारा न परिगृह्णाति । विज्ञानं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । चक्षुर् न परिगृह्णाति । श्रोत्रं न परिगृह्णाति । घ्राणं न परिगृह्णाति । जिह्वां न परिगृहाति । कायं न परिगृह्णाति । मनो न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । रूपं न परिगृह्णाति । शब्दं न परिगृहाति । गन्धं न परिगृह्णाति । रसं न परिगृह्णाति । स्पर्शं न परिगृह्णाति । धर्मा न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । चक्षुर्विज्ञानं न परिगृह्णाति । श्रोत्रविज्ञानं न परिगृह्णाति । घ्राणविज्ञानं न परिगृह्णाति । जिह्वाविज्ञानं न परिगृहाति । कायविज्ञानं न परिगृह्णाति । मनोविज्ञानं न परिगृह्णाति । सर्वधर्मापरिगृहीतिताम् उपादाय । चक्षुःसंस्पर्शं न परिगृह्णाति । श्रोत्रसंस्पर्शं न परिगृह्णाति । घ्राणसंस्पर्शं न परिगृह्णाति । जिह्वासंस्पर्शं न परिगृह्णाति । कायसंस्पर्शं न परिगृह्णाति । मनःसंस्पर्शं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । चक्षुःसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति । श्रोत्रसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति । घ्राणसंस्पर्शं प्रत्ययवेदनां न परिगृह्णाति । जिह्वासंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । कायसंस्पर्शप्रत्ययवेदनां न परिगृह्णाति । मनःसंस्पर्शप्रत्ययवेदनां न परिगृहाति । सर्वधर्मापरिगृहीतताम् उपादाय । पृथिवीधातुं न परिगृह्णाति । अब्धातुं न परिगृह्णाति । तेजोधातुं न परिगृह्णाति । वायुधातुं न परिगृह्णाति । आकाशधातुं न परिगृह्णाति । विज्ञानधातुं न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । अविद्यां न परिगृह्णाति । संस्कारा न परिगृह्णाति । विज्ञानं न परिगृह्णाति । नामरूपं न परिगृह्णाति । षडायतनं न परिगृह्णाति । स्पर्शं न परिगृह्णाति । तृष्णां न परिगृह्णाति । उपादानं न परिगृह्णाति । भवं न परिगृह्णाति । जातिं न परिगृह्णाति । जरामरणं न परिगृह्णाति । सर्वधर्मा न परिगृहीतताम् उपादाय ।
दानपारमितां न परिगृह्णाति । शीलपारमितां न परिगृह्णाति । वीर्यपारमितां न परिगृह्णाति । ध्यानपारमितां न परिगृहाति । प्रज्ञापारमितां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय ।
अध्यात्मशून्यतां न परिगृह्णाति । बहिर्धाशून्यतां न परिगृह्णाति । अध्यात्मबहिर्धाशून्यतां न परिगृह्णाति । शून्यताशून्यतां न परिगृह्णाति । महाशून्यतां न परिगृह्णाति । परमार्थशून्यतां न परिगृह्णाति । संस्कृतशून्यतां न परिगृहाति । असंस्कृतशून्यतां न परिगृह्णाति । अत्यन्तशून्यतां न परिगृह्णाति । अनवराग्रशून्यतां न परिगृह्णाति । अनवकारशून्यतां न परिगृहाति । प्रकृतिशून्यतां न परिगृह्णाति । सर्वधर्मशून्यतां न परिगृह्णाति । स्वलक्षणशून्यतां न परिगृह्णाति । अनुपलम्भशून्यतां न परिगृह्णाति । अभावशून्यतां न परिगृह्णाति । स्वभावशून्यतां न परिगृह्णाति । अभावस्वभावशून्यतां स परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाद्य । स्मृत्युपस्थानानि न परिगृह्णाति । सम्यक्प्रहाणानि न परिगृह्णाति । ऋद्धिपादान् न परिगृह्णाति । इन्द्रियाणि न परिगृह्णाति । बलानि न परिगृह्णाति । बोध्यङ्गानि न परिगृह्णाति । आर्याष्टाङ्गमार्गं न परिगृह्णाति । ध्यानानि न परिगृह्णाति । अप्रमाणानि न परिगृह्णाति । आरूप्यसमापत्तिर् न परिगृह्णाति । अष्टौ विमोक्षान् न परिगृह्णाति । नवानुपूर्वविहारसमापत्तिर् न परिगृह्णाति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न परिगृह्णाति । अभिज्ञा न परिगृह्णाति । समाधीन् न परिगृह्णाति । धारणीमुखानि न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय ।
दश तथागतबलानि न परिगृह्णाति । चत्वारि वैशारद्यानि न परिगृह्णाति । चतस्रः प्रतिस ं विदो न परिगृह्णाति । महाकरुणां न परिगृह्णाति । अष्टादशावेणिकान् बुद्धधर्मान् न परिगृह्णाति । सर्वधर्मापरिगृहीतिताम् उपादाय । श्रोतआपत्तिफलं न परिगृह्णाति । सकृदागामिफलं न परिगृह्णाति । अनागामिफलं न परिगृह्णाति । अर्हत्त्वं न परिगृह्णाति । प्रत्येकबोधिं न परिगृह्णाति । मार्गाकारज्ञतां न परिगृह्णाति । सर्वाकारज्ञतां न परिगृह्णाति । सर्वधर्मापरिगृहीतताम् उपादाय । तथतां न परिगृह्णाति । अवितथतां न परिगृह्णाति । अनन्यतथतां न परिगृह्णाति । धर्मतां न परिगृह्णाति । धर्मस्थितितां च परिगृह्णाति । धर्मनियामतां न परिगृह्णाति । भूतकोटिं न परिगृह्णाति । सर्वाधर्मापरिगृहीतताम् उपादाय ।
पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यं । कतमैषा प्रज्ञापारमिता । कस्यैषा प्रज्ञापारमिता । किम् एता प्रज्ञापारमिता । केनैषा प्रज्ञापारमिता इति । सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपनिध्याति । तत् किं यो धर्मो न संविद्यते नोपलभ्यते सा प्रज्ञापारमितेति स चरति प्रज्ञापारमितायां ।
अथ खल्व् आयुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत् । कतमै आयुष्मन् सुभूते धर्मान् संविद्यते नोपलभ्यते । सुभूतिर् आह । प्रज्ञापारमितायुष्मन् शारद्वतीपुत्र न संविद्यते नोपलभ्यते । ध्यानपारमिता न संविद्यते नोपलभ्यते । वीर्यपारमिता न संविद्यते नोपलभ्यते । क्षान्तिपारमिता न संविद्यते नोपलभ्यते । शीलपारमिता न संविद्यते नोपलभ्यते । दानपारमिता न संविद्यते नोपलभ्यते । अध्यात्मशून्यताम् उपादाय । बहिर्धाशून्यताम् उपादाय । अध्यात्मबहिर्धाशून्यताम् उपादाय । शून्यताशून्यताम् उपादाय । महाशून्यताम् उपादाय । परमार्थशून्यताम् उपादाय । संस्कृतशून्यताम् उपादाय । असंस्कृतशून्यताम् उपादाय । अत्यन्तशून्यताम् उपादाय । अनवराग्रशून्यताम् उपादाय । अनवकारशून्यताम् उपादाय । प्रकृतिशून्यताम् उपादाय । सर्वधर्मशून्यताम् उपादाय । स्वलक्षणशून्यताम् उपादाय । अनुपलम्भशून्यताम् उपादाय । अभावशून्यताम् उपादाय । स्वभावशून्यताम् उपादाय । अभावस्वभावशून्यताम् उपादाय । रूपम् आयुष्मञ् शारद्वतीपुत्र न संविद्यते नोपलभ्यते । संज्ञा न संविद्यते नोपलभ्यते । संस्कारा न संविद्यन्ते नोपलभ्यन्ते । विज्ञानं न संविद्यते नोपलभ्यते । अध्यात्मशून्यताम् उपादाय । शून्यताशून्यताम् उपादाय । परमार्थशून्यताम् उपादाय । संस्कृतशून्यताम् उपादाय । असंस्कृतशून्यताम् उपादाय । अत्यन्तशून्यताम् उपादाय । अनवराग्रशून्यताम् उपादाय । अनवकारशून्यताम् उपादाय । प्रकृतिशून्यताम् उपादाय । अनुपलम्भशून्यताम् उपादाय । अभावशून्यताम् उपादाय । स्वभावशून्यताम् उपादाय । अभावस्वभावशून्यताम् उपादाय ।
मूल पाठ: Śatasāhasrikā Prajñāpāramitā, Part I · Edition: Pratāpacandra Ghoṣa Śatasāhasrikā Prajñāpāramitā Calcutta Asiatic Society of Bengal 1902-1913 Bibliotheca Indica Kimura, Takayasu Pañcaviṃśatisāhasrikā Prajñāpāramitā Tokyo Sankibo Busshorin Publishing Co. 1986-2009 · Data entry Reinhold Grünendahl Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0