शतपञ्चाशत्क · भाग 18
प्रसादप्रतिभोधव (= शतपञ्चाशत्क) ओf मातृचेट
सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह ।
सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः ॥ 1
तम् एव शरणं गन्तुं तं स्तोतुं तम् उपासितुम् ।
तस्यैव शासने स्थातुं न्याय्यं यद्य् अस्ति चेतना ॥ 2
सवासनाश् च ते दोषा न सन्त्य् एकस्य तायिनः ।
सर्वे सर्वविदः सन्ति गुणास् ते चानपायिनः ॥ 3
न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु ।
सह धर्मेण लभते कश् चिद् भगवतो ऽन्तरम् ॥ 4
सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ 5
अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् ।
आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् ॥ 6
इत्य् असंख्येयविषयान् अवेत्यापि गुणान् मुनेः ।
तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् ॥ 7
स्वयंभुवे नमस् ते ऽस्तु प्रभूताद्भुतकर्मणे ।
यस्य संख्याप्रभावाभ्यां न गुणेष्व् अस्ति निश्चयः ॥ 8
इयन्त इति नास्त्य् अन्त ईदृशा इति का कथा ।
पुण्या इत्य् एव तु गुणान् प्रति ते मुखरा वयम् ॥ 9
विषह्यम् अविषह्यं वेत्य् अवधूय विचारणाम् ।
स्वयम् अभ्युपपन्नं ते निराक्रन्दम् इदं जगत् ॥ 10
अव्यापारितसाधुस् त्वं त्वम् अकारणवत्सलः ।
असंस्तुतसखश् च त्वम् अनवस्कृतबान्धवः ॥ 11
स्वमांसान्य् अपि दत्तानि वस्तुष्व् अन्येषु का कथा ।
प्राणैर् अपि त्वया साधो मानितः प्रणयी जनः ॥ 12
स्वैः शरीरैः शरीराणि प्राणैः प्राणाः शरीरिणाम् ।
जिघांसुभिर् उपात्तानां क्रीतानि शतशस् त्वया ॥ 13
न दुर्गतिभयान् नेष्टाम् अभिप्रार्थयता गतिम् ।
केवलाशयशुद्ध्यैव शीलं सात्मीकृतं त्वया ॥ 14
जिह्मानां नित्यविक्षेपाद् ऋजूनां नित्यसेवनात् ।
कर्मणां परिशुधानां त्वम् एकायनतां गतः ॥ 15
पीड्यमानेन बहुशस् त्वया कल्याणचेतसा ।
क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः ॥ 16
परार्थे त्यजतः प्राणान् या प्रीतिर् अभवत् तव ।
न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् ॥ 17
यद् रुजानिरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् ।
वधकेष्व् अपि सत्त्वेष्व् कारुण्यम् अभवत् प्रभो ॥ 18
सम्यक्संबोधिबीजस्य चित्तरत्नस्य तस्य ते ।
त्वम् एव वीर सारज्ञो दूरे तस्येतरो जनः ॥ 19
नाकृत्वा दुष्करं कर्म दुर्लभम् लभ्यते पदम् ।
इत्य् आत्मनिरपेक्षेण वीर्यं संवर्धितं त्वया ॥ 20
विशेषोत्कर्षनियमो न कदा चिद् अभूत् तव ।
अतस् त्वयि विशेषाणां छिन्नस् तरतमक्रमः ॥ 21
सुसुखेष्व् अपि सङ्गो ऽभूत् सफलेषु समाधिषु ।
न ते नित्यानुबद्धस्य महाकरुणया हृदि ॥ 22
त्वादृशान् पीडयत्य् एव नानुगृह्णाति तत् सुखम् ।
प्रणीतम् अपि सद्वृत्त यद् असाधारणं परैः ॥ 23
विमिश्रात् सारम् आदत्तं सर्वं पीतम् अकल्मषम् ।
त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् ॥ 24
क्रीणता रत्नसारज्ञ प्राणैर् अपि सुभाषितम् ।
पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु ॥ 25
इति त्रिभिर् असंख्येयैर् एवम् उद्यच्छता त्वया ।
व्यवसायद्वितीयेन प्राप्तं पदम् अनुत्तरम् ॥ 26
अकृत्वेर्ष्यां विशिष्टेषु हीनान् अनवमत्य च ।
अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः ॥ 27
हेतुष्व् अभिनिवेशो ऽभूद् गुणानां न फलेषु ते ।
तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः ॥ 28
तथात्मा प्रचयं नीतस् त्वया सुचरितैर् यथा ।
पुण्यायतनतां प्राप्तान्य् अपि पादरजांसि ते ॥ 29
कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः ।
गुणास् तेन सुनीतेन परां सिद्धिं त्वम् अध्यगाः ॥ 30
तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया ।
यथैषाम् आत्मसंताने वासनापि न शेषिता ॥ 31
तथा संभृत्य संभृत्य त्वयात्मन्य् आहिता गुणाः ।
प्रतिरूपकम् अप्य् एषां यथा नान्यत्र दृश्यते ॥ 32
उपघातावरणवन् मितकालं प्रदेशि च ।
सुलभातिशयं सर्वम् उपमावस्तु लौकिकम् ॥ 33
अद्वंद्विनाम् अगम्यानां ध्रुवाणाम् अनिवर्तिनाम् ।
अनुत्तराणां का तर्हि गुणानाम् उपमास्तु ते ॥ 34
गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः ।
यदा ते बुद्धिगाम्भीर्यम् अगाधापारम् ईक्षते ॥ 35
शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् ।
अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते ॥ 36
अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने ।
न रविर् विषये भूमिं खाद्योतीम् अपि विन्दति ॥ 37
मलिनत्वम् इवायान्ति शरच्चन्द्राम्बराम्भसाम् ।
तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः ॥ 38
अनेन सर्वं व्याख्यातं यत् किं चित् साधु लौकिकम् ।
दूरे हि बुद्धधर्माणां लोकधर्मास् तपस्विनः ॥ 39
यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस् त्वम् अग्रताम् ।
तेनैव केवलं साधो साम्यं ते तस्य च त्वया ॥ 40
आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किं चन ।
यत्रोपक्षिप्य कथ्येत सा वक्तुर् अतिलोलता ॥ 41
प्रतन्व् इव हि पश्यामि धर्मताम् अनुचिन्तयन् ।
सर्वं चावर्जितं मारविजयं प्रति ते जगत् ॥ 42
महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यतः ।
क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः ॥ 43
यत् तु मारजयान्वक्षं सुमहत् क्लेशवैशसम् ।
तस्याम् एव कृतं रात्रौ तद् एव परमाद्भुतम् ॥ 44
तमोविधमने भानोर् यः सहस्रांशुमालिनः ।
वीर विस्मयम् आगच्छेत् स तीर्थ्यविजये तव ॥ 45
सरागो वीतरागेण जितरोषेण रोषणः ।
मूढो विगतमोहेन त्रिभिर् नित्यं जितास् त्रयः ॥ 46
प्रशंससि च सद्धर्मान् असद्धर्मान् विगर्हसि ।
अनुरोधविरोधौ च न स्तः सदसतोस् तव ॥ 47
नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति ।
यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर् भवेत् ॥ 48
गुणेष्व् अपि न सङ्गो ऽभूत् तृष्णा न गुणवत्स्व् अपि ।
अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता ॥ 49
इन्द्रियाणां प्रसादेन नित्यकालानपायिना ।
मनो नित्यप्रसन्नं ते प्रत्यक्षम् इव दृश्यते ॥ 50
आ बालेभ्यः प्रसिद्धास् ते मतिस्मृतिविशुद्धयः ।
गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः ॥ 51
उपशान्तं च कान्तं च दीप्तम् अप्रतिघाति च ।
निभृतं चोर्जितं चेदं रूपं कम् इव नाक्षिपेत् ॥ 52
येनापि शतशो दृष्टं यो ऽपि तत्पूर्वम् ईक्षते ।
रूपं प्रीणाति ते चक्षुः समं तद् उभयोर् अपि ॥ 53
असेचनकभावाद् धि सौम्यभावाच् च ते वपुः ।
दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् ॥ 54
अधिष्ठानगुणैर् गात्रम् अधिष्ठातृगुणैर् गुणाः ।
परया संपदोपेतास् तवान्योन्यानुरूपया ॥ 55
क्वान्यत्र सुनिविष्टाः स्युर् इमे ताथागता गुणाः ।
ऋते रूपात् तवैवास्माल् लक्षणव्यञ्जनोज्ज्वलात् ॥ 56
धन्यम् अस्मीति ते रूपं वदतीवाश्रितान् गुणान् ।
सुनिक्षिप्ता वयम् इति प्रत्याहुर् इव तद् गुणाः ॥ 57
सर्वम् एवाविशेषेण क्लेशैर् बद्धम् इदं जगत् ।
त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् ॥ 58
कं नु प्रथमतो वन्दे त्वां महाकरुणाम् उत ।
ययैवम् अपि दोषज्ञस् त्वं संसारे धृतश् चिरम् ॥ 59
विवेकसुखसात्म्यस्य यद् आकीर्णस्य ते गताः ।
काला लब्धप्रसरया तत् ते करुणया कृतम् ॥ 60
शान्ताद् अरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् ।
विनेयार्थं करुणया विद्ययेवावकृष्यसे ॥ 61
परमोपशमस्थो ऽपि करुणापरवत्तया ।
कारितस् त्वं पदन्यासं कुशीलवकलास्व् अपि ॥ 62
ऋद्धिर् या सिंहनादा ये स्वगुणोद्भावनाश् च याः ।
वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते ॥ 63
परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा ।
त्वय्य् एव केवलं नाथ करुणाकरुणाभवत् ॥ 64
तथा हि कृत्वा शतधा धीरा बलिम् इव क्व चित् ।
परेषाम् अर्थसिद्ध्यर्थं त्वां विक्षिप्तवती दिशः ॥ 65
त्वदिच्छयैव तु व्यक्तम् अनुकूला प्रवर्तते ।
तथा हि बाधमानापि त्वां सती नापराध्यते ॥ 66
सुपदानि महार्थानि तथ्यानि मधुराणि च ।
गूढोत्तानोभयार्थानि समासव्यासवन्ति च ॥ 67
कस्य न स्याद् उपश्रुत्य वाक्यान्य् एवंविधानि ते ।
त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः ॥ 68
प्रायेण मधुरं सर्वम् अगत्या किं चिद् अन्यथा ।
वाक्यं तवार्थसिद्ध्या तु सर्वम् एव सुभाषितम् ॥ 69
यच् छ्लक्ष्णं यच् च परुषं यद् वा तदुभयान्वितम् ।
सर्वम् एवैकरसतां विमर्दे याति ते वचः ॥ 70
अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् ।
यैर् इदं वाक्यरत्नानाम् ईदृशं भाजनं कृतम् ॥ 71
अस्माद् धि नेत्रसुभगाद् इदं श्रुतिमनोहरम् ।
मुखात् क्षरति ते वाक्यं चन्द्राद् द्रवम् इवामृतम् ॥ 72
रागरेणुं प्रशमयद् वाक्यं ते जलदायते ।
वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति ॥ 73
दिवाकरायते भूयो ऽप्य् अज्ञानतिमिरं नुदत् ।
शक्रायुधायते मानगिरीन् अभिविदारयत् ॥ 74
दृष्टार्थत्वाद् अवितथं निष्क्लेशत्वाद् अनाकुलम् ।
गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः ॥ 75
मनांसि तावच् छ्रोतॄणां हरन्त्य् आदौ वचांसि ते ।
ततो विमृश्यमानानि रजांसि च तमांसि च ॥ 76
आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् ।
संवेजनं च सुखिनां योगवाहि वचस् तव ॥ 77
विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् ।
तिमिरघ्नं च मन्दानां सार्वजन्यम् इदं वचः ॥ 78
अपकर्षति दृष्टिभ्यो निर्वाणम् उपकर्षति ।
दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति ॥ 79
सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः ।
अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव ॥ 80
यन् नादेशे न चाकाले नैवापात्रे प्रवर्तसे ।
वीर्यं सम्यग् इवारब्धं तेनामोघं वचस् तव ॥ 81
एकायनं सुखोपायं स्वनुबन्धि निरत्ययम् ।
आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् ॥ 82
एवम् एकान्तकान्तं ते दृष्टिरागेण बालिशाः ।
मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः ॥ 83
अन्वभुङ्क्था यद् अस्यार्थे जगतो व्यसनं बहु ।
तत् संस्मृत्य विरूपे ऽपि स्थेयं ते शासने भवेत् ॥ 84
प्राग् एव हितकर्तुश् च हितवक्तुश् च शासनम् ।
कथं न नाम कार्यं स्याद् आदीप्तशिरसापि ते ॥ 85
भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः ।
प्राप्यते त्वन्मतात् सर्वम् इदं भद्रचतुष्टयम् ॥ 86
त्रासनं सर्वतीर्थ्यानां नमुचेर् उपतापनम् ।
आश्वासनं नृदेवानां तवेदं वीर शासनम् ॥ 87
त्रैधातुकमहाभौमम् असङ्गम् अनवग्रहम् ।
शासनेन तवाक्रान्तम् अन्तकस्यापि शासनम् ॥ 88
त्वच्छासननयज्ञो हि तिष्ठेत् कल्पम् अपीच्छया ।
प्रयाति तत्र तु स्वैरी यत्र मृत्योर् अगोचरः ॥ 89
आगमस्यार्थचिन्ताया भावनोपासनस्य च ।
कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् ॥ 90
एवं कल्याणकलिलं तवेदम् ऋषिपुङ्गव ।
शासनं नाद्रियन्ते यत् किं वैशसतरं ततः ॥ 91
श्रवणं तर्पयति ते प्रसादयति दर्शनम् ।
वचनं ह्लादयति ते विमोचयति शासनम् ॥ 92
प्रसूतिर् हर्षयति ते वृद्धिर् नन्दयति प्रजाः ।
प्रवृत्तिर् अनुगृह्णाति निवृत्तिर् उपहन्ति च ॥ 93
कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् ।
अन्वेषणं मतिकरं परिज्ञानं विशोधनम् ॥ 94
श्रीकरं ते ऽभिगमनं सेवनम् धीकरं परम् ।
भजनं निर्भयकरं शंकरं पर्युपासनम् ॥ 95
शीलोपसंपदा शुद्धः प्रसन्नो ध्यानसंपदा ।
त्वं प्रज्ञासंपदाक्षोभ्यो ह्रदः पुण्यमयो महान् ॥ 96
रूपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् ।
धर्मो विचारणारत्नं गुणरत्नाकरो ह्य् असि ॥ 97
त्वम् ओघैर् उह्यमानानां द्वीपस् त्राणं क्षतात्मनाम् ।
शरणं भवभीरूणां मुमुक्षूणां परायणम् ॥ 98
सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसंपदा ।
सन्मित्रं हितकारित्वात् सर्वप्राणभृताम् असि ॥ 99
प्रियस् त्वम् उपकारित्वात् सुरतत्वान् मनोहरः ।
एकान्तकान्तः सौम्यत्वात् सर्वैर् बहुमतो गुणैः ॥ 100
हृद्यो ऽसि निरवद्यत्वाद् रम्यो वाग्रूपसौष्ठवात् ।
धन्यः सर्वार्थसिद्धत्वान् मङ्गल्यो गुणसंश्रयात् ॥ 101
स्थायिनां त्वं परिक्षेप्ता विनियन्तापहारिणाम् ।
समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् ॥ 102
नियोक्ता धुरि दान्तानां खटुङ्कानाम् उपेक्षकः ।
अतो ऽसि नरदम्यानां सत्सारथिर् अनुत्तरः ॥ 103
आपन्नेष्व् अनुकम्पा ते प्रस्वस्थेष्व् अर्थकामता ।
व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता ॥ 104
विरुद्धेष्व् अपि वात्सल्यं प्रवृत्तिः पतितेष्व् अपि ।
रौद्रेष्व् अपि कृपालुत्वं का नामेयं तवार्यता ॥ 105
गुरुत्वम् उपकारित्वान् मातापित्रोर् यदीष्यते ।
केदानीम् अस्तु गुरुता त्वय्य् अत्यन्तोपकारिणि ॥ 106
स्वकार्यनिरपेक्षाणां विरुद्धानाम् इवात्मनाम् ।
त्वं प्रपाततटस्थानां प्राकारत्वम् उपागतः ॥ 107
लोकद्वयोपकाराय लोकातिक्रमणाय च ।
तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस् त्वया ॥ 108
भिन्ना देवमनुष्याणाम् उपभोगेषु वृत्तयः ।
धर्मसंभोगसामान्यात् त्वय्य् असंभेदम् आगताः ॥ 109
उपपत्तिवयोवर्णदेशकालनिरत्ययम् ।
त्वया हि भगवन् धर्मसर्वातिथ्यम् इदम् कृतम् ॥ 110
अविस्मितान् विस्मितवत् स्पृहयन्तो गतस्पृहान् ।
उपासते प्राञ्जलयः श्रावकान् अपि ते सुराः ॥ 111
अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता ।
मानुष्यं यत्र देवानां स्पृहणीयत्वम् आगतम् ॥ 112
खेदः शमसुखज्यानिर् असज्जनसमागमः ।
द्वंद्वान्य् आकीर्णता चेति दोषान् गुणवद् उद्वहन् ॥ 113
जगद्धितार्थं घटसे यद् असङ्गेन चेतसा ।
का नामासौ भगवती बुद्धानां बुद्धधर्मता ॥ 114
कदन्नान्य् अपि भुक्तानि क्व चित् क्षुद् अधिवासिता ।
पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्व् अपि ॥ 115
प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् ।
नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया ॥ 116
प्रभुत्वम् अपि ते नाथ सदा नात्मनि विद्यते ।
वक्तव्य इव सर्वैर् हि स्वैरं स्वार्थे नियुज्यसे ॥ 117
येन केन चिद् एव त्वं यत्र तत्र यथा तथा ।
चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे ॥ 118
नोपकारपरे ऽप्य् एवम् उपकारपरो जनः ।
अपकारपरे ऽपि त्वम् उपकारपरो यथा ॥ 119
अहितावहिते शत्रौ त्वं हितावहितः सुहृत् ।
दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः ॥ 120
यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् ।
तत्राभूद् अभिसंयानं सदयं सामृतं च ते ॥ 121
आक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च ।
सत्येन चापवक्तारश् त्वया मैत्र्या जिघांसवः ॥ 122
अनादिकालप्रहता बह्व्यः प्रकृतयो नृणाम् ।
त्वया विभावितापायाः क्षणेन परिवर्तिताः ॥ 123
यत् सौरत्यं गतास् तीक्ष्णाः कदर्याश् च वदान्यताम् ।
क्रूराः पेशलतां यातास् तत् तवोपायकौशलम् ॥ 124
इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः ।
क्षमित्वं चाङ्गुलीमाले कं न विस्मयम् आनयेत् ॥ 125
बहवस् तृणशय्यासु हित्वा शय्यां हिरण्मयीम् ।
अशेरत सुखं धीरास् तृप्ता धर्मरसस्य ते ॥ 126
पृष्टेनापि क्व चिन् नोक्तम् उपेत्यापि कथा कृता ।
तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया ॥ 127
पूर्वं दानकथाद्याभिश् चेतस्य् उत्पाद्य सौष्ठवम् ।
ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः ॥ 128
न सो ऽस्त्य् उपायः शक्तिर् वा येन न व्यायतं तव ।
घोरात् संसारपातालाद् उद्धर्तुं कृपणं जगत् ॥ 129
बहूनि बहुरूपाणि वचांसि चरितानि च ।
विनेयाशयभेदेन तत्र तत्र गतानि ते ॥ 130
विशुद्धान्य् अविरुद्धानि पूजितान्य् अर्चितानि च ।
सर्वाण्य् एव नृदेवानां हितानि महितानि च ॥ 131
न हि वक्तुं च कर्तुं च बहु साधु च शक्यते ।
अन्यथानन्यथावादिन् दृष्टं तद् उभयं त्वयि ॥ 132
केवलात्मविशुद्ध्यैव त्वया पूतं जगद् भवेत् ।
यस्मान् नैवंविधं क्षेत्रं त्रिषु लोकेषे विद्यते ॥ 133
प्राग् एवात्यन्तनष्टानाम् अनादौ भवसंकटे ।
हिताय सर्वसत्त्वानां यस् त्वम् एवं समुद्यतः ॥ 134
न तां प्रतिपदं वेद्मि स्याद् ययापचितिस् तव ।
अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः ॥ 135
तव ते ऽवस्थिता धर्मे स्वार्थम् एव तु कुर्वते ।
यः श्रमस् तन्निमित्तं तु तव का तस्य निष्कृतिः ॥ 136
त्वं हि जागर्षि सुप्तानां संतानान्य् अवलोकयन् ।
अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः ॥ 137
क्लेशानां वध आख्यातो मारमाया विघाटिता ।
उक्तं संसारदौरात्म्यम् अभया दिग् विदर्शिता ॥ 138
किम् अन्यद् अर्थकामेन सत्त्वानां करुणायता ।
करणीयं भवेद् यत्र न दत्तानुनयो भवान् ॥ 139
यदि संचारिणो धर्माः स्युर् इमे नियतं त्वया ।
देवदत्तम् उपादाय सर्वत्र स्युर् निवेशिताः ॥ 140
अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः ।
इति त्वम् उक्तवान् भूतं जगत् संज्ञपयन्न् इव ॥ 141
चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया ।
बहून् उत्पाद्य सच्छिष्यांस् त्रैलोक्यानुग्रहक्षमान् ॥ 142
साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च ।
ऋणशेषं किम् अद्यापि सत्त्वेषु यद् अभूत् तव ॥ 143
यस् त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् ।
अतिदुष्करकारित्वम् अन्ते ऽपि न विमुक्तवान् ॥ 144
परार्थाव् एव मे धर्मरूपकायाव् इति त्वया ।
दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि विदर्शितम् ॥ 145
तथा हि सत्सु संक्राम्य धर्मकायम् अशेषतः ।
तिलशो रूपकायं च भित्त्वासि परिनिर्वृतः ॥ 146
अहो स्थितिर् अहो वृत्तम् अहो रूपम् अहो गुणाः ।
न नाम बुद्धधर्माणाम् अस्ति किं चिद् अनद्भुतम् ॥ 147
उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि ।
त्वय्य् अपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् ॥ 148
पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् ।
ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः ॥ 149
अक्षयास् ते गुणा नाथ शक्तिस् तु क्षयिणी मम ।
अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः ॥ 150
अप्रमेयम् असंख्येयम् अचिन्त्यम् अनिदर्शनम् ।
स्वयम् एवात्मनात्मानं त्वम् एव ज्ञातुम् अर्हसि ॥ 151
न ते गुणांशावयवो ऽपि कीर्तितः
परा च नस् तुष्टिर् अवस्थिता हृदि ।
अकर्शनेनैव महाह्रदाम्भसां
जनस्य तर्षाः प्रशमं व्रजन्ति ह ॥ 152
फलोदयेनास्य शुभस्य कर्मणो
मुनिप्रसादप्रतिभोद्भवस्य मे ।
असद्वितर्काकुलमारुतेरितं
प्रयातु चित्तं जगतां विधेयताम् ॥ 153
मूल पाठ: Śatapañcāśatka · Edition: of D. R. Shackleton Bailey, The Śatapañcāśatka of Mātṛceṭa, Cambridge 1951. · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0