भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 95

95.1

इनितिअतिओन् इन्तो थे मन्दल
अथत्र वज्रमण्डले यथाकामकरणीयतया वज्राङ्कु शादिभिः समयकर्म कृत्वा, वज्रधारिमुद्रां यथावद् बध्वा, ब्रूयान् "न कस्यचित्त्वया अदृष्टसमयस्तैताः समयमुद्राः पुरतो वक्तव्याः, न च रहस्यभेदः कर्तव्यः" ॥
ततस्तत्कर्मवज्रं वज्रधारिमुद्रायामुपरि स्थाप्य, यथावत्प्रवेशयेत् । प्रवेश्य तद्वज्रं तथैव क्षिपेत् । यत्र पतति सास्य समयमुद्रा वश्य भवति आ ॥ तया सर्वकर्माणि करोति ॥
ततो मुखबन्धं मुक्त्वा, मण्डलं यथावद् दर्शयित्वा, समयमुद्रारहस्यं ब्रूयात् ।
एताः समयमुद्रास्ते सर्वकर्मकराः शुभाः ।
मातरश्च भगिन्यश्च भार्या दुहितरो ऽनुगा ॥ इति ॥
तत्रास्या हृदयं भवति ओं सर्ववज्रगामिनि सर्वभक्षे साधय गुह्यवज्रिणि हूं फट् ॥
"अनया सकृज्जप्तया सर्वस्त्रियो वशीकृत्योपभोक्तव्याः, अधर्मो न भवति । यथाभिरुचित्तश्च सर्वभुज्त्व साध्याः । ततः सर्वशुद्धिचित्ततामवेत्य, सर्वमुद्रामनसोत्तमान्यपि सर्वकर्माणि कुर्वन्ती" त्याह भगवान् वज्रधरः ॥
मुद्र
अतः समयमुद्राः शिक्षयितव्याः ॥
समयक्रोधाङ्गुली मूर्ध्नि हृदये वज्रदृढीकृता ।
मुखोर्णा च मुखोद्धान्ता मूर्ध्नि स्थाप्य द्विधिकृते ॥ ति

95.2

वामवज्राग्रबन्धेन त्रिशूलाङ्गन्तु पीडयेत् ।
अनया बन्धया सम्यक् सिध्येद् विद्योत्तमः स्वयम्

95.3

सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् ।
मुद्राबन्धं प्रवक्ष्यामि समयानां यथाविधि

95.4

चक्रा सर्वाङ्गसंपीडा घण्टा मुद्रा तथैव च ।
तथैवोङ्कारमुद्रा तु सिंहकर्णपरिग्रहा

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc