सर्वतथागततत्त्वसंग्रह · अध्याय 94
विद्याराजनिकाः ॥
ज्वालाग्री दुष्टदमनी सौम्याग्री सर्वमारणी ।
दण्डाग्रा घातनी चैव भीमाक्षी तु भयङ्करी ॥
वज्रक्रोधाः ॥
मदनी मदनी तीव्रं माला सर्वकरी स्मृता ।
कामिनी प्रियकारी तु मारणी सर्वमारणी ॥
गणमुद्राः ॥
मुसला दुष्टनिर्घाता पटा सूत्रपटा तथा ।
ज्वालाग्री दुष्टदमनी यक्षिणी ग्रहलायिका ॥
दूतमुद्राः ।
भक्षणी वज्रदंष्ट्रा तु मारणी सर्वमारणी ।
सुविघ्ना विध्नकर्त्री तु हारिणी सर्वहारिणी ॥
चेटमुद्राः ॥
सर्वतथागतवज्रसमयान् महाकल्पराजात् त्रिलोकचक्रमहामण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 12 सर्व-वज्र-कुल-वज्र-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागतवज्रधारणीसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रसावित्रे स्वाहा ॥
अथ वज्रापाणिर्महाबोधिसत्वः पुनरपीमं स्वविद्योत्तमामभाषत् ओं वज्रधारि हूं ॥ वज्रविक्रमे हूं फट् ॥
अथ वज्रगर्भो बोधिसत्त्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्ररत्नगोत्रे स्वाहा ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रपद्मनेत्रे हूं फट् ॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रकर्मकरि हूं ॥
अथ वज्रविद्योत्तमो बोधिसत्त्व इमां स्वविद्योत्तमामभाषत् ओं वज्रशूलाग्रे स्वाहा ॥
अथ वज्रमायो विद्याराज इमां स्वमुद्रामभाषत् ओं वज्रचक्रे हूं ॥
वज्रघण्टोवाच ओं वज्रघण्टिके हूं ॥
मौनवज्रोवाच ओं वज्रदण्डकाष्ठे हूं ॥
वज्रायुधोवाच ओं वज्रे हूं ॥
विद्याराजसमयमुद्राः ॥
अथ वज्रकुण्डलिर्वज्रक्रोध इमां समयमुद्रामभाषत् ओं ज्वालावज्रे हूं ॥
अथ वज्रप्रभ उवाच ओं वज्रसौम्ये हूं ॥
वज्रदण्डोवाच ओं वज्रदण्डे हूं ॥
वज्रपिङ्गलोवाच ओं वज्रभीषणे हूं ॥
वज्रक्रोधसमयमुद्राः ॥
अथ वज्रशौण्डः स्वसमयमुद्रामभाषत् ओं वज्रमेद हूं ॥
वज्रमालोवाच ओं वज्रमाले हूं ॥
वज्रवश्युवाच ओं वज्रवशे हूं ॥
विजयवज्रोवाच ओं वज्रापराजिते हूं ॥
वज्रगणपतिसमयमुद्राः ॥
अथ वज्रमुसलः स्वसमयमुद्रामुदाजहार ओं वज्रमुसलग्रहे हूं ॥
वज्रानिलोवाच ओं वज्रपटे हूं ॥
वज्रानलोवाच ओं वज्रज्वाले हूं ॥
वज्रभैरवोवाच ओं वज्रग्रहे हूं ॥
वज्रदूतसमयमुद्राः ॥
अथ वज्राङ्कुशोवाच ओं वज्रदंष्ट्रे हूं ॥
वज्राकालोवाच ओं वज्रमारणि हूं ॥
वज्रविनायकोवाच ओं वज्रविघ्ने हूं ॥
नागवज्रोवाच ओं वज्रहारिणि हूं ॥
वज्रचेटसमयमुद्राः ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलवज्रमण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।
चतुरश्रमुत्तरद्वारं सूत्रयेद् बाह्यमण्डलं
तस्याभ्यन्तरतस्तत्र पूर्वद्वारन्तथैव च ।
तस्य मध्ये यथायोगं बुद्धबिम्बन्निवेशयेत्
त्रिलोकविजयाद्यास्तु चतस्रस्तस्य सर्वतः ।
मण्डलस्य तथा श्रेष्ठ वज्रमुद्राः समालिखेत्
तासां सर्वेषु पार्श्वेषु कुलमुद्राः समालिखेत् ।
वज्रशौण्डादयश्चैव चत्वारो द्वाररक्षकाः
भीमां श्रियं सरस्वतीं दुर्गां कोणेषु वामतः ।
बाह्यकोणेषु मुद्रा वै आसामेव तु संलिखेत्
बाह्यमण्डलेषु पुनर्यथावद्देवीः संलिखेत् ।
अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0