सर्वतथागततत्त्वसंग्रह · अध्याय 79
तत्रैषां हृदयानि भवन्ति ॥
हुं वज्रवशंकराय स्वाहा ॥
हुं सौरिवशंकरवज्राय स्वाहा ॥
हुं वज्रपाणिवशंकराय स्वाहा ॥
हुं बुद्धवशंकरवज्राय स्वाहा ॥
मुद्र
ततो रहस्यकर्ममुद्राज्ञानं शिक्षयेत् ।
प्रियया तु स्त्रिया सार्ध संवसंस्तु भगे ऽञ्जनं ।
प्रक्षिप्य घट्टयेत्तत्र तेनांज्याक्षी वशं नयेत्
मनःशिलां भग विध्वा वज्रबन्धेन तां पिघेत् ।
चतुर्विधैर्निमित्तैस्तु सिद्धिश्चापि चतुर्विधा
रोचनां तु भगे स्थाप्य गुह्यमुष्ट्या निपीडयेत् ।
[स्था]पितं ज्वालते तत्र भवेद्वज्रधरो समः
कुङ्कुमं तु भगे विध्वा तद्भगं सत्ववज्रया ।
च्छादितं ज्वालते तन्तु भवेद्वज्रधरो सम ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0